This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रिपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe tripañcāśaḥ sargaḥ ..4..
ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्॥ १॥
ततस् ते ददृशुः घोरम् सागरम् वरुणालयम् । अपारम् अभिगर्जन्तम् घोरैः ऊर्मिभिः आकुलम्॥ १॥
tatas te dadṛśuḥ ghoram sāgaram varuṇālayam . apāram abhigarjantam ghoraiḥ ūrmibhiḥ ākulam.. 1..
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ २॥
मयस्य माया-विहितम् गिरि-दुर्गम् विचिन्वताम् । तेषाम् मासः व्यतिक्रान्तः यः राज्ञा समयः कृतः॥ २॥
mayasya māyā-vihitam giri-durgam vicinvatām . teṣām māsaḥ vyatikrāntaḥ yaḥ rājñā samayaḥ kṛtaḥ.. 2..
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे । उपविश्य महात्मानश्चिन्तामापेदिरे तदा॥ ३॥
विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पित-पादपे । उपविश्य महात्मानः चिन्ताम् आपेदिरे तदा॥ ३॥
vindhyasya tu gireḥ pāde samprapuṣpita-pādape . upaviśya mahātmānaḥ cintām āpedire tadā.. 3..
ततः पुष्पातिभाराग्राँल्लताशतसमावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः॥ ४॥
ततस् पुष्प-अतिभार-अग्रान् लता-शत-समावृतान् । द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुः भय-शङ्किताः॥ ४॥
tatas puṣpa-atibhāra-agrān latā-śata-samāvṛtān . drumān vāsantikān dṛṣṭvā babhūvuḥ bhaya-śaṅkitāḥ.. 4..
ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् । नष्टसंदेशकालार्था निपेतुर्धरणीतले॥ ५॥
ते वसन्तम् अनुप्राप्तम् प्रतिवेद्य परस्परम् । नष्ट-संदेश-काल-अर्थाः निपेतुः धरणी-तले॥ ५॥
te vasantam anuprāptam prativedya parasparam . naṣṭa-saṃdeśa-kāla-arthāḥ nipetuḥ dharaṇī-tale.. 5..
ततस्तान् कपिवृद्धांश्च शिष्टांश्चैव वनौकसः । वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च॥ ६॥
ततस् तान् कपि-वृद्धान् च शिष्टान् च एव वनौकसः । वाचा मधुरया आभाष्य यथावत् अनुमान्य च॥ ६॥
tatas tān kapi-vṛddhān ca śiṣṭān ca eva vanaukasaḥ . vācā madhurayā ābhāṣya yathāvat anumānya ca.. 6..
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः । युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्॥ ७॥
स तु सिंह-वृष-स्कन्धः पीन-आयत-भुजः कपिः । युवराजः महा-प्राज्ञ अङ्गदः वाक्यम् अब्रवीत्॥ ७॥
sa tu siṃha-vṛṣa-skandhaḥ pīna-āyata-bhujaḥ kapiḥ . yuvarājaḥ mahā-prājña aṅgadaḥ vākyam abravīt.. 7..
शासनात् कपिराजस्य वयं सर्वे विनिर्गताः । मासः पूर्णो बिलस्थानां हरयः किं न बुध्यत॥ ८॥
शासनात् कपि-राजस्य वयम् सर्वे विनिर्गताः । मासः पूर्णः बिल-स्थानाम् हरयः किम् न बुध्यत॥ ८॥
śāsanāt kapi-rājasya vayam sarve vinirgatāḥ . māsaḥ pūrṇaḥ bila-sthānām harayaḥ kim na budhyata.. 8..
वयमाश्वयुजे मासि कालसंख्याव्यवस्थिताः । प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम्॥ ९॥
वयम् आश्वयुजे मासि काल-संख्या-व्यवस्थिताः । प्रस्थिताः सः अपि च अतीतः किम् अतस् कार्यम् उत्तरम्॥ ९॥
vayam āśvayuje māsi kāla-saṃkhyā-vyavasthitāḥ . prasthitāḥ saḥ api ca atītaḥ kim atas kāryam uttaram.. 9..
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः । हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु॥ १०॥
भवन्तः प्रत्ययम् प्राप्ताः नीति-मार्ग-विशारदाः । हितेषु अभिरताः भर्तुः निसृष्टाः सर्व-कर्मसु॥ १०॥
bhavantaḥ pratyayam prāptāḥ nīti-mārga-viśāradāḥ . hiteṣu abhiratāḥ bhartuḥ nisṛṣṭāḥ sarva-karmasu.. 10..
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः॥ ११॥
कर्मसु अप्रतिमाः सर्वे दिक्षु विश्रुत-पौरुषाः । माम् पुरस्कृत्य निर्याताः पिङ्ग-अक्ष-प्रतिचोदिताः॥ ११॥
karmasu apratimāḥ sarve dikṣu viśruta-pauruṣāḥ . mām puraskṛtya niryātāḥ piṅga-akṣa-praticoditāḥ.. 11..
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य संदेशमकृत्वा कः सुखी भवेत्॥ १२॥
इदानीम् अकृतार्थानाम् मर्तव्यम् न अत्र संशयः । हरि-राजस्य संदेशम् अ कृत्वा कः सुखी भवेत्॥ १२॥
idānīm akṛtārthānām martavyam na atra saṃśayaḥ . hari-rājasya saṃdeśam a kṛtvā kaḥ sukhī bhavet.. 12..
अस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्॥ १३॥
अस्मिन् अतीते काले तु सुग्रीवेण कृते स्वयम् । प्राय-उपवेशनम् युक्तम् सर्वेषाम् च वनौकसाम्॥ १३॥
asmin atīte kāle tu sugrīveṇa kṛte svayam . prāya-upaveśanam yuktam sarveṣām ca vanaukasām.. 13..
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः । न क्षमिष्यति नः सर्वानपराधकृतो गतान्॥ १४॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि-भावे व्यवस्थितः । न क्षमिष्यति नः सर्व-अनपराध-कृतः गतान्॥ १४॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmi-bhāve vyavasthitaḥ . na kṣamiṣyati naḥ sarva-anaparādha-kṛtaḥ gatān.. 14..
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात् क्षममिहाद्यैव गन्तुं प्रायोपवेशनम्॥ १५॥
अप्रवृत्तौ च सीतायाः पापम् एव करिष्यति । तस्मात् क्षमम् इह अद्य एव गन्तुम् प्राय-उपवेशनम्॥ १५॥
apravṛttau ca sītāyāḥ pāpam eva kariṣyati . tasmāt kṣamam iha adya eva gantum prāya-upaveśanam.. 15..
त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसते राजा सर्वान् प्रतिगतानितः॥ १६॥
त्यक्त्वा पुत्रान् च दारान् च धनानि च गृहाणि च । ध्रुवम् नः हिंसते राजा सर्वान् प्रतिगतान् इतस्॥ १६॥
tyaktvā putrān ca dārān ca dhanāni ca gṛhāṇi ca . dhruvam naḥ hiṃsate rājā sarvān pratigatān itas.. 16..
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः । न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः॥ १७॥
वधेन अप्रतिरूपेण श्रेयान् मृत्युः इह एव नः । न च अहम् यौवराज्येन सुग्रीवेण अभिषेचितः॥ १७॥
vadhena apratirūpeṇa śreyān mṛtyuḥ iha eva naḥ . na ca aham yauvarājyena sugrīveṇa abhiṣecitaḥ.. 17..
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा । स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्॥ १८॥
नरेन्द्रेण अभिषिक्तः अस्मि रामेण अक्लिष्ट-कर्मणा । स पूर्वम् बद्ध-वैरः माम् राजा दृष्ट्वा व्यतिक्रमम्॥ १८॥
narendreṇa abhiṣiktaḥ asmi rāmeṇa akliṣṭa-karmaṇā . sa pūrvam baddha-vairaḥ mām rājā dṛṣṭvā vyatikramam.. 18..
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः । किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे । इहैव प्रायमासिष्ये पुण्ये सागररोधसि॥ १९॥
घातयिष्यति दण्डेन तीक्ष्णेन कृत-निश्चयः । किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवितान्तरे । इह एव प्रायम् आसिष्ये पुण्ये सागर-रोधसि॥ १९॥
ghātayiṣyati daṇḍena tīkṣṇena kṛta-niścayaḥ . kim me suhṛdbhiḥ vyasanam paśyadbhiḥ jīvitāntare . iha eva prāyam āsiṣye puṇye sāgara-rodhasi.. 19..
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्॥ २०॥
एतत् श्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानर-श्रेष्ठाः करुणम् वाक्यम् अब्रुवन्॥ २०॥
etat śrutvā kumāreṇa yuvarājena bhāṣitam . sarve te vānara-śreṣṭhāḥ karuṇam vākyam abruvan.. 20..
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियारक्तश्च राघवः । समीक्ष्याकृतकार्यांस्तु तस्मिंश्च समये गते॥ २१॥
तीक्ष्णः प्रकृत्या सुग्रीवः प्रिय-आरक्तः च राघवः । समीक्ष्य अकृत-कार्यान् तु तस्मिन् च समये गते॥ २१॥
tīkṣṇaḥ prakṛtyā sugrīvaḥ priya-āraktaḥ ca rāghavaḥ . samīkṣya akṛta-kāryān tu tasmin ca samaye gate.. 21..
अदृष्टायां च वैदेह्यां दृष्ट्वा चैव समागतान् । राघवप्रियकामाय घातयिष्यत्यसंशयम्॥ २२॥
अदृष्टायाम् च वैदेह्याम् दृष्ट्वा च एव समागतान् । राघव-प्रिय-कामाय घातयिष्यति असंशयम्॥ २२॥
adṛṣṭāyām ca vaidehyām dṛṣṭvā ca eva samāgatān . rāghava-priya-kāmāya ghātayiṣyati asaṃśayam.. 22..
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः । प्रधानभूताश्च वयं सुग्रीवस्य समागताः॥ २३॥
न क्षमम् च अपराद्धानाम् गमनम् स्वामि-पार्श्वतः । प्रधान-भूताः च वयम् सुग्रीवस्य समागताः॥ २३॥
na kṣamam ca aparāddhānām gamanam svāmi-pārśvataḥ . pradhāna-bhūtāḥ ca vayam sugrīvasya samāgatāḥ.. 23..
इहैव सीतामन्वीक्ष्य प्रवृत्तिमुपलभ्य वा । नो चेद् गच्छाम तं वीरं गमिष्यामो यमक्षयम्॥ २४॥
इह एव सीताम् अन्वीक्ष्य प्रवृत्तिम् उपलभ्य वा । नो चेद् गच्छाम तम् वीरम् गमिष्यामः यम-क्षयम्॥ २४॥
iha eva sītām anvīkṣya pravṛttim upalabhya vā . no ced gacchāma tam vīram gamiṣyāmaḥ yama-kṣayam.. 24..
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः॥ २५॥
प्लवङ्गमानाम् तु भय-अर्दितानाम् श्रुत्वा वचः तारः इदम् बभाषे । अलम् विषादेन बिलम् प्रविश्य वसाम सर्वे यदि रोचते वः॥ २५॥
plavaṅgamānām tu bhaya-arditānām śrutvā vacaḥ tāraḥ idam babhāṣe . alam viṣādena bilam praviśya vasāma sarve yadi rocate vaḥ.. 25..
इदं हि मायाविहितं सुदुर्गमं प्रभूतपुष्पोदकभोज्यपेयम् । इहास्ति नो नैव भयं पुरंदरा- न्न राघवाद् वानरराजतोऽपि वा॥ २६॥
इदम् हि माया-विहितम् सु दुर्गमम् प्रभूत-पुष्प-उदक-भोज्य-पेयम् । इह अस्ति नः ना एव भयम् पुरंदरात् न राघवात् वानर-राजतः अपि वा॥ २६॥
idam hi māyā-vihitam su durgamam prabhūta-puṣpa-udaka-bhojya-peyam . iha asti naḥ nā eva bhayam puraṃdarāt na rāghavāt vānara-rājataḥ api vā.. 26..
श्रुत्वाङ्गदस्यापि वचोऽनुकूल- मूचुश्च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधान- मसक्तमद्यैव विधीयतां नः॥ २७॥
श्रुत्वा अङ्गदस्य अपि वचः-अनुकूलम् ऊचुः च सर्वे हरयः प्रतीताः । यथा न हन्येम तथा विधानम् असक्तम् अद्य एव विधीयताम् नः॥ २७॥
śrutvā aṅgadasya api vacaḥ-anukūlam ūcuḥ ca sarve harayaḥ pratītāḥ . yathā na hanyema tathā vidhānam asaktam adya eva vidhīyatām naḥ.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः ॥४-५३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रिपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe tripañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In