This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्विषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..4..
एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः । अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत्॥ १॥
एवम् उक्त्वा मुनि-श्रेष्ठम् अरुदम् भृश-दुःखितः । अथ ध्यात्वा मुहूर्तम् च भगवान् इदम् अब्रवीत्॥ १॥
evam uktvā muni-śreṣṭham arudam bhṛśa-duḥkhitaḥ . atha dhyātvā muhūrtam ca bhagavān idam abravīt.. 1..
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः । चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते॥ २॥
पक्षौ च ते प्रपक्षौ च पुनर् अन्यौ भविष्यतः । चक्षुषी च एव प्राणाः च विक्रमः च बलम् च ते॥ २॥
pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ . cakṣuṣī ca eva prāṇāḥ ca vikramaḥ ca balam ca te.. 2..
पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम॥ ३॥
पुराणे सु महत् कार्यम् भविष्यम् हि मया श्रुतम् । दृष्टम् मे तपसा च एव श्रुत्वा च विदितम् मम॥ ३॥
purāṇe su mahat kāryam bhaviṣyam hi mayā śrutam . dṛṣṭam me tapasā ca eva śrutvā ca viditam mama.. 3..
राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः । तस्य पुत्रो महातेजा रामो नाम भविष्यति॥ ४॥
राजा दशरथः नाम कश्चिद् इक्ष्वाकु-वर्धनः । तस्य पुत्रः महा-तेजाः रामः नाम भविष्यति॥ ४॥
rājā daśarathaḥ nāma kaścid ikṣvāku-vardhanaḥ . tasya putraḥ mahā-tejāḥ rāmaḥ nāma bhaviṣyati.. 4..
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति । तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः॥ ५॥
अरण्यम् च सह भ्रात्रा लक्ष्मणेन गमिष्यति । तस्मिन् अर्थे नियुक्तः सन् पित्रा सत्य-पराक्रमः॥ ५॥
araṇyam ca saha bhrātrā lakṣmaṇena gamiṣyati . tasmin arthe niyuktaḥ san pitrā satya-parākramaḥ.. 5..
नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति । राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः॥ ६॥
नैरृतः रावणः नाम तस्य भार्याम् हरिष्यति । राक्षस-इन्द्रः जनस्थाने अवध्यः सुर-दानवैः॥ ६॥
nairṛtaḥ rāvaṇaḥ nāma tasya bhāryām hariṣyati . rākṣasa-indraḥ janasthāne avadhyaḥ sura-dānavaiḥ.. 6..
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली । न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी॥ ७॥
सा च कामैः भक्ष्यैः भोज्यैः च मैथिली । न भोक्ष्यति महाभागा दुःख-मग्ना यशस्विनी॥ ७॥
sā ca kāmaiḥ bhakṣyaiḥ bhojyaiḥ ca maithilī . na bhokṣyati mahābhāgā duḥkha-magnā yaśasvinī.. 7..
परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः । यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्॥ ८॥
परमान्नम् च वैदेह्याः ज्ञात्वा दास्यति वासवः । यत् अन्नम् अमृत-प्रख्यम् सुराणाम् अपि दुर्लभम्॥ ८॥
paramānnam ca vaidehyāḥ jñātvā dāsyati vāsavaḥ . yat annam amṛta-prakhyam surāṇām api durlabham.. 8..
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति । अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति॥ ९॥
तत् अन्नम् मैथिली प्राप्य विज्ञाय इन्द्रात् इदम् तु इति । अग्रम् उद्धृत्य रामाय भू-तले निर्वपिष्यति॥ ९॥
tat annam maithilī prāpya vijñāya indrāt idam tu iti . agram uddhṛtya rāmāya bhū-tale nirvapiṣyati.. 9..
यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः । देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति॥ १०॥
यदि जीवति मे भर्ता लक्ष्मणः वा अपि देवरः । देव-त्वम् गच्छतोः वा अपि तयोः अन्नम् इदम् तु इति॥ १०॥
yadi jīvati me bhartā lakṣmaṇaḥ vā api devaraḥ . deva-tvam gacchatoḥ vā api tayoḥ annam idam tu iti.. 10..
एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः । आख्येया राममहिषी त्वया तेभ्यो विहङ्गम॥ ११॥
एष्यन्ति प्रेषिताः तत्र राम-दूताः प्लवङ्गमाः । आख्येया राम-महिषी त्वया तेभ्यः विहङ्गम॥ ११॥
eṣyanti preṣitāḥ tatra rāma-dūtāḥ plavaṅgamāḥ . ākhyeyā rāma-mahiṣī tvayā tebhyaḥ vihaṅgama.. 11..
सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि । देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे॥ १२॥
सर्वथा तु न गन्तव्यम् ईदृशः क्व गमिष्यसि । देश-कालौ प्रतीक्षस्व पक्षौ त्वम् प्रतिपत्स्यसे॥ १२॥
sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi . deśa-kālau pratīkṣasva pakṣau tvam pratipatsyase.. 12..
उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् । इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि॥ १३॥
उत्सहेयम् अहम् कर्तुम् अद्य एव त्वाम् सपक्षकम् । इहस्थः त्वम् हि लोकानाम् हितम् कार्यम् करिष्यसि॥ १३॥
utsaheyam aham kartum adya eva tvām sapakṣakam . ihasthaḥ tvam hi lokānām hitam kāryam kariṣyasi.. 13..
त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः । ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च॥ १४॥
त्वया अपि खलु तत् कार्यम् तयोः च नृप-पुत्रयोः । ब्राह्मणानाम् गुरूणाम् च मुनीनाम् वासवस्य च॥ १४॥
tvayā api khalu tat kāryam tayoḥ ca nṛpa-putrayoḥ . brāhmaṇānām gurūṇām ca munīnām vāsavasya ca.. 14..
इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ । नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् । महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः॥ १५॥
इच्छामि अहम् अपि द्रष्टुम् भ्रातरौ राम-लक्ष्मणौ । न इच्छे चिरम् धारयितुम् प्राणान् त्यक्ष्ये कलेवरम् । महा-ऋषिः तु अब्रवीत् एवम् दृष्ट-तत्त्व-अर्थ-दर्शनः॥ १५॥
icchāmi aham api draṣṭum bhrātarau rāma-lakṣmaṇau . na icche ciram dhārayitum prāṇān tyakṣye kalevaram . mahā-ṛṣiḥ tu abravīt evam dṛṣṭa-tattva-artha-darśanaḥ.. 15..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्विषष्ठितमः सर्गः ॥४-६२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्विषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In