This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुश्चत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..4..
विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने॥ १॥
विशेषेण तु सुग्रीवः हनुमन्त् अत्यर्थम् उक्तवान् । स हि तस्मिन् हरि-श्रेष्ठे निश्चित-अर्थः अर्थ-साधने॥ १॥
viśeṣeṇa tu sugrīvaḥ hanumant atyartham uktavān . sa hi tasmin hari-śreṣṭhe niścita-arthaḥ artha-sādhane.. 1..
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥ २॥
अब्रवीत् च हनूमन्तम् विक्रान्तम् अनिलात्मजम् । सुग्रीवः परम-प्रीतः प्रभुः सर्व-वनौकसाम्॥ २॥
abravīt ca hanūmantam vikrāntam anilātmajam . sugrīvaḥ parama-prītaḥ prabhuḥ sarva-vanaukasām.. 2..
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये । नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव॥ ३॥
न भूमौ न अन्तरिक्षे वा न अम्बरे न अमर-आलये । न अप्सु वा गति-सङ्गम् ते पश्यामि हरि-पुंगव॥ ३॥
na bhūmau na antarikṣe vā na ambare na amara-ālaye . na apsu vā gati-saṅgam te paśyāmi hari-puṃgava.. 3..
सासुराः सहगन्धर्वाः सनागनरदेवताः । विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥
स असुराः सह गन्धर्वाः स नाग-नर-देवताः । विदिताः सर्व-लोकाः ते स सागर-धराधराः॥ ४॥
sa asurāḥ saha gandharvāḥ sa nāga-nara-devatāḥ . viditāḥ sarva-lokāḥ te sa sāgara-dharādharāḥ.. 4..
गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः॥ ५॥
गतिः वेगः च तेजः च लाघवम् च महा-कपे । पितुः ते सदृशम् वीर मारुतस्य महा-ओजसः॥ ५॥
gatiḥ vegaḥ ca tejaḥ ca lāghavam ca mahā-kape . pituḥ te sadṛśam vīra mārutasya mahā-ojasaḥ.. 5..
तेजसा वापि ते भूतं न समं भुवि विद्यते । तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय॥ ६॥
तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते । तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिन्तय॥ ६॥
tejasā vā api te bhūtam na samam bhuvi vidyate . tat yathā labhyate sītā tat tvam eva anucintaya.. 6..
त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित॥ ७॥
त्वयि एव हनुमन्त् अस्ति बलम् बुद्धिः पराक्रमः । देश-काल-अनुवृत्तिः च नयः च नय-पण्डित॥ ७॥
tvayi eva hanumant asti balam buddhiḥ parākramaḥ . deśa-kāla-anuvṛttiḥ ca nayaḥ ca naya-paṇḍita.. 7..
ततः कार्यसमासङ्गमवगम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः॥ ८॥
ततस् कार्य-समासङ्गम् अवगम्य हनूमति । विदित्वा हनुमन्तम् च चिन्तयामास राघवः॥ ८॥
tatas kārya-samāsaṅgam avagamya hanūmati . viditvā hanumantam ca cintayāmāsa rāghavaḥ.. 8..
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः । निश्चितार्थतरश्चापि हनूमान् कार्यसाधने॥ ९॥
सर्वथा निश्चित-अर्थः अयम् हनूमति हरि-ईश्वरः । निश्चितार्थतरः च अपि हनूमान् कार्य-साधने॥ ९॥
sarvathā niścita-arthaḥ ayam hanūmati hari-īśvaraḥ . niścitārthataraḥ ca api hanūmān kārya-sādhane.. 9..
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः॥ १०॥
तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्य-फल-उदयः॥ १०॥
tat evam prasthitasya asya parijñātasya karmabhiḥ . bhartrā parigṛhītasya dhruvaḥ kārya-phala-udayaḥ.. 10..
तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः॥ ११॥
तम् समीक्ष्य महा-तेजाः व्यवसाय उत्तरम् हरिम् । कृतार्थः इव संहृष्टः प्रहृष्ट-इन्द्रिय-मानसः॥ ११॥
tam samīkṣya mahā-tejāḥ vyavasāya uttaram harim . kṛtārthaḥ iva saṃhṛṣṭaḥ prahṛṣṭa-indriya-mānasaḥ.. 11..
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः॥ १२॥
ददौ तस्य ततस् प्रीतः स्व-नाम-अङ्क-उपशोभितम् । अङ्गुलीयम् अभिज्ञानम् राज-पुत्र्याः परंतपः॥ १२॥
dadau tasya tatas prītaḥ sva-nāma-aṅka-upaśobhitam . aṅgulīyam abhijñānam rāja-putryāḥ paraṃtapaḥ.. 12..
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा । मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति॥ १३॥
अनेन त्वाम् हरि-श्रेष्ठ चिह्नेन जनकात्मजा । मद्-सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति॥ १३॥
anena tvām hari-śreṣṭha cihnena janakātmajā . mad-sakāśāt anuprāptam anudvignā anupaśyati.. 13..
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे॥ १४॥
व्यवसायः च ते वीर सत्त्व-युक्तः च विक्रमः । सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे॥ १४॥
vyavasāyaḥ ca te vīra sattva-yuktaḥ ca vikramaḥ . sugrīvasya ca saṃdeśaḥ siddhim kathayati iva me.. 14..
स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः॥ १५॥
स तत् गृह्य हरि-श्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः । वन्दित्वा चरणौ च एव प्रस्थितः प्लवग-ऋषभः॥ १५॥
sa tat gṛhya hari-śreṣṭhaḥ kṛtvā mūrdhni kṛtāñjaliḥ . vanditvā caraṇau ca eva prasthitaḥ plavaga-ṛṣabhaḥ.. 15..
स तत् प्रकर्षन् हरिणां महद् बलं बभूव वीरः पवनात्मजः कपिः । गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः॥ १६॥
स तत् प्रकर्षन् हरिणाम् महत् बलम् बभूव वीरः पवनात्मजः कपिः । गत-अम्बुदे व्योम्नि विशुद्ध-मण्डलः शशी इव नक्षत्र-गण-उपशोभितः॥ १६॥
sa tat prakarṣan hariṇām mahat balam babhūva vīraḥ pavanātmajaḥ kapiḥ . gata-ambude vyomni viśuddha-maṇḍalaḥ śaśī iva nakṣatra-gaṇa-upaśobhitaḥ.. 16..
अतिबल बलमाश्रितस्तवाहं हरिवर विक्रम विक्रमैरनल्पैः । पवनसुत यथाधिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व॥ १७॥
अतिबल बलम् आश्रितः तव अहम् हरि-वर विक्रम विक्रमैः अनल्पैः । पवनसुत यथा अधिगम्यते सा जनकसुता हनुमन् तथा कुरुष्व॥ १७॥
atibala balam āśritaḥ tava aham hari-vara vikrama vikramaiḥ analpaiḥ . pavanasuta yathā adhigamyate sā janakasutā hanuman tathā kuruṣva.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४-४४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुश्चत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In