This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..4..
सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥ १॥
सर्वान् च आहूय सुग्रीवः प्लवगान् प्लवग-ऋषभः । समस्तान् च अब्रवीत् राजा राम-कार्य-अर्थ-सिद्धये॥ १॥
sarvān ca āhūya sugrīvaḥ plavagān plavaga-ṛṣabhaḥ . samastān ca abravīt rājā rāma-kārya-artha-siddhaye.. 1..
एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः । तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः॥ २॥
एवम् एतत् विचेतव्यम् भवद्भिः वानर-उत्तमैः । तत् उग्र-शासनम् भर्तुः विज्ञाय हरि-पुंगवाः॥ २॥
evam etat vicetavyam bhavadbhiḥ vānara-uttamaiḥ . tat ugra-śāsanam bhartuḥ vijñāya hari-puṃgavāḥ.. 2..
शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥
शलभाः इव संछाद्य मेदिनीम् सम्प्रतस्थिरे । रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥
śalabhāḥ iva saṃchādya medinīm sampratasthire . rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ.. 3..
प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः । उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ ४॥
प्रतीक्षमाणः तम् मासम् सीता-अधिगमने कृतः । उत्तराम् तु दिशम् रम्याम् गिरि-राज-समावृताम्॥ ४॥
pratīkṣamāṇaḥ tam māsam sītā-adhigamane kṛtaḥ . uttarām tu diśam ramyām giri-rāja-samāvṛtām.. 4..
प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा । पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ५॥
प्रतस्थे सहसा वीरः हरिः शतबलिः तदा । पूर्वाम् दिशम् प्रतिययौ विनतः हरि-यूथपः॥ ५॥
pratasthe sahasā vīraḥ hariḥ śatabaliḥ tadā . pūrvām diśam pratiyayau vinataḥ hari-yūthapaḥ.. 5..
ताराङ्गदादिसहितः प्लवगः पवनात्मजः । अगस्त्याचरितामाशां दक्षिणां हरियूथपः॥ ६॥
। अगस्त्य-आचरिताम् आशाम् दक्षिणाम् हरि-यूथपः॥ ६॥
. agastya-ācaritām āśām dakṣiṇām hari-yūthapaḥ.. 6..
पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥ ७॥
पश्चिमाम् च दिशम् घोराम् सुषेणः प्लवग-ईश्वरः । प्रतस्थे हरि-शार्दूलः दिशम् वरुण-पालिताम्॥ ७॥
paścimām ca diśam ghorām suṣeṇaḥ plavaga-īśvaraḥ . pratasthe hari-śārdūlaḥ diśam varuṇa-pālitām.. 7..
ततः सर्वा दिशो राजा चोदयित्वा यथातथम् । कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥ ८॥
ततस् सर्वाः दिशः राजा चोदयित्वा यथातथम् । कपि-सेनापतिः वीरः मुमोद सुखितः सुखम्॥ ८॥
tatas sarvāḥ diśaḥ rājā codayitvā yathātatham . kapi-senāpatiḥ vīraḥ mumoda sukhitaḥ sukham.. 8..
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥
एवम् संचोदिताः सर्वे राज्ञा वानर-यूथपाः । स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥
evam saṃcoditāḥ sarve rājñā vānara-yūthapāḥ . svām svām diśam abhipretya tvaritāḥ sampratasthire.. 9..
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः । क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ १०॥
नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः । क्ष्वेडन्तः धावमानाः च विनदन्तः महा-बलाः॥ १०॥
nadantaḥ ca unnadantaḥ ca garjantaḥ ca plavaṃgamāḥ . kṣveḍantaḥ dhāvamānāḥ ca vinadantaḥ mahā-balāḥ.. 10..
एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः । आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ ११॥
एवम् संचोदिताः सर्वे राज्ञा वानर-यूथपाः । आनयिष्यामहे सीताम् हनिष्यामः च रावणम्॥ ११॥
evam saṃcoditāḥ sarve rājñā vānara-yūthapāḥ . ānayiṣyāmahe sītām haniṣyāmaḥ ca rāvaṇam.. 11..
अहमेको वधिष्यामि प्राप्तं रावणमाहवे । ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ १२॥
अहम् एकः वधिष्यामि प्राप्तम् रावणम् आहवे । ततस् च उन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ १२॥
aham ekaḥ vadhiṣyāmi prāptam rāvaṇam āhave . tatas ca unmathya sahasā hariṣye janakātmajām.. 12..
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति । एक एवाहरिष्यामि पातालादपि जानकीम्॥ १३॥
वेपमानाम् श्रमेण अद्य भवद्भिः स्थीयताम् इति । एकः एवा आहरिष्यामि पातालात् अपि जानकीम्॥ १३॥
vepamānām śrameṇa adya bhavadbhiḥ sthīyatām iti . ekaḥ evā āhariṣyāmi pātālāt api jānakīm.. 13..
विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्॥ १४॥
विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् । धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान्॥ १४॥
vidhamiṣyāmi aham vṛkṣān dārayiṣyāmi aham girīn . dharaṇīm dārayiṣyāmi kṣobhayiṣyāmi sāgarān.. 14..
अहं योजनसंख्यायाः प्लवेयं नात्र संशयः । शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ १५॥
अहम् योजन-संख्यायाः प्लवेयम् न अत्र संशयः । शत-योजन-संख्यायाः शतम् समधिकम् हि अहम्॥ १५॥
aham yojana-saṃkhyāyāḥ plaveyam na atra saṃśayaḥ . śata-yojana-saṃkhyāyāḥ śatam samadhikam hi aham.. 15..
भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥ १६॥
भू-तले सागरे वा अपि शैलेषु च वनेषु च । पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः॥ १६॥
bhū-tale sāgare vā api śaileṣu ca vaneṣu ca . pātālasya api vā madhye na mama ācchidyate gatiḥ.. 16..
इत्येकैकस्तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥ १७॥
इति एकैकः तदा तत्र वानराः बल-दर्पिताः । ऊचुः च वचनम् तस्य हरि-राजस्य संनिधौ॥ १७॥
iti ekaikaḥ tadā tatra vānarāḥ bala-darpitāḥ . ūcuḥ ca vacanam tasya hari-rājasya saṃnidhau.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In