This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..4..
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥ १॥
ततस् प्रस्थाप्य सुग्रीवः तत् महत् वानरम् बलम् । दक्षिणाम् प्रेषयामास वानरान् अभिलक्षितान्॥ १॥
tatas prasthāpya sugrīvaḥ tat mahat vānaram balam . dakṣiṇām preṣayāmāsa vānarān abhilakṣitān.. 1..
नीलमग्निसुतं चैव हनूमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महौजसम्॥ २॥
नीलम् अग्नि-सुतम् च एव हनूमन्तम् च वानरम् । पितामह-सुतम् च एव जाम्बवन्तम् महा-ओजसम्॥ २॥
nīlam agni-sutam ca eva hanūmantam ca vānaram . pitāmaha-sutam ca eva jāmbavantam mahā-ojasam.. 2..
सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणं वृषभं तथा॥ ३॥
सुहोत्रम् च शरारिम् च शरगुल्मम् तथा एव च । गजम् गवाक्षम् गवयम् सुषेणम् वृषभम् तथा॥ ३॥
suhotram ca śarārim ca śaragulmam tathā eva ca . gajam gavākṣam gavayam suṣeṇam vṛṣabham tathā.. 3..
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम् । उल्कामुखमनङ्गं च हुताशनसुतावुभौ॥ ४॥
मैन्दम् च द्विविदम् च एव सुषेणम् गन्धमादनम् । उल्कामुखम् अनङ्गम् च हुताशन-सुतौ उभौ॥ ४॥
maindam ca dvividam ca eva suṣeṇam gandhamādanam . ulkāmukham anaṅgam ca hutāśana-sutau ubhau.. 4..
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः । वेगविक्रमसम्पन्नान् संदिदेश विशेषवित्॥ ५॥
अङ्गद-प्रमुखान् वीरान् वीरः कपि-गण-ईश्वरः । वेग-विक्रम-सम्पन्नान् संदिदेश विशेष-विद्॥ ५॥
aṅgada-pramukhān vīrān vīraḥ kapi-gaṇa-īśvaraḥ . vega-vikrama-sampannān saṃdideśa viśeṣa-vid.. 5..
तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम् । विधाय हरिवीराणामादिशद् दक्षिणां दिशम्॥ ६॥
तेषाम् अग्रेसरम् च एव बृहद्बलम् अथ अङ्गदम् । विधाय हरि-वीराणाम् आदिशत् दक्षिणाम् दिशम्॥ ६॥
teṣām agresaram ca eva bṛhadbalam atha aṅgadam . vidhāya hari-vīrāṇām ādiśat dakṣiṇām diśam.. 6..
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां समुदाहरत्॥ ७॥
ये केचन समुद्देशाः तस्याम् दिशि सु दुर्गमाः । कपीशः कपि-मुख्यानाम् स तेषाम् समुदाहरत्॥ ७॥
ye kecana samuddeśāḥ tasyām diśi su durgamāḥ . kapīśaḥ kapi-mukhyānām sa teṣām samudāharat.. 7..
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् । नर्मदां च नदीं रम्यां महोरगनिषेविताम्॥ ८॥
सहस्रशिरसम् विन्ध्यम् नाना द्रुम-लता-युतम् । नर्मदाम् च नदीम् रम्याम् महा-उरग-निषेविताम्॥ ८॥
sahasraśirasam vindhyam nānā druma-latā-yutam . narmadām ca nadīm ramyām mahā-uraga-niṣevitām.. 8..
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् । वरदां च महाभागां महोरगनिषेविताम् । मेखलानुत्कलांश्चैव दशार्णनगराण्यपि॥ ९॥
ततस् गोदावरीम् रम्याम् कृष्णवेणीम् महा-नदीम् । वर-दाम् च महाभागाम् महा-उरग-निषेविताम् । मेखलान् उत्कलान् च एव दशार्ण-नगराणि अपि॥ ९॥
tatas godāvarīm ramyām kṛṣṇaveṇīm mahā-nadīm . vara-dām ca mahābhāgām mahā-uraga-niṣevitām . mekhalān utkalān ca eva daśārṇa-nagarāṇi api.. 9..
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत । विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि॥ १०॥
आब्रवन्तीम् अवन्तीम् च सर्वम् एव अनुपश्यत । विदर्भान् ऋष्टिकान् च एव रम्यान् माहिषकान् अपि॥ १०॥
ābravantīm avantīm ca sarvam eva anupaśyata . vidarbhān ṛṣṭikān ca eva ramyān māhiṣakān api.. 10..
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः । अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्॥ ११॥
तथा वङ्गान् कलिङ्गान् च कौशिकान् च समन्ततः । अन्वीक्ष्य दण्डक-अरण्यम् स पर्वत-नदी-गुहम्॥ ११॥
tathā vaṅgān kaliṅgān ca kauśikān ca samantataḥ . anvīkṣya daṇḍaka-araṇyam sa parvata-nadī-guham.. 11..
नदीं गोदावरीं चैव सर्वमेवानुपश्यत । तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान्॥ १२॥
नदीम् गोदावरीम् च एव सर्वम् एव अनुपश्यत । तथा एव आन्ध्रान् च पुण्ड्रान् च चोलान् पाण्ड्यान् च केरलान्॥ १२॥
nadīm godāvarīm ca eva sarvam eva anupaśyata . tathā eva āndhrān ca puṇḍrān ca colān pāṇḍyān ca keralān.. 12..
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः । विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः॥ १३॥
अयोमुखः च गन्तव्यः पर्वतः धातु-मण्डितः । विचित्र-शिखरः श्रीमान् चित्र-पुष्पित-काननः॥ १३॥
ayomukhaḥ ca gantavyaḥ parvataḥ dhātu-maṇḍitaḥ . vicitra-śikharaḥ śrīmān citra-puṣpita-kānanaḥ.. 13..
सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः । ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम्॥ १४॥
सुचन्दन-वन-उद्देशः मार्गितव्यः महा-गिरिः । ततस् ताम् आपगाम् दिव्याम् प्रसन्न-सलिलाशयाम्॥ १४॥
sucandana-vana-uddeśaḥ mārgitavyaḥ mahā-giriḥ . tatas tām āpagām divyām prasanna-salilāśayām.. 14..
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः । तस्यासीनं नगस्याग्रे मलयस्य महौजसम्॥ १५॥
तत्र द्रक्ष्यथ कावेरीम् विहृताम् अप्सरः-गणैः । तस्य आसीनम् नगस्य अग्रे मलयस्य महा-ओजसम्॥ १५॥
tatra drakṣyatha kāverīm vihṛtām apsaraḥ-gaṇaiḥ . tasya āsīnam nagasya agre malayasya mahā-ojasam.. 15..
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् । ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना॥ १६॥
द्रक्ष्यथ आदित्य-संकाशम् अगस्त्यम् ऋषि-सत्तमम् । ततस् तेन अभ्यनुज्ञाताः प्रसन्नेन महात्मना॥ १६॥
drakṣyatha āditya-saṃkāśam agastyam ṛṣi-sattamam . tatas tena abhyanujñātāḥ prasannena mahātmanā.. 16..
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम् । सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी॥ १७॥
ताम्रपर्णीम् ग्राह-जुष्टाम् तरिष्यथ महा-नदीम् । सा चन्दन-वनैः चित्रैः प्रच्छन्न-द्वीप-वारिणी॥ १७॥
tāmraparṇīm grāha-juṣṭām tariṣyatha mahā-nadīm . sā candana-vanaiḥ citraiḥ pracchanna-dvīpa-vāriṇī.. 17..
कान्तेव युवती कान्तं समुद्रमवगाहते । ततो हेममयं दिव्यं मुक्तामणिविभूषितम्॥ १८॥
कान्ता इव युवती कान्तम् समुद्रम् अवगाहते । ततस् हेम-मयम् दिव्यम् मुक्तामणि-विभूषितम्॥ १८॥
kāntā iva yuvatī kāntam samudram avagāhate . tatas hema-mayam divyam muktāmaṇi-vibhūṣitam.. 18..
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः । ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्॥ १९॥
युक्तम् कवाटम् पाण्ड्यानाम् गताः द्रक्ष्यथ वानराः । ततस् समुद्रम् आसाद्य सम्प्रधार्य अर्थ-निश्चयम्॥ १९॥
yuktam kavāṭam pāṇḍyānām gatāḥ drakṣyatha vānarāḥ . tatas samudram āsādya sampradhārya artha-niścayam.. 19..
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः । चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः॥ २०॥
अगस्त्येन अन्तरे तत्र सागरे विनिवेशितः । चित्रसानु-नगः श्रीमान् महेन्द्रः पर्वत-उत्तमः॥ २०॥
agastyena antare tatra sāgare viniveśitaḥ . citrasānu-nagaḥ śrīmān mahendraḥ parvata-uttamaḥ.. 20..
जातरूपमयः श्रीमानवगाढो महार्णवम् । नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्॥ २१॥
जातरूप-मयः श्रीमान् अवगाढः महा-अर्णवम् । नानाविधैः नगैः फुल्लैः लताभिः च उपशोभितम्॥ २१॥
jātarūpa-mayaḥ śrīmān avagāḍhaḥ mahā-arṇavam . nānāvidhaiḥ nagaiḥ phullaiḥ latābhiḥ ca upaśobhitam.. 21..
देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम् । सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम्॥ २२॥
देव-ऋषि-यक्ष-प्रवरैः अप्सरोभिः च शोभितम् । सिद्ध-चारण-सङ्घैः च प्रकीर्णम् सु मनोरमम्॥ २२॥
deva-ṛṣi-yakṣa-pravaraiḥ apsarobhiḥ ca śobhitam . siddha-cāraṇa-saṅghaiḥ ca prakīrṇam su manoramam.. 22..
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु । द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः॥ २३॥
तम् उपैति सहस्र-अक्षः सदा पर्वसु पर्वसु । द्वीपः तस्य अपरे पारे शत-योजन-विस्तृतः॥ २३॥
tam upaiti sahasra-akṣaḥ sadā parvasu parvasu . dvīpaḥ tasya apare pāre śata-yojana-vistṛtaḥ.. 23..
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥ २४॥
अगम्यः मानुषैः दीप्तः तम् मार्गध्वम् समन्ततः । तत्र सर्व-आत्मना सीता मार्गितव्या विशेषतः॥ २४॥
agamyaḥ mānuṣaiḥ dīptaḥ tam mārgadhvam samantataḥ . tatra sarva-ātmanā sītā mārgitavyā viśeṣataḥ.. 24..
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥ २५॥
स हि देशः तु वध्यस्य रावणस्य दुरात्मनः । राक्षस-अधिपतेः वासः सहस्राक्ष-सम-द्युतेः॥ २५॥
sa hi deśaḥ tu vadhyasya rāvaṇasya durātmanaḥ . rākṣasa-adhipateḥ vāsaḥ sahasrākṣa-sama-dyuteḥ.. 25..
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी॥ २६॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारका इति विख्याता छायाम् आक्षिप्य भोजिनी॥ २६॥
dakṣiṇasya samudrasya madhye tasya tu rākṣasī . aṅgārakā iti vikhyātā chāyām ākṣipya bhojinī.. 26..
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः । मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः॥ २७॥
एवम् निःसंशयान् कृत्वा संशयान् नष्ट-संशयाः । मृगयध्वम् नरेन्द्रस्य पत्नीम् अमित-तेजसः॥ २७॥
evam niḥsaṃśayān kṛtvā saṃśayān naṣṭa-saṃśayāḥ . mṛgayadhvam narendrasya patnīm amita-tejasaḥ.. 27..
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥ २८॥
तम् अतिक्रम्य लक्ष्मीवान् समुद्रे शत-योजने । गिरिः पुष्पितकः नाम सिद्ध-चारण-सेवितः॥ २८॥
tam atikramya lakṣmīvān samudre śata-yojane . giriḥ puṣpitakaḥ nāma siddha-cāraṇa-sevitaḥ.. 28..
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः । भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव॥ २९॥
। भ्राजते विपुलैः शृङ्गैः अम्बरम् विलिखन् इव॥ २९॥
. bhrājate vipulaiḥ śṛṅgaiḥ ambaram vilikhan iva.. 29..
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः । श्वेतं राजतमेकं च सेवते यन्निशाकरः । न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः॥ ३०॥
तस्य एकम् काञ्चनम् शृङ्गम् सेवते यम् दिवाकरः । श्वेतम् राजतम् एकम् च सेवते यत् निशाकरः । न तम् कृतघ्नाः पश्यन्ति न नृशंसाः न नास्तिकाः॥ ३०॥
tasya ekam kāñcanam śṛṅgam sevate yam divākaraḥ . śvetam rājatam ekam ca sevate yat niśākaraḥ . na tam kṛtaghnāḥ paśyanti na nṛśaṃsāḥ na nāstikāḥ.. 30..
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः । तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः॥ ३१॥
प्रणम्य शिरसा शैलम् तम् विमार्गथ वानराः । तम् अतिक्रम्य दुर्धर्षम् सूर्यवान् नाम पर्वतः॥ ३१॥
praṇamya śirasā śailam tam vimārgatha vānarāḥ . tam atikramya durdharṣam sūryavān nāma parvataḥ.. 31..
अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः॥ ३२॥
अध्वना दुर्विगाहेन योजनानि चतुर्दश । ततस् तम् अपि अतिक्रम्य वैद्युतः नाम पर्वतः॥ ३२॥
adhvanā durvigāhena yojanāni caturdaśa . tatas tam api atikramya vaidyutaḥ nāma parvataḥ.. 32..
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः । तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च॥ ३३॥
सर्व-काम-फलैः वृक्षैः सर्व-काल-मनोहरैः । तत्र भुक्त्वा वर-अर्हाणि मूलानि च फलानि च॥ ३३॥
sarva-kāma-phalaiḥ vṛkṣaiḥ sarva-kāla-manoharaiḥ . tatra bhuktvā vara-arhāṇi mūlāni ca phalāni ca.. 33..
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः । तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः॥ ३४॥
मधूनि पीत्वा जुष्टानि परम् गच्छत वानराः । तत्र नेत्र-मनः-कान्तः कुञ्जरः नाम पर्वतः॥ ३४॥
madhūni pītvā juṣṭāni param gacchata vānarāḥ . tatra netra-manaḥ-kāntaḥ kuñjaraḥ nāma parvataḥ.. 34..
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा । तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्॥ ३५॥
अगस्त्यभवनम् यत्र निर्मितम् विश्वकर्मणा । तत्र योजन-विस्तारम् उच्छ्रितम् दश-योजनम्॥ ३५॥
agastyabhavanam yatra nirmitam viśvakarmaṇā . tatra yojana-vistāram ucchritam daśa-yojanam.. 35..
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् । तत्र भोगवती नाम सर्पाणामालयः पुरी॥ ३६॥
शरणम् काञ्चनम् दिव्यम् नाना रत्न-विभूषितम् । तत्र भोगवती नाम सर्पाणाम् आलयः पुरी॥ ३६॥
śaraṇam kāñcanam divyam nānā ratna-vibhūṣitam . tatra bhogavatī nāma sarpāṇām ālayaḥ purī.. 36..
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता । रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥ ३७॥
विशाल-रथ्या दुर्धर्षा सर्वतस् परिरक्षिता । रक्षिता पन्नगैः घोरैः तीक्ष्ण-दंष्ट्रैः महाविषैः॥ ३७॥
viśāla-rathyā durdharṣā sarvatas parirakṣitā . rakṣitā pannagaiḥ ghoraiḥ tīkṣṇa-daṃṣṭraiḥ mahāviṣaiḥ.. 37..
सर्पराजो महाघोरो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३८॥
सर्प-राजः महा-घोरः यस्याम् वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३८॥
sarpa-rājaḥ mahā-ghoraḥ yasyām vasati vāsukiḥ . niryāya mārgitavyā ca sā ca bhogavatī purī.. 38..
तत्र चानन्तरोद्देशा ये केचन समावृताः । तं च देशमतिक्रम्य महानृषभसंस्थितिः॥ ३९॥
तत्र च अनन्तर-उद्देशाः ये केचन समावृताः । तम् च देशम् अतिक्रम्य महान् ऋषभ-संस्थितिः॥ ३९॥
tatra ca anantara-uddeśāḥ ye kecana samāvṛtāḥ . tam ca deśam atikramya mahān ṛṣabha-saṃsthitiḥ.. 39..
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः । गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्॥ ४०॥
सर्व-रत्न-मयः श्रीमान् ऋषभः नाम पर्वतः । गोशीर्षकम् पद्मकम् च हरिश्यामम् च चन्दनम्॥ ४०॥
sarva-ratna-mayaḥ śrīmān ṛṣabhaḥ nāma parvataḥ . gośīrṣakam padmakam ca hariśyāmam ca candanam.. 40..
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् । न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन॥ ४१॥
दिव्यम् उत्पद्यते यत्र तत् च एव अग्नि-सम-प्रभम् । न तु तत् चन्दनम् दृष्ट्वा स्प्रष्टव्यम् तु कदाचन॥ ४१॥
divyam utpadyate yatra tat ca eva agni-sama-prabham . na tu tat candanam dṛṣṭvā spraṣṭavyam tu kadācana.. 41..
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम् । तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः॥ ४२॥
रोहिताः नाम गन्धर्वाः घोरम् रक्षन्ति तत् वनम् । तत्र गन्धर्व-पतयः पञ्च सूर्य-सम-प्रभाः॥ ४२॥
rohitāḥ nāma gandharvāḥ ghoram rakṣanti tat vanam . tatra gandharva-patayaḥ pañca sūrya-sama-prabhāḥ.. 42..
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च । रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्॥ ४३॥
शैलूषः ग्रामणीः शिक्षः शुकः बभ्रुः तथा एव च । रवि-सोम-अग्नि-वपुषाम् निवासः पुण्य-कर्मणाम्॥ ४३॥
śailūṣaḥ grāmaṇīḥ śikṣaḥ śukaḥ babhruḥ tathā eva ca . ravi-soma-agni-vapuṣām nivāsaḥ puṇya-karmaṇām.. 43..
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः । ततः परं न वः सेव्यः पितृलोकः सुदारुणः॥ ४४॥
अन्ते पृथिव्याः दुर्धर्षाः ततस् स्वर्ग-जितः स्थिताः । ततस् परम् न वः सेव्यः पितृ-लोकः सु दारुणः॥ ४४॥
ante pṛthivyāḥ durdharṣāḥ tatas svarga-jitaḥ sthitāḥ . tatas param na vaḥ sevyaḥ pitṛ-lokaḥ su dāruṇaḥ.. 44..
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता । एतावदेव युष्माभिर्वीरा वानरपुंगवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः॥ ४५॥
राजधानी यमस्य एषा कष्टेन तमसा आवृता । एतावत् एव युष्माभिः वीराः वानर-पुंगवाः । शक्यम् विचेतुम् गन्तुम् वा न अतस् गतिमताम् गतिः॥ ४५॥
rājadhānī yamasya eṣā kaṣṭena tamasā āvṛtā . etāvat eva yuṣmābhiḥ vīrāḥ vānara-puṃgavāḥ . śakyam vicetum gantum vā na atas gatimatām gatiḥ.. 45..
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ॥ ४६॥
सर्वम् एतत् समालोक्य यत् च अन्यत् अपि दृश्यते । गतिम् विदित्वा वैदेह्याः संनिवर्तितुम् अर्हथ॥ ४६॥
sarvam etat samālokya yat ca anyat api dṛśyate . gatim viditvā vaidehyāḥ saṃnivartitum arhatha.. 46..
यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति॥ ४७॥
यः च मासात् निवृत्तः अग्रे दृष्टा सीता इति वक्ष्यति । मद्-तुल्य-विभवः भोगैः सुखम् स विहरिष्यति॥ ४७॥
yaḥ ca māsāt nivṛttaḥ agre dṛṣṭā sītā iti vakṣyati . mad-tulya-vibhavaḥ bhogaiḥ sukham sa vihariṣyati.. 47..
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः । कृतापराधो बहुशो मम बन्धुर्भविष्यति॥ ४८॥
ततस् प्रियतरः ना अस्ति मम प्राणात् विशेषतः । कृत-अपराधः बहुशस् मम बन्धुः भविष्यति॥ ४८॥
tatas priyataraḥ nā asti mama prāṇāt viśeṣataḥ . kṛta-aparādhaḥ bahuśas mama bandhuḥ bhaviṣyati.. 48..
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः । मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमारभध्वम्॥ ४९॥
अमित-बल-पराक्रमाः भवन्तः विपुल-गुणेषु कुलेषु च प्रसूताः । मनुज-पति-सुताम् यथा लभध्वम् तद्-अधिगुणम् पुरुष-अर्थम् आरभध्वम्॥ ४९॥
amita-bala-parākramāḥ bhavantaḥ vipula-guṇeṣu kuleṣu ca prasūtāḥ . manuja-pati-sutām yathā labhadhvam tad-adhiguṇam puruṣa-artham ārabhadhvam.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥४-४१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In