This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकोनषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..4..
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः॥ १॥
ततस् तद्-अमृत-आस्वादम् गृध्र-राजेन भाषितम् । निशम्य वदता हृष्टाः ते वचः प्लवग-ऋषभाः॥ १॥
tatas tad-amṛta-āsvādam gṛdhra-rājena bhāṣitam . niśamya vadatā hṛṣṭāḥ te vacaḥ plavaga-ṛṣabhāḥ.. 1..
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः । भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्॥ २॥
जाम्बवान् वानर-श्रेष्ठः सह सर्वैः प्लवङ्गमैः । भू-तलात् सहसा उत्थाय गृध्र-राजानम् अब्रवीत्॥ २॥
jāmbavān vānara-śreṣṭhaḥ saha sarvaiḥ plavaṅgamaiḥ . bhū-talāt sahasā utthāya gṛdhra-rājānam abravīt.. 2..
क्व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्॥ ३॥
क्व सीता केन वा दृष्टा कः वा हरति मैथिलीम् । तत् आख्यातु भवान् सर्वम् गतिः भव वनौकसाम्॥ ३॥
kva sītā kena vā dṛṣṭā kaḥ vā harati maithilīm . tat ākhyātu bhavān sarvam gatiḥ bhava vanaukasām.. 3..
को दाशरथिबाणानां वज्रवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्॥ ४॥
कः दाशरथि-बाणानाम् वज्र-वेग-निपातिनाम् । स्वयम् लक्ष्मण-मुक्तानाम् न चिन्तयति विक्रमम्॥ ४॥
kaḥ dāśarathi-bāṇānām vajra-vega-nipātinām . svayam lakṣmaṇa-muktānām na cintayati vikramam.. 4..
स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान् । पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्॥ ५॥
स हरीन् प्रतिसम्मुक्तान् सीता-श्रुति-समाहितान् । पुनर् आश्वासयन् प्रीतः इदम् वचनम् अब्रवीत्॥ ५॥
sa harīn pratisammuktān sītā-śruti-samāhitān . punar āśvāsayan prītaḥ idam vacanam abravīt.. 5..
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र चायतलोचना॥ ६॥
श्रूयताम् इह वैदेह्याः यथा मे हरणम् श्रुतम् । येन च अपि मम आख्यातम् यत्र च आयत-लोचना॥ ६॥
śrūyatām iha vaidehyāḥ yathā me haraṇam śrutam . yena ca api mama ākhyātam yatra ca āyata-locanā.. 6..
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते । चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥ ७॥
अहम् अस्मिन् गिरौ दुर्गे । चिरात् निपतितः वृद्धः क्षीण-प्राण-पराक्रमः॥ ७॥
aham asmin girau durge . cirāt nipatitaḥ vṛddhaḥ kṣīṇa-prāṇa-parākramaḥ.. 7..
तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः । आहारेण यथाकालं बिभर्ति पततां वरः॥ ८॥
तम् माम् एवंगतम् पुत्रः सुपार्श्वः नाम नामतः । आहारेण यथाकालम् बिभर्ति पतताम् वरः॥ ८॥
tam mām evaṃgatam putraḥ supārśvaḥ nāma nāmataḥ . āhāreṇa yathākālam bibharti patatām varaḥ.. 8..
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः । मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥ ९॥
तीक्ष्ण-कामाः तु गन्धर्वाः तीक्ष्ण-कोपाः भुजङ्गमाः । मृगाणाम् तु भयम् तीक्ष्णम् ततस् तीक्ष्ण-क्षुधाः वयम्॥ ९॥
tīkṣṇa-kāmāḥ tu gandharvāḥ tīkṣṇa-kopāḥ bhujaṅgamāḥ . mṛgāṇām tu bhayam tīkṣṇam tatas tīkṣṇa-kṣudhāḥ vayam.. 9..
स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥ १०॥
स कदाचिद् क्षुधा-आर्तस्य मम आहार-अभिकांक्षिणः । गत-सूर्ये अहनि प्राप्तः मम पुत्रः हि अनामिषः॥ १०॥
sa kadācid kṣudhā-ārtasya mama āhāra-abhikāṃkṣiṇaḥ . gata-sūrye ahani prāptaḥ mama putraḥ hi anāmiṣaḥ.. 10..
स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः । अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्॥ ११॥
स मया आहार-संरोधात् पीडितः प्रीति-वर्धनः । अनुमान्य यथातत्त्वम् इदम् वचनम् अब्रवीत्॥ ११॥
sa mayā āhāra-saṃrodhāt pīḍitaḥ prīti-vardhanaḥ . anumānya yathātattvam idam vacanam abravīt.. 11..
अहं तात यथाकालमामिषार्थी खमाप्लुतः । महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः॥ १२॥
अहम् तात यथाकालम् आमिष-अर्थी खम् आप्लुतः । महेन्द्रस्य गिरेः द्वारम् आवृत्य सु समाश्रितः॥ १२॥
aham tāta yathākālam āmiṣa-arthī kham āplutaḥ . mahendrasya gireḥ dvāram āvṛtya su samāśritaḥ.. 12..
तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम् । पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः॥ १३॥
तत्र सत्त्व-सहस्राणाम् सागर-अन्तर-चारिणाम् । पन्थानम् एकः अध्यवसम् संनिरोद्धुम् अवाङ्मुखः॥ १३॥
tatra sattva-sahasrāṇām sāgara-antara-cāriṇām . panthānam ekaḥ adhyavasam saṃniroddhum avāṅmukhaḥ.. 13..
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् । स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः॥ १४॥
तत्र कश्चिद् मया दृष्टः सूर्य-उदय-सम-प्रभाम् । स्त्रियम् आदाय गच्छन् वै भिन्नाञ्जन-चय-उपमः॥ १४॥
tatra kaścid mayā dṛṣṭaḥ sūrya-udaya-sama-prabhām . striyam ādāya gacchan vai bhinnāñjana-caya-upamaḥ.. 14..
सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमनुयाचितः॥ १५॥
सः अहम् अभ्यवहार-अर्थम् तौ दृष्ट्वा कृत-निश्चयः । तेन साम्ना विनीतेन पन्थानम् अनुयाचितः॥ १५॥
saḥ aham abhyavahāra-artham tau dṛṣṭvā kṛta-niścayaḥ . tena sāmnā vinītena panthānam anuyācitaḥ.. 15..
नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः॥ १६॥
नहि साम-उपपन्नानाम् प्रहर्ता विद्यते भुवि । नीचेषु अपि जनः कश्चिद् किम् अङ्ग बत मद्विधः॥ १६॥
nahi sāma-upapannānām prahartā vidyate bhuvi . nīceṣu api janaḥ kaścid kim aṅga bata madvidhaḥ.. 16..
स यातस्तेजसा व्योम संक्षिपन्निव वेगितः । अथाहं खेचरैर्भूतैरभिगम्य सभाजितः॥ १७॥
स यातः तेजसा व्योम संक्षिपन् इव वेगितः । अथ अहम् खेचरैः भूतैः अभिगम्य सभाजितः॥ १७॥
sa yātaḥ tejasā vyoma saṃkṣipan iva vegitaḥ . atha aham khecaraiḥ bhūtaiḥ abhigamya sabhājitaḥ.. 17..
दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः । कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥ १८॥
दिष्ट्या जीवति सीता इति हि अब्रुवन् माम् महा-ऋषयः । कथंचिद् स कलत्रः असौ गतः ते स्वस्ति असंशयम्॥ १८॥
diṣṭyā jīvati sītā iti hi abruvan mām mahā-ṛṣayaḥ . kathaṃcid sa kalatraḥ asau gataḥ te svasti asaṃśayam.. 18..
एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः । स च मे रावणो राजा रक्षसां प्रतिवेदितः॥ १९॥
एवम् उक्तः ततस् अहम् तैः सिद्धैः परम-शोभनैः । स च मे रावणः राजा रक्षसाम् प्रतिवेदितः॥ १९॥
evam uktaḥ tatas aham taiḥ siddhaiḥ parama-śobhanaiḥ . sa ca me rāvaṇaḥ rājā rakṣasām prativeditaḥ.. 19..
पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् । भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्॥ २०॥
पश्यन् दाशरथेः भार्याम् रामस्य जनकात्मजाम् । भ्रष्ट-आभरण-कौशेयाम् शोक-वेग-पराजिताम्॥ २०॥
paśyan dāśaratheḥ bhāryām rāmasya janakātmajām . bhraṣṭa-ābharaṇa-kauśeyām śoka-vega-parājitām.. 20..
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम् । एष कालात्ययस्तात इति वाक्यविदां वरः॥ २१॥
राम-लक्ष्मणयोः नाम क्रोशन्तीम् मुक्त-मूर्धजाम् । एष काल-अत्ययः तात इति वाक्य-विदाम् वरः॥ २१॥
rāma-lakṣmaṇayoḥ nāma krośantīm mukta-mūrdhajām . eṣa kāla-atyayaḥ tāta iti vākya-vidām varaḥ.. 21..
एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् । तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे॥ २२॥
एतद्-अर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् । तत् श्रुत्वा अपि हि मे बुद्धिः न आसीत् काचिद् पराक्रमे॥ २२॥
etad-artham samagram me supārśvaḥ pratyavedayat . tat śrutvā api hi me buddhiḥ na āsīt kācid parākrame.. 22..
अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत् । यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना॥ २३॥
अपक्षः हि कथम् पक्षी कर्म किंचिद् समारभेत् । यत् तु शक्यम् मया कर्तुम् वाच्-बुद्धि-गुण-वर्तिना॥ २३॥
apakṣaḥ hi katham pakṣī karma kiṃcid samārabhet . yat tu śakyam mayā kartum vāc-buddhi-guṇa-vartinā.. 23..
श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम् । वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः॥ २४॥
श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुष-आश्रयम् । वाच्-मतिभ्याम् हि सर्वेषाम् करिष्यामि प्रियम् हि वः॥ २४॥
śrūyatām tatra vakṣyāmi bhavatām pauruṣa-āśrayam . vāc-matibhyām hi sarveṣām kariṣyāmi priyam hi vaḥ.. 24..
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः । तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः॥ २५॥
यत् हि दाशरथेः कार्यम् मम तत् न अत्र संशयः । तत् भवन्तः मति-श्रेष्ठाः बलवन्तः मनस्विनः॥ २५॥
yat hi dāśaratheḥ kāryam mama tat na atra saṃśayaḥ . tat bhavantaḥ mati-śreṣṭhāḥ balavantaḥ manasvinaḥ.. 25..
प्रहिताः कपिराजेन देवैरपि दुरासदाः । रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः॥ २६॥
प्रहिताः कपि-राजेन देवैः अपि दुरासदाः । राम-लक्ष्मण-बाणाः च विहिताः कङ्क-पत्रिणः॥ २६॥
prahitāḥ kapi-rājena devaiḥ api durāsadāḥ . rāma-lakṣmaṇa-bāṇāḥ ca vihitāḥ kaṅka-patriṇaḥ.. 26..
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे । कामं खलु दशग्रीवस्तेजोबलसमन्वितः । भवतां तु समर्थानां न किंचिदपि दुष्करम्॥ २७॥
त्रयाणाम् अपि लोकानाम् पर्याप्ताः त्राण-निग्रहे । कामम् खलु दशग्रीवः तेजः-बल-समन्वितः । भवताम् तु समर्थानाम् न किंचिद् अपि दुष्करम्॥ २७॥
trayāṇām api lokānām paryāptāḥ trāṇa-nigrahe . kāmam khalu daśagrīvaḥ tejaḥ-bala-samanvitaḥ . bhavatām tu samarthānām na kiṃcid api duṣkaram.. 27..
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ २८॥
तत् अलम् काल-सङ्गेन क्रियताम् बुद्धि-निश्चयः । नहि कर्मसु सज्जन्ते बुद्धिमन्तः भवद्विधाः॥ २८॥
tat alam kāla-saṅgena kriyatām buddhi-niścayaḥ . nahi karmasu sajjante buddhimantaḥ bhavadvidhāḥ.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकोनषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In