This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टचत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..4..
सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः । सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे॥ १॥
सह तारा-अङ्गदाभ्याम् तु सहसा हनुमान् कपिः । सुग्रीवेण यथा उद्दिष्टम् गन्तुम् देशम् प्रचक्रमे॥ १॥
saha tārā-aṅgadābhyām tu sahasā hanumān kapiḥ . sugrīveṇa yathā uddiṣṭam gantum deśam pracakrame.. 1..
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः । ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च॥ २॥
स तु दूरम् उपागम्य सर्वैः तैः कपि-सत्तमैः । ततस् विचित्य विन्ध्यस्य गुहाः च गहनानि च॥ २॥
sa tu dūram upāgamya sarvaiḥ taiḥ kapi-sattamaiḥ . tatas vicitya vindhyasya guhāḥ ca gahanāni ca.. 2..
पर्वताग्रनदीदुर्गान् सरांसि विपुलद्रुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् वनपादपान्॥ ३॥
पर्वत-अग्र-नदी-दुर्गान् सरांसि विपुल-द्रुमान् । वृक्ष-षण्डान् च विविधान् पर्वतान् वन-पादपान्॥ ३॥
parvata-agra-nadī-durgān sarāṃsi vipula-drumān . vṛkṣa-ṣaṇḍān ca vividhān parvatān vana-pādapān.. 3..
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्॥ ४॥
अन्वेषमाणाः ते सर्वे वानराः सर्वतस् दिशम् । न सीताम् ददृशुः वीराः मैथिलीम् जनकात्मजाम्॥ ४॥
anveṣamāṇāḥ te sarve vānarāḥ sarvatas diśam . na sītām dadṛśuḥ vīrāḥ maithilīm janakātmajām.. 4..
ते भक्षयन्तो मूलानि फलानि विविधान्यपि । अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह॥ ५॥
ते भक्षयन्तः मूलानि फलानि विविधानि अपि । अन्वेषमाणाः दुर्धर्षाः न्यवसन् तत्र तत्र ह॥ ५॥
te bhakṣayantaḥ mūlāni phalāni vividhāni api . anveṣamāṇāḥ durdharṣāḥ nyavasan tatra tatra ha.. 5..
स तु देशो दुरन्वेषो गुहागहनवान् महान् । निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम्॥ ६॥
स तु देशः दुरन्वेषः गुहा-गहनवान् महान् । निर्जलम् निर्जनम् शून्यम् गहनम् घोर-दर्शनम्॥ ६॥
sa tu deśaḥ duranveṣaḥ guhā-gahanavān mahān . nirjalam nirjanam śūnyam gahanam ghora-darśanam.. 6..
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः । स देशश्च दुरन्वेष्यो गुहागहनवान् महान्॥ ७॥
तादृशानि अपि अरण्यानि विचित्य भृश-पीडिताः । स देशः च दुरन्वेष्यः गुहा-गहनवान् महान्॥ ७॥
tādṛśāni api araṇyāni vicitya bhṛśa-pīḍitāḥ . sa deśaḥ ca duranveṣyaḥ guhā-gahanavān mahān.. 7..
त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः । देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः॥ ८॥
त्यक्त्वा तु तम् ततस् देशम् सर्वे वै हरि-यूथपाः । देशम् अन्यम् दुराधर्षम् विविशुः च अकुतोभयाः॥ ८॥
tyaktvā tu tam tatas deśam sarve vai hari-yūthapāḥ . deśam anyam durādharṣam viviśuḥ ca akutobhayāḥ.. 8..
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः । निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्॥ ९॥
यत्र वन्ध्य-फलाः वृक्षाः विपुष्पाः पर्ण-वर्जिताः । निस्तोयाः सरितः यत्र मूलम् यत्र सु दुर्लभम्॥ ९॥
yatra vandhya-phalāḥ vṛkṣāḥ vipuṣpāḥ parṇa-varjitāḥ . nistoyāḥ saritaḥ yatra mūlam yatra su durlabham.. 9..
न सन्ति महिषा यत्र न मृगा न च हस्तिनः । शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः॥ १०॥
न सन्ति महिषाः यत्र न मृगाः न च हस्तिनः । शार्दूलाः पक्षिणः वा अपि ये च अन्ये वन-गोचराः॥ १०॥
na santi mahiṣāḥ yatra na mṛgāḥ na ca hastinaḥ . śārdūlāḥ pakṣiṇaḥ vā api ye ca anye vana-gocarāḥ.. 10..
न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः । स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः॥ ११॥
न च अत्र वृक्षाः न ओषध्यः न वल्ल्यः न अपि वीरुधः । स्निग्ध-पत्राः स्थले यत्र पद्मिन्यः फुल्ल-पङ्कजाः॥ ११॥
na ca atra vṛkṣāḥ na oṣadhyaḥ na vallyaḥ na api vīrudhaḥ . snigdha-patrāḥ sthale yatra padminyaḥ phulla-paṅkajāḥ.. 11..
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः । कण्डुर्नाम महाभागः सत्यवादी तपोधनः॥ १२॥
प्रेक्षणीयाः सुगन्धाः च भ्रमरैः च विवर्जिताः । कण्डुः नाम महाभागः सत्य-वादी तपोधनः॥ १२॥
prekṣaṇīyāḥ sugandhāḥ ca bhramaraiḥ ca vivarjitāḥ . kaṇḍuḥ nāma mahābhāgaḥ satya-vādī tapodhanaḥ.. 12..
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः॥ १३॥
महा-ऋषिः परम-अमर्षी नियमैः दुष्प्रधर्षणः । तस्य तस्मिन् वने पुत्रः बालकः दश-वार्षिकः॥ १३॥
mahā-ṛṣiḥ parama-amarṣī niyamaiḥ duṣpradharṣaṇaḥ . tasya tasmin vane putraḥ bālakaḥ daśa-vārṣikaḥ.. 13..
प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः । तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्॥ १४॥
प्रणष्टः जीवित-अन्ताय क्रुद्धः तेन महा-मुनिः । तेन धर्म-आत्मना शप्तम् कृत्स्नम् तत्र महत् वनम्॥ १४॥
praṇaṣṭaḥ jīvita-antāya kruddhaḥ tena mahā-muniḥ . tena dharma-ātmanā śaptam kṛtsnam tatra mahat vanam.. 14..
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् । तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च॥ १५॥
अशरण्यम् दुराधर्षम् मृग-पक्षि-विवर्जितम् । तस्य ते कानन-अन्तान् तु गिरीणाम् कन्दराणि च॥ १५॥
aśaraṇyam durādharṣam mṛga-pakṣi-vivarjitam . tasya te kānana-antān tu girīṇām kandarāṇi ca.. 15..
प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः । तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्॥ १६॥
प्रभवाणि नदीनाम् च विचिन्वन्ति समाहिताः । तत्र च अपि महात्मानः न अपश्यन् जनकात्मजाम्॥ १६॥
prabhavāṇi nadīnām ca vicinvanti samāhitāḥ . tatra ca api mahātmānaḥ na apaśyan janakātmajām.. 16..
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः । ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्॥ १७॥
हर्तारम् रावणम् वा अपि सुग्रीव-प्रिय-कारिणः । ते प्रविश्य तु तम् भीमम् लता-गुल्म-समावृतम्॥ १७॥
hartāram rāvaṇam vā api sugrīva-priya-kāriṇaḥ . te praviśya tu tam bhīmam latā-gulma-samāvṛtam.. 17..
ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम् । तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्॥ १८॥
ददृशुः भीम-कर्माणम् असुरम् सुर-निर्भयम् । तम् दृष्ट्वा वानराः घोरम् स्थितम् शैलम् इव असुरम्॥ १८॥
dadṛśuḥ bhīma-karmāṇam asuram sura-nirbhayam . tam dṛṣṭvā vānarāḥ ghoram sthitam śailam iva asuram.. 18..
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् । सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली॥ १९॥
गाढम् परिहिताः सर्वे दृष्ट्वा तम् पर्वत-उपमम् । सः अपि तान् वानरान् सर्वान् नष्टाः स्थ इति अब्रवीत् बली॥ १९॥
gāḍham parihitāḥ sarve dṛṣṭvā tam parvata-upamam . saḥ api tān vānarān sarvān naṣṭāḥ stha iti abravīt balī.. 19..
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम् । तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा॥ २०॥
अभ्यधावत संक्रुद्धः मुष्टिम् उद्यम्य संगतम् । तम् आपतन्तम् सहसा वालि-पुत्रः अङ्गदः तदा॥ २०॥
abhyadhāvata saṃkruddhaḥ muṣṭim udyamya saṃgatam . tam āpatantam sahasā vāli-putraḥ aṅgadaḥ tadā.. 20..
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह । स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्॥ २१॥
रावणः अयम् इति ज्ञात्वा तलेन अभिजघान ह । स वालि-पुत्र-अभिहतः वक्त्रात् शोणितम् उद्वमन्॥ २१॥
rāvaṇaḥ ayam iti jñātvā talena abhijaghāna ha . sa vāli-putra-abhihataḥ vaktrāt śoṇitam udvaman.. 21..
असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः । ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः॥ २२॥
असुरः न्यपतत् भूमौ पर्यस्तः इव पर्वतः । ते तु तस्मिन् निरुच्छ्वासे वानराः जित-काशिनः॥ २२॥
asuraḥ nyapatat bhūmau paryastaḥ iva parvataḥ . te tu tasmin nirucchvāse vānarāḥ jita-kāśinaḥ.. 22..
व्यचिन्वन् प्रायशस्तत्र सर्वं ते गिरिगह्वरम् । विचितं तु ततः सर्वं सर्वे ते काननौकसः॥ २३॥
व्यचिन्वन् प्रायशस् तत्र सर्वम् ते गिरि-गह्वरम् । विचितम् तु ततस् सर्वम् सर्वे ते काननौकसः॥ २३॥
vyacinvan prāyaśas tatra sarvam te giri-gahvaram . vicitam tu tatas sarvam sarve te kānanaukasaḥ.. 23..
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् । ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः । एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २४॥
अन्यत् एव अपरम् घोरम् विविशुः गिरि-गह्वरम् । ते विचित्य पुनर् खिन्नाः विनिष्पत्य समागताः । एकान्ते वृक्ष-मूले तु निषेदुः दीन-मानसाः॥ २४॥
anyat eva aparam ghoram viviśuḥ giri-gahvaram . te vicitya punar khinnāḥ viniṣpatya samāgatāḥ . ekānte vṛkṣa-mūle tu niṣeduḥ dīna-mānasāḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४-४८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टचत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭacatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In