This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcapañcāśaḥ sargaḥ ..4..
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्॥ १॥
श्रुत्वा हनुमतः वाक्यम् प्रश्रितम् धर्म-संहितम् । स्वामि-सत्कार-संयुक्तम् अङ्गदः वाक्यम् अब्रवीत्॥ १॥
śrutvā hanumataḥ vākyam praśritam dharma-saṃhitam . svāmi-satkāra-saṃyuktam aṅgadaḥ vākyam abravīt.. 1..
स्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते॥ २॥
स्थैर्यम् आत्म-मनः-शौचम् आनृशंस्यम् अथ आर्जवम् । विक्रमः च एव धैर्यम् च सुग्रीवे ना उपपद्यते॥ २॥
sthairyam ātma-manaḥ-śaucam ānṛśaṃsyam atha ārjavam . vikramaḥ ca eva dhairyam ca sugrīve nā upapadyate.. 2..
भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥ ३॥
भ्रातुः ज्येष्ठस्य यः भार्याम् जीवतः महिषीम् प्रियाम् । धर्मेण मातरम् यः तु स्वीकरोति जुगुप्सितः॥ ३॥
bhrātuḥ jyeṣṭhasya yaḥ bhāryām jīvataḥ mahiṣīm priyām . dharmeṇa mātaram yaḥ tu svīkaroti jugupsitaḥ.. 3..
कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना । युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्॥ ४॥
कथम् स धर्मम् जानीते येन भ्रात्रा दुरात्मना । युद्धाय अभिनियुक्तेन बिलस्य पिहितम् मुखम्॥ ४॥
katham sa dharmam jānīte yena bhrātrā durātmanā . yuddhāya abhiniyuktena bilasya pihitam mukham.. 4..
सत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्॥ ५॥
सत्यात् पाणि-गृहीतः च कृतकर्मा महा-यशाः । विस्मृतः राघवः येन स कस्य सुकृतम् स्मरेत्॥ ५॥
satyāt pāṇi-gṛhītaḥ ca kṛtakarmā mahā-yaśāḥ . vismṛtaḥ rāghavaḥ yena sa kasya sukṛtam smaret.. 5..
लक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा । आदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत्॥ ६॥
लक्ष्मणस्य भयेन इह न अधर्म-भय-भीरुणा । आदिष्टा मार्गितुम् सीता धर्मः तस्मिन् कथम् भवेत्॥ ६॥
lakṣmaṇasya bhayena iha na adharma-bhaya-bhīruṇā . ādiṣṭā mārgitum sītā dharmaḥ tasmin katham bhavet.. 6..
तस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि । आर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः॥ ७॥
तस्मिन् पापे कृतघ्ने तु स्मृति-भिन्ने चल-आत्मनि । आर्यः कः विश्वसेत् जातु तद्-कुलीनः विशेषतः॥ ७॥
tasmin pāpe kṛtaghne tu smṛti-bhinne cala-ātmani . āryaḥ kaḥ viśvaset jātu tad-kulīnaḥ viśeṣataḥ.. 7..
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति॥ ८॥
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणः निर्गुणः अपि वा । कथम् शत्रु-कुलीनम् माम् सुग्रीवः जीवयिष्यति॥ ८॥
rājye putraḥ pratiṣṭhāpyaḥ saguṇaḥ nirguṇaḥ api vā . katham śatru-kulīnam mām sugrīvaḥ jīvayiṣyati.. 8..
भिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः॥ ९॥
भिन्न-मन्त्रः अपराद्धः च भिन्न-शक्तिः कथम् हि अहम् । किष्किन्धाम् प्राप्य जीवेयम् अनाथः इव दुर्बलः॥ ९॥
bhinna-mantraḥ aparāddhaḥ ca bhinna-śaktiḥ katham hi aham . kiṣkindhām prāpya jīveyam anāthaḥ iva durbalaḥ.. 9..
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्॥ १०॥
उपांशु दण्डेन हि माम् बन्धनेन उपपादयेत् । शठः क्रूरः नृशंसः च सुग्रीवः राज्य-कारणात्॥ १०॥
upāṃśu daṇḍena hi mām bandhanena upapādayet . śaṭhaḥ krūraḥ nṛśaṃsaḥ ca sugrīvaḥ rājya-kāraṇāt.. 10..
बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः॥ ११॥
बन्धनात् च अवसादात् मे श्रेयः प्राय-उपवेशनम् । अनुजानन्तु माम् सर्वे गृहम् गच्छन्तु वानराः॥ ११॥
bandhanāt ca avasādāt me śreyaḥ prāya-upaveśanam . anujānantu mām sarve gṛham gacchantu vānarāḥ.. 11..
अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । इहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥ १२॥
अहम् वः प्रतिजानामि न गमिष्यामि अहम् पुरीम् । इह एव प्रायम् आसिष्ये श्रेयः मरणम् एव मे॥ १२॥
aham vaḥ pratijānāmi na gamiṣyāmi aham purīm . iha eva prāyam āsiṣye śreyaḥ maraṇam eva me.. 12..
अभिवादनपूर्वं तु राजा कुशलमेव च । अभिवादनपूर्वं तु राघवौ बलशालिनौ॥ १३॥
अभिवादन-पूर्वम् तु राजा कुशलम् एव च । अभिवादन-पूर्वम् तु राघवौ बल-शालिनौ॥ १३॥
abhivādana-pūrvam tu rājā kuśalam eva ca . abhivādana-pūrvam tu rāghavau bala-śālinau.. 13..
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः । आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे॥ १४॥
वाच्यः तातः यवीयान् मे सुग्रीवः वानर-ईश्वरः । आरोग्य-पूर्वम् कुशलम् वाच्या माता रुमा च मे॥ १४॥
vācyaḥ tātaḥ yavīyān me sugrīvaḥ vānara-īśvaraḥ . ārogya-pūrvam kuśalam vācyā mātā rumā ca me.. 14..
मातरं चैव मे तारामाश्वासयितुमर्हथ । प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी॥ १५॥
मातरम् च एव मे ताराम् आश्वासयितुम् अर्हथ । प्रकृत्या प्रिय-पुत्रा सा स अनुक्रोशा तपस्विनी॥ १५॥
mātaram ca eva me tārām āśvāsayitum arhatha . prakṛtyā priya-putrā sā sa anukrośā tapasvinī.. 15..
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् । एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च॥ १६॥
विनष्टम् इह माम् श्रुत्वा व्यक्तम् हास्यति जीवितम् । एतावत् उक्त्वा वचनम् वृद्धान् तान् अभिवाद्य च॥ १६॥
vinaṣṭam iha mām śrutvā vyaktam hāsyati jīvitam . etāvat uktvā vacanam vṛddhān tān abhivādya ca.. 16..
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः॥ १७॥
विवेश च अङ्गदः भूमौ रुदन् दर्भेषु दुर्मनाः । तस्य संविशतः तत्र रुदन्तः वानर-ऋषभाः॥ १७॥
viveśa ca aṅgadaḥ bhūmau rudan darbheṣu durmanāḥ . tasya saṃviśataḥ tatra rudantaḥ vānara-ṛṣabhāḥ.. 17..
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्॥ १८॥
नयनेभ्यः प्रमुमुचुः उष्णम् वै वारि दुःखिताः । सुग्रीवम् च एव निन्दन्तः प्रशंसन्तः च वालिनम्॥ १८॥
nayanebhyaḥ pramumucuḥ uṣṇam vai vāri duḥkhitāḥ . sugrīvam ca eva nindantaḥ praśaṃsantaḥ ca vālinam.. 18..
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् । तद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः॥ १९॥
परिवार्य अङ्गदम् सर्वे व्यवसन् प्रायम् आसितुम् । तत् वाक्यम् वालि-पुत्रस्य विज्ञाय प्लवग-ऋषभाः॥ १९॥
parivārya aṅgadam sarve vyavasan prāyam āsitum . tat vākyam vāli-putrasya vijñāya plavaga-ṛṣabhāḥ.. 19..
उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् । दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः॥ २०॥
उपस्पृश्य उदकम् सर्वे प्राच्-मुखाः समुपाविशन् । दक्षिण-अग्रेषु दर्भेषु उदक् तीरम् समाश्रिताः॥ २०॥
upaspṛśya udakam sarve prāc-mukhāḥ samupāviśan . dakṣiṇa-agreṣu darbheṣu udak tīram samāśritāḥ.. 20..
मुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह । रामस्य वनवासं च क्षयं दशरथस्य च॥ २१॥
मुमूर्षवः हरि-श्रेष्ठाः एतत् क्षमम् इति स्म ह । रामस्य वन-वासम् च क्षयम् दशरथस्य च॥ २१॥
mumūrṣavaḥ hari-śreṣṭhāḥ etat kṣamam iti sma ha . rāmasya vana-vāsam ca kṣayam daśarathasya ca.. 21..
जनस्थानवधं चैव वधं चैव जटायुषः । हरणं चैव वैदेह्या वालिनश्च वधं तथा । रामकोपं च वदतां हरीणां भयमागतम्॥ २२॥
जनस्थान-वधम् च एव वधम् च एव जटायुषः । हरणम् च एव वैदेह्याः वालिनः च वधम् तथा । राम-कोपम् च वदताम् हरीणाम् भयम् आगतम्॥ २२॥
janasthāna-vadham ca eva vadham ca eva jaṭāyuṣaḥ . haraṇam ca eva vaidehyāḥ vālinaḥ ca vadham tathā . rāma-kopam ca vadatām harīṇām bhayam āgatam.. 22..
स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवंगमैः । बभूव संनादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम्॥ २३॥
स संविशद्भिः बहुभिः महीधरः महा-अद्रि-कूट-प्रतिमैः प्लवंगमैः । बभूव संनादित-निर्दर-अन्तरः भृशम् नदद्भिः जलदैः इव अम्बरम्॥ २३॥
sa saṃviśadbhiḥ bahubhiḥ mahīdharaḥ mahā-adri-kūṭa-pratimaiḥ plavaṃgamaiḥ . babhūva saṃnādita-nirdara-antaraḥ bhṛśam nadadbhiḥ jaladaiḥ iva ambaram.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥४-५५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcapañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In