This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्विचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..4..
अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम् । अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम्॥ १॥
अथ प्रस्थाप्य स हरीन् सुग्रीवः दक्षिणाम् दिशम् । अब्रवीत् मेघ-संकाशम् सुषेणम् नाम वानरम्॥ १॥
atha prasthāpya sa harīn sugrīvaḥ dakṣiṇām diśam . abravīt megha-saṃkāśam suṣeṇam nāma vānaram.. 1..
तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च॥ २॥
तारायाः पितरम् राजा श्वशुरम् भीम-विक्रमम् । अब्रवीत् प्राञ्जलिः वाक्यम् अभिगम्य प्रणम्य च॥ २॥
tārāyāḥ pitaram rājā śvaśuram bhīma-vikramam . abravīt prāñjaliḥ vākyam abhigamya praṇamya ca.. 2..
महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम्॥ ३॥
महा-ऋषि-पुत्रम् मारीचम् अर्चिष्मन्तम् महा-कपिम् । वृतम् कपि-वरैः शूरैः महा-इन्द्र-सदृश-द्युतिम्॥ ३॥
mahā-ṛṣi-putram mārīcam arciṣmantam mahā-kapim . vṛtam kapi-varaiḥ śūraiḥ mahā-indra-sadṛśa-dyutim.. 3..
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान्॥ ४॥
बुद्धि-विक्रम-सम्पन्नम् वैनतेय-सम-द्युतिम् । मरीचि-पुत्रान् मारीचान् अर्चिर्माल्यान् महाबलान्॥ ४॥
buddhi-vikrama-sampannam vainateya-sama-dyutim . marīci-putrān mārīcān arcirmālyān mahābalān.. 4..
ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम् । द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः॥ ५॥
ऋषि-पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् । द्वाभ्याम् शत-सहस्राभ्याम् कपीनाम् कपि-सत्तमाः॥ ५॥
ṛṣi-putrān ca tān sarvān pratīcīm ādiśat diśam . dvābhyām śata-sahasrābhyām kapīnām kapi-sattamāḥ.. 5..
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ । सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च॥ ६॥
सुषेण-प्रमुखाः यूयम् वैदेहीम् परिमार्गथ । सौराष्ट्रान् सह बाह्लीकान् चन्द्रचित्रान् तथा एव च॥ ६॥
suṣeṇa-pramukhāḥ yūyam vaidehīm parimārgatha . saurāṣṭrān saha bāhlīkān candracitrān tathā eva ca.. 6..
स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च । पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम्॥ ७॥
स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि च । पुंनाग-गहनम् कुक्षिम् बकुल-उद्दालक-आकुलम्॥ ७॥
sphītān janapadān ramyān vipulāni purāṇi ca . puṃnāga-gahanam kukṣim bakula-uddālaka-ākulam.. 7..
तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः । प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः॥ ८॥
तथा केतक-षण्डान् च मार्गध्वम् हरि-पुङ्गवाः । प्रत्यक्-स्रोतः-वहाः च एव नद्यः शीत-जलाः शिवाः॥ ८॥
tathā ketaka-ṣaṇḍān ca mārgadhvam hari-puṅgavāḥ . pratyak-srotaḥ-vahāḥ ca eva nadyaḥ śīta-jalāḥ śivāḥ.. 8..
तापसानामरण्यानि कान्तारगिरयश्च ये । तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः॥ ९॥
तापसानाम् अरण्यानि कान्तार-गिरयः च ये । तत्र स्थलीः मरु-प्रायाः अति उच्च-शिशिराः शिलाः॥ ९॥
tāpasānām araṇyāni kāntāra-girayaḥ ca ye . tatra sthalīḥ maru-prāyāḥ ati ucca-śiśirāḥ śilāḥ.. 9..
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् । ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ॥ १०॥
गिरि-जाल-आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् । ततस् पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ॥ १०॥
giri-jāla-āvṛtām durgām mārgitvā paścimām diśam . tatas paścimam āgamya samudram draṣṭum arhatha.. 10..
तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः । ततः केतकषण्डेषु तमालगहनेषु च॥ ११॥
तिमि-नक्र-आकुल-जलम् गत्वा द्रक्ष्यथ वानराः । ततस् केतक-षण्डेषु तमाल-गहनेषु च॥ ११॥
timi-nakra-ākula-jalam gatvā drakṣyatha vānarāḥ . tatas ketaka-ṣaṇḍeṣu tamāla-gahaneṣu ca.. 11..
कपयो विहरिष्यन्ति नारिकेलवनेषु च । तत्र सीतां च मार्गध्वं निलयं रावणस्य च॥ १२॥
कपयः विहरिष्यन्ति नारिकेल-वनेषु च । तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च॥ १२॥
kapayaḥ vihariṣyanti nārikela-vaneṣu ca . tatra sītām ca mārgadhvam nilayam rāvaṇasya ca.. 12..
वेलातलनिविष्टेषु पर्वतेषु वनेषु च । मुरवीपत्तनं चैव रम्यं चैव जटापुरम्॥ १३॥
वेला-तल-निविष्टेषु पर्वतेषु वनेषु च । मुरवीपत्तनम् च एव रम्यम् च एव जटापुरम्॥ १३॥
velā-tala-niviṣṭeṣu parvateṣu vaneṣu ca . muravīpattanam ca eva ramyam ca eva jaṭāpuram.. 13..
अवन्तीमङ्गलेपां च तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥ १४॥
अवन्ती-मङ्गलेपाम् च तथा च आलक्षितम् वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस् ततस्॥ १४॥
avantī-maṅgalepām ca tathā ca ālakṣitam vanam . rāṣṭrāṇi ca viśālāni pattanāni tatas tatas.. 14..
सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः । महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः॥ १५॥
सिन्धु-सागरयोः च एव संगमे तत्र पर्वतः । महान् सोमगिरिः नाम शत-शृङ्गः महा-द्रुमः॥ १५॥
sindhu-sāgarayoḥ ca eva saṃgame tatra parvataḥ . mahān somagiriḥ nāma śata-śṛṅgaḥ mahā-drumaḥ.. 15..
तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥ १६॥
तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमि-मत्स्य-गजान् च एव नीडानि आरोपयन्ति ते॥ १६॥
tatra prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ . timi-matsya-gajān ca eva nīḍāni āropayanti te.. 16..
तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये । दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः॥ १७॥
तानि नीडानि सिंहानाम् गिरि-शृङ्ग-गताः च ये । दृप्ताः तृप्ताः च मातङ्गाः तोयद-स्वन-निःस्वनाः॥ १७॥
tāni nīḍāni siṃhānām giri-śṛṅga-gatāḥ ca ye . dṛptāḥ tṛptāḥ ca mātaṅgāḥ toyada-svana-niḥsvanāḥ.. 17..
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः । तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्॥ १८॥
विचरन्ति विशाले अस्मिन् तोय-पूर्णे समन्ततः । तस्य शृङ्गम् दिव-स्पर्शम् काञ्चनम् चित्र-पादपम्॥ १८॥
vicaranti viśāle asmin toya-pūrṇe samantataḥ . tasya śṛṅgam diva-sparśam kāñcanam citra-pādapam.. 18..
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः । कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम्॥ १९॥
सर्वम् आशु विचेतव्यम् कपिभिः कामरूपिभिः । कोटिम् तत्र समुद्रस्य काञ्चनीम् शत-योजनाम्॥ १९॥
sarvam āśu vicetavyam kapibhiḥ kāmarūpibhiḥ . koṭim tatra samudrasya kāñcanīm śata-yojanām.. 19..
दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः । कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम्॥ २०॥
दुर्दर्शाम् पारियात्रस्य गत्वा द्रक्ष्यथ वानराः । कोट्यः तत्र चतुर्विंशत् गन्धर्वाणाम् तरस्विनाम्॥ २०॥
durdarśām pāriyātrasya gatvā drakṣyatha vānarāḥ . koṭyaḥ tatra caturviṃśat gandharvāṇām tarasvinām.. 20..
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् । पावकार्चिःप्रतीकाशाः समवेताः समन्ततः॥ २१॥
वसन्ति अग्नि-निकाशानाम् घोराणाम् कामरूपिणाम् । पावक-अर्चिः-प्रतीकाशाः समवेताः समन्ततः॥ २१॥
vasanti agni-nikāśānām ghorāṇām kāmarūpiṇām . pāvaka-arciḥ-pratīkāśāḥ samavetāḥ samantataḥ.. 21..
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः । नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः॥ २२॥
न अत्यासादयितव्याः ते वानरैः भीम-विक्रमैः । न आदेयम् च फलम् तस्मात् देशात् किंचिद् प्लवङ्गमैः॥ २२॥
na atyāsādayitavyāḥ te vānaraiḥ bhīma-vikramaiḥ . na ādeyam ca phalam tasmāt deśāt kiṃcid plavaṅgamaiḥ.. 22..
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः । फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः॥ २३॥
दुरासदाः हि ते वीराः सत्त्ववन्तः महा-बलाः । फल-मूलानि ते तत्र रक्षन्ते भीम-विक्रमाः॥ २३॥
durāsadāḥ hi te vīrāḥ sattvavantaḥ mahā-balāḥ . phala-mūlāni te tatra rakṣante bhīma-vikramāḥ.. 23..
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी । नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम्॥ २४॥
तत्र यत्नः च कर्तव्यः मार्गितव्या च जानकी । नहि तेभ्यः भयम् किंचिद् कपि-त्वम् अनुवर्तताम्॥ २४॥
tatra yatnaḥ ca kartavyaḥ mārgitavyā ca jānakī . nahi tebhyaḥ bhayam kiṃcid kapi-tvam anuvartatām.. 24..
तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः । नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः॥ २५॥
तत्र वैदूर्य-वर्ण-आभः वज्र-संस्थान-संस्थितः । नाना द्रुम-लता-आकीर्णः वज्रः नाम महा-गिरिः॥ २५॥
tatra vaidūrya-varṇa-ābhaḥ vajra-saṃsthāna-saṃsthitaḥ . nānā druma-latā-ākīrṇaḥ vajraḥ nāma mahā-giriḥ.. 25..
श्रीमान् समुदितस्तत्र योजनानां शतं समम् । गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥ २६॥
श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् । गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः॥ २६॥
śrīmān samuditaḥ tatra yojanānām śatam samam . guhāḥ tatra vicetavyāḥ prayatnena plavaṅgamāḥ.. 26..
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा॥ २७॥
चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः । तत्र चक्रम् सहस्र-अरम् निर्मितम् विश्वकर्मणा॥ २७॥
caturbhāge samudrasya cakravān nāma parvataḥ . tatra cakram sahasra-aram nirmitam viśvakarmaṇā.. 27..
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः॥ २८॥
तत्र पञ्चजनम् हत्वा हयग्रीवम् च दानवम् । आजहार ततस् चक्रम् शङ्खम् च पुरुषोत्तमः॥ २८॥
tatra pañcajanam hatvā hayagrīvam ca dānavam . ājahāra tatas cakram śaṅkham ca puruṣottamaḥ.. 28..
तस्य सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २९॥
तस्य सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ २९॥
tasya sānuṣu ramyeṣu viśālāsu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 29..
योजनानि चतुःषष्टिर्वराहो नाम पर्वतः । सुवर्णशृङ्गः सुमहानगाधे वरुणालये॥ ३०॥
योजनानि चतुःषष्टिः वराहः नाम पर्वतः । सुवर्ण-शृङ्गः सु महान् अगाधे वरुणालये॥ ३०॥
yojanāni catuḥṣaṣṭiḥ varāhaḥ nāma parvataḥ . suvarṇa-śṛṅgaḥ su mahān agādhe varuṇālaye.. 30..
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् । यस्मिन् वसति दुष्टात्मा नरको नाम दानवः॥ ३१॥
तत्र प्राग्ज्योतिषम् नाम जातरूप-मयम् पुरम् । यस्मिन् वसति दुष्ट-आत्मा नरकः नाम दानवः॥ ३१॥
tatra prāgjyotiṣam nāma jātarūpa-mayam puram . yasmin vasati duṣṭa-ātmā narakaḥ nāma dānavaḥ.. 31..
तत्र सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ३२॥
तत्र सानुषु रम्येषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ ३२॥
tatra sānuṣu ramyeṣu viśālāsu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 32..
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम् । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः॥ ३३॥
तम् अतिक्रम्य शैल-इन्द्रम् काञ्चन-अन्तर-दर्शनम् । पर्वतः सर्व-सौवर्णः धारा-प्रस्रवण-आयुतः॥ ३३॥
tam atikramya śaila-indram kāñcana-antara-darśanam . parvataḥ sarva-sauvarṇaḥ dhārā-prasravaṇa-āyutaḥ.. 33..
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥ ३४॥
तम् गजाः च वराहाः च सिंहाः व्याघ्राः च सर्वतस् । अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः॥ ३४॥
tam gajāḥ ca varāhāḥ ca siṃhāḥ vyāghrāḥ ca sarvatas . abhigarjanti satatam tena śabdena darpitāḥ.. 34..
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः॥ ३५॥
यस्मिन् हरि-हयः श्रीमान् महा-इन्द्रः पाकशासनः । अभिषिक्तः सुरैः राजा मेघः नाम स पर्वतः॥ ३५॥
yasmin hari-hayaḥ śrīmān mahā-indraḥ pākaśāsanaḥ . abhiṣiktaḥ suraiḥ rājā meghaḥ nāma sa parvataḥ.. 35..
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥ ३६॥
तम् अतिक्रम्य शैल-इन्द्रम् महा-इन्द्र-परिपालितम् । षष्टिम् गिरि-सहस्राणि काञ्चनानि गमिष्यथ॥ ३६॥
tam atikramya śaila-indram mahā-indra-paripālitam . ṣaṣṭim giri-sahasrāṇi kāñcanāni gamiṣyatha.. 36..
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥ ३७॥
तरुण-आदित्य-वर्णानि भ्राजमानानि सर्वतस् । जातरूप-मयैः वृक्षैः शोभितानि सु पुष्पितैः॥ ३७॥
taruṇa-āditya-varṇāni bhrājamānāni sarvatas . jātarūpa-mayaiḥ vṛkṣaiḥ śobhitāni su puṣpitaiḥ.. 37..
तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥ ३८॥
तेषाम् मध्ये स्थितः राजा मेरुः उत्तम-पर्वतः । आदित्येन प्रसन्नेन शैलः दत्त-वरः पुरा॥ ३८॥
teṣām madhye sthitaḥ rājā meruḥ uttama-parvataḥ . ādityena prasannena śailaḥ datta-varaḥ purā.. 38..
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ ३९॥
तेन एवम् उक्तः शैलेन्द्रः सर्वः एव त्वद्-आश्रयाः । मद्-प्रसादात् भविष्यन्ति दिवा रात्रौ च काञ्चनाः॥ ३९॥
tena evam uktaḥ śailendraḥ sarvaḥ eva tvad-āśrayāḥ . mad-prasādāt bhaviṣyanti divā rātrau ca kāñcanāḥ.. 39..
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः॥ ४०॥
त्वयि ये च अपि वत्स्यन्ति देव-गन्धर्व-दानवाः । ते भविष्यन्ति भक्ताः च प्रभया काञ्चन-प्रभाः॥ ४०॥
tvayi ye ca api vatsyanti deva-gandharva-dānavāḥ . te bhaviṣyanti bhaktāḥ ca prabhayā kāñcana-prabhāḥ.. 40..
विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः । आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्॥ ४१॥
विश्वेदेवाः च वसवः मरुतः च दिवौकसः । आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम-पर्वतम्॥ ४१॥
viśvedevāḥ ca vasavaḥ marutaḥ ca divaukasaḥ . āgatya paścimām saṃdhyām merum uttama-parvatam.. 41..
आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्॥ ४२॥
आदित्यम् उपतिष्ठन्ति तैः च सूर्यः अभिपूजितः । अदृश्यः सर्व-भूतानाम् अस्तम् गच्छति पर्वतम्॥ ४२॥
ādityam upatiṣṭhanti taiḥ ca sūryaḥ abhipūjitaḥ . adṛśyaḥ sarva-bhūtānām astam gacchati parvatam.. 42..
योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्॥ ४३॥
योजनानाम् सहस्राणि दश तानि दिवाकरः । मुहूर्त-अर्धेन तम् शीघ्रम् अभियाति शिलोच्चयम्॥ ४३॥
yojanānām sahasrāṇi daśa tāni divākaraḥ . muhūrta-ardhena tam śīghram abhiyāti śiloccayam.. 43..
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम् । प्रासादगणसम्बाधं विहितं विश्वकर्मणा॥ ४४॥
शृङ्गे तस्य महत् दिव्यम् भवनम् सूर्य-संनिभम् । प्रासाद-गण-सम्बाधम् विहितम् विश्वकर्मणा॥ ४४॥
śṛṅge tasya mahat divyam bhavanam sūrya-saṃnibham . prāsāda-gaṇa-sambādham vihitam viśvakarmaṇā.. 44..
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥ ४५॥
शोभितम् तरुभिः चित्रैः नाना पक्षि-समाकुलैः । निकेतम् पाश-हस्तस्य वरुणस्य महात्मनः॥ ४५॥
śobhitam tarubhiḥ citraiḥ nānā pakṣi-samākulaiḥ . niketam pāśa-hastasya varuṇasya mahātmanaḥ.. 45..
अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः॥ ४६॥
अन्तरा मेरुम् अस्तम् च तालः दशशिराः महान् । जातरूप-मयः श्रीमान् भ्राजते चित्र-वेदिकः॥ ४६॥
antarā merum astam ca tālaḥ daśaśirāḥ mahān . jātarūpa-mayaḥ śrīmān bhrājate citra-vedikaḥ.. 46..
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ४७॥
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ ४७॥
teṣu sarveṣu durgeṣu sarassu ca saritsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 47..
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः । मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः॥ ४८॥
यत्र तिष्ठति धर्म-ज्ञः तपसा स्वेन भावितः । मेरुसावर्णिः इति एष ख्यातः वै ब्रह्मणा समः॥ ४८॥
yatra tiṣṭhati dharma-jñaḥ tapasā svena bhāvitaḥ . merusāvarṇiḥ iti eṣa khyātaḥ vai brahmaṇā samaḥ.. 48..
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः । प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति॥ ४९॥
प्रष्टव्यः मेरुसावर्णिः महा-ऋषिः सूर्य-संनिभः । प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति॥ ४९॥
praṣṭavyaḥ merusāvarṇiḥ mahā-ṛṣiḥ sūrya-saṃnibhaḥ . praṇamya śirasā bhūmau pravṛttim maithilīm prati.. 49..
एतावज्जीवलोकस्य भास्करो रजनीक्षये । कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्॥ ५०॥
एतावत् जीव-लोकस्य भास्करः रजनी-क्षये । कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम्॥ ५०॥
etāvat jīva-lokasya bhāskaraḥ rajanī-kṣaye . kṛtvā vitimiram sarvam astam gacchati parvatam.. 50..
एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५१॥
एतावत् वानरैः शक्यम् गन्तुम् वानर-पुङ्गवाः । अभास्करम् अमर्यादम् न जानीमः ततस् परम्॥ ५१॥
etāvat vānaraiḥ śakyam gantum vānara-puṅgavāḥ . abhāskaram amaryādam na jānīmaḥ tatas param.. 51..
अवगम्य तु वैदेहीं निलयं रावणस्य च । अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत॥ ५२॥
अवगम्य तु वैदेहीम् निलयम् रावणस्य च । अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत॥ ५२॥
avagamya tu vaidehīm nilayam rāvaṇasya ca . astam parvatam āsādya pūrṇe māse nivartata.. 52..
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम । सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति॥ ५३॥
ऊर्ध्वम् मासात् न वस्तव्यम् वसन् वध्यः भवेत् मम । सह एव शूरः युष्माभिः श्वशुरः मे गमिष्यति॥ ५३॥
ūrdhvam māsāt na vastavyam vasan vadhyaḥ bhavet mama . saha eva śūraḥ yuṣmābhiḥ śvaśuraḥ me gamiṣyati.. 53..
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः । गुरुरेष महाबाहुः श्वशुरो मे महाबलः॥ ५४॥
श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट-कारिभिः । गुरुः एष महा-बाहुः श्वशुरः मे महा-बलः॥ ५४॥
śrotavyam sarvam etasya bhavadbhiḥ diṣṭa-kāribhiḥ . guruḥ eṣa mahā-bāhuḥ śvaśuraḥ me mahā-balaḥ.. 54..
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि । प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्॥ ५५॥
भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि । प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम्॥ ५५॥
bhavantaḥ ca api vikrāntāḥ pramāṇam sarve eva hi . pramāṇam enam saṃsthāpya paśyadhvam paścimām diśam.. 55..
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा॥ ५६॥
दृष्टायाम् तु नरेन्द्रस्य पत्न्याम् अमित-तेजसः । कृतकृत्याः भविष्यामः कृतस्य प्रतिकर्मणा॥ ५६॥
dṛṣṭāyām tu narendrasya patnyām amita-tejasaḥ . kṛtakṛtyāḥ bhaviṣyāmaḥ kṛtasya pratikarmaṇā.. 56..
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत् । सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम्॥ ५७॥
अतस् अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् । सम्प्रधार्य भवद्भिः च देश-काल-अर्थ-संहितम्॥ ५७॥
atas anyat api yat kāryam kāryasya asya priyam bhavet . sampradhārya bhavadbhiḥ ca deśa-kāla-artha-saṃhitam.. 57..
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य । आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम्॥ ५८॥
ततस् सुषेण-प्रमुखाः प्लवङ्गाः सुग्रीव-वाक्यम् निपुणम् निशम्य । आमन्त्र्य सर्वे प्लवग-अधिपम् ते जग्मुः दिशम् ताम् वरुण-अभिगुप्ताम्॥ ५८॥
tatas suṣeṇa-pramukhāḥ plavaṅgāḥ sugrīva-vākyam nipuṇam niśamya . āmantrya sarve plavaga-adhipam te jagmuḥ diśam tām varuṇa-abhiguptām.. 58..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४-४२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्विचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In