This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुःपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe catuḥpañcāśaḥ sargaḥ ..4..
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनूमानङ्गदेन तत्॥ १॥
तथा ब्रुवति तारे तु तारा-अधिपति-वर्चसि । अथ मेने हृतम् राज्यम् हनूमान् अङ्गदेन तत्॥ १॥
tathā bruvati tāre tu tārā-adhipati-varcasi . atha mene hṛtam rājyam hanūmān aṅgadena tat.. 1..
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनूमान् वालिनः सुतम्॥ २॥
बुद्ध्या हि अष्ट-अङ्गया युक्तम् चतुर्-बल-समन्वितम् । चतुर्दश-गुणम् मेने हनूमान् वालिनः सुतम्॥ २॥
buddhyā hi aṣṭa-aṅgayā yuktam catur-bala-samanvitam . caturdaśa-guṇam mene hanūmān vālinaḥ sutam.. 2..
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया॥ ३॥
आपूर्यमाणम् शश्वत् च तेजः-बल-पराक्रमैः । शशिनम् शुक्लपक्ष-आदौ वर्धमानम् इव श्रिया॥ ३॥
āpūryamāṇam śaśvat ca tejaḥ-bala-parākramaiḥ . śaśinam śuklapakṣa-ādau vardhamānam iva śriyā.. 3..
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्॥ ४॥
बृहस्पति-समम् बुद्ध्या विक्रमे सदृशम् पितुः । शुश्रूषमाणम् तारस्य शुक्रस्य इव पुरंदरम्॥ ४॥
bṛhaspati-samam buddhyā vikrame sadṛśam pituḥ . śuśrūṣamāṇam tārasya śukrasya iva puraṃdaram.. 4..
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः । अभिसंधातुमारेभे हनूमानङ्गदं ततः॥ ५॥
भर्तुः अर्थे परिश्रान्तम् सर्व-शास्त्र-विशारदः । अभिसंधातुम् आरेभे हनूमान् अङ्गदम् ततस्॥ ५॥
bhartuḥ arthe pariśrāntam sarva-śāstra-viśāradaḥ . abhisaṃdhātum ārebhe hanūmān aṅgadam tatas.. 5..
स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा॥ ६॥
स चतुर्णाम् उपायानाम् तृतीयम् उपवर्णयन् । भेदयामास तान् सर्वान् वानरान् वाक्य-सम्पदा॥ ६॥
sa caturṇām upāyānām tṛtīyam upavarṇayan . bhedayāmāsa tān sarvān vānarān vākya-sampadā.. 6..
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः॥ ७॥
तेषु सर्वेषु भिन्नेषु ततस् अभीषयत् अङ्गदम् । भीषणैः विविधैः वाक्यैः कोप-उपाय-समन्वितैः॥ ७॥
teṣu sarveṣu bhinneṣu tatas abhīṣayat aṅgadam . bhīṣaṇaiḥ vividhaiḥ vākyaiḥ kopa-upāya-samanvitaiḥ.. 7..
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता॥ ८॥
त्वम् समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम् । दृढम् धारयितुम् शक्तः कपि-राज्यम् यथा पिता॥ ८॥
tvam samarthataraḥ pitrā yuddhe tāreya vai dhruvam . dṛḍham dhārayitum śaktaḥ kapi-rājyam yathā pitā.. 8..
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया॥ ९॥
नित्यम् अस्थिर-चित्ताः हि कपयः हरि-पुंगव । न आज्ञाप्यम् विषहिष्यन्ति पुत्र-दारम् विना त्वया॥ ९॥
nityam asthira-cittāḥ hi kapayaḥ hari-puṃgava . na ājñāpyam viṣahiṣyanti putra-dāram vinā tvayā.. 9..
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते । यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः॥ १०॥
त्वाम् न एते हि अनुरञ्जेयुः प्रत्यक्षम् प्रवदामि ते । यथा अयम् जाम्बवान् नीलः सुहोत्रः च महा-कपिः॥ १०॥
tvām na ete hi anurañjeyuḥ pratyakṣam pravadāmi te . yathā ayam jāmbavān nīlaḥ suhotraḥ ca mahā-kapiḥ.. 10..
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः । दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्॥ ११॥
न हि अहम् ते इमे सर्वे साम-दान-आदिभिः गुणैः । दण्डेन न त्वया शक्याः सुग्रीवात् अपकर्षितुम्॥ ११॥
na hi aham te ime sarve sāma-dāna-ādibhiḥ guṇaiḥ . daṇḍena na tvayā śakyāḥ sugrīvāt apakarṣitum.. 11..
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा । आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः॥ १२॥
विगृह्य आसनम् अपि आहुः दुर्बलेन बलीयसा । आत्म-रक्षा-करः तस्मात् न विगृह्णीत दुर्बलः॥ १२॥
vigṛhya āsanam api āhuḥ durbalena balīyasā . ātma-rakṣā-karaḥ tasmāt na vigṛhṇīta durbalaḥ.. 12..
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम् । एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम्॥ १३॥
याम् च इमाम् मन्यसे धात्रीम् एतत् बिलम् इति श्रुतम् । एतत् लक्ष्मण-बाणानाम् ईषत् कार्यम् विदारणम्॥ १३॥
yām ca imām manyase dhātrīm etat bilam iti śrutam . etat lakṣmaṇa-bāṇānām īṣat kāryam vidāraṇam.. 13..
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा । लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा॥ १४॥
सु अल्पम् हि कृतम् इन्द्रेण क्षिपता हि अशनिम् पुरा । लक्ष्मणः निशितैः बाणैः भिन्द्यात् पत्र-पुटम् यथा॥ १४॥
su alpam hi kṛtam indreṇa kṣipatā hi aśanim purā . lakṣmaṇaḥ niśitaiḥ bāṇaiḥ bhindyāt patra-puṭam yathā.. 14..
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः । वज्राशनिसमस्पर्शा गिरीणामपि दारकाः॥ १५॥
लक्ष्मणस्य च नाराचाः बहवः सन्ति तद्विधाः । वज्र-अशनि-सम-स्पर्शाः गिरीणाम् अपि दारकाः॥ १५॥
lakṣmaṇasya ca nārācāḥ bahavaḥ santi tadvidhāḥ . vajra-aśani-sama-sparśāḥ girīṇām api dārakāḥ.. 15..
अवस्थानं यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः॥ १६॥
अवस्थानम् यदा एव त्वम् आसिष्यसि परंतप । तदा एव हरयः सर्वे त्यक्ष्यन्ति कृत-निश्चयाः॥ १६॥
avasthānam yadā eva tvam āsiṣyasi paraṃtapa . tadā eva harayaḥ sarve tyakṣyanti kṛta-niścayāḥ.. 16..
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः । खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥ १७॥
स्मरन्तः पुत्र-दाराणाम् नित्य-उद्विग्नाः बुभुक्षिताः । खेदिताः दुःख-शय्याभिः त्वाम् करिष्यन्ति पृष्ठतस्॥ १७॥
smarantaḥ putra-dārāṇām nitya-udvignāḥ bubhukṣitāḥ . kheditāḥ duḥkha-śayyābhiḥ tvām kariṣyanti pṛṣṭhatas.. 17..
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः । तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि॥ १८॥
स त्वम् हीनः सुहृद्भिः च हित-कामैः च बन्धुभिः । तृणात् अपि भृश-उद्विग्नः स्पन्दमानात् भविष्यसि॥ १८॥
sa tvam hīnaḥ suhṛdbhiḥ ca hita-kāmaiḥ ca bandhubhiḥ . tṛṇāt api bhṛśa-udvignaḥ spandamānāt bhaviṣyasi.. 18..
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिघांसन्तो महावेगा दुरासदाः॥ १९॥
न च जातु न हिंस्युः त्वाम् घोराः लक्ष्मण-सायकाः । अपवृत्तम् जिघांसन्तः महा-वेगाः दुरासदाः॥ १९॥
na ca jātu na hiṃsyuḥ tvām ghorāḥ lakṣmaṇa-sāyakāḥ . apavṛttam jighāṃsantaḥ mahā-vegāḥ durāsadāḥ.. 19..
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् । आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति॥ २०॥
अस्माभिः तु गतम् सार्धम् विनीत-वत् उपस्थितम् । आनुपूर्व्यात् तु सुग्रीवः राज्ये त्वाम् स्थापयिष्यति॥ २०॥
asmābhiḥ tu gatam sārdham vinīta-vat upasthitam . ānupūrvyāt tu sugrīvaḥ rājye tvām sthāpayiṣyati.. 20..
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः । शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत्॥ २१॥
धर्म-राजः पितृव्यः ते प्रीति-कामः दृढ-व्रतः । शुचिः सत्य-प्रतिज्ञः च स त्वाम् जातु न नाशयेत्॥ २१॥
dharma-rājaḥ pitṛvyaḥ te prīti-kāmaḥ dṛḍha-vrataḥ . śuciḥ satya-pratijñaḥ ca sa tvām jātu na nāśayet.. 21..
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम्॥ २२॥
प्रिय-कामः च ते मातुः तद्-अर्थम् च अस्य जीवितम् । तस्य अपत्यम् च ना अस्ति अन्यत् तस्मात् अङ्गद गम्यताम्॥ २२॥
priya-kāmaḥ ca te mātuḥ tad-artham ca asya jīvitam . tasya apatyam ca nā asti anyat tasmāt aṅgada gamyatām.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशः सर्गः ॥४-५४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुःपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe catuḥpañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In