This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptapañcāśaḥ sargaḥ ..4..
शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः । श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः॥ १॥
शोकात् भ्रष्ट-स्वरम् अपि श्रुत्वा वानर-यूथपाः । श्रद्दधुः ना एव तद्-वाक्यम् कर्मणा तस्य शङ्किताः॥ १॥
śokāt bhraṣṭa-svaram api śrutvā vānara-yūthapāḥ . śraddadhuḥ nā eva tad-vākyam karmaṇā tasya śaṅkitāḥ.. 1..
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः । चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति॥ २॥
ते प्रायम् उपविष्टाः तु दृष्ट्वा गृध्रम् प्लवंगमाः । चक्रुः बुद्धिम् तदा रौद्राम् सर्वान् नः भक्षयिष्यति॥ २॥
te prāyam upaviṣṭāḥ tu dṛṣṭvā gṛdhram plavaṃgamāḥ . cakruḥ buddhim tadā raudrām sarvān naḥ bhakṣayiṣyati.. 2..
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥ ३॥
सर्वथा प्रायम् आसीनान् यदि नः भक्षयिष्यति । कृतकृत्याः भविष्यामः क्षिप्रम् सिद्धिम् इतस् गताः॥ ३॥
sarvathā prāyam āsīnān yadi naḥ bhakṣayiṣyati . kṛtakṛtyāḥ bhaviṣyāmaḥ kṣipram siddhim itas gatāḥ.. 3..
एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः । अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा॥ ४॥
एताम् बुद्धिम् ततस् चक्रुः सर्वे ते हरि-यूथपाः । अवतार्य गिरेः शृङ्गात् गृध्रम् आह अङ्गदः तदा॥ ४॥
etām buddhim tatas cakruḥ sarve te hari-yūthapāḥ . avatārya gireḥ śṛṅgāt gṛdhram āha aṅgadaḥ tadā.. 4..
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ॥ ५॥
बभूव ऋक्षरजः नाम वानर-इन्द्रः प्रतापवान् । मम आर्यः पार्थिवः पक्षिन् धार्मिकौ तस्य च आत्मजौ॥ ५॥
babhūva ṛkṣarajaḥ nāma vānara-indraḥ pratāpavān . mama āryaḥ pārthivaḥ pakṣin dhārmikau tasya ca ātmajau.. 5..
सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ । लोके विश्रुतकर्माभूद् राजा वाली पिता मम॥ ६॥
सुग्रीवः च एव वाली च पुत्रौ घन-बलौ उभौ । लोके विश्रुत-कर्मा अभूत् राजा वाली पिता मम॥ ६॥
sugrīvaḥ ca eva vālī ca putrau ghana-balau ubhau . loke viśruta-karmā abhūt rājā vālī pitā mama.. 6..
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः । रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्॥ ७॥
राजा कृत्स्नस्य जगतः इक्ष्वाकूणाम् महा-रथः । रामः दाशरथिः श्रीमान् प्रविष्टः दण्डक-वनम्॥ ७॥
rājā kṛtsnasya jagataḥ ikṣvākūṇām mahā-rathaḥ . rāmaḥ dāśarathiḥ śrīmān praviṣṭaḥ daṇḍaka-vanam.. 7..
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः॥ ८॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया । पितुः निदेश-निरतः धर्मम् पन्थानम् आश्रितः॥ ८॥
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā . pituḥ nideśa-nirataḥ dharmam panthānam āśritaḥ.. 8..
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् । रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्॥ ९॥
तस्य भार्या जनस्थानात् रावणेन हृता बलात् । रामस्य तु पितुः मित्रम् जटायुः नाम गृध्र-राज्॥ ९॥
tasya bhāryā janasthānāt rāvaṇena hṛtā balāt . rāmasya tu pituḥ mitram jaṭāyuḥ nāma gṛdhra-rāj.. 9..
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा । रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे॥ १०॥
ददर्श सीताम् वैदेहीम् ह्रियमाणाम् विहायसा । रावणम् विरथम् कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तः च वृद्धः च रावणेन हतः रणे॥ १०॥
dadarśa sītām vaidehīm hriyamāṇām vihāyasā . rāvaṇam viratham kṛtvā sthāpayitvā ca maithilīm . pariśrāntaḥ ca vṛddhaḥ ca rāvaṇena hataḥ raṇe.. 10..
एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्॥ ११॥
एवम् गृध्रः हतः तेन रावणेन बलीयसा । संस्कृतः च अपि रामेण जगाम गतिम् उत्तमाम्॥ ११॥
evam gṛdhraḥ hataḥ tena rāvaṇena balīyasā . saṃskṛtaḥ ca api rāmeṇa jagāma gatim uttamām.. 11..
ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यं सोऽवधीत् पितरं मम॥ १२॥
ततस् मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यम् सः अवधीत् पितरम् मम॥ १२॥
tatas mama pitṛvyeṇa sugrīveṇa mahātmanā . cakāra rāghavaḥ sakhyam saḥ avadhīt pitaram mama.. 12..
मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनं रामस्ततस्तमभिषेचयत्॥ १३॥
मम पित्रा निरुद्धः हि सुग्रीवः सचिवैः सह । निहत्य वालिनम् रामः ततस् तम् अभिषेचयत्॥ १३॥
mama pitrā niruddhaḥ hi sugrīvaḥ sacivaiḥ saha . nihatya vālinam rāmaḥ tatas tam abhiṣecayat.. 13..
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः । राजा वानरमुख्यानां तेन प्रस्थापिता वयम्॥ १४॥
स राज्ये स्थापितः तेन सुग्रीवः वानर-ईश्वरः । राजा वानर-मुख्यानाम् तेन प्रस्थापिताः वयम्॥ १४॥
sa rājye sthāpitaḥ tena sugrīvaḥ vānara-īśvaraḥ . rājā vānara-mukhyānām tena prasthāpitāḥ vayam.. 14..
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः । वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव॥ १५॥
एवम् राम-प्रयुक्ताः तु मार्गमाणाः ततस् ततस् । वैदेहीम् न अधिगच्छामः रात्रौ सूर्य-प्रभाम् इव॥ १५॥
evam rāma-prayuktāḥ tu mārgamāṇāḥ tatas tatas . vaidehīm na adhigacchāmaḥ rātrau sūrya-prabhām iva.. 15..
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्॥ १६॥
ते वयम् दण्डक-अरण्यम् विचित्य सु समाहिताः । अज्ञानात् तु प्रविष्टाः स्म धरण्याः विवृतम् बिलम्॥ १६॥
te vayam daṇḍaka-araṇyam vicitya su samāhitāḥ . ajñānāt tu praviṣṭāḥ sma dharaṇyāḥ vivṛtam bilam.. 16..
मयस्य मायाविहितं तद् बिलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः॥ १७॥
मयस्य माया-विहितम् तत् बिलम् च विचिन्वताम् । व्यतीतः तत्र नः मासः यः राज्ञा समयः कृतः॥ १७॥
mayasya māyā-vihitam tat bilam ca vicinvatām . vyatītaḥ tatra naḥ māsaḥ yaḥ rājñā samayaḥ kṛtaḥ.. 17..
ते वयं कपिराजस्य सर्वे वचनकारिणः । कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः॥ १८॥
ते वयम् कपि-राजस्य सर्वे वचन-कारिणः । कृताम् संस्थाम् अतिक्रान्ताः भयात् प्रायम् उपासिताः॥ १८॥
te vayam kapi-rājasya sarve vacana-kāriṇaḥ . kṛtām saṃsthām atikrāntāḥ bhayāt prāyam upāsitāḥ.. 18..
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्॥ १९॥
क्रुद्धे तस्मिन् तु काकुत्स्थे सुग्रीवे च स लक्ष्मणे । गतानाम् अपि सर्वेषाम् तत्र नः ना अस्ति जीवितम्॥ १९॥
kruddhe tasmin tu kākutsthe sugrīve ca sa lakṣmaṇe . gatānām api sarveṣām tatra naḥ nā asti jīvitam.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptapañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In