This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..4..
दर्शनार्थं तु वैदेह्याः सर्वतः कपिकुञ्जराः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १॥
दर्शन-अर्थम् तु वैदेह्याः सर्वतस् कपि-कुञ्जराः । व्यादिष्टाः कपि-राजेन यथोक्तम् जग्मुः अञ्जसा॥ १॥
darśana-artham tu vaidehyāḥ sarvatas kapi-kuñjarāḥ . vyādiṣṭāḥ kapi-rājena yathoktam jagmuḥ añjasā.. 1..
ते सरांसि सरित्कक्षानाकाशं नगराणि च । नदीदुर्गांस्तथा देशान् विचिन्वन्ति समन्ततः॥ २॥
ते सरांसि सरित्-कक्षान् आकाशम् नगराणि च । नदी-दुर्गान् तथा देशान् विचिन्वन्ति समन्ततः॥ २॥
te sarāṃsi sarit-kakṣān ākāśam nagarāṇi ca . nadī-durgān tathā deśān vicinvanti samantataḥ.. 2..
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः । तत्र देशान् विचिन्वन्ति सशैलवनकाननान्॥ ३॥
सुग्रीवेण समाख्याताः सर्वे वानर-यूथपाः । तत्र देशान् विचिन्वन्ति स शैल-वन-काननान्॥ ३॥
sugrīveṇa samākhyātāḥ sarve vānara-yūthapāḥ . tatra deśān vicinvanti sa śaila-vana-kānanān.. 3..
विचित्य दिवसं सर्वे सीताधिगमने धृताः । समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥ ४॥
विचित्य दिवसम् सर्वे सीता-अधिगमने धृताः । समायान्ति स्म मेदिन्याम् निशा-कालेषु वानराः॥ ४॥
vicitya divasam sarve sītā-adhigamane dhṛtāḥ . samāyānti sma medinyām niśā-kāleṣu vānarāḥ.. 4..
सर्वर्तुकांश्च देशेषु वानराः सफलद्रुमान् । आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५॥
सर्वर्तुकान् च देशेषु वानराः स फल-द्रुमान् । आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहःसु ते॥ ५॥
sarvartukān ca deśeṣu vānarāḥ sa phala-drumān . āsādya rajanīm śayyām cakruḥ sarveṣu ahaḥsu te.. 5..
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपिकुञ्जराः॥ ६॥
तत् अहर् प्रथमम् कृत्वा मासे प्रस्रवणम् गताः । कपि-राजेन संगम्य निराशाः कपि-कुञ्जराः॥ ६॥
tat ahar prathamam kṛtvā māse prasravaṇam gatāḥ . kapi-rājena saṃgamya nirāśāḥ kapi-kuñjarāḥ.. 6..
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७॥
विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह । अ दृष्ट्वा विनतः सीताम् आजगाम महा-बलः॥ ७॥
vicitya tu diśam pūrvām yathā uktām sacivaiḥ saha . a dṛṣṭvā vinataḥ sītām ājagāma mahā-balaḥ.. 7..
दिशमप्युत्तरां सर्वां विविच्य स महाकपिः । आगतः सह सैन्येन भीतः शतबलिस्तदा॥ ८॥
दिशम् अपि उत्तराम् सर्वाम् विविच्य स महा-कपिः । आगतः सह सैन्येन भीतः शतबलिः तदा॥ ८॥
diśam api uttarām sarvām vivicya sa mahā-kapiḥ . āgataḥ saha sainyena bhītaḥ śatabaliḥ tadā.. 8..
सुषेणः पश्चिमामाशां विविच्य सह वानरैः । समेत्य मासे पूर्णे तु सुग्रीवमुपचक्रमे॥ ९॥
सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः । समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे॥ ९॥
suṣeṇaḥ paścimām āśām vivicya saha vānaraiḥ . sametya māse pūrṇe tu sugrīvam upacakrame.. 9..
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १०॥
तम् प्रस्रवण-पृष्ठ-स्थम् समासाद्य अभिवाद्य च । आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन्॥ १०॥
tam prasravaṇa-pṛṣṭha-stham samāsādya abhivādya ca . āsīnam saha rāmeṇa sugrīvam idam abruvan.. 10..
विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये॥ ११॥
विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागर-अन्ताः च सर्वे जनपदाः च ये॥ ११॥
vicitāḥ parvatāḥ sarve vanāni gahanāni ca . nimnagāḥ sāgara-antāḥ ca sarve janapadāḥ ca ye.. 11..
गुहाश्च विचिताः सर्वा याश्च ते परिकीर्तिताः । विचिताश्च महागुल्मा लताविततसंतताः॥ १२॥
गुहाः च विचिताः सर्वाः याः च ते परिकीर्तिताः । विचिताः च महा-गुल्माः लता-वितत-संतताः॥ १२॥
guhāḥ ca vicitāḥ sarvāḥ yāḥ ca te parikīrtitāḥ . vicitāḥ ca mahā-gulmāḥ latā-vitata-saṃtatāḥ.. 12..
गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि हतानि च । ये चैव गहना देशा विचितास्ते पुनः पुनः॥ १३॥
गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वानि अतिप्रमाणानि विचितानि हतानि च । ये च एव गहनाः देशाः विचिताः ते पुनर् पुनर्॥ १३॥
gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca . sattvāni atipramāṇāni vicitāni hatāni ca . ye ca eva gahanāḥ deśāḥ vicitāḥ te punar punar.. 13..
उदारसत्त्वाभिजनो हनूमान् स मैथिलीं ज्ञास्यति वानरेन्द्र । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥ १४॥
उदार-सत्त्व-अभिजनः हनूमान् स मैथिलीम् ज्ञास्यति वानर-इन्द्र । दिशम् तु याम् एव गता तु सीता ताम् आस्थितः वायु-सुतः हनूमान्॥ १४॥
udāra-sattva-abhijanaḥ hanūmān sa maithilīm jñāsyati vānara-indra . diśam tu yām eva gatā tu sītā tām āsthitaḥ vāyu-sutaḥ hanūmān.. 14..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४-४७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In