This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे पञ्चषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..4..
अथाङ्गदवचः श्रुत्वा ते सर्वे वानरर्षभाः । स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम्॥ १॥
अथ अङ्गद-वचः श्रुत्वा ते सर्वे वानर-ऋषभाः । स्वम् स्वम् गतौ समुत्साहम् ऊचुः तत्र यथाक्रमम्॥ १॥
atha aṅgada-vacaḥ śrutvā te sarve vānara-ṛṣabhāḥ . svam svam gatau samutsāham ūcuḥ tatra yathākramam.. 1..
गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा॥ २॥
गजः गवाक्षः गवयः शरभः गन्धमादनः । मैन्दः च द्विविदः च एव सुषेणः जाम्बवान् तथा॥ २॥
gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ . maindaḥ ca dvividaḥ ca eva suṣeṇaḥ jāmbavān tathā.. 2..
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्॥ ३॥
आबभाषे गजः तत्र प्लवेयम् दश-योजनम् । गवाक्षः योजनानि आह गमिष्यामि इति विंशतिम्॥ ३॥
ābabhāṣe gajaḥ tatra plaveyam daśa-yojanam . gavākṣaḥ yojanāni āha gamiṣyāmi iti viṃśatim.. 3..
शरभो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः॥ ४॥
शरभः वानरः तत्र वानरान् तान् उवाच ह । त्रिंशतम् तु गमिष्यामि योजनानाम् प्लवङ्गमाः॥ ४॥
śarabhaḥ vānaraḥ tatra vānarān tān uvāca ha . triṃśatam tu gamiṣyāmi yojanānām plavaṅgamāḥ.. 4..
ऋषभो वानरस्तत्र वानरांस्तानुवाच ह । चत्वारिंशद् गमिष्यामि योजनानां न संशयः॥ ५॥
ऋषभः वानरः तत्र वानरान् तान् उवाच ह । चत्वारिंशत् गमिष्यामि योजनानाम् न संशयः॥ ५॥
ṛṣabhaḥ vānaraḥ tatra vānarān tān uvāca ha . catvāriṃśat gamiṣyāmi yojanānām na saṃśayaḥ.. 5..
वानरांस्तु महातेजा अब्रवीद् गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः॥ ६॥
वानरान् तु महा-तेजाः अब्रवीत् गन्धमादनः । योजनानाम् गमिष्यामि पञ्चाशत् तु न संशयः॥ ६॥
vānarān tu mahā-tejāḥ abravīt gandhamādanaḥ . yojanānām gamiṣyāmi pañcāśat tu na saṃśayaḥ.. 6..
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे॥ ७॥
मैन्दः तु वानरः तत्र वानरान् तान् उवाच ह । योजनानाम् परम् षष्टिम् अहम् प्लवितुम् उत्सहे॥ ७॥
maindaḥ tu vānaraḥ tatra vānarān tān uvāca ha . yojanānām param ṣaṣṭim aham plavitum utsahe.. 7..
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामि न संदेहः सप्ततिं योजनान्यहम्॥ ८॥
ततस् तत्र महा-तेजाः द्विविदः प्रत्यभाषत । गमिष्यामि न संदेहः सप्ततिम् योजनानि अहम्॥ ८॥
tatas tatra mahā-tejāḥ dvividaḥ pratyabhāṣata . gamiṣyāmi na saṃdehaḥ saptatim yojanāni aham.. 8..
सुषेणस्तु महातेजाः सत्त्ववान् कपिसत्तमः । अशीतिं प्रतिजानेऽहं योजनानां पराक्रमे॥ ९॥
सुषेणः तु महा-तेजाः सत्त्ववान् कपि-सत्तमः । अशीतिम् प्रतिजाने अहम् योजनानाम् पराक्रमे॥ ९॥
suṣeṇaḥ tu mahā-tejāḥ sattvavān kapi-sattamaḥ . aśītim pratijāne aham yojanānām parākrame.. 9..
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत॥ १०॥
तेषाम् कथयताम् तत्र सर्वान् तान् अनुमान्य च । ततस् वृद्धतमः तेषाम् जाम्बवान् प्रत्यभाषत॥ १०॥
teṣām kathayatām tatra sarvān tān anumānya ca . tatas vṛddhatamaḥ teṣām jāmbavān pratyabhāṣata.. 10..
पूर्वमस्माकमप्यासीत् कश्चिद् गतिपराक्रमः । ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्॥ ११॥
पूर्वम् अस्माकम् अपि आसीत् कश्चिद् गति-पराक्रमः । ते वयम् वयसः पारम् अनुप्राप्ताः स्म साम्प्रतम्॥ ११॥
pūrvam asmākam api āsīt kaścid gati-parākramaḥ . te vayam vayasaḥ pāram anuprāptāḥ sma sāmpratam.. 11..
किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् । यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ॥ १२॥
किम् तु ना एवम् गते शक्यम् इदम् कार्यम् उपेक्षितुम् । यद्-अर्थम् कपि-राजः च रामः च कृत-निश्चयौ॥ १२॥
kim tu nā evam gate śakyam idam kāryam upekṣitum . yad-artham kapi-rājaḥ ca rāmaḥ ca kṛta-niścayau.. 12..
साम्प्रतं कालमस्माकं या गतिस्तां निबोधत । नवतिं योजनानां तु गमिष्यामि न संशयः॥ १३॥
साम्प्रतम् कालम् अस्माकम् या गतिः ताम् निबोधत । नवतिम् योजनानाम् तु गमिष्यामि न संशयः॥ १३॥
sāmpratam kālam asmākam yā gatiḥ tām nibodhata . navatim yojanānām tu gamiṣyāmi na saṃśayaḥ.. 13..
तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवानिदमब्रवीत् । न खल्वेतावदेवासीद् गमने मे पराक्रमः॥ १४॥
तान् च सर्वान् हरि-श्रेष्ठान् जाम्बवान् इदम् अब्रवीत् । न खलु एतावत् एव आसीत् गमने मे पराक्रमः॥ १४॥
tān ca sarvān hari-śreṣṭhān jāmbavān idam abravīt . na khalu etāvat eva āsīt gamane me parākramaḥ.. 14..
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः । प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्॥ १५॥
मया वैरोचने यज्ञे प्रभविष्णुः सनातनः । प्रदक्षिणीकृतः पूर्वम् क्रममाणः त्रिविक्रमम्॥ १५॥
mayā vairocane yajñe prabhaviṣṇuḥ sanātanaḥ . pradakṣiṇīkṛtaḥ pūrvam kramamāṇaḥ trivikramam.. 15..
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः । यौवने च तदासीन्मे बलमप्रतिमं परम्॥ १६॥
सः इदानीम् अहम् वृद्धः प्लवने मन्द-विक्रमः । यौवने च तदा आसीत् मे बलम् अप्रतिमम् परम्॥ १६॥
saḥ idānīm aham vṛddhaḥ plavane manda-vikramaḥ . yauvane ca tadā āsīt me balam apratimam param.. 16..
सम्प्रत्येतावदेवाद्य शक्यं मे गमने स्वतः । नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति॥ १७॥
सम्प्रति एतावत् एव अद्य शक्यम् मे गमने स्वतस् । न एतावता च संसिद्धिः कार्यस्य अस्य भविष्यति॥ १७॥
samprati etāvat eva adya śakyam me gamane svatas . na etāvatā ca saṃsiddhiḥ kāryasya asya bhaviṣyati.. 17..
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा । अनुमान्य तदा प्राज्ञो जाम्बवन्तं महाकपिः॥ १८॥
अथ उत्तरम् उदार-अर्थम् अब्रवीत् अङ्गदः तदा । अनुमान्य तदा प्राज्ञः जाम्बवन्तम् महा-कपिः॥ १८॥
atha uttaram udāra-artham abravīt aṅgadaḥ tadā . anumānya tadā prājñaḥ jāmbavantam mahā-kapiḥ.. 18..
अहमेतद् गमिष्यामि योजनानां शतं महत् । निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम्॥ १९॥
अहम् एतत् गमिष्यामि योजनानाम् शतम् महत् । निवर्तने तु मे शक्तिः स्यात् न वा इति न निश्चितम्॥ १९॥
aham etat gamiṣyāmi yojanānām śatam mahat . nivartane tu me śaktiḥ syāt na vā iti na niścitam.. 19..
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः । ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम॥ २०॥
तम् उवाच हरि-श्रेष्ठम् जाम्बवान् वाक्य-कोविदः । ज्ञायते गमने शक्तिः तव हरि-ऋक्ष-सत्तम॥ २०॥
tam uvāca hari-śreṣṭham jāmbavān vākya-kovidaḥ . jñāyate gamane śaktiḥ tava hari-ṛkṣa-sattama.. 20..
कामं शतसहस्रं वा नह्येष विधिरुच्यते । योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम्॥ २१॥
कामम् शत-सहस्रम् वा न हि एष विधिः उच्यते । योजनानाम् भवान् शक्तः गन्तुम् प्रतिनिवर्तितुम्॥ २१॥
kāmam śata-sahasram vā na hi eṣa vidhiḥ ucyate . yojanānām bhavān śaktaḥ gantum pratinivartitum.. 21..
नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम॥ २२॥
नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवता अयम् जनः सर्वः प्रेष्यः प्लवग-सत्तम॥ २२॥
nahi preṣayitā tāta svāmī preṣyaḥ kathaṃcana . bhavatā ayam janaḥ sarvaḥ preṣyaḥ plavaga-sattama.. 22..
भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः । स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप॥ २३॥
भवान् कलत्रम् अस्माकम् स्वामि-भावे व्यवस्थितः । स्वामी कलत्रम् सैन्यस्य गतिः एषा परंतप॥ २३॥
bhavān kalatram asmākam svāmi-bhāve vyavasthitaḥ . svāmī kalatram sainyasya gatiḥ eṣā paraṃtapa.. 23..
अपि वै तस्य कार्यस्य भवान् मूलमरिंदम । तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान्॥ २४॥
अपि वै तस्य कार्यस्य भवान् मूलम् अरिंदम । तस्मात् कलत्र-वत् तात प्रतिपाल्यः सदा भवान्॥ २४॥
api vai tasya kāryasya bhavān mūlam ariṃdama . tasmāt kalatra-vat tāta pratipālyaḥ sadā bhavān.. 24..
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः । मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः॥ २५॥
मूलम् अर्थस्य संरक्ष्यम् एष कार्य-विदाम् नयः । मूले हि सति सिध्यन्ति गुणाः सर्वे फल-उदयाः॥ २५॥
mūlam arthasya saṃrakṣyam eṣa kārya-vidām nayaḥ . mūle hi sati sidhyanti guṇāḥ sarve phala-udayāḥ.. 25..
तद् भवानस्य कार्यस्य साधनं सत्यविक्रम । वुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप॥ २६॥
तत् भवान् अस्य कार्यस्य साधनम् सत्य-विक्रम । वुद्धि-विक्रम-सम्पन्नः हेतुः अत्र परंतप॥ २६॥
tat bhavān asya kāryasya sādhanam satya-vikrama . vuddhi-vikrama-sampannaḥ hetuḥ atra paraṃtapa.. 26..
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम । भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने॥ २७॥
गुरुः च गुरु-पुत्रः च त्वम् हि नः कपि-सत्तम । भवन्तम् आश्रित्य वयम् समर्थाः हि अर्थ-साधने॥ २७॥
guruḥ ca guru-putraḥ ca tvam hi naḥ kapi-sattama . bhavantam āśritya vayam samarthāḥ hi artha-sādhane.. 27..
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः । प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः॥ २८॥
उक्त-वाक्यम् महा-प्राज्ञम् जाम्बवन्तम् महा-कपिः । प्रत्युवाच उत्तरम् वाक्यम् वालि-सूनु-रथ-अङ्गदः॥ २८॥
ukta-vākyam mahā-prājñam jāmbavantam mahā-kapiḥ . pratyuvāca uttaram vākyam vāli-sūnu-ratha-aṅgadaḥ.. 28..
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः । पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्॥ २९॥
यदि ना अहम् गमिष्यामि ना अन्यः वानर-पुङ्गवः । पुनर् खलु इदम् अस्माभिः कार्यम् प्राय-उपवेशनम्॥ २९॥
yadi nā aham gamiṣyāmi nā anyaḥ vānara-puṅgavaḥ . punar khalu idam asmābhiḥ kāryam prāya-upaveśanam.. 29..
नह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः । तत्रापि गत्वा प्राणानां न पश्ये परिरक्षणम्॥ ३०॥
न हि अ कृत्वा हरि-पतेः संदेशम् तस्य धीमतः । तत्र अपि गत्वा प्राणानाम् न पश्ये परिरक्षणम्॥ ३०॥
na hi a kṛtvā hari-pateḥ saṃdeśam tasya dhīmataḥ . tatra api gatvā prāṇānām na paśye parirakṣaṇam.. 30..
स हि प्रसादे चात्यर्थकोपे च हरिरीश्वरः । अतीत्य तस्य संदेशं विनाशो गमने भवेत्॥ ३१॥
स हि प्रसादे च अत्यर्थ-कोपे च हरिः ईश्वरः । अतीत्य तस्य संदेशम् विनाशः गमने भवेत्॥ ३१॥
sa hi prasāde ca atyartha-kope ca hariḥ īśvaraḥ . atītya tasya saṃdeśam vināśaḥ gamane bhavet.. 31..
तत्तथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः । तद् भवानेव दृष्टार्थः संचिन्तयितुमर्हति॥ ३२॥
तत् तथा हि अस्य कार्यस्य न भवति अन्यथा गतिः । तत् भवान् एव दृष्ट-अर्थः संचिन्तयितुम् अर्हति॥ ३२॥
tat tathā hi asya kāryasya na bhavati anyathā gatiḥ . tat bhavān eva dṛṣṭa-arthaḥ saṃcintayitum arhati.. 32..
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः । जाम्बवानुत्तमं वाक्यं प्रोवाचेदं ततोऽङ्गदम्॥ ३३॥
सः अङ्गदेन तदा वीरः प्रत्युक्तः प्लवग-ऋषभः । जाम्बवान् उत्तमम् वाक्यम् प्रोवाच इदम् ततस् अङ्गदम्॥ ३३॥
saḥ aṅgadena tadā vīraḥ pratyuktaḥ plavaga-ṛṣabhaḥ . jāmbavān uttamam vākyam provāca idam tatas aṅgadam.. 33..
तस्य ते वीर कार्यस्य न किंचित् परिहास्यते । एष संचोदयाम्येनं यः कार्यं साधयिष्यति॥ ३४॥
तस्य ते वीर कार्यस्य न किंचिद् परिहास्यते । एष संचोदयामि एनम् यः कार्यम् साधयिष्यति॥ ३४॥
tasya te vīra kāryasya na kiṃcid parihāsyate . eṣa saṃcodayāmi enam yaḥ kāryam sādhayiṣyati.. 34..
ततः प्रतीतं प्लवतां वरिष्ठ- मेकान्तमाश्रित्य सुखोपविष्टम् । संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव॥ ३५॥
ततस् प्रतीतम् प्लवताम् वरिष्ठम् एकान्तम् आश्रित्य सुख-उपविष्टम् । संचोदयामास हरि-प्रवीरः हरि-प्रवीरम् हनुमन्तम् एव॥ ३५॥
tatas pratītam plavatām variṣṭham ekāntam āśritya sukha-upaviṣṭam . saṃcodayāmāsa hari-pravīraḥ hari-pravīram hanumantam eva.. 35..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्ठितमः सर्गः ॥४-६५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे पञ्चषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In