This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षट्पञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..4..
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे॥ १॥
उपविष्टाः तु ते सर्वे यस्मिन् प्रायम् गिरि-स्थले । हरयः गृध्र-राजः च तम् देशम् उपचक्रमे॥ १॥
upaviṣṭāḥ tu te sarve yasmin prāyam giri-sthale . harayaḥ gṛdhra-rājaḥ ca tam deśam upacakrame.. 1..
सम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः । भ्राता जटायुषः श्रीमान् विख्यातबलपौरुषः॥ २॥
सम्पातिः नाम नाम्ना तु चिरजीवी विहंगमः । भ्राता जटायुषः श्रीमान् विख्यात-बल-पौरुषः॥ २॥
sampātiḥ nāma nāmnā tu cirajīvī vihaṃgamaḥ . bhrātā jaṭāyuṣaḥ śrīmān vikhyāta-bala-pauruṣaḥ.. 2..
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्॥ ३॥
कन्दरात् अभिनिष्क्रम्य स विन्ध्यस्य महा-गिरेः । उपविष्टान् हरीन् दृष्ट्वा हृष्ट-आत्मा गिरम् अब्रवीत्॥ ३॥
kandarāt abhiniṣkramya sa vindhyasya mahā-gireḥ . upaviṣṭān harīn dṛṣṭvā hṛṣṭa-ātmā giram abravīt.. 3..
विधिः किल नरं लोके विधानेनानुवर्तते । यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः॥ ४॥
विधिः किल नरम् लोके विधानेन अनुवर्तते । यथा अयम् विहितः भक्ष्यः चिरात् मह्यम् उपागतः॥ ४॥
vidhiḥ kila naram loke vidhānena anuvartate . yathā ayam vihitaḥ bhakṣyaḥ cirāt mahyam upāgataḥ.. 4..
परम्पराणां भक्षिष्ये वानराणां मृतं मृतम् । उवाचैतद् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ५॥
परम्पराणाम् भक्षिष्ये वानराणाम् मृतम् मृतम् । उवाच एतत् वचः पक्षी तान् निरीक्ष्य प्लवंगमान्॥ ५॥
paramparāṇām bhakṣiṣye vānarāṇām mṛtam mṛtam . uvāca etat vacaḥ pakṣī tān nirīkṣya plavaṃgamān.. 5..
तस्य तद् वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्॥ ६॥
तस्य तत् वचनम् श्रुत्वा भक्ष्य-लुब्धस्य पक्षिणः । अङ्गदः परम-आयस्तः हनूमन्तम् अथ अब्रवीत्॥ ६॥
tasya tat vacanam śrutvā bhakṣya-lubdhasya pakṣiṇaḥ . aṅgadaḥ parama-āyastaḥ hanūmantam atha abravīt.. 6..
पश्य सीतापदेशेन साक्षाद् वैवस्वतो यमः । इमं देशमनुप्राप्तो वानराणां विपत्तये॥ ७॥
पश्य सीता-अपदेशेन साक्षात् वैवस्वतः यमः । इमम् देशम् अनुप्राप्तः वानराणाम् विपत्तये॥ ७॥
paśya sītā-apadeśena sākṣāt vaivasvataḥ yamaḥ . imam deśam anuprāptaḥ vānarāṇām vipattaye.. 7..
रामस्य न कृतं कार्यं न कृतं राजशासनम् । हरीणामियमज्ञाता विपत्तिः सहसाऽऽगता॥ ८॥
रामस्य न कृतम् कार्यम् न कृतम् राज-शासनम् । हरीणाम् इयम् अज्ञाता विपत्तिः सहसा आगता॥ ८॥
rāmasya na kṛtam kāryam na kṛtam rāja-śāsanam . harīṇām iyam ajñātā vipattiḥ sahasā āgatā.. 8..
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत् तत्र श्रुतं वस्तदशेषतः॥ ९॥
वैदेह्याः प्रिय-कामेन कृतम् कर्म जटायुषा । गृध्र-राजेन यत् तत्र श्रुतम् वः तत् अशेषतः॥ ९॥
vaidehyāḥ priya-kāmena kṛtam karma jaṭāyuṣā . gṛdhra-rājena yat tatra śrutam vaḥ tat aśeṣataḥ.. 9..
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि । प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥
तथा सर्वाणि भूतानि तिर्यग्योनि-गतानि अपि । प्रियम् कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्॥ १०॥
tathā sarvāṇi bhūtāni tiryagyoni-gatāni api . priyam kurvanti rāmasya tyaktvā prāṇān yathā vayam.. 10..
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः । ततस्तस्योपकारार्थं त्यजतात्मानमात्मना॥ ११॥
अन्योन्यम् उपकुर्वन्ति स्नेह-कारुण्य-यन्त्रिताः । ततस् तस्य उपकार-अर्थम् त्यजत आत्मानम् आत्मना॥ ११॥
anyonyam upakurvanti sneha-kāruṇya-yantritāḥ . tatas tasya upakāra-artham tyajata ātmānam ātmanā.. 11..
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा । राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः॥ १२॥
प्रियम् कृतम् हि रामस्य धर्म-ज्ञेन जटायुषा । राघव-अर्थे परिश्रान्ताः वयम् संत्यक्त-जीविताः॥ १२॥
priyam kṛtam hi rāmasya dharma-jñena jaṭāyuṣā . rāghava-arthe pariśrāntāḥ vayam saṃtyakta-jīvitāḥ.. 12..
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्रराजस्तु रावणेन हतो रणे । मुक्तश्च सुग्रीवभयाद् गतश्च परमां गतिम्॥ १३॥
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् । स सुखी गृध्र-राजः तु रावणेन हतः रणे । मुक्तः च सुग्रीव-भयात् गतः च परमाम् गतिम्॥ १३॥
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm . sa sukhī gṛdhra-rājaḥ tu rāvaṇena hataḥ raṇe . muktaḥ ca sugrīva-bhayāt gataḥ ca paramām gatim.. 13..
जटायुषो विनाशेन राज्ञो दशरथस्य च । हरणेन च वैदेह्याः संशयं हरयो गताः॥ १४॥
जटायुषः विनाशेन राज्ञः दशरथस्य च । हरणेन च वैदेह्याः संशयम् हरयः गताः॥ १४॥
jaṭāyuṣaḥ vināśena rājñaḥ daśarathasya ca . haraṇena ca vaidehyāḥ saṃśayam harayaḥ gatāḥ.. 14..
रामलक्ष्मणयोर्वासमरण्ये सह सीतया । राघवस्य च बाणेन वालिनश्च तथा वधः॥ १५॥
राम-लक्ष्मणयोः वासम् अरण्ये सह सीतया । राघवस्य च बाणेन वालिनः च तथा वधः॥ १५॥
rāma-lakṣmaṇayoḥ vāsam araṇye saha sītayā . rāghavasya ca bāṇena vālinaḥ ca tathā vadhaḥ.. 15..
रामकोपादशेषाणां रक्षसां च तथा वधम् । कैकेय्या वरदानेन इदं च विकृतं कृतम्॥ १६॥
राम-कोपात् अशेषाणाम् रक्षसाम् च तथा वधम् । कैकेय्याः वर-दानेन इदम् च विकृतम् कृतम्॥ १६॥
rāma-kopāt aśeṣāṇām rakṣasām ca tathā vadham . kaikeyyāḥ vara-dānena idam ca vikṛtam kṛtam.. 16..
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च निरीक्ष्य वानरान् । भृशचकितमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराजः॥ १७॥
तत् असुखम् अनुकीर्तितम् वचः भुवि पतितान् च निरीक्ष्य वानरान् । भृश-चकित-मतिः महामतिः कृपणम् उदाहृतवान् स गृध्र-राजः॥ १७॥
tat asukham anukīrtitam vacaḥ bhuvi patitān ca nirīkṣya vānarān . bhṛśa-cakita-matiḥ mahāmatiḥ kṛpaṇam udāhṛtavān sa gṛdhra-rājaḥ.. 17..
तत् तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद् वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः॥ १८॥
तत् तु श्रुत्वा तथा वाक्यम् अङ्गदस्य मुख-उद्गतम् । अब्रवीत् वचनम् गृध्रः तीक्ष्ण-तुण्डः महा-स्वनः॥ १८॥
tat tu śrutvā tathā vākyam aṅgadasya mukha-udgatam . abravīt vacanam gṛdhraḥ tīkṣṇa-tuṇḍaḥ mahā-svanaḥ.. 18..
कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः॥ १९॥
कः अयम् गिरा घोषयति प्राणैः प्रियतरस्य मे । जटायुषः वधम् भ्रातुः कम्पयन् इव मे मनः॥ १९॥
kaḥ ayam girā ghoṣayati prāṇaiḥ priyatarasya me . jaṭāyuṣaḥ vadham bhrātuḥ kampayan iva me manaḥ.. 19..
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्॥ २०॥
कथम् आसीत् जनस्थाने युद्धम् राक्षस-गृध्रयोः । नामधेयम् इदम् भ्रातुः चिरस्य अद्य मया श्रुतम्॥ २०॥
katham āsīt janasthāne yuddham rākṣasa-gṛdhrayoḥ . nāmadheyam idam bhrātuḥ cirasya adya mayā śrutam.. 20..
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः॥ २१॥
इच्छेयम् गिरि-दुर्गात् च भवद्भिः अवतारितुम् । यवीयसः गुण-ज्ञस्य श्लाघनीयस्य विक्रमैः॥ २१॥
iccheyam giri-durgāt ca bhavadbhiḥ avatāritum . yavīyasaḥ guṇa-jñasya ślāghanīyasya vikramaiḥ.. 21..
अतिदीर्घस्य कालस्य परितुष्टोऽस्मि कीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः॥ २२॥
अति दीर्घस्य कालस्य परितुष्टः अस्मि कीर्तनात् । तत् इच्छेयम् अहम् श्रोतुम् विनाशम् वानर-ऋषभाः॥ २२॥
ati dīrghasya kālasya parituṣṭaḥ asmi kīrtanāt . tat iccheyam aham śrotum vināśam vānara-ṛṣabhāḥ.. 22..
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दशरथः कथम्॥ २३॥
भ्रातुः जटायुषः तस्य जनस्थान-निवासिनः । तस्य एव च मम भ्रातुः सखा दशरथः कथम्॥ २३॥
bhrātuḥ jaṭāyuṣaḥ tasya janasthāna-nivāsinaḥ . tasya eva ca mama bhrātuḥ sakhā daśarathaḥ katham.. 23..
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः । सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम् । इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः॥ २४॥
यस्य रामः प्रियः पुत्रः ज्येष्ठः गुरु-जन-प्रियः । सूर्य-अंशु-दग्ध-पक्ष-त्वात् न शक्नोमि विसर्पितुम् । इच्छेयम् पर्वतात् अस्मात् अवतर्तुम् अरिंदमाः॥ २४॥
yasya rāmaḥ priyaḥ putraḥ jyeṣṭhaḥ guru-jana-priyaḥ . sūrya-aṃśu-dagdha-pakṣa-tvāt na śaknomi visarpitum . iccheyam parvatāt asmāt avatartum ariṃdamāḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः ॥४-५६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षट्पञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In