This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे त्रिषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe triṣaṣṭhitamaḥ sargaḥ ..4..
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमालयम्॥ १॥
एतैः अन्यैः च बहुभिः वाक्यैः वाक्य-विशारदः । माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम्॥ १॥
etaiḥ anyaiḥ ca bahubhiḥ vākyaiḥ vākya-viśāradaḥ . mām praśasya abhyanujñāpya praviṣṭaḥ sa svam ālayam.. 1..
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ २॥
कन्दरात् तु विसर्पित्वा पर्वतस्य शनैस् शनैस् । अहम् विन्ध्यम् समारुह्य भवतः प्रतिपालये॥ २॥
kandarāt tu visarpitvā parvatasya śanais śanais . aham vindhyam samāruhya bhavataḥ pratipālaye.. 2..
अद्य त्वेतस्य कालस्य वर्षं साग्रशतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३॥
अद्य तु एतस्य कालस्य वर्षम् साग्र-शतम् गतम् । देश-काल-प्रतीक्षः अस्मि हृदि कृत्वा मुनेः वचः॥ ३॥
adya tu etasya kālasya varṣam sāgra-śatam gatam . deśa-kāla-pratīkṣaḥ asmi hṛdi kṛtvā muneḥ vacaḥ.. 3..
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥ ४॥
महाप्रस्थानम् आसाद्य स्वर्गते तु निशाकरे । माम् निर्दहति संतापः वितर्कैः बहुभिः वृतम्॥ ४॥
mahāprasthānam āsādya svargate tu niśākare . mām nirdahati saṃtāpaḥ vitarkaiḥ bahubhiḥ vṛtam.. 4..
उदितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणे मम॥ ५॥
उदिताम् मरणे बुद्धिम् मुनि-वाक्यैः निवर्तये । बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम॥ ५॥
uditām maraṇe buddhim muni-vākyaiḥ nivartaye . buddhiḥ yā tena me dattā prāṇānām rakṣaṇe mama.. 5..
सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः । बुध्यता च मया वीर्यं रावणस्य दुरात्मनः॥ ६॥
सा मे अपनयते दुःखम् दीप्ता इव अग्नि-शिखा तमः । बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः॥ ६॥
sā me apanayate duḥkham dīptā iva agni-śikhā tamaḥ . budhyatā ca mayā vīryam rāvaṇasya durātmanaḥ.. 6..
पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् । तस्या विलपितं श्रुत्वा तौ च सीतावियोजितौ॥ ७॥
पुत्रः संतर्जितः वाग्भिः न त्राता मैथिली कथम् । तस्याः विलपितम् श्रुत्वा तौ च सीता-वियोजितौ॥ ७॥
putraḥ saṃtarjitaḥ vāgbhiḥ na trātā maithilī katham . tasyāḥ vilapitam śrutvā tau ca sītā-viyojitau.. 7..
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् । तस्य त्वेवं ब्रुवाणस्य संहतैर्वानरैः सह॥ ८॥
न मे दशरथ-स्नेहात् पुत्रेण उत्पादितम् प्रियम् । तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह॥ ८॥
na me daśaratha-snehāt putreṇa utpāditam priyam . tasya tu evam bruvāṇasya saṃhataiḥ vānaraiḥ saha.. 8..
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् । स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः॥ ९॥
उत्पेततुः तदा पक्षौ समक्षम् वन-चारिणाम् । स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुणच्छदैः॥ ९॥
utpetatuḥ tadā pakṣau samakṣam vana-cāriṇām . sa dṛṣṭvā svām tanum pakṣaiḥ udgataiḥ aruṇacchadaiḥ.. 9..
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् । निशाकरस्य राजर्षेः प्रसादादमितौजसः॥ १०॥
प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् । निशाकरस्य राजर्षेः प्रसादात् अमित-ओजसः॥ १०॥
praharṣam atulam lebhe vānarān ca idam abravīt . niśākarasya rājarṣeḥ prasādāt amita-ojasaḥ.. 10..
आदित्यरश्मिनिर्दग्धौ पक्षौ पुनरुपस्थितौ । यौवने वर्तमानस्य ममासीद् यः पराक्रमः॥ ११॥
आदित्य-रश्मि-निर्दग्धौ पक्षौ पुनर् उपस्थितौ । यौवने वर्तमानस्य मम आसीत् यः पराक्रमः॥ ११॥
āditya-raśmi-nirdagdhau pakṣau punar upasthitau . yauvane vartamānasya mama āsīt yaḥ parākramaḥ.. 11..
तमेवाद्यावगच्छामि बलं पौरुषमेव च । सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ॥ १२॥
तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च । सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ॥ १२॥
tam eva adya avagacchāmi balam pauruṣam eva ca . sarvathā kriyatām yatnaḥ sītām adhigamiṣyatha.. 12..
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः । इत्युक्त्वा तान् हरीन् सर्वान् सम्पातिः पतगोत्तमः॥ १३॥
पक्ष-लाभः मम अयम् वः सिद्धि-प्रत्यय-कारकः । इति उक्त्वा तान् हरीन् सर्वान् सम्पातिः पतग-उत्तमः॥ १३॥
pakṣa-lābhaḥ mama ayam vaḥ siddhi-pratyaya-kārakaḥ . iti uktvā tān harīn sarvān sampātiḥ pataga-uttamaḥ.. 13..
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् । तस्य तद् वचनं श्रुत्वा प्रतिसंहृष्टमानसाः । बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ १४॥
उत्पपात गिरेः शृङ्गात् जिज्ञासुः खगमः गतिम् । तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट-मानसाः । बभूवुः हरि-शार्दूलाः विक्रम-अभ्युदय-उन्मुखाः॥ १४॥
utpapāta gireḥ śṛṅgāt jijñāsuḥ khagamaḥ gatim . tasya tat vacanam śrutvā pratisaṃhṛṣṭa-mānasāḥ . babhūvuḥ hari-śārdūlāḥ vikrama-abhyudaya-unmukhāḥ.. 14..
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः । अभिजिदभिमुखां दिशं ययु- र्जनकसुतापरिमार्गणोन्मुखाः॥ १५॥
अथ पवन-समान-विक्रमाः प्लवग-वराः प्रतिलब्ध-पौरुषाः । अभिजित्-अभिमुखाम् दिशम् ययुः जनकसुता-परिमार्गण-उन्मुखाः॥ १५॥
atha pavana-samāna-vikramāḥ plavaga-varāḥ pratilabdha-pauruṣāḥ . abhijit-abhimukhām diśam yayuḥ janakasutā-parimārgaṇa-unmukhāḥ.. 15..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिषष्ठितमः सर्गः ॥४-६३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे त्रिषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe triṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In