This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकोनपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekonapañcāśaḥ sargaḥ ..4..
अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥ १॥
अथ अङ्गदः तदा सर्वान् वानरान् इदम् अब्रवीत् । परिश्रान्तः महा-प्राज्ञः समाश्वास्य शनैस् वचः॥ १॥
atha aṅgadaḥ tadā sarvān vānarān idam abravīt . pariśrāntaḥ mahā-prājñaḥ samāśvāsya śanais vacaḥ.. 1..
वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः॥ २॥
वनानि गिरयः नद्यः दुर्गाणि गहनानि च । दरी गिरि-गुहाः च एव विचिताः सर्वम् अन्ततस्॥ २॥
vanāni girayaḥ nadyaḥ durgāṇi gahanāni ca . darī giri-guhāḥ ca eva vicitāḥ sarvam antatas.. 2..
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती॥ ३॥
तत्र तत्र सह अस्माभिः जानकी न च दृश्यते । तथा रक्षः-अपहर्ता च सीतायाः च एव दुष्कृती॥ ३॥
tatra tatra saha asmābhiḥ jānakī na ca dṛśyate . tathā rakṣaḥ-apahartā ca sītāyāḥ ca eva duṣkṛtī.. 3..
कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः॥ ४॥
कालः च नः महान् यातः सुग्रीवः च उग्र-शासनः । तस्मात् भवन्तः सहिताः विचिन्वन्तु समन्ततः॥ ४॥
kālaḥ ca naḥ mahān yātaḥ sugrīvaḥ ca ugra-śāsanaḥ . tasmāt bhavantaḥ sahitāḥ vicinvantu samantataḥ.. 4..
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्॥ ५॥
विहाय तन्द्रीम् शोकम् च निद्राम् च एव समुत्थिताम् । विचिनुध्वम् तथा सीताम् पश्यामः जनकात्मजाम्॥ ५॥
vihāya tandrīm śokam ca nidrām ca eva samutthitām . vicinudhvam tathā sītām paśyāmaḥ janakātmajām.. 5..
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम् । कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्॥ ६॥
अनिर्वेदम् च दाक्ष्यम् च मनसः च अपराजयम् । कार्य-सिद्धि-कराणि आहुः तस्मात् एतत् ब्रवीमि अहम्॥ ६॥
anirvedam ca dākṣyam ca manasaḥ ca aparājayam . kārya-siddhi-karāṇi āhuḥ tasmāt etat bravīmi aham.. 6..
अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः । खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम्॥ ७॥
अद्य अपि इदम् वनम् दुर्गम् विचिन्वन्तु वनौकसः । खेदम् त्यक्त्वा पुनर् सर्वम् वनम् एव विचिन्वताम्॥ ७॥
adya api idam vanam durgam vicinvantu vanaukasaḥ . khedam tyaktvā punar sarvam vanam eva vicinvatām.. 7..
अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम् । परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम्॥ ८॥
अवश्यम् कुर्वताम् तस्य दृश्यते कर्मणः फलम् । परम् निर्वेदम् आगम्य नहि ना उन्मीलनम् क्षमम्॥ ८॥
avaśyam kurvatām tasya dṛśyate karmaṇaḥ phalam . param nirvedam āgamya nahi nā unmīlanam kṣamam.. 8..
सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः । भेतव्यं तस्य सततं रामस्य च महात्मनः॥ ९॥
सुग्रीवः क्रोधनः राजा तीक्ष्ण-दण्डः च वानराः । भेतव्यम् तस्य सततम् रामस्य च महात्मनः॥ ९॥
sugrīvaḥ krodhanaḥ rājā tīkṣṇa-daṇḍaḥ ca vānarāḥ . bhetavyam tasya satatam rāmasya ca mahātmanaḥ.. 9..
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः॥ १०॥
हित-अर्थम् एतत् उक्तम् वः क्रियताम् यदि रोचते । उच्यताम् हि क्षमम् यत् तत् सर्वेषाम् एव वानराः॥ १०॥
hita-artham etat uktam vaḥ kriyatām yadi rocate . ucyatām hi kṣamam yat tat sarveṣām eva vānarāḥ.. 10..
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया॥ ११॥
अङ्गदस्य वचः श्रुत्वा वचनम् गन्धमादनः । उवाच व्यक्तया वाचा पिपासा-श्रम-खिन्नया॥ ११॥
aṅgadasya vacaḥ śrutvā vacanam gandhamādanaḥ . uvāca vyaktayā vācā pipāsā-śrama-khinnayā.. 11..
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥ १२॥
सदृशम् खलु वः वाक्यम् अङ्गदः यत् उवाच ह । हितम् च एव अनुकूलम् च क्रियताम् अस्य भाषितम्॥ १२॥
sadṛśam khalu vaḥ vākyam aṅgadaḥ yat uvāca ha . hitam ca eva anukūlam ca kriyatām asya bhāṣitam.. 12..
पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च॥ १३॥
पुनर् मार्गामहे शैलान् कन्दरान् च शिलान् तथा । काननानि च शून्यानि गिरि-प्रस्रवणानि च॥ १३॥
punar mārgāmahe śailān kandarān ca śilān tathā . kānanāni ca śūnyāni giri-prasravaṇāni ca.. 13..
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः॥ १४॥
यथा उद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनम् सर्वे गिरि-दुर्गाणि संगताः॥ १४॥
yathā uddiṣṭāni sarvāṇi sugrīveṇa mahātmanā . vicinvantu vanam sarve giri-durgāṇi saṃgatāḥ.. 14..
ततः समुत्थाय पुनर्वानरास्ते महाबलाः । विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्॥ १५॥
ततस् समुत्थाय पुनर् वानराः ते महा-बलाः । विन्ध्य-कानन-संकीर्णाम् विचेरुः दक्षिणाम् दिशम्॥ १५॥
tatas samutthāya punar vānarāḥ te mahā-balāḥ . vindhya-kānana-saṃkīrṇām viceruḥ dakṣiṇām diśam.. 15..
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः॥ १६॥
ते शारद-अभ्र-प्रतिमम् श्रीमत्-रजत-पर्वतम् । शृङ्गवन्तम् दरीवन्तम् अधिरुह्य च वानराः॥ १६॥
te śārada-abhra-pratimam śrīmat-rajata-parvatam . śṛṅgavantam darīvantam adhiruhya ca vānarāḥ.. 16..
तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च । विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः॥ १७॥
तत्र लोध्र-वनम् रम्यम् सप्तपर्ण-वनानि च । विचिन्वन्तः हरि-वराः सीता-दर्शन-कांक्षिणः॥ १७॥
tatra lodhra-vanam ramyam saptaparṇa-vanāni ca . vicinvantaḥ hari-varāḥ sītā-darśana-kāṃkṣiṇaḥ.. 17..
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः । न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्॥ १८॥
तस्य अग्रम् अधिरूढाः ते श्रान्ताः विपुल-विक्रमाः । न पश्यन्ति स्म वैदेहीम् रामस्य महिषीम् प्रियाम्॥ १८॥
tasya agram adhirūḍhāḥ te śrāntāḥ vipula-vikramāḥ . na paśyanti sma vaidehīm rāmasya mahiṣīm priyām.. 18..
ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम् । अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९॥
ते तु दृष्टि-गतम् दृष्ट्वा तम् शैलम् बहु-कन्दरम् । अध्यारोहन्त हरयः वीक्षमाणाः समन्ततः॥ १९॥
te tu dṛṣṭi-gatam dṛṣṭvā tam śailam bahu-kandaram . adhyārohanta harayaḥ vīkṣamāṇāḥ samantataḥ.. 19..
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥ २०॥
अवरुह्य ततस् भूमिम् श्रान्ताः विगत-चेतसः । स्थिताः मुहूर्तम् तत्र अथ वृक्ष-मूलम् उपाश्रिताः॥ २०॥
avaruhya tatas bhūmim śrāntāḥ vigata-cetasaḥ . sthitāḥ muhūrtam tatra atha vṛkṣa-mūlam upāśritāḥ.. 20..
ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः । पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥ २१॥
ते मुहूर्तम् समाश्वस्ताः किंचिद् भग्न-परिश्रमाः । पुनर् एव उद्यताः कृत्स्नाम् मार्गितुम् दक्षिणाम् दिशम्॥ २१॥
te muhūrtam samāśvastāḥ kiṃcid bhagna-pariśramāḥ . punar eva udyatāḥ kṛtsnām mārgitum dakṣiṇām diśam.. 21..
हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः । विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः॥ २२॥
हनुमत्-प्रमुखाः तावत् प्रस्थिताः प्लवग-ऋषभाः । विन्ध्यम् एव आदितस् कृत्वा विचेरुः च समन्ततः॥ २२॥
hanumat-pramukhāḥ tāvat prasthitāḥ plavaga-ṛṣabhāḥ . vindhyam eva āditas kṛtvā viceruḥ ca samantataḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४-४९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकोनपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekonapañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In