This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रिचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe tricatvāriṃśaḥ sargaḥ ..4..
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । वीरं शतबलिं नाम वानरं वानरेश्वरः॥ १॥
ततस् संदिश्य सुग्रीवः श्वशुरम् पश्चिमाम् दिशम् । वीरम् शतबलिम् नाम वानरम् वानर-ईश्वरः॥ १॥
tatas saṃdiśya sugrīvaḥ śvaśuram paścimām diśam . vīram śatabalim nāma vānaram vānara-īśvaraḥ.. 1..
उवाच राजा सर्वज्ञः सर्ववानरसत्तमः । वाक्यमात्महितं चैव रामस्य च हितं तदा॥ २॥
उवाच राजा सर्व-ज्ञः सर्व-वानर-सत्तमः । वाक्यम् आत्म-हितम् च एव रामस्य च हितम् तदा॥ २॥
uvāca rājā sarva-jñaḥ sarva-vānara-sattamaḥ . vākyam ātma-hitam ca eva rāmasya ca hitam tadā.. 2..
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः॥ ३॥
वृतः शत-सहस्रेण त्वद्विधानाम् वनौकसाम् । वैवस्वत-सुतैः सार्धम् प्रविष्टः सर्व-मन्त्रिभिः॥ ३॥
vṛtaḥ śata-sahasreṇa tvadvidhānām vanaukasām . vaivasvata-sutaiḥ sārdham praviṣṭaḥ sarva-mantribhiḥ.. 3..
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम् । सर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम्॥ ४॥
दिशम् हि उदीचीम् विक्रान्ताम् हिमशैल-अवतंसिकाम् । सर्वतस् परिमार्गध्वम् राम-पत्नीम् यशस्विनीम्॥ ४॥
diśam hi udīcīm vikrāntām himaśaila-avataṃsikām . sarvatas parimārgadhvam rāma-patnīm yaśasvinīm.. 4..
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥ ५॥
अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणात् मुक्ताः भविष्यामः कृतार्थ-अर्थ-विदाम् वराः॥ ५॥
asmin kārye vinirvṛtte kṛte dāśaratheḥ priye . ṛṇāt muktāḥ bhaviṣyāmaḥ kṛtārtha-artha-vidām varāḥ.. 5..
कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥ ६॥
कृतम् हि प्रियम् अस्माकम् राघवेण महात्मना । तस्य चेद् प्रतिकारः अस्ति सफलम् जीवितम् भवेत्॥ ६॥
kṛtam hi priyam asmākam rāghaveṇa mahātmanā . tasya ced pratikāraḥ asti saphalam jīvitam bhavet.. 6..
अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः॥ ७॥
अर्थिनः कार्य-निर्वृत्तिम् अकर्तुः अपि यः चरेत् । तस्य स्यात् सफलम् जन्म किम् पुनर् पूर्व-कारिणः॥ ७॥
arthinaḥ kārya-nirvṛttim akartuḥ api yaḥ caret . tasya syāt saphalam janma kim punar pūrva-kāriṇaḥ.. 7..
एतां बुद्धिं समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥ ८॥
एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा । तथा भवद्भिः कर्तव्यम् अस्मद्-प्रिय-हित-एषिभिः॥ ८॥
etām buddhim samāsthāya dṛśyate jānakī yathā . tathā bhavadbhiḥ kartavyam asmad-priya-hita-eṣibhiḥ.. 8..
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु च गतः प्रीतिं रामः परपुरंजयः॥ ९॥
अयम् हि सर्व-भूतानाम् मान्यः तु नर-सत्तमः । अस्मासु च गतः प्रीतिम् रामः परपुरंजयः॥ ९॥
ayam hi sarva-bhūtānām mānyaḥ tu nara-sattamaḥ . asmāsu ca gataḥ prītim rāmaḥ parapuraṃjayaḥ.. 9..
इमानि बहुदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥ १०॥
इमानि बहु-दुर्गाणि नद्यः शैल-अन्तराणि च । भवन्तः परिमार्गन्तु बुद्धि-विक्रम-सम्पदा॥ १०॥
imāni bahu-durgāṇi nadyaḥ śaila-antarāṇi ca . bhavantaḥ parimārgantu buddhi-vikrama-sampadā.. 10..
तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः॥ ११॥
तत्र म्लेच्छान् पुलिन्दान् च शूरसेनान् तथा एव च । प्रस्थलान् भरतान् च एव कुरून् च सह मद्रकैः॥ ११॥
tatra mlecchān pulindān ca śūrasenān tathā eva ca . prasthalān bharatān ca eva kurūn ca saha madrakaiḥ.. 11..
काम्बोजयवनांश्चैव शकानां पत्तनानि च । अन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ॥ १२॥
काम्बोज-यवनान् च एव शकानाम् पत्तनानि च । अन्वीक्ष्य दरदान् च एव हिमवन्तम् विचिनु अथ॥ १२॥
kāmboja-yavanān ca eva śakānām pattanāni ca . anvīkṣya daradān ca eva himavantam vicinu atha.. 12..
लोध्रपद्मकषण्डेषु देवदारुवनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १३॥
लोध्र-पद्मक-षण्डेषु देवदारु-वनेषु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ १३॥
lodhra-padmaka-ṣaṇḍeṣu devadāru-vaneṣu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 13..
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । कालं नाम महासानुं पर्वतं तं गमिष्यथ॥ १४॥
ततस् सोमाश्रमम् गत्वा देव-गन्धर्व-सेवितम् । कालम् नाम महा-सानुम् पर्वतम् तम् गमिष्यथ॥ १४॥
tatas somāśramam gatvā deva-gandharva-sevitam . kālam nāma mahā-sānum parvatam tam gamiṣyatha.. 14..
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च । विचिन्वत महाभागां रामपत्नीमनिन्दिताम्॥ १५॥
महत्सु तस्य शैलेषु पर्वतेषु गुहासु च । विचिन्वत महाभागाम् राम-पत्नीम् अनिन्दिताम्॥ १५॥
mahatsu tasya śaileṣu parvateṣu guhāsu ca . vicinvata mahābhāgām rāma-patnīm aninditām.. 15..
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ॥ १६॥
तम् अतिक्रम्य शैल-इन्द्रम् हेमगर्भम् महा-गिरिम् । ततस् सुदर्शनम् नाम पर्वतम् गन्तुम् अर्हथ॥ १६॥
tam atikramya śaila-indram hemagarbham mahā-girim . tatas sudarśanam nāma parvatam gantum arhatha.. 16..
ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिसमाकीर्णो विविधद्रुमभूषितः॥ १७॥
ततस् देवसखः नाम पर्वतः पतग-आलयः । नाना पक्षि-समाकीर्णः विविध-द्रुम-भूषितः॥ १७॥
tatas devasakhaḥ nāma parvataḥ pataga-ālayaḥ . nānā pakṣi-samākīrṇaḥ vividha-druma-bhūṣitaḥ.. 17..
तस्य काननषण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ १८॥
तस्य कानन-षण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ १८॥
tasya kānana-ṣaṇḍeṣu nirjhareṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 18..
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥ १९॥
तम् अतिक्रम्य च आकाशम् सर्वतस् शत-योजनम् । अपर्वत-नदी-वृक्षम् सर्व-सत्त्व-विवर्जितम्॥ १९॥
tam atikramya ca ākāśam sarvatas śata-yojanam . aparvata-nadī-vṛkṣam sarva-sattva-vivarjitam.. 19..
तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । कैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ॥ २०॥
तत् तु शीघ्रम् अतिक्रम्य कान्तारम् रोम-हर्षणम् । कैलासम् पाण्डुरम् प्राप्य हृष्टाः यूयम् भविष्यथ॥ २०॥
tat tu śīghram atikramya kāntāram roma-harṣaṇam . kailāsam pāṇḍuram prāpya hṛṣṭāḥ yūyam bhaviṣyatha.. 20..
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा॥ २१॥
तत्र पाण्डुर-मेघ-आभम् जाम्बूनद-परिष्कृतम् । कुबेर-भवनम् रम्यम् निर्मितम् विश्वकर्मणा॥ २१॥
tatra pāṇḍura-megha-ābham jāmbūnada-pariṣkṛtam . kubera-bhavanam ramyam nirmitam viśvakarmaṇā.. 21..
विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा अप्सरोगणसेविता॥ २२॥
विशाला नलिनी यत्र प्रभूत-कमल-उत्पला । हंस-कारण्डव-आकीर्णा अप्सरः-गण-सेविता॥ २२॥
viśālā nalinī yatra prabhūta-kamala-utpalā . haṃsa-kāraṇḍava-ākīrṇā apsaraḥ-gaṇa-sevitā.. 22..
तत्र वैश्रवणो राजा सर्वलोकनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्॥ २३॥
तत्र वैश्रवणः राजा सर्व-लोक-नमस्कृतः । धनदः रमते श्रीमान् गुह्यकैः सह यक्ष-राज्॥ २३॥
tatra vaiśravaṇaḥ rājā sarva-loka-namaskṛtaḥ . dhanadaḥ ramate śrīmān guhyakaiḥ saha yakṣa-rāj.. 23..
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २४॥
तस्य चन्द्र-निकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यः ततस् ततस्॥ २४॥
tasya candra-nikāśeṣu parvateṣu guhāsu ca . rāvaṇaḥ saha vaidehyā mārgitavyaḥ tatas tatas.. 24..
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम्॥ २५॥
क्रौञ्चम् तु गिरिम् आसाद्य बिलम् तस्य सु दुर्गमम् । अप्रमत्तैः प्रवेष्टव्यम् दुष्प्रवेशम् हि तत् स्मृतम्॥ २५॥
krauñcam tu girim āsādya bilam tasya su durgamam . apramattaiḥ praveṣṭavyam duṣpraveśam hi tat smṛtam.. 25..
वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । देवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः॥ २६॥
वसन्ति हि महात्मानः तत्र सूर्य-सम-प्रभाः । देवैः अभ्यर्थिताः सम्यक् देव-रूपाः महा-ऋषयः॥ २६॥
vasanti hi mahātmānaḥ tatra sūrya-sama-prabhāḥ . devaiḥ abhyarthitāḥ samyak deva-rūpāḥ mahā-ṛṣayaḥ.. 26..
क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः॥ २७॥
क्रौञ्चस्य तु गुहाः च अन्याः सानूनि शिखराणि च । निर्दराः च नितम्बाः च विचेतव्याः ततस् ततस्॥ २७॥
krauñcasya tu guhāḥ ca anyāḥ sānūni śikharāṇi ca . nirdarāḥ ca nitambāḥ ca vicetavyāḥ tatas tatas.. 27..
अवृक्षं कामशैलं च मानसं विहगालयम् । न गतिस्तत्र भूतानां देवानां न च रक्षसाम्॥ २८॥
अवृक्षम् कामशैलम् च मानसम् विहग-आलयम् । न गतिः तत्र भूतानाम् देवानाम् न च रक्षसाम्॥ २८॥
avṛkṣam kāmaśailam ca mānasam vihaga-ālayam . na gatiḥ tatra bhūtānām devānām na ca rakṣasām.. 28..
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः । क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः॥ २९॥
स च सर्वैः विचेतव्यः ससानु-प्रस्थ-भूधरः । क्रौञ्चम् गिरिम् अतिक्रम्य मैनाकः नाम पर्वतः॥ २९॥
sa ca sarvaiḥ vicetavyaḥ sasānu-prastha-bhūdharaḥ . krauñcam girim atikramya mainākaḥ nāma parvataḥ.. 29..
मयस्य भवनं तत्र दानवस्य स्वयंकृतम् । मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः॥ ३०॥
मयस्य भवनम् तत्र दानवस्य स्वयंकृतम् । मैनाकः तु विचेतव्यः ससानु-प्रस्थ-कन्दरः॥ ३०॥
mayasya bhavanam tatra dānavasya svayaṃkṛtam . mainākaḥ tu vicetavyaḥ sasānu-prastha-kandaraḥ.. 30..
स्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु । तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्॥ ३१॥
स्त्रीणाम् अश्वमुखीनाम् तु निकेतः तत्र तत्र तु । तम् देशम् समतिक्रम्य आश्रमम् सिद्ध-सेवितम्॥ ३१॥
strīṇām aśvamukhīnām tu niketaḥ tatra tatra tu . tam deśam samatikramya āśramam siddha-sevitam.. 31..
सिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः । वन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः॥ ३२॥
सिद्धाः वैखानसाः यत्र वालखिल्याः च तापसाः । वन्दितव्याः ततस् सिद्धाः तपसा वीत-कल्मषाः॥ ३२॥
siddhāḥ vaikhānasāḥ yatra vālakhilyāḥ ca tāpasāḥ . vanditavyāḥ tatas siddhāḥ tapasā vīta-kalmaṣāḥ.. 32..
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः । हेमपुष्करसंछन्नं तत्र वैखानसं सरः॥ ३३॥
प्रष्टव्या च अपि सीतायाः प्रवृत्तिः विनय-अन्वितैः । हेम-पुष्कर-संछन्नम् तत्र वैखानसम् सरः॥ ३३॥
praṣṭavyā ca api sītāyāḥ pravṛttiḥ vinaya-anvitaiḥ . hema-puṣkara-saṃchannam tatra vaikhānasam saraḥ.. 33..
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः । औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः॥ ३४॥
तरुण-आदित्य-संकाशैः हंसैः विचरितम् शुभैः । औपवाह्यः कुबेरस्य सार्वभौमः इति स्मृतः॥ ३४॥
taruṇa-āditya-saṃkāśaiḥ haṃsaiḥ vicaritam śubhaiḥ . aupavāhyaḥ kuberasya sārvabhaumaḥ iti smṛtaḥ.. 34..
गजः पर्येति तं देशं सदा सह करेणुभिः । तत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम्॥ ३५॥
गजः पर्येति तम् देशम् सदा सह करेणुभिः । तत् सरः समतिक्रम्य नष्ट-चन्द्र-दिवाकरम् । अ नक्षत्र-गणम् व्योम निष्पयोदम् अनादितम्॥ ३५॥
gajaḥ paryeti tam deśam sadā saha kareṇubhiḥ . tat saraḥ samatikramya naṣṭa-candra-divākaram . a nakṣatra-gaṇam vyoma niṣpayodam anāditam.. 35..
गभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते । विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयंप्रभैः॥ ३६॥
गभस्तिभिः इव अर्कस्य स तु देशः प्रकाश्यते । विश्राम्यद्भिः तपः-सिद्धैः देव-कल्पैः स्वयंप्रभैः॥ ३६॥
gabhastibhiḥ iva arkasya sa tu deśaḥ prakāśyate . viśrāmyadbhiḥ tapaḥ-siddhaiḥ deva-kalpaiḥ svayaṃprabhaiḥ.. 36..
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः॥ ३७॥
तम् तु देशम् अतिक्रम्य शैलोदा नाम निम्नगा । उभयोः तीरयोः तस्याः कीचकाः नाम वेणवः॥ ३७॥
tam tu deśam atikramya śailodā nāma nimnagā . ubhayoḥ tīrayoḥ tasyāḥ kīcakāḥ nāma veṇavaḥ.. 37..
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः॥ ३८॥
ते नयन्ति परम् तीरम् सिद्धान् प्रत्यानयन्ति च । उत्तराः कुरवः तत्र कृत-पुण्य-प्रतिश्रयाः॥ ३८॥
te nayanti param tīram siddhān pratyānayanti ca . uttarāḥ kuravaḥ tatra kṛta-puṇya-pratiśrayāḥ.. 38..
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः॥ ३९॥
ततस् काञ्चन-पद्माभिः पद्मिनीभिः कृत-उदकाः । नील-वैदूर्य-पत्र-आढ्याः नद्यः तत्र सहस्रशस्॥ ३९॥
tatas kāñcana-padmābhiḥ padminībhiḥ kṛta-udakāḥ . nīla-vaidūrya-patra-āḍhyāḥ nadyaḥ tatra sahasraśas.. 39..
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसंकाशा भान्ति तत्र जलाशयाः॥ ४०॥
रक्त-उत्पल-वनैः च अत्र मण्डिताः च हिरण्मयैः । तरुण-आदित्य-संकाशाः भान्ति तत्र जलाशयाः॥ ४०॥
rakta-utpala-vanaiḥ ca atra maṇḍitāḥ ca hiraṇmayaiḥ . taruṇa-āditya-saṃkāśāḥ bhānti tatra jalāśayāḥ.. 40..
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः॥ ४१॥
महार्ह-मणि-पत्रैः च काञ्चन-प्रभ-केसरैः । नीलोत्पल-वनैः चित्रैः स देशः सर्वतस् वृतः॥ ४१॥
mahārha-maṇi-patraiḥ ca kāñcana-prabha-kesaraiḥ . nīlotpala-vanaiḥ citraiḥ sa deśaḥ sarvatas vṛtaḥ.. 41..
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः॥ ४२॥
निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः । उद्धूत-पुलिनाः तत्र जातरूपैः च निम्नगाः॥ ४२॥
nistulābhiḥ ca muktābhiḥ maṇibhiḥ ca mahādhanaiḥ . uddhūta-pulināḥ tatra jātarūpaiḥ ca nimnagāḥ.. 42..
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः॥ ४३॥
सर्व-रत्न-मयैः चित्रैः अवगाढाः नग-उत्तमैः । जातरूप-मयैः च अपि हुताशन-सम-प्रभैः॥ ४३॥
sarva-ratna-mayaiḥ citraiḥ avagāḍhāḥ naga-uttamaiḥ . jātarūpa-mayaiḥ ca api hutāśana-sama-prabhaiḥ.. 43..
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च॥ ४४॥
नित्य-पुष्प-फलाः तत्र नगाः पत्ररथ-आकुलाः । दिव्य-गन्ध-रस-स्पर्शाः सर्व-कामान् स्रवन्ति च॥ ४४॥
nitya-puṣpa-phalāḥ tatra nagāḥ patraratha-ākulāḥ . divya-gandha-rasa-sparśāḥ sarva-kāmān sravanti ca.. 44..
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । मुक्तावैदूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च॥ ४५॥
नाना आकाराणि वासांसि फलन्ति अन्ये नग-उत्तमाः । मुक्ता-वैदूर्य-चित्राणि भूषणानि तथा एव च । स्त्रीणाम् यानि अनुरूपाणि पुरुषाणाम् तथा एव च॥ ४५॥
nānā ākārāṇi vāsāṃsi phalanti anye naga-uttamāḥ . muktā-vaidūrya-citrāṇi bhūṣaṇāni tathā eva ca . strīṇām yāni anurūpāṇi puruṣāṇām tathā eva ca.. 45..
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः । महार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः॥ ४६॥
सर्व-ऋतु-सुख-सेव्यानि फलन्ति अन्ये नग-उत्तमाः । महार्ह-मणि-चित्राणि फलन्ति अन्ये नग-उत्तमाः॥ ४६॥
sarva-ṛtu-sukha-sevyāni phalanti anye naga-uttamāḥ . mahārha-maṇi-citrāṇi phalanti anye naga-uttamāḥ.. 46..
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च । मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः॥ ४७॥
शयनानि प्रसूयन्ते चित्र-आस्तरणवन्ति च । मनः-कान्तानि माल्यानि फलन्ति अत्र अपरे द्रुमाः॥ ४७॥
śayanāni prasūyante citra-āstaraṇavanti ca . manaḥ-kāntāni mālyāni phalanti atra apare drumāḥ.. 47..
पानानि च महार्हाणि भक्ष्याणि विविधानि च । स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः॥ ४८॥
पानानि च महार्हाणि भक्ष्याणि विविधानि च । स्त्रियः च गुण-सम्पन्नाः रूप-यौवन-लक्षिताः॥ ४८॥
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca . striyaḥ ca guṇa-sampannāḥ rūpa-yauvana-lakṣitāḥ.. 48..
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः॥ ४९॥
गन्धर्वाः किन्नराः सिद्धाः नागाः विद्याधराः तथा । रमन्ते सततम् तत्र नारीभिः भास्वर-प्रभाः॥ ४९॥
gandharvāḥ kinnarāḥ siddhāḥ nāgāḥ vidyādharāḥ tathā . ramante satatam tatra nārībhiḥ bhāsvara-prabhāḥ.. 49..
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सह योषितः॥ ५०॥
सर्वे सु कृत-कर्माणः सर्वे रति-परायणाः । सर्वे काम-अर्थ-सहिताः वसन्ति सह योषितः॥ ५०॥
sarve su kṛta-karmāṇaḥ sarve rati-parāyaṇāḥ . sarve kāma-artha-sahitāḥ vasanti saha yoṣitaḥ.. 50..
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोरमः॥ ५१॥
। श्रूयते सततम् तत्र सर्व-भूत-मनोरमः॥ ५१॥
. śrūyate satatam tatra sarva-bhūta-manoramaḥ.. 51..
तत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः । अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥ ५२॥
तत्र ना अमुदितः कश्चिद् न अत्र कश्चिद् असत्-प्रियः । अहनि अहनि वर्धन्ते गुणाः तत्र मनोरमाः॥ ५२॥
tatra nā amuditaḥ kaścid na atra kaścid asat-priyaḥ . ahani ahani vardhante guṇāḥ tatra manoramāḥ.. 52..
समतिक्रम्य तं देशमुत्तरः पयसां निधिः । तत्र सोमगिरिर्नाम मध्ये हेममयो महान्॥ ५३॥
समतिक्रम्य तम् देशम् उत्तरः पयसाम् निधिः । तत्र सोमगिरिः नाम मध्ये हेम-मयः महान्॥ ५३॥
samatikramya tam deśam uttaraḥ payasām nidhiḥ . tatra somagiriḥ nāma madhye hema-mayaḥ mahān.. 53..
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः॥ ५४॥
इन्द्र-लोक-गताः ये च ब्रह्म-लोक-गताः च ये । देवाः तम् समवेक्षन्ते गिरि-राजम् दिवम् गताः॥ ५४॥
indra-loka-gatāḥ ye ca brahma-loka-gatāḥ ca ye . devāḥ tam samavekṣante giri-rājam divam gatāḥ.. 54..
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते । सूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता॥ ५५॥
स तु देशः विसूर्यः अपि तस्य भासा प्रकाशते । सूर्य-लक्ष्म्या अभिविज्ञेयः तपता इव विवस्वता॥ ५५॥
sa tu deśaḥ visūryaḥ api tasya bhāsā prakāśate . sūrya-lakṣmyā abhivijñeyaḥ tapatā iva vivasvatā.. 55..
भगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥ ५६॥
भगवान् तत्र विश्वात्मा शम्भुः एकादश-आत्मकः । ब्रह्मा वसति देवेशः ब्रह्मर्षि-परिवारितः॥ ५६॥
bhagavān tatra viśvātmā śambhuḥ ekādaśa-ātmakaḥ . brahmā vasati deveśaḥ brahmarṣi-parivāritaḥ.. 56..
न कथंचन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नानुक्रामति वै गतिः॥ ५७॥
न कथंचन गन्तव्यम् कुरूणाम् उत्तरेण वः । अन्येषाम् अपि भूतानाम् न अनुक्रामति वै गतिः॥ ५७॥
na kathaṃcana gantavyam kurūṇām uttareṇa vaḥ . anyeṣām api bhūtānām na anukrāmati vai gatiḥ.. 57..
स हि सोमगिरिर्नाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥ ५८॥
स हि सोमगिरिः नाम देवानाम् अपि दुर्गमः । तम् आलोक्य ततस् क्षिप्रम् उपावर्तितुम् अर्हथ॥ ५८॥
sa hi somagiriḥ nāma devānām api durgamaḥ . tam ālokya tatas kṣipram upāvartitum arhatha.. 58..
एतावद् वानरैः शक्यं गन्तुं वानरपुंगवाः । अभास्करममर्यादं न जानीमस्ततः परम्॥ ५९॥
एतावत् वानरैः शक्यम् गन्तुम् वानर-पुंगवाः । अभास्करम् अमर्यादम् न जानीमः ततस् परम्॥ ५९॥
etāvat vānaraiḥ śakyam gantum vānara-puṃgavāḥ . abhāskaram amaryādam na jānīmaḥ tatas param.. 59..
सर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६०॥
सर्वम् एतत् विचेतव्यम् यत् मया परिकीर्तितम् । यत् अन्यत् अपि ना उक्तम् च तत्र अपि क्रियताम् मतिः॥ ६०॥
sarvam etat vicetavyam yat mayā parikīrtitam . yat anyat api nā uktam ca tatra api kriyatām matiḥ.. 60..
ततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा॥ ६१॥
ततस् कृतम् दाशरथेः महत् प्रियम् महत् प्रियम् च अपि ततस् मम प्रियम् । कृतम् भविष्यति अनिल-अनल-उपमाः विदेह-ज-अदर्शन-जेन कर्मणा॥ ६१॥
tatas kṛtam dāśaratheḥ mahat priyam mahat priyam ca api tatas mama priyam . kṛtam bhaviṣyati anila-anala-upamāḥ videha-ja-adarśana-jena karmaṇā.. 61..
ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः । चरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः॥ ६२॥
ततस् कृतार्थाः सहिताः स बान्धवाः मया अर्चिताः सर्व-गुणैः मनोरमैः । चरिष्यथ उर्वीम् प्रति शान्त-शत्रवः सहप्रियाः भूत-धराः प्लवंगमाः॥ ६२॥
tatas kṛtārthāḥ sahitāḥ sa bāndhavāḥ mayā arcitāḥ sarva-guṇaiḥ manoramaiḥ . cariṣyatha urvīm prati śānta-śatravaḥ sahapriyāḥ bhūta-dharāḥ plavaṃgamāḥ.. 62..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४-४३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रिचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe tricatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In