This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcamaḥ sargaḥ ..4..
ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ॥ १॥
ऋष्यमूकात् तु हनुमान् गत्वा तम् मलयम् गिरिम् । आचचक्षे तदा वीरौ कपि-राजाय राघवौ॥ १॥
ṛṣyamūkāt tu hanumān gatvā tam malayam girim . ācacakṣe tadā vīrau kapi-rājāya rāghavau.. 1..
अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः॥ २॥
अयम् रामः महा-प्राज्ञ सम्प्राप्तः दृढ-विक्रमः । लक्ष्मणेन सह भ्रात्रा रामः अयम् सत्य-विक्रमः॥ २॥
ayam rāmaḥ mahā-prājña samprāptaḥ dṛḍha-vikramaḥ . lakṣmaṇena saha bhrātrā rāmaḥ ayam satya-vikramaḥ.. 2..
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितश्चैव पितुर्निर्देशकारकः॥ ३॥
इक्ष्वाकूणाम् कुले जातः रामः दशरथ-आत्मजः । धर्मे निगदितः च एव पितुः निर्देश-कारकः॥ ३॥
ikṣvākūṇām kule jātaḥ rāmaḥ daśaratha-ātmajaḥ . dharme nigaditaḥ ca eva pituḥ nirdeśa-kārakaḥ.. 3..
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः॥ ४॥
राजसूय-अश्वमेधैः च वह्निः येन अभितर्पितः । दक्षिणाः च तथा उत्सृष्टाः गावः शत-सहस्रशस्॥ ४॥
rājasūya-aśvamedhaiḥ ca vahniḥ yena abhitarpitaḥ . dakṣiṇāḥ ca tathā utsṛṣṭāḥ gāvaḥ śata-sahasraśas.. 4..
तपसा सत्यवाक्येन वसुधा येन पालिता । स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः॥ ५॥
तपसा सत्य-वाक्येन वसुधा येन पालिता । स्त्री-हेतोः तस्य पुत्रः अयम् रामः अरण्यम् समागतः॥ ५॥
tapasā satya-vākyena vasudhā yena pālitā . strī-hetoḥ tasya putraḥ ayam rāmaḥ araṇyam samāgataḥ.. 5..
तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः॥ ६॥
तस्य अस्य वसतः अरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वाम् शरणम् आगतः॥ ६॥
tasya asya vasataḥ araṇye niyatasya mahātmanaḥ . rāvaṇena hṛtā bhāryā sa tvām śaraṇam āgataḥ.. 6..
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ॥ ७॥
भवता सख्य-कामौ तौ भ्रातरौ राम-लक्ष्मणौ । प्रगृह्य च अर्चयस्व एतौ पूजनीयतमौ उभौ॥ ७॥
bhavatā sakhya-kāmau tau bhrātarau rāma-lakṣmaṇau . pragṛhya ca arcayasva etau pūjanīyatamau ubhau.. 7..
श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः । दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम्॥ ८॥
श्रुत्वा हनूमतः वाक्यम् सुग्रीवः वानर-अधिपः । दर्शनीयतमः भूत्वा प्रीत्या उवाच च राघवम्॥ ८॥
śrutvā hanūmataḥ vākyam sugrīvaḥ vānara-adhipaḥ . darśanīyatamaḥ bhūtvā prītyā uvāca ca rāghavam.. 8..
भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः॥ ९॥
भवान् धर्म-विनीतः च सु तपाः सर्व-वत्सलः । आख्याताः वायुपुत्रेण तत्त्वतः मे भवत्-गुणाः॥ ९॥
bhavān dharma-vinītaḥ ca su tapāḥ sarva-vatsalaḥ . ākhyātāḥ vāyuputreṇa tattvataḥ me bhavat-guṇāḥ.. 9..
तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो । यत्त्वमिच्छसि सौहार्दं वानरेण मया सह॥ १०॥
तत् मम एव एष सत्कारः लाभः च एव उत्तमः प्रभो । यत् त्वम् इच्छसि सौहार्दम् वानरेण मया सह॥ १०॥
tat mama eva eṣa satkāraḥ lābhaḥ ca eva uttamaḥ prabho . yat tvam icchasi sauhārdam vānareṇa mayā saha.. 10..
रोचते यदि मे सख्यं बाहुरेष प्रसारितः । गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा॥ ११॥
रोचते यदि मे सख्यम् बाहुः एष प्रसारितः । गृह्यताम् पाणिना पाणिः मर्यादा बध्यताम् ध्रुवा॥ ११॥
rocate yadi me sakhyam bāhuḥ eṣa prasāritaḥ . gṛhyatām pāṇinā pāṇiḥ maryādā badhyatām dhruvā.. 11..
एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम् । सम्प्रहृष्टमना हस्तं पीडयामास पाणिना॥ १२॥
एतत् तु वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् । सम्प्रहृष्ट-मनाः हस्तम् पीडयामास पाणिना॥ १२॥
etat tu vacanam śrutvā sugrīvasya subhāṣitam . samprahṛṣṭa-manāḥ hastam pīḍayāmāsa pāṇinā.. 12..
हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम् । ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः॥ १३॥
हृष्टः सौहृदम् आलम्ब्य पर्यष्वजत पीडितम् । ततस् हनूमान् संत्यज्य भिक्षु-रूपम् अरिंदमः॥ १३॥
hṛṣṭaḥ sauhṛdam ālambya paryaṣvajata pīḍitam . tatas hanūmān saṃtyajya bhikṣu-rūpam ariṃdamaḥ.. 13..
काष्ठयोः स्वेन रूपेण जनयामास पावकम् । दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्॥ १४॥
काष्ठयोः स्वेन रूपेण जनयामास पावकम् । दीप्यमानम् ततस् वह्निम् पुष्पैः अभ्यर्च्य सत्कृतम्॥ १४॥
kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam . dīpyamānam tatas vahnim puṣpaiḥ abhyarcya satkṛtam.. 14..
तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः । ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्॥ १५॥
तयोः मध्ये तु सु प्रीतः निदधौ सु समाहितः । ततस् अग्निम् दीप्यमानम् तौ चक्रतुः च प्रदक्षिणम्॥ १५॥
tayoḥ madhye tu su prītaḥ nidadhau su samāhitaḥ . tatas agnim dīpyamānam tau cakratuḥ ca pradakṣiṇam.. 15..
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ । ततः सुप्रीतमनसौ तावुभौ हरिराघवौ॥ १६॥
सुग्रीवः राघवः च एव वयस्य-त्वम् उपागतौ । ततस् सु प्रीत-मनसौ तौ उभौ हरि-राघवौ॥ १६॥
sugrīvaḥ rāghavaḥ ca eva vayasya-tvam upāgatau . tatas su prīta-manasau tau ubhau hari-rāghavau.. 16..
अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः । त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ॥ १७॥
अन्योन्यम् अभिवीक्षन्तौ न तृप्तिम् अभिजग्मतुः । त्वम् वयस्यः असि हृद्यः मे हि एकम् दुःखम् सुखम् च नौ॥ १७॥
anyonyam abhivīkṣantau na tṛptim abhijagmatuḥ . tvam vayasyaḥ asi hṛdyaḥ me hi ekam duḥkham sukham ca nau.. 17..
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् । ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्॥ १८॥
सुग्रीवः राघवम् वाक्यम् इति उवाच प्रहृष्ट-वत् । ततस् सुपर्ण-बहुलाम् भङ्क्त्वा शाखाम् सु पुष्पिताम्॥ १८॥
sugrīvaḥ rāghavam vākyam iti uvāca prahṛṣṭa-vat . tatas suparṇa-bahulām bhaṅktvā śākhām su puṣpitām.. 18..
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः । लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः॥ १९॥
सालस्य आस्तीर्य सुग्रीवः निषसाद स राघवः । लक्ष्मणाय अथ संहृष्टः हनुमान् मारुतात्मजः॥ १९॥
sālasya āstīrya sugrīvaḥ niṣasāda sa rāghavaḥ . lakṣmaṇāya atha saṃhṛṣṭaḥ hanumān mārutātmajaḥ.. 19..
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् । ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा॥ २०॥
शाखाम् चन्दन-वृक्षस्य ददौ परम-पुष्पिताम् । ततस् प्रहृष्टः सुग्रीवः श्लक्ष्णम् मधुरया गिरा॥ २०॥
śākhām candana-vṛkṣasya dadau parama-puṣpitām . tatas prahṛṣṭaḥ sugrīvaḥ ślakṣṇam madhurayā girā.. 20..
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः । अहं विनिकृतो राम चरामीह भयार्दितः॥ २१॥
प्रत्युवाच तदा रामम् हर्ष-व्याकुल-लोचनः । अहम् विनिकृतः राम चरामि इह भय-अर्दितः॥ २१॥
pratyuvāca tadā rāmam harṣa-vyākula-locanaḥ . aham vinikṛtaḥ rāma carāmi iha bhaya-arditaḥ.. 21..
हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः । सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः॥ २२॥
हृत-भार्यः वने त्रस्तः दुर्गम-एतत् उपाश्रितः । सः अहम् त्रस्तः वने भीतः वसामि उद्भ्रान्त-चेतनः॥ २२॥
hṛta-bhāryaḥ vane trastaḥ durgama-etat upāśritaḥ . saḥ aham trastaḥ vane bhītaḥ vasāmi udbhrānta-cetanaḥ.. 22..
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव । वालिनो मे महाभाग भयार्तस्याभयं कुरु॥ २३॥
वालिना निकृतः भ्रात्रा कृत-वैरः च राघव । वालिनः मे महाभाग भय-आर्तस्य अभयम् कुरु॥ २३॥
vālinā nikṛtaḥ bhrātrā kṛta-vairaḥ ca rāghava . vālinaḥ me mahābhāga bhaya-ārtasya abhayam kuru.. 23..
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा । एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः॥ २४॥
कर्तुम् अर्हसि काकुत्स्थ भयम् मे न भवेत् यथा । एवम् उक्तः तु तेजस्वी धर्म-ज्ञः धर्म-वत्सलः॥ २४॥
kartum arhasi kākutstha bhayam me na bhavet yathā . evam uktaḥ tu tejasvī dharma-jñaḥ dharma-vatsalaḥ.. 24..
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव । उपकारफलं मित्रं विदितं मे महाकपे॥ २५॥
प्रत्यभाषत काकुत्स्थः सुग्रीवम् प्रहसन् इव । उपकार-फलम् मित्रम् विदितम् मे महा-कपे॥ २५॥
pratyabhāṣata kākutsthaḥ sugrīvam prahasan iva . upakāra-phalam mitram viditam me mahā-kape.. 25..
वालिनं तं वधिष्यामि तव भार्यापहारिणम् । अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः॥ २६॥
वालिनम् तम् वधिष्यामि तव भार्या-अपहारिणम् । अमोघाः सूर्य-संकाशाः मम इमे निशिताः शराः॥ २६॥
vālinam tam vadhiṣyāmi tava bhāryā-apahāriṇam . amoghāḥ sūrya-saṃkāśāḥ mama ime niśitāḥ śarāḥ.. 26..
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः॥ २७॥
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः । कङ्क-पत्र-प्रतिच्छन्नाः महा-इन्द्र-अशनि-संनिभाः॥ २७॥
tasmin vālini durvṛtte nipatiṣyanti vegitāḥ . kaṅka-patra-praticchannāḥ mahā-indra-aśani-saṃnibhāḥ.. 27..
तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव । तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः॥ २८॥
तीक्ष्ण-अग्राः ऋजु-पर्वाणः स रोषाः भुजगाः इव । तम् अद्य वालिनम् पश्य तीक्ष्णैः आशीविष-उपमैः॥ २८॥
tīkṣṇa-agrāḥ ṛju-parvāṇaḥ sa roṣāḥ bhujagāḥ iva . tam adya vālinam paśya tīkṣṇaiḥ āśīviṣa-upamaiḥ.. 28..
शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम् । स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत्॥ २९॥
शरैः विनिहतम् भूमौ प्रकीर्णम् इव पर्वतम् । स तु तत् वचनम् श्रुत्वा राघवस्य आत्मनः हितम् । सुग्रीवः परम-प्रीतः परमम् वाक्यम् अब्रवीत्॥ २९॥
śaraiḥ vinihatam bhūmau prakīrṇam iva parvatam . sa tu tat vacanam śrutvā rāghavasya ātmanaḥ hitam . sugrīvaḥ parama-prītaḥ paramam vākyam abravīt.. 29..
तव प्रसादेन नृसिंह वीर प्रियां च राज्यं च समाप्नुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा न हिंस्यात् स पुनर्ममाग्रजम्॥ ३०॥
तव प्रसादेन नृसिंह वीर प्रियाम् च राज्यम् च समाप्नुयाम् अहम् । तथा कुरु त्वम् नरदेव वैरिणम् यथा न हिंस्यात् स पुनर् मम अग्रजम्॥ ३०॥
tava prasādena nṛsiṃha vīra priyām ca rājyam ca samāpnuyām aham . tathā kuru tvam naradeva vairiṇam yathā na hiṃsyāt sa punar mama agrajam.. 30..
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति॥ ३१॥
सीता-कपि-इन्द्र-क्षणदा-चराणाम् राजीव-हेम-ज्वलन-उपमानि । सुग्रीव-राम-प्रणय-प्रसङ्गे वामानि नेत्राणि समम् स्फुरन्ति॥ ३१॥
sītā-kapi-indra-kṣaṇadā-carāṇām rājīva-hema-jvalana-upamāni . sugrīva-rāma-praṇaya-prasaṅge vāmāni netrāṇi samam sphuranti.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चमः सर्गः ॥४-५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In