This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकषष्ठितमः सर्गः ॥४-६१॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे एकषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..4..
ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम् । आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥ १॥
ततस् तत् दारुणम् कर्म दुष्करम् सहसा कृतम् । आचचक्षे मुनेः सर्वम् सूर्य-अनुगमनम् तथा॥ १॥
tatas tat dāruṇam karma duṣkaram sahasā kṛtam . ācacakṣe muneḥ sarvam sūrya-anugamanam tathā.. 1..
भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः । परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्॥ २॥
भगवन् व्रण-युक्त-त्वात् लज्जया च आकुल-इन्द्रियः । परिश्रान्तः न शक्नोमि वचनम् परिभाषितुम्॥ २॥
bhagavan vraṇa-yukta-tvāt lajjayā ca ākula-indriyaḥ . pariśrāntaḥ na śaknomi vacanam paribhāṣitum.. 2..
अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ । आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम्॥ ३॥
अहम् च एव जटायुः च संघर्षात् गर्व-मोहितौ । आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम्॥ ३॥
aham ca eva jaṭāyuḥ ca saṃgharṣāt garva-mohitau . ākāśam patitau dūrāt jijñāsantau parākramam.. 3..
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् । रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥ ४॥
कैलास-शिखरे बद्ध्वा मुनीनाम् अग्रतस् पणम् । रविः स्यात् अनुयातव्यः यावत् अस्तम् महा-गिरिम्॥ ४॥
kailāsa-śikhare baddhvā munīnām agratas paṇam . raviḥ syāt anuyātavyaḥ yāvat astam mahā-girim.. 4..
अप्यावां युगपत् प्राप्तावपश्याव महीतले । रथचक्रप्रमाणानि नगराणि पृथक् पृथक्॥ ५॥
अपि आवाम् युगपद् प्राप्तौ अपश्याव मही-तले । रथ-चक्र-प्रमाणानि नगराणि पृथक् पृथक्॥ ५॥
api āvām yugapad prāptau apaśyāva mahī-tale . ratha-cakra-pramāṇāni nagarāṇi pṛthak pṛthak.. 5..
क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः । गायन्तीः स्माङ्गना बह्वीः पश्यावो रक्तवाससः॥ ६॥
क्वचिद् वादित्र-घोषः च क्वचिद् भूषण-निःस्वनः । गायन्तीः स्म अङ्गनाः बह्वीः पश्यावः रक्त-वाससः॥ ६॥
kvacid vāditra-ghoṣaḥ ca kvacid bhūṣaṇa-niḥsvanaḥ . gāyantīḥ sma aṅganāḥ bahvīḥ paśyāvaḥ rakta-vāsasaḥ.. 6..
तूर्णमुत्पत्य चाकाशमादित्यपदमास्थितौ । आवामालोकयावस्तद् वनं शाद्वलसंस्थितम्॥ ७॥
तूर्णम् उत्पत्य च आकाशम् आदित्य-पदम् आस्थितौ । आवाम् आलोकयावः तत् वनम् शाद्वल-संस्थितम्॥ ७॥
tūrṇam utpatya ca ākāśam āditya-padam āsthitau . āvām ālokayāvaḥ tat vanam śādvala-saṃsthitam.. 7..
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिश्च संवीता सूत्रैरिव वसुंधरा॥ ८॥
उपलैः इव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिः च संवीता सूत्रैः इव वसुंधरा॥ ८॥
upalaiḥ iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ . āpagābhiḥ ca saṃvītā sūtraiḥ iva vasuṃdharā.. 8..
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः । भूतले सम्प्रकाशन्ते नागा इव जलाशये॥ ९॥
हिमवान् च एव विन्ध्यः च मेरुः च सु महा-गिरिः । भू-तले सम्प्रकाशन्ते नागाः इव जलाशये॥ ९॥
himavān ca eva vindhyaḥ ca meruḥ ca su mahā-giriḥ . bhū-tale samprakāśante nāgāḥ iva jalāśaye.. 9..
तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः । समाविशत मोहश्च ततो मूर्च्छा च दारुणा॥ १०॥
तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा आवयोः । समाविशत मोहः च ततस् मूर्च्छा च दारुणा॥ १०॥
tīvraḥ svedaḥ ca khedaḥ ca bhayam ca āsīt tadā āvayoḥ . samāviśata mohaḥ ca tatas mūrcchā ca dāruṇā.. 10..
न च दिग् ज्ञायते याम्या न चाग्नेयी न वारुणी । युगान्ते नियतो लोको हतो दग्ध इवाग्निना॥ ११॥
न च दिश् ज्ञायते याम्या न च आग्नेयी न वारुणी । युग-अन्ते नियतः लोकः हतः दग्धः इव अग्निना॥ ११॥
na ca diś jñāyate yāmyā na ca āgneyī na vāruṇī . yuga-ante niyataḥ lokaḥ hataḥ dagdhaḥ iva agninā.. 11..
मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी॥ १२॥
मनः च मे हतम् भूयस् चक्षुः प्राप्य तु संश्रयम् । यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी॥ १२॥
manaḥ ca me hatam bhūyas cakṣuḥ prāpya tu saṃśrayam . yatnena mahatā hi asmin manaḥ saṃdhāya cakṣuṣī.. 12..
यत्नेन महता भूयो भास्करः प्रतिलोकितः । तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥ १३॥
यत्नेन महता भूयस् भास्करः प्रतिलोकितः । तुल्य-पृथ्वी-प्रमाणेन भास्करः प्रतिभाति नौ॥ १३॥
yatnena mahatā bhūyas bhāskaraḥ pratilokitaḥ . tulya-pṛthvī-pramāṇena bhāskaraḥ pratibhāti nau.. 13..
जटायुर्मामनापृच्छ्य निपपात महीं ततः । तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥ १४॥
जटायुः माम् अन् आपृच्छ्य निपपात महीम् ततस् । तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम्॥ १४॥
jaṭāyuḥ mām an āpṛcchya nipapāta mahīm tatas . tam dṛṣṭvā tūrṇam ākāśāt ātmānam muktavān aham.. 14..
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत । प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम्॥ १५॥
पक्षाभ्याम् च मया गुप्तः जटायुः न प्रदह्यत । प्रमादात् तत्र निर्दग्धः पतन् वायु-पथात् अहम्॥ १५॥
pakṣābhyām ca mayā guptaḥ jaṭāyuḥ na pradahyata . pramādāt tatra nirdagdhaḥ patan vāyu-pathāt aham.. 15..
आशङ्के तं निपतितं जनस्थाने जटायुषम् । अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥ १६॥
आशङ्के तम् निपतितम् जनस्थाने जटायुषम् । अहम् तु पतितः विन्ध्ये दग्ध-पक्षः जडीकृतः॥ १६॥
āśaṅke tam nipatitam janasthāne jaṭāyuṣam . aham tu patitaḥ vindhye dagdha-pakṣaḥ jaḍīkṛtaḥ.. 16..
राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च । सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः॥ १७॥
राज्यात् च हीनः भ्रात्रा च पक्षाभ्याम् विक्रमेण च । सर्वथा मर्तुम् एवा इच्छन् पतिष्ये शिखरात् गिरेः॥ १७॥
rājyāt ca hīnaḥ bhrātrā ca pakṣābhyām vikrameṇa ca . sarvathā martum evā icchan patiṣye śikharāt gireḥ.. 17..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकषष्ठितमः सर्गः ॥४-६१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे एकषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In