This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्विपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvipañcāśaḥ sargaḥ ..4..
अथ तानब्रवीत् सर्वान् विश्रान्तान् हरियूथपान् । इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १॥
अथ तान् अब्रवीत् सर्वान् विश्रान्तान् हरि-यूथपान् । इदम् वचनम् एकाग्रा तापसी धर्म-चारिणी॥ १॥
atha tān abravīt sarvān viśrāntān hari-yūthapān . idam vacanam ekāgrā tāpasī dharma-cāriṇī.. 1..
वानरा यदि वः खेदः प्रणष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि तां कथाम्॥ २॥
वानराः यदि वः खेदः प्रणष्टः फल-भक्षणात् । यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि ताम् कथाम्॥ २॥
vānarāḥ yadi vaḥ khedaḥ praṇaṣṭaḥ phala-bhakṣaṇāt . yadi ca etat mayā śrāvyam śrotum icchāmi tām kathām.. 2..
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ ३॥
तस्याः तत् वचनम् श्रुत्वा हनूमान् मारुतात्मजः । आर्जवेन यथातत्त्वम् आख्यातुम् उपचक्रमे॥ ३॥
tasyāḥ tat vacanam śrutvā hanūmān mārutātmajaḥ . ārjavena yathātattvam ākhyātum upacakrame.. 3..
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ४॥
राजा सर्वस्य लोकस्य महा-इन्द्र-वरुण-उपमः । रामः दाशरथिः श्रीमान् प्रविष्टः दण्डक-वनम्॥ ४॥
rājā sarvasya lokasya mahā-indra-varuṇa-upamaḥ . rāmaḥ dāśarathiḥ śrīmān praviṣṭaḥ daṇḍaka-vanam.. 4..
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात्॥ ५॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । तस्य भार्या जनस्थानात् रावणेन हृता बलात्॥ ५॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā . tasya bhāryā janasthānāt rāvaṇena hṛtā balāt.. 5..
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः । राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ ६॥
वीरः तस्य सखा राज्ञः सुग्रीवः नाम वानरः । राजा वानर-मुख्यानाम् येन प्रस्थापिताः वयम्॥ ६॥
vīraḥ tasya sakhā rājñaḥ sugrīvaḥ nāma vānaraḥ . rājā vānara-mukhyānām yena prasthāpitāḥ vayam.. 6..
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् । सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ ७॥
अगस्त्य-चरिताम् आशाम् दक्षिणाम् यम-रक्षिताम् । सह एभिः वानरैः मुख्यैः अङ्गद-प्रमुखैः वयम्॥ ७॥
agastya-caritām āśām dakṣiṇām yama-rakṣitām . saha ebhiḥ vānaraiḥ mukhyaiḥ aṅgada-pramukhaiḥ vayam.. 7..
रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥
रावणम् सहिताः सर्वे राक्षसम् कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वम् इति चोदिताः॥ ८॥
rāvaṇam sahitāḥ sarve rākṣasam kāmarūpiṇam . sītayā saha vaidehyā mārgadhvam iti coditāḥ.. 8..
विचित्य तु वनं सर्वं समुद्रं दक्षिणां दिशम् । वयं बुभुक्षिताः सर्वे वृक्षमूलमुपाश्रिताः॥ ९॥
विचित्य तु वनम् सर्वम् समुद्रम् दक्षिणाम् दिशम् । वयम् बुभुक्षिताः सर्वे वृक्ष-मूलम् उपाश्रिताः॥ ९॥
vicitya tu vanam sarvam samudram dakṣiṇām diśam . vayam bubhukṣitāḥ sarve vṛkṣa-mūlam upāśritāḥ.. 9..
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ १०॥
विवर्ण-वदनाः सर्वे सर्वे ध्यान-परायणाः । न अधिगच्छामहे पारम् मग्नाः चिन्ता-महा-अर्णवे॥ १०॥
vivarṇa-vadanāḥ sarve sarve dhyāna-parāyaṇāḥ . na adhigacchāmahe pāram magnāḥ cintā-mahā-arṇave.. 10..
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद् बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम्॥ ११॥
चारयन्तः ततस् चक्षुः दृष्टवन्तः महत् बिलम् । लता-पादप-संछन्नम् तिमिरेण समावृतम्॥ ११॥
cārayantaḥ tatas cakṣuḥ dṛṣṭavantaḥ mahat bilam . latā-pādapa-saṃchannam timireṇa samāvṛtam.. 11..
अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः । कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः॥ १२॥
अस्मात् हंसाः जल-क्लिन्नाः पक्षैः सलिल-रेणुभिः । कुरराः सारसाः च एव निष्पतन्ति पतत्त्रिणः॥ १२॥
asmāt haṃsāḥ jala-klinnāḥ pakṣaiḥ salila-reṇubhiḥ . kurarāḥ sārasāḥ ca eva niṣpatanti patattriṇaḥ.. 12..
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः । तेषामपि हि सर्वेषामनुमानमुपागतम्॥ १३॥
साधु अत्र प्रविशाम इति मया तु उक्ताः प्लवङ्गमाः । तेषाम् अपि हि सर्वेषाम् अनुमानम् उपागतम्॥ १३॥
sādhu atra praviśāma iti mayā tu uktāḥ plavaṅgamāḥ . teṣām api hi sarveṣām anumānam upāgatam.. 13..
अस्मिन् निपतिताः सर्वेऽप्यथ कार्यत्वरान्विताः । ततो गाढं निपतिता गृह्य हस्तैः परस्परम्॥ १४॥
अस्मिन् निपतिताः सर्वे अपि अथ कार्य-त्वरा-अन्विताः । ततस् गाढम् निपतिताः गृह्य हस्तैः परस्परम्॥ १४॥
asmin nipatitāḥ sarve api atha kārya-tvarā-anvitāḥ . tatas gāḍham nipatitāḥ gṛhya hastaiḥ parasparam.. 14..
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । एतन्नः कार्यमेतेन कृत्येन वयमागताः॥ १५॥
इदम् प्रविष्टाः सहसा बिलम् तिमिर-संवृतम् । एतत् नः कार्यम् एतेन कृत्येन वयम् आगताः॥ १५॥
idam praviṣṭāḥ sahasā bilam timira-saṃvṛtam . etat naḥ kāryam etena kṛtyena vayam āgatāḥ.. 15..
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः । आतिथ्यधर्मदत्तानि मूलानि च फलानि च॥ १६॥
त्वाम् च एव उपगताः सर्वे परिद्यूनाः बुभुक्षिताः । आतिथ्य-धर्म-दत्तानि मूलानि च फलानि च॥ १६॥
tvām ca eva upagatāḥ sarve paridyūnāḥ bubhukṣitāḥ . ātithya-dharma-dattāni mūlāni ca phalāni ca.. 16..
अस्माभिरुपयुक्तानि बुभुक्षापरिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया॥ १७॥
अस्माभिः उपयुक्तानि बुभुक्षा-परिपीडितैः । यत् त्वया रक्षिताः सर्वे म्रियमाणाः बुभुक्षया॥ १७॥
asmābhiḥ upayuktāni bubhukṣā-paripīḍitaiḥ . yat tvayā rakṣitāḥ sarve mriyamāṇāḥ bubhukṣayā.. 17..
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः । एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा॥ १८॥
ब्रूहि प्रत्युपकार-अर्थम् किम् ते कुर्वन्तु वानराः । एवम् उक्ता तु सर्व-ज्ञा वानरैः तैः स्वयंप्रभा॥ १८॥
brūhi pratyupakāra-artham kim te kurvantu vānarāḥ . evam uktā tu sarva-jñā vānaraiḥ taiḥ svayaṃprabhā.. 18..
प्रत्युवाच ततः सर्वानिदं वानरयूथपान् । सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्॥ १९॥
प्रत्युवाच ततस् सर्वान् इदम् वानर-यूथपान् । सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम्॥ १९॥
pratyuvāca tatas sarvān idam vānara-yūthapān . sarveṣām parituṣṭā asmi vānarāṇām tarasvinām.. 19..
चरन्त्या मम धर्मेण न कार्यमिह केनचित् । एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्॥ २०॥
चरन्त्याः मम धर्मेण न कार्यम् इह केनचिद् । एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म-संहितम्॥ २०॥
carantyāḥ mama dharmeṇa na kāryam iha kenacid . evam uktaḥ śubham vākyam tāpasyā dharma-saṃhitam.. 20..
उवाच हनुमान् वाक्यं तामनिन्दितलोचनाम् । शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणीम्॥ २१॥
उवाच हनुमान् वाक्यम् ताम् अनिन्दित-लोचनाम् । शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्म-चारिणीम्॥ २१॥
uvāca hanumān vākyam tām anindita-locanām . śaraṇam tvām prapannāḥ smaḥ sarve vai dharma-cāriṇīm.. 21..
यः कृतः समयोऽस्मासु सुग्रीवेण महात्मना । स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्॥ २२॥
यः कृतः समयः अस्मासु सुग्रीवेण महात्मना । स तु कालः व्यतिक्रान्तः बिले च परिवर्तताम्॥ २२॥
yaḥ kṛtaḥ samayaḥ asmāsu sugrīveṇa mahātmanā . sa tu kālaḥ vyatikrāntaḥ bile ca parivartatām.. 22..
सा त्वमस्माद् बिलादस्मानुत्तारयितुमर्हसि । तस्मात् सुग्रीववचनादतिक्रान्तान् गतायुषः॥ २३॥
सा त्वम् अस्मात् बिलात् अस्मान् उत्तारयितुम् अर्हसि । तस्मात् सुग्रीव-वचनात् अतिक्रान्तान् गत-आयुषः॥ २३॥
sā tvam asmāt bilāt asmān uttārayitum arhasi . tasmāt sugrīva-vacanāt atikrāntān gata-āyuṣaḥ.. 23..
त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान् । महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि॥ २४॥
त्रातुम् अर्हसि नः सर्वान् सुग्रीव-भय-शङ्कितान् । महत् च कार्यम् अस्माभिः कर्तव्यम् धर्म-चारिणि॥ २४॥
trātum arhasi naḥ sarvān sugrīva-bhaya-śaṅkitān . mahat ca kāryam asmābhiḥ kartavyam dharma-cāriṇi.. 24..
तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः । एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्॥ २५॥
तत् च अपि न कृतम् कार्यम् अस्माभिः इह वासिभिः । एवम् उक्ता हनुमता तापसी वाक्यम् अब्रवीत्॥ २५॥
tat ca api na kṛtam kāryam asmābhiḥ iha vāsibhiḥ . evam uktā hanumatā tāpasī vākyam abravīt.. 25..
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् । तपसः सुप्रभावेण नियमोपार्जितेन च॥ २६॥
जीवता दुष्करम् मन्ये प्रविष्टेन निवर्तितुम् । तपसः सु प्रभावेण नियम-उपार्जितेन च॥ २६॥
jīvatā duṣkaram manye praviṣṭena nivartitum . tapasaḥ su prabhāveṇa niyama-upārjitena ca.. 26..
सर्वानेव बिलादस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः॥ २७॥
सर्वान् एव बिलात् अस्मात् तारयिष्यामि वानरान् । निमीलयत चक्षूंषि सर्वे वानर-पुङ्गवाः॥ २७॥
sarvān eva bilāt asmāt tārayiṣyāmi vānarān . nimīlayata cakṣūṃṣi sarve vānara-puṅgavāḥ.. 27..
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः । ततो निमीलिताः सर्वे सुकुमाराङ्गुलैः करैः॥ २८॥
नहि निष्क्रमितुम् शक्यम् अनिमीलित-लोचनैः । ततस् निमीलिताः सर्वे सुकुमार-अङ्गुलैः करैः॥ २८॥
nahi niṣkramitum śakyam animīlita-locanaiḥ . tatas nimīlitāḥ sarve sukumāra-aṅgulaiḥ karaiḥ.. 28..
सहसा पिदधुर्दृष्टिं हृष्टा गमनकांक्षया । वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा॥ २९॥
सहसा पिदधुः दृष्टिम् हृष्टाः गमन-कांक्षया । वानराः तु महात्मानः हस्त-रुद्ध-मुखाः तदा॥ २९॥
sahasā pidadhuḥ dṛṣṭim hṛṣṭāḥ gamana-kāṃkṣayā . vānarāḥ tu mahātmānaḥ hasta-ruddha-mukhāḥ tadā.. 29..
निमेषान्तरमात्रेण बिलादुत्तारितास्तया । उवाच सर्वांस्तांस्तत्र तापसी धर्मचारिणी॥ ३०॥
निमेष-अन्तर-मात्रेण बिलात् उत्तारिताः तया । उवाच सर्वान् तान् तत्र तापसी धर्म-चारिणी॥ ३०॥
nimeṣa-antara-mātreṇa bilāt uttāritāḥ tayā . uvāca sarvān tān tatra tāpasī dharma-cāriṇī.. 30..
निःसृतान् विषमात् तस्मात् समाश्वास्येदमब्रवीत् । एष विन्ध्यो गिरिः श्रीमान् नानाद्रुमलतायुतः॥ ३१॥
निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत् । एष विन्ध्यः गिरिः श्रीमान् नाना द्रुम-लता-युतः॥ ३१॥
niḥsṛtān viṣamāt tasmāt samāśvāsya idam abravīt . eṣa vindhyaḥ giriḥ śrīmān nānā druma-latā-yutaḥ.. 31..
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः । स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः । इत्युक्त्वा तद् बिलं श्रीमत् प्रविवेश स्वयंप्रभा॥ ३२॥
एष प्रस्रवणः शैलः सागरः अयम् महा-उदधिः । स्वस्ति वः अस्तु गमिष्यामि भवनम् वानर-ऋषभाः । इति उक्त्वा तत् बिलम् श्रीमत् प्रविवेश स्वयंप्रभा॥ ३२॥
eṣa prasravaṇaḥ śailaḥ sāgaraḥ ayam mahā-udadhiḥ . svasti vaḥ astu gamiṣyāmi bhavanam vānara-ṛṣabhāḥ . iti uktvā tat bilam śrīmat praviveśa svayaṃprabhā.. 32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥४-५२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्विपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvipañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In