This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcāśaḥ sargaḥ ..4..
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः । विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च॥ १॥
सह तारा-अङ्गदाभ्याम् तु संगम्य हनुमान् कपिः । विचिनोति च विन्ध्यस्य गुहाः च गहनानि च॥ १॥
saha tārā-aṅgadābhyām tu saṃgamya hanumān kapiḥ . vicinoti ca vindhyasya guhāḥ ca gahanāni ca.. 1..
सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा । विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च॥ २॥
सिंह-शार्दूल-जुष्टाः च गुहाः च परितस् तदा । विषमेषु नग-इन्द्रस्य महा-प्रस्रवणेषु च॥ २॥
siṃha-śārdūla-juṣṭāḥ ca guhāḥ ca paritas tadā . viṣameṣu naga-indrasya mahā-prasravaṇeṣu ca.. 2..
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् । तेषां तत्रैव वसतां स कालो व्यत्यवर्तत॥ ३॥
आसेदुः तस्य शैलस्य कोटिम् दक्षिण-पश्चिमाम् । तेषाम् तत्र एव वसताम् स कालः व्यत्यवर्तत॥ ३॥
āseduḥ tasya śailasya koṭim dakṣiṇa-paścimām . teṣām tatra eva vasatām sa kālaḥ vyatyavartata.. 3..
स हि देशो दुरन्वेष्यो गुहागहनवान् महान् । तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्॥ ४॥
स हि देशः दुरन्वेष्यः गुहा-गहनवान् महान् । तत्र वायु-सुतः सर्वम् विचिनोति स्म पर्वतम्॥ ४॥
sa hi deśaḥ duranveṣyaḥ guhā-gahanavān mahān . tatra vāyu-sutaḥ sarvam vicinoti sma parvatam.. 4..
परस्परेण रहिता अन्योन्यस्याविदूरतः । गजो गवाक्षो गवयः शरभो गन्धमादनः॥ ५॥
परस्परेण रहिताः अन्योन्यस्य अविदूरतः । गजः गवाक्षः गवयः शरभः गन्धमादनः॥ ५॥
paraspareṇa rahitāḥ anyonyasya avidūrataḥ . gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ.. 5..
मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि । अङ्गदो युवराजश्च तारश्च वनगोचरः॥ ६॥
मैन्दः च द्विविदः च एव हनूमान् जाम्बवान् अपि । अङ्गदः युवराजः च तारः च वनगोचरः॥ ६॥
maindaḥ ca dvividaḥ ca eva hanūmān jāmbavān api . aṅgadaḥ yuvarājaḥ ca tāraḥ ca vanagocaraḥ.. 6..
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् । विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम्॥ ७॥
गिरि-जाल-आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम् । विचिन्वन्तः ततस् तत्र ददृशुः विवृतम् बिलम्॥ ७॥
giri-jāla-āvṛtān deśān mārgitvā dakṣiṇām diśam . vicinvantaḥ tatas tatra dadṛśuḥ vivṛtam bilam.. 7..
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् । क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः॥ ८॥
दुर्गम् ऋक्षबिलम् नाम दानवेन अभिरक्षितम् । क्षुध्-पिपासा-परीताः तु श्रान्ताः तु सलिल-अर्थिनः॥ ८॥
durgam ṛkṣabilam nāma dānavena abhirakṣitam . kṣudh-pipāsā-parītāḥ tu śrāntāḥ tu salila-arthinaḥ.. 8..
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् । तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्॥ ९॥
अवकीर्णम् लता-वृक्षैः ददृशुः ते महा-बिलम् । तत्र क्रौञ्चाः च हंसाः च सारसाः च अपि निष्क्रमन्॥ ९॥
avakīrṇam latā-vṛkṣaiḥ dadṛśuḥ te mahā-bilam . tatra krauñcāḥ ca haṃsāḥ ca sārasāḥ ca api niṣkraman.. 9..
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः । ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम्॥ १०॥
जल-आर्द्राः चक्रवाकाः च रक्त-अङ्गाः पद्म-रेणुभिः । ततस् तत् बिलम् आसाद्य सुगन्धि दुरतिक्रमम्॥ १०॥
jala-ārdrāḥ cakravākāḥ ca rakta-aṅgāḥ padma-reṇubhiḥ . tatas tat bilam āsādya sugandhi duratikramam.. 10..
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः । संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः॥ ११॥
विस्मय-व्यग्र-मनसः बभूवुः वानर-ऋषभाः । संजात-परिशङ्काः ते तत् बिलम् प्लवग-उत्तमाः॥ ११॥
vismaya-vyagra-manasaḥ babhūvuḥ vānara-ṛṣabhāḥ . saṃjāta-pariśaṅkāḥ te tat bilam plavaga-uttamāḥ.. 11..
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः । नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्॥ १२॥
अभ्यपद्यन्त संहृष्टाः तेजोवन्तः महा-बलाः । नाना सत्त्व-समाकीर्णम् दैत्य-इन्द्र-निलय-उपमम्॥ १२॥
abhyapadyanta saṃhṛṣṭāḥ tejovantaḥ mahā-balāḥ . nānā sattva-samākīrṇam daitya-indra-nilaya-upamam.. 12..
दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः । ततः पर्वतकूटाभो हनूमान् मारुतात्मजः॥ १३॥
दुर्दर्शम् इव घोरम् च दुर्विगाह्यम् च सर्वशस् । ततस् पर्वत-कूट-आभः हनूमान् मारुतात्मजः॥ १३॥
durdarśam iva ghoram ca durvigāhyam ca sarvaśas . tatas parvata-kūṭa-ābhaḥ hanūmān mārutātmajaḥ.. 13..
अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः । गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्॥ १४॥
अब्रवीत् वानरान् घोरान् कान्तार-वन-कोविदः । गिरि-जाल-आवृतान् देशान् मार्गित्वा दक्षिणाम् दिशम्॥ १४॥
abravīt vānarān ghorān kāntāra-vana-kovidaḥ . giri-jāla-āvṛtān deśān mārgitvā dakṣiṇām diśam.. 14..
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् । अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः॥ १५॥
वयम् सर्वे परिश्रान्ताः न च पश्याम मैथिलीम् । अस्मात् च अपि बिलात् हंसाः क्रौञ्चाः च सह सारसैः॥ १५॥
vayam sarve pariśrāntāḥ na ca paśyāma maithilīm . asmāt ca api bilāt haṃsāḥ krauñcāḥ ca saha sārasaiḥ.. 15..
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः । नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः॥ १६॥
जल-आर्द्राः चक्रवाकाः च निष्पतन्ति स्म सर्वशस् । नूनम् सलिलवान् अत्र कूपः वा यदि वा ह्रदः॥ १६॥
jala-ārdrāḥ cakravākāḥ ca niṣpatanti sma sarvaśas . nūnam salilavān atra kūpaḥ vā yadi vā hradaḥ.. 16..
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः । इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम्॥ १७॥
तथा च इमे बिल-द्वारे स्निग्धाः तिष्ठन्ति पादपाः । इति उक्ताः तत् बिलम् सर्वे विविशुः तिमिर-आवृतम्॥ १७॥
tathā ca ime bila-dvāre snigdhāḥ tiṣṭhanti pādapāḥ . iti uktāḥ tat bilam sarve viviśuḥ timira-āvṛtam.. 17..
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् । निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः॥ १८॥
अचन्द्र-सूर्यम् हरयः ददृशुः रोमहर्षणम् । निशाम्य तस्मात् सिंहान् च तान् तान् च मृग-पक्षिणः॥ १८॥
acandra-sūryam harayaḥ dadṛśuḥ romaharṣaṇam . niśāmya tasmāt siṃhān ca tān tān ca mṛga-pakṣiṇaḥ.. 18..
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् । न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः॥ १९॥
प्रविष्टाः हरि-शार्दूलाः बिलम् तिमिर-संवृतम् । न तेषाम् सज्जते दृष्टिः न तेजः न पराक्रमः॥ १९॥
praviṣṭāḥ hari-śārdūlāḥ bilam timira-saṃvṛtam . na teṣām sajjate dṛṣṭiḥ na tejaḥ na parākramaḥ.. 19..
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते । ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः॥ २०॥
वायोः इव गतिः तेषाम् दृष्टिः तमसि वर्तते । ते प्रविष्टाः तु वेगेन तत् बिलम् कपि-कुञ्जराः॥ २०॥
vāyoḥ iva gatiḥ teṣām dṛṣṭiḥ tamasi vartate . te praviṣṭāḥ tu vegena tat bilam kapi-kuñjarāḥ.. 20..
प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम् । ततस्तस्मिन् बिले भीमे नानापादपसंकुले॥ २१॥
प्रकाशम् च अभिरामम् च ददृशुः देशम् उत्तमम् । ततस् तस्मिन् बिले भीमे नाना पादप-संकुले॥ २१॥
prakāśam ca abhirāmam ca dadṛśuḥ deśam uttamam . tatas tasmin bile bhīme nānā pādapa-saṃkule.. 21..
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् । ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः॥ २२॥
अन्योन्यम् सम्परिष्वज्य जग्मुः योजनम् अन्तरम् । ते नष्ट-संज्ञाः तृषिताः सम्भ्रान्ताः सलिल-अर्थिनः॥ २२॥
anyonyam sampariṣvajya jagmuḥ yojanam antaram . te naṣṭa-saṃjñāḥ tṛṣitāḥ sambhrāntāḥ salila-arthinaḥ.. 22..
परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः । ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः॥ २३॥
परिपेतुः बिले तस्मिन् कंचिद् कालम् अतन्द्रिताः । ते कृशाः दीन-वदनाः परिश्रान्ताः प्लवङ्गमाः॥ २३॥
paripetuḥ bile tasmin kaṃcid kālam atandritāḥ . te kṛśāḥ dīna-vadanāḥ pariśrāntāḥ plavaṅgamāḥ.. 23..
आलोकं ददृशुर्वीरा निराशा जीविते यदा । ततस्तं देशमागम्य सौम्या वितिमिरं वनम्॥ २४॥
आलोकम् ददृशुः वीराः निराशाः जीविते यदा । ततस् तम् देशम् आगम्य सौम्याः वितिमिरम् वनम्॥ २४॥
ālokam dadṛśuḥ vīrāḥ nirāśāḥ jīvite yadā . tatas tam deśam āgamya saumyāḥ vitimiram vanam.. 24..
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् । सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान्॥ २५॥
ददृशुः काञ्चनान् वृक्षान् दीप्त-वैश्वानर-प्रभान् । सालान् तालान् तमालान् च पुंनागान् वञ्जुलान् धवान्॥ २५॥
dadṛśuḥ kāñcanān vṛkṣān dīpta-vaiśvānara-prabhān . sālān tālān tamālān ca puṃnāgān vañjulān dhavān.. 25..
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् । स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा॥ २६॥
चम्पकान् नागवृक्षान् च कर्णिकारान् च पुष्पितान् । स्तबकैः काञ्चनैः चित्रैः रक्तैः किसलयैः तथा॥ २६॥
campakān nāgavṛkṣān ca karṇikārān ca puṣpitān . stabakaiḥ kāñcanaiḥ citraiḥ raktaiḥ kisalayaiḥ tathā.. 26..
आपीडैश्च लताभिश्च हेमाभरणभूषितान् । तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान्॥ २७॥
आपीडैः च लताभिः च हेम-आभरण-भूषितान् । तरुण-आदित्य-संकाशान् वैदूर्य-मय-वेदिकान्॥ २७॥
āpīḍaiḥ ca latābhiḥ ca hema-ābharaṇa-bhūṣitān . taruṇa-āditya-saṃkāśān vaidūrya-maya-vedikān.. 27..
बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् । नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः॥ २८॥
बिभ्राजमानान् वपुषा पादपान् च हिरण्मयान् । नील-वैदूर्य-वर्णाः च पद्मिनीः पतगैः वृताः॥ २८॥
bibhrājamānān vapuṣā pādapān ca hiraṇmayān . nīla-vaidūrya-varṇāḥ ca padminīḥ patagaiḥ vṛtāḥ.. 28..
महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः । जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः॥ २९॥
महद्भिः काञ्चनैः वृक्षैः वृताः बाल-अर्क-संनिभैः । जातरूप-मयैः मत्स्यैः महद्भिः च अथ पङ्कजैः॥ २९॥
mahadbhiḥ kāñcanaiḥ vṛkṣaiḥ vṛtāḥ bāla-arka-saṃnibhaiḥ . jātarūpa-mayaiḥ matsyaiḥ mahadbhiḥ ca atha paṅkajaiḥ.. 29..
नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः । काञ्चनानि विमानानि राजतानि तथैव च॥ ३०॥
नलिनीः तत्र ददृशुः प्रसन्न-सलिल-आयुताः । काञ्चनानि विमानानि राजतानि तथा एव च॥ ३०॥
nalinīḥ tatra dadṛśuḥ prasanna-salila-āyutāḥ . kāñcanāni vimānāni rājatāni tathā eva ca.. 30..
तपनीयगवाक्षाणि मुक्ताजालावृतानि च । हैमराजतभौमानि वैदूर्यमणिमन्ति च॥ ३१॥
तपनीय-गवाक्षाणि मुक्ता-जाल-आवृतानि च । हैम-राजत-भौमानि वैदूर्य-मणिमन्ति च॥ ३१॥
tapanīya-gavākṣāṇi muktā-jāla-āvṛtāni ca . haima-rājata-bhaumāni vaidūrya-maṇimanti ca.. 31..
ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः । पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्॥ ३२॥
ददृशुः तत्र हरयः गृह-मुख्यानि सर्वशस् । पुष्पितान् फलिनः वृक्षान् प्रवाल-मणि-संनिभान्॥ ३२॥
dadṛśuḥ tatra harayaḥ gṛha-mukhyāni sarvaśas . puṣpitān phalinaḥ vṛkṣān pravāla-maṇi-saṃnibhān.. 32..
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः । मणिकाञ्चनचित्राणि शयनान्यासनानि च॥ ३३॥
काञ्चन-भ्रमरान् च एव मधूनि च समन्ततः । मणि-काञ्चन-चित्राणि शयनानि आसनानि च॥ ३३॥
kāñcana-bhramarān ca eva madhūni ca samantataḥ . maṇi-kāñcana-citrāṇi śayanāni āsanāni ca.. 33..
विविधानि विशालानि ददृशुस्ते समन्ततः । हैमराजतकांस्यानां भाजनानां च राशयः॥ ३४॥
विविधानि विशालानि ददृशुः ते समन्ततः । हैम-राजत-कांस्यानाम् भाजनानाम् च राशयः॥ ३४॥
vividhāni viśālāni dadṛśuḥ te samantataḥ . haima-rājata-kāṃsyānām bhājanānām ca rāśayaḥ.. 34..
अगुरूणां च दिव्यानां चन्दनानां च संचयान् । शुचीन्यभ्यवहाराणि मूलानि च फलानि च॥ ३५॥
अगुरूणाम् च दिव्यानाम् चन्दनानाम् च संचयान् । शुचीनि अभ्यवहाराणि मूलानि च फलानि च॥ ३५॥
agurūṇām ca divyānām candanānām ca saṃcayān . śucīni abhyavahārāṇi mūlāni ca phalāni ca.. 35..
महार्हाणि च यानानि मधूनि रसवन्ति च । दिव्यानामम्बराणां च महार्हाणां च संचयान्॥ ३६॥
महार्हाणि च यानानि मधूनि रसवन्ति च । दिव्यानाम् अम्बराणाम् च महार्हाणाम् च संचयान्॥ ३६॥
mahārhāṇi ca yānāni madhūni rasavanti ca . divyānām ambarāṇām ca mahārhāṇām ca saṃcayān.. 36..
कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान्॥ ३७॥
कम्बलानाम् च चित्राणाम् अजिनानाम् च संचयान् । तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानर-प्रभान्॥ ३७॥
kambalānām ca citrāṇām ajinānām ca saṃcayān . tatra tatra ca vinyastān dīptān vaiśvānara-prabhān.. 37..
ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः॥ ३८॥
ददृशुः वानराः शुभ्रान् जातरूपस्य संचयान् । तत्र तत्र विचिन्वन्तः बिले तत्र महा-प्रभाः॥ ३८॥
dadṛśuḥ vānarāḥ śubhrān jātarūpasya saṃcayān . tatra tatra vicinvantaḥ bile tatra mahā-prabhāḥ.. 38..
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः । तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम्॥ ३९॥
ददृशुः वानराः शूराः स्त्रियम् कांचिद् अदूरतः । ताम् च ते ददृशुः तत्र चीर-कृष्ण-अजिन-अम्बराम्॥ ३९॥
dadṛśuḥ vānarāḥ śūrāḥ striyam kāṃcid adūrataḥ . tām ca te dadṛśuḥ tatra cīra-kṛṣṇa-ajina-ambarām.. 39..
तापसीं नियताहारां ज्वलन्तीमिव तेजसा । विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः । पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम्॥ ४०॥
तापसीम् नियत-आहाराम् ज्वलन्तीम् इव तेजसा । विस्मिताः हरयः तत्र व्यवतिष्ठन्त सर्वशस् । पप्रच्छ हनुमान् तत्र का असि त्वम् कस्य वा बिलम्॥ ४०॥
tāpasīm niyata-āhārām jvalantīm iva tejasā . vismitāḥ harayaḥ tatra vyavatiṣṭhanta sarvaśas . papraccha hanumān tatra kā asi tvam kasya vā bilam.. 40..
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य॥ ४१॥
ततस् हनूमान् गिरि-संनिकाशः कृताञ्जलिः ताम् अभिवाद्य वृद्धाम् । पप्रच्छ का त्वम् भवनम् बिलम् च रत्नानि च इमानि वदस्व कस्य॥ ४१॥
tatas hanūmān giri-saṃnikāśaḥ kṛtāñjaliḥ tām abhivādya vṛddhām . papraccha kā tvam bhavanam bilam ca ratnāni ca imāni vadasva kasya.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥४-५०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In