This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टपञ्चाशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..4..
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः॥ १॥
इति उक्तः करुणम् वाक्यम् वानरैः त्यक्त-जीवितैः । स बाष्पः वानरान् गृध्रः प्रत्युवाच महा-स्वनः॥ १॥
iti uktaḥ karuṇam vākyam vānaraiḥ tyakta-jīvitaiḥ . sa bāṣpaḥ vānarān gṛdhraḥ pratyuvāca mahā-svanaḥ.. 1..
यवीयान् स मम भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा॥ २॥
यवीयान् स मम भ्राता जटायुः नाम वानराः । यम् आख्यात हतम् युद्धे रावणेन बलीयसा॥ २॥
yavīyān sa mama bhrātā jaṭāyuḥ nāma vānarāḥ . yam ākhyāta hatam yuddhe rāvaṇena balīyasā.. 2..
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे॥ ३॥
वृद्ध-भावात् अपक्ष-त्वात् शृण्वन् तत् अपि मर्षये । नहि मे शक्तिः अस्ति अद्य भ्रातुः वैर-विमोक्षणे॥ ३॥
vṛddha-bhāvāt apakṣa-tvāt śṛṇvan tat api marṣaye . nahi me śaktiḥ asti adya bhrātuḥ vaira-vimokṣaṇe.. 3..
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्॥ ४॥
पुरा वृत्र-वधे वृत्ते स च अहम् च जय-एषिणौ । आदित्यम् उपयातौ स्वः ज्वलन्तम् रश्मिमालिनम्॥ ४॥
purā vṛtra-vadhe vṛtte sa ca aham ca jaya-eṣiṇau . ādityam upayātau svaḥ jvalantam raśmimālinam.. 4..
आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम् । मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति॥ ५॥
आवृत्य आकाश-मार्गेण जवेन स्वर् गतौ भृशम् । मध्यम् प्राप्ते तु सूर्ये तु जटायुः अवसीदति॥ ५॥
āvṛtya ākāśa-mārgeṇa javena svar gatau bhṛśam . madhyam prāpte tu sūrye tu jaṭāyuḥ avasīdati.. 5..
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम्॥ ६॥
तम् अहम् भ्रातरम् दृष्ट्वा सूर्य-रश्मिभिः अर्दितम् । पक्षाभ्याम् छादयामास स्नेहात् परम-विह्वलम्॥ ६॥
tam aham bhrātaram dṛṣṭvā sūrya-raśmibhiḥ arditam . pakṣābhyām chādayāmāsa snehāt parama-vihvalam.. 6..
निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः । अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये॥ ७॥
निर्दग्ध-पत्रः पतितः विन्ध्ये अहम् वानर-ऋषभाः । अहम् अस्मिन् वसन् भ्रातुः प्रवृत्तिम् न उपलक्षये॥ ७॥
nirdagdha-patraḥ patitaḥ vindhye aham vānara-ṛṣabhāḥ . aham asmin vasan bhrātuḥ pravṛttim na upalakṣaye.. 7..
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा । युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा॥ ८॥
जटायुषः तु एवम् उक्तः भ्रात्रा सम्पातिना तदा । युवराजः महा-प्रज्ञः प्रत्युवाच अङ्गदः तदा॥ ८॥
jaṭāyuṣaḥ tu evam uktaḥ bhrātrā sampātinā tadā . yuvarājaḥ mahā-prajñaḥ pratyuvāca aṅgadaḥ tadā.. 8..
जटायुषो यदि भ्राता श्रुतं ते गदितं मया । आख्याहि यदि जानासि निलयं तस्य रक्षसः॥ ९॥
जटायुषः यदि भ्राता श्रुतम् ते गदितम् मया । आख्याहि यदि जानासि निलयम् तस्य रक्षसः॥ ९॥
jaṭāyuṣaḥ yadi bhrātā śrutam te gaditam mayā . ākhyāhi yadi jānāsi nilayam tasya rakṣasaḥ.. 9..
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम् । अन्तिके यदि वा दूरे यदि जानासि शंस नः॥ १०॥
अ दीर्घ-दर्शिनम् तम् वै रावणम् राक्षस-अधमम् । अन्तिके यदि वा दूरे यदि जानासि शंस नः॥ १०॥
a dīrgha-darśinam tam vai rāvaṇam rākṣasa-adhamam . antike yadi vā dūre yadi jānāsi śaṃsa naḥ.. 10..
ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः । आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन्॥ ११॥
ततस् अब्रवीत् महा-तेजाः भ्राता ज्येष्ठः जटायुषः । आत्म-अनुरूपम् वचनम् वानरान् सम्प्रहर्षयन्॥ ११॥
tatas abravīt mahā-tejāḥ bhrātā jyeṣṭhaḥ jaṭāyuṣaḥ . ātma-anurūpam vacanam vānarān sampraharṣayan.. 11..
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः । वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥ १२॥
निर्दग्ध-पक्षः गृध्रः अहम् गत-वीर्यः प्लवङ्गमाः । वाच्-मात्रेण तु रामस्य करिष्ये साह्यम् उत्तमम्॥ १२॥
nirdagdha-pakṣaḥ gṛdhraḥ aham gata-vīryaḥ plavaṅgamāḥ . vāc-mātreṇa tu rāmasya kariṣye sāhyam uttamam.. 12..
जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि । देवासुरविमर्दांश्च ह्यमृतस्य विमन्थनम्॥ १३॥
जानामि वारुणान् लोकान् विष्णोः त्रैविक्रमान् अपि । देव-असुर-विमर्दान् च हि अमृतस्य विमन्थनम्॥ १३॥
jānāmi vāruṇān lokān viṣṇoḥ traivikramān api . deva-asura-vimardān ca hi amṛtasya vimanthanam.. 13..
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम॥ १४॥
रामस्य यत् इदम् कार्यम् कर्तव्यम् प्रथमम् मया । जरया च हृतम् तेजः प्राणाः च शिथिलाः मम॥ १४॥
rāmasya yat idam kāryam kartavyam prathamam mayā . jarayā ca hṛtam tejaḥ prāṇāḥ ca śithilāḥ mama.. 14..
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥ १५॥
तरुणी रूप-सम्पन्ना सर्व-आभरण-भूषिता । ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥ १५॥
taruṇī rūpa-sampannā sarva-ābharaṇa-bhūṣitā . hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā.. 15..
क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती॥ १६॥
क्रोशन्ती राम-राम इति लक्ष्मण इति च भामिनी । भूषणानि अपविध्यन्ती गात्राणि च विधुन्वती॥ १६॥
krośantī rāma-rāma iti lakṣmaṇa iti ca bhāminī . bhūṣaṇāni apavidhyantī gātrāṇi ca vidhunvatī.. 16..
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तडिदम्बुदे॥ १७॥
सूर्य-प्रभा इव शैल-अग्रे तस्याः कौशेयम् उत्तमम् । असिते राक्षसे भाति यथा वा तडित्-अम्बुदे॥ १७॥
sūrya-prabhā iva śaila-agre tasyāḥ kauśeyam uttamam . asite rākṣase bhāti yathā vā taḍit-ambude.. 17..
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां मे कथयतो निलयं तस्य रक्षसः॥ १८॥
ताम् तु सीताम् अहम् मन्ये रामस्य परिकीर्तनात् । श्रूयताम् मे कथयतः निलयम् तस्य रक्षसः॥ १८॥
tām tu sītām aham manye rāmasya parikīrtanāt . śrūyatām me kathayataḥ nilayam tasya rakṣasaḥ.. 18..
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः॥ १९॥
पुत्रः विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । अध्यास्ते नगरीम् लङ्काम् रावणः नाम राक्षसः॥ १९॥
putraḥ viśravasaḥ sākṣāt bhrātā vaiśravaṇasya ca . adhyāste nagarīm laṅkām rāvaṇaḥ nāma rākṣasaḥ.. 19..
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने । तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥ २०॥
इतस् द्वीपे समुद्रस्य सम्पूर्णे शत-योजने । तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥ २०॥
itas dvīpe samudrasya sampūrṇe śata-yojane . tasmin laṅkā purī ramyā nirmitā viśvakarmaṇā.. 20..
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः । प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता॥ २१॥
जाम्बूनद-मयैः द्वारैः चित्रैः काञ्चन-वेदिकैः । प्रासादैः हेम-वर्णैः च महद्भिः सु समाकृता॥ २१॥
jāmbūnada-mayaiḥ dvāraiḥ citraiḥ kāñcana-vedikaiḥ . prāsādaiḥ hema-varṇaiḥ ca mahadbhiḥ su samākṛtā.. 21..
प्राकारेणार्कवर्णेन महता च समन्विता । तस्यां वसति वैदेही दीना कौशेयवासिनी॥ २२॥
प्राकारेण अर्क-वर्णेन महता च समन्विता । तस्याम् वसति वैदेही दीना कौशेय-वासिनी॥ २२॥
prākāreṇa arka-varṇena mahatā ca samanvitā . tasyām vasati vaidehī dīnā kauśeya-vāsinī.. 22..
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता । जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्॥ २३॥
रावण-अन्तःपुरे रुद्धा राक्षसीभिः सु रक्षिता । जनकस्य आत्मजाम् राज्ञः तस्याम् द्रक्ष्यथ मैथिलीम्॥ २३॥
rāvaṇa-antaḥpure ruddhā rākṣasībhiḥ su rakṣitā . janakasya ātmajām rājñaḥ tasyām drakṣyatha maithilīm.. 23..
लङ्कायामथ गुप्तायां सागरेण समन्ततः । सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्॥ २४॥
लङ्कायाम् अथ गुप्तायाम् सागरेण समन्ततः । सम्प्राप्य सागरस्य अन्तम् सम्पूर्णम् शत-योजनम्॥ २४॥
laṅkāyām atha guptāyām sāgareṇa samantataḥ . samprāpya sāgarasya antam sampūrṇam śata-yojanam.. 24..
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् । तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः॥ २५॥
आसाद्य दक्षिणम् तीरम् ततस् द्रक्ष्यथ रावणम् । तत्र एव त्वरिताः क्षिप्रम् विक्रमध्वम् प्लवङ्गमाः॥ २५॥
āsādya dakṣiṇam tīram tatas drakṣyatha rāvaṇam . tatra eva tvaritāḥ kṣipram vikramadhvam plavaṅgamāḥ.. 25..
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ । आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः॥ २६॥
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ । आद्यः पन्थाः कुलिङ्गानाम् ये च अन्ये धान्य-जीविनः॥ २६॥
jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha . ādyaḥ panthāḥ kuliṅgānām ye ca anye dhānya-jīvinaḥ.. 26..
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः । भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह॥ २७॥
द्वितीयः बलि-भोजानाम् ये च वृक्ष-फल-अशनाः । भासाः तृतीयम् गच्छन्ति क्रौञ्चाः च कुररैः सह॥ २७॥
dvitīyaḥ bali-bhojānām ye ca vṛkṣa-phala-aśanāḥ . bhāsāḥ tṛtīyam gacchanti krauñcāḥ ca kuraraiḥ saha.. 27..
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् । बलवीर्योपपन्नानां रूपयौवनशालिनाम्॥ २८॥
श्येनाः चतुर्थम् गच्छन्ति गृध्राः गच्छन्ति पञ्चमम् । बल-वीर्य-उपपन्नानाम् रूप-यौवन-शालिनाम्॥ २८॥
śyenāḥ caturtham gacchanti gṛdhrāḥ gacchanti pañcamam . bala-vīrya-upapannānām rūpa-yauvana-śālinām.. 28..
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा । वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥ २९॥
षष्ठः तु पन्थाः हंसानाम् वैनतेय-गतिः परा । वैनतेयात् च नः जन्म सर्वेषाम् वानर-ऋषभाः॥ २९॥
ṣaṣṭhaḥ tu panthāḥ haṃsānām vainateya-gatiḥ parā . vainateyāt ca naḥ janma sarveṣām vānara-ṛṣabhāḥ.. 29..
गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः । प्रतिकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत्॥ ३०॥
गर्हितम् तु कृतम् कर्म येन स्म पिशित-आशिनः । प्रतिकार्यम् च मे तस्य वैरम् भ्रातृ-कृतम् भवेत्॥ ३०॥
garhitam tu kṛtam karma yena sma piśita-āśinaḥ . pratikāryam ca me tasya vairam bhrātṛ-kṛtam bhavet.. 30..
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा । अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा॥ ३१॥
इहस्थः अहम् प्रपश्यामि रावणम् जानकीम् तथा । अस्माकम् अपि सौपर्णम् दिव्यम् चक्षुः बलम् तथा॥ ३१॥
ihasthaḥ aham prapaśyāmi rāvaṇam jānakīm tathā . asmākam api sauparṇam divyam cakṣuḥ balam tathā.. 31..
तस्मादाहारवीर्येण निसर्गेण च वानराः । आयोजनशतात् साग्राद् वयं पश्याम नित्यशः॥ ३२॥
तस्मात् आहार-वीर्येण निसर्गेण च वानराः । आयोजन-शतात् साग्रात् वयम् पश्याम नित्यशस्॥ ३२॥
tasmāt āhāra-vīryeṇa nisargeṇa ca vānarāḥ . āyojana-śatāt sāgrāt vayam paśyāma nityaśas.. 32..
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः । विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम्॥ ३३॥
अस्माकम् विहिता वृत्तिः निसर्गेण च दूरतस् । विहिता वृक्ष-मूले तु वृत्तिः चरण-योधिनाम्॥ ३३॥
asmākam vihitā vṛttiḥ nisargeṇa ca dūratas . vihitā vṛkṣa-mūle tu vṛttiḥ caraṇa-yodhinām.. 33..
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ॥ ३४॥
उपायः दृश्यताम् कश्चिद् लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीम् समृद्ध-अर्थाः गमिष्यथ॥ ३४॥
upāyaḥ dṛśyatām kaścid laṅghane lavaṇāmbhasaḥ . abhigamya tu vaidehīm samṛddha-arthāḥ gamiṣyatha.. 34..
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् । प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः॥ ३५॥
समुद्रम् नेतुम् इच्छामि भवद्भिः वरुणालयम् । प्रदास्यामि उदकम् भ्रातुः स्वर्गतस्य महात्मनः॥ ३५॥
samudram netum icchāmi bhavadbhiḥ varuṇālayam . pradāsyāmi udakam bhrātuḥ svargatasya mahātmanaḥ.. 35..
ततो नीत्वा तु तं देशं तीरे नदनदीपतेः । निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः॥ ३६॥
ततस् नीत्वा तु तम् देशम् तीरे नदनदीपतेः । निर्दग्ध-पक्षम् सम्पातिम् वानराः सु महा-ओजसः॥ ३६॥
tatas nītvā tu tam deśam tīre nadanadīpateḥ . nirdagdha-pakṣam sampātim vānarāḥ su mahā-ojasaḥ.. 36..
तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम् । बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते॥ ३७॥
तम् पुनर् प्रापयित्वा च तम् देशम् पतग-ईश्वरम् । बभूवुः वानराः हृष्टाः प्रवृत्तिम् उपलभ्य ते॥ ३७॥
tam punar prāpayitvā ca tam deśam pataga-īśvaram . babhūvuḥ vānarāḥ hṛṣṭāḥ pravṛttim upalabhya te.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥४-५८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टपञ्चाशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In