This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षट्षष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..4..
अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् । जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्॥ १॥
अनेक-शत-साहस्रीम् विषण्णाम् हरि-वाहिनीम् । जाम्बवान् समुदीक्ष्य एवम् हनूमन्तम् अथ अब्रवीत्॥ १॥
aneka-śata-sāhasrīm viṣaṇṇām hari-vāhinīm . jāmbavān samudīkṣya evam hanūmantam atha abravīt.. 1..
वीर वानरलोकस्य सर्वशास्त्रविदां वर । तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि॥ २॥
वीर वानर-लोकस्य सर्व-शास्त्र-विदाम् वर । तूष्णीम् एकान्तम् आश्रित्य हनूमन् किम् न जल्पसि॥ २॥
vīra vānara-lokasya sarva-śāstra-vidām vara . tūṣṇīm ekāntam āśritya hanūman kim na jalpasi.. 2..
हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च॥ ३॥
हनूमन् हरि-राजस्य सुग्रीवस्य समः हि असि । राम-लक्ष्मणयोः च अपि तेजसा च बलेन च॥ ३॥
hanūman hari-rājasya sugrīvasya samaḥ hi asi . rāma-lakṣmaṇayoḥ ca api tejasā ca balena ca.. 3..
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्॥ ४॥
अरिष्टनेमिनः पुत्रः वैनतेयः महा-बलः । गरुत्मान् इव विख्यातः उत्तमः सर्व-पक्षिणाम्॥ ४॥
ariṣṭaneminaḥ putraḥ vainateyaḥ mahā-balaḥ . garutmān iva vikhyātaḥ uttamaḥ sarva-pakṣiṇām.. 4..
बहुशो हि मया दृष्टः सागरे स महाबलः । भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः॥ ५॥
बहुशस् हि मया दृष्टः सागरे स महा-बलः । भुजङ्गान् उद्धरन् पक्षी महा-बाहुः महा-बलः॥ ५॥
bahuśas hi mayā dṛṣṭaḥ sāgare sa mahā-balaḥ . bhujaṅgān uddharan pakṣī mahā-bāhuḥ mahā-balaḥ.. 5..
पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव । विक्रमश्चापि वेगश्च न ते तेनापहीयते॥ ६॥
पक्षयोः यत् बलम् तस्य भुज-वीर्य-बलम् तव । विक्रमः च अपि वेगः च न ते तेन अपहीयते॥ ६॥
pakṣayoḥ yat balam tasya bhuja-vīrya-balam tava . vikramaḥ ca api vegaḥ ca na te tena apahīyate.. 6..
बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे॥ ७॥
बलम् बुद्धिः च तेजः च सत्त्वम् च हरि-पुङ्गव । विशिष्टम् सर्व-भूतेषु किम् आत्मानम् न सज्जसे॥ ७॥
balam buddhiḥ ca tejaḥ ca sattvam ca hari-puṅgava . viśiṣṭam sarva-bhūteṣu kim ātmānam na sajjase.. 7..
अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणो हरेः॥ ८॥
अप्सराः अप्सरसाम् श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जना इति परिख्याता पत्नी केसरिणः हरेः॥ ८॥
apsarāḥ apsarasām śreṣṭhā vikhyātā puñjikasthalā . añjanā iti parikhyātā patnī kesariṇaḥ hareḥ.. 8..
विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत् तात कपित्वे कामरूपिणी॥ ९॥
विख्याता त्रिषु लोकेषु रूपेण अप्रतिमा भुवि । अभिशापात् अभूत् तात कपि-त्वे कामरूपिणी॥ ९॥
vikhyātā triṣu lokeṣu rūpeṇa apratimā bhuvi . abhiśāpāt abhūt tāta kapi-tve kāmarūpiṇī.. 9..
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः । मानुषं विग्रहं कृत्वा रूपयौवनशालिनी॥ १०॥
दुहिता वानर-इन्द्रस्य कुञ्जरस्य महात्मनः । मानुषम् विग्रहम् कृत्वा रूप-यौवन-शालिनी॥ १०॥
duhitā vānara-indrasya kuñjarasya mahātmanaḥ . mānuṣam vigraham kṛtvā rūpa-yauvana-śālinī.. 10..
विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी । अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे॥ ११॥
विचित्र-माल्य-आभरणा कदाचिद् क्षौम-धारिणी । अचरत् पर्वतस्य अग्रे प्रावृष्-अम्बुद-संनिभे॥ ११॥
vicitra-mālya-ābharaṇā kadācid kṣauma-dhāriṇī . acarat parvatasya agre prāvṛṣ-ambuda-saṃnibhe.. 11..
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः॥ १२॥
तस्याः वस्त्रम् विशाल-अक्ष्याः पीतम् रक्त-दशम् शुभम् । स्थितायाः पर्वतस्य अग्रे मारुतः अपाहरत् शनैस्॥ १२॥
tasyāḥ vastram viśāla-akṣyāḥ pītam rakta-daśam śubham . sthitāyāḥ parvatasya agre mārutaḥ apāharat śanais.. 12..
स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्॥ १३॥
स ददर्श ततस् तस्याः वृत्तौ ऊरू सु संहतौ । स्तनौ च पीनौ सहितौ सुजातम् चारु च आननम्॥ १३॥
sa dadarśa tatas tasyāḥ vṛttau ūrū su saṃhatau . stanau ca pīnau sahitau sujātam cāru ca ānanam.. 13..
तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम् । दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः॥ १४॥
ताम् बलात् आयत-श्रोणीम् तनु-मध्याम् यशस्विनीम् । दृष्ट्वा एव शुभ-सर्व-अङ्गीम् पवनः काम-मोहितः॥ १४॥
tām balāt āyata-śroṇīm tanu-madhyām yaśasvinīm . dṛṣṭvā eva śubha-sarva-aṅgīm pavanaḥ kāma-mohitaḥ.. 14..
स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः । मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्॥ १५॥
स ताम् भुजाभ्याम् दीर्घाभ्याम् पर्यष्वजत मारुतः । मन्मथ-आविष्ट-सर्व-अङ्गः गत-आत्मा ताम् अनिन्दिताम्॥ १५॥
sa tām bhujābhyām dīrghābhyām paryaṣvajata mārutaḥ . manmatha-āviṣṭa-sarva-aṅgaḥ gata-ātmā tām aninditām.. 15..
सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति॥ १६॥
सा तु तत्र एव सम्भ्रान्ता सुव्रता वाक्यम् अब्रवीत् । एक-पत्नी-व्रतम् इदम् कः नाशयितुम् इच्छति॥ १६॥
sā tu tatra eva sambhrāntā suvratā vākyam abravīt . eka-patnī-vratam idam kaḥ nāśayitum icchati.. 16..
अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम्॥ १७॥
अञ्जनायाः वचः श्रुत्वा मारुतः प्रत्यभाषत । न त्वाम् हिंसामि सुश्रोणि मा भूत् ते मनसः भयम्॥ १७॥
añjanāyāḥ vacaḥ śrutvā mārutaḥ pratyabhāṣata . na tvām hiṃsāmi suśroṇi mā bhūt te manasaḥ bhayam.. 17..
मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि । वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति॥ १८॥
मनसा अस्मि गतः यत् त्वाम् परिष्वज्य यशस्विनि । वीर्यवान् बुद्धि-सम्पन्नः तव पुत्रः भविष्यति॥ १८॥
manasā asmi gataḥ yat tvām pariṣvajya yaśasvini . vīryavān buddhi-sampannaḥ tava putraḥ bhaviṣyati.. 18..
महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः॥ १९॥
। लङ्घने प्लवने च एव भविष्यति मया समः॥ १९॥
. laṅghane plavane ca eva bhaviṣyati mayā samaḥ.. 19..
एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ॥ २०॥
एवम् उक्ता ततस् तुष्टा जननी ते महा-कपे । गुहायाम् त्वाम् महा-बाहो प्रजज्ञे प्लवग-ऋषभ॥ २०॥
evam uktā tatas tuṣṭā jananī te mahā-kape . guhāyām tvām mahā-bāho prajajñe plavaga-ṛṣabha.. 20..
अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम्॥ २१॥
अभ्युत्थितम् ततस् सूर्यम् बालः दृष्ट्वा महा-वने । फलम् च इति जिघृक्षुः त्वम् उत्प्लुत्य अभ्युत्पतः दिवम्॥ २१॥
abhyutthitam tatas sūryam bālaḥ dṛṣṭvā mahā-vane . phalam ca iti jighṛkṣuḥ tvam utplutya abhyutpataḥ divam.. 21..
शतानि त्रीणि गत्वाथ योजनानां महाकपे । तेजसा तस्य निर्धूतो न विषादं गतस्ततः॥ २२॥
शतानि त्रीणि गत्वा अथ योजनानाम् महा-कपे । तेजसा तस्य निर्धूतः न विषादम् गतः ततस्॥ २२॥
śatāni trīṇi gatvā atha yojanānām mahā-kape . tejasā tasya nirdhūtaḥ na viṣādam gataḥ tatas.. 22..
त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे । क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा॥ २३॥
त्वाम् अपि उपगतम् तूर्णम् अन्तरिक्षम् महा-कपे । क्षिप्तम् इन्द्रेण ते वज्रम् कोप-आविष्टेन तेजसा॥ २३॥
tvām api upagatam tūrṇam antarikṣam mahā-kape . kṣiptam indreṇa te vajram kopa-āviṣṭena tejasā.. 23..
तदा शैलाग्रशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्तितम्॥ २४॥
तदा शैल-अग्र-शिखरे वामः हनुः अभज्यत । ततस् हि नामधेयम् ते हनुमान् इति कीर्तितम्॥ २४॥
tadā śaila-agra-śikhare vāmaḥ hanuḥ abhajyata . tatas hi nāmadheyam te hanumān iti kīrtitam.. 24..
ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः॥ २५॥
ततस् त्वाम् निहतम् दृष्ट्वा वायुः गन्धवहः स्वयम् । त्रैलोक्यम् भृश-संक्रुद्धः न ववौ वै प्रभञ्जनः॥ २५॥
tatas tvām nihatam dṛṣṭvā vāyuḥ gandhavahaḥ svayam . trailokyam bhṛśa-saṃkruddhaḥ na vavau vai prabhañjanaḥ.. 25..
सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः॥ २६॥
सम्भ्रान्ताः च सुराः सर्वे त्रैलोक्ये क्षुभिते सति । प्रसादयन्ति संक्रुद्धम् मारुतम् भुवनेश्वराः॥ २६॥
sambhrāntāḥ ca surāḥ sarve trailokye kṣubhite sati . prasādayanti saṃkruddham mārutam bhuvaneśvarāḥ.. 26..
प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम॥ २७॥
प्रसादिते च पवने ब्रह्मा तुभ्यम् वरम् ददौ । अशस्त्र-वध्यताम् तात समरे सत्य-विक्रम॥ २७॥
prasādite ca pavane brahmā tubhyam varam dadau . aśastra-vadhyatām tāta samare satya-vikrama.. 27..
वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्॥ २८॥
वज्रस्य च निपातेन विरुजम् त्वाम् समीक्ष्य च । सहस्रनेत्रः प्रीत-आत्मा ददौ ते वरम् उत्तमम्॥ २८॥
vajrasya ca nipātena virujam tvām samīkṣya ca . sahasranetraḥ prīta-ātmā dadau te varam uttamam.. 28..
स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो । स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥ २९॥
स्वच्छन्दतः च मरणम् तव स्यात् इति वै प्रभो । स त्वम् केसरिणः पुत्रः क्षेत्रजः भीम-विक्रमः॥ २९॥
svacchandataḥ ca maraṇam tava syāt iti vai prabho . sa tvam kesariṇaḥ putraḥ kṣetrajaḥ bhīma-vikramaḥ.. 29..
मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः॥ ३०॥
मारुतस्य औरसः पुत्रः तेजसा च अपि तद्-समः । त्वम् हि वायु-सुतः वत्स प्लवने च अपि तद्-समः॥ ३०॥
mārutasya aurasaḥ putraḥ tejasā ca api tad-samaḥ . tvam hi vāyu-sutaḥ vatsa plavane ca api tad-samaḥ.. 30..
वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् । दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः॥ ३१॥
वयम् अद्य गत-प्राणाः भवान् अस्मासु साम्प्रतम् । दाक्ष्य-विक्रम-सम्पन्नः कपि-राजः इव अपरः॥ ३१॥
vayam adya gata-prāṇāḥ bhavān asmāsu sāmpratam . dākṣya-vikrama-sampannaḥ kapi-rājaḥ iva aparaḥ.. 31..
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्॥ ३२॥
त्रि-विक्रमे मया तात स शैल-वन-कानना । त्रिस् सप्त-कृत्वस् पृथिवी परिक्रान्ता प्रदक्षिणम्॥ ३२॥
tri-vikrame mayā tāta sa śaila-vana-kānanā . tris sapta-kṛtvas pṛthivī parikrāntā pradakṣiṇam.. 32..
तथा चौषधयोऽस्माभिः संचिता देवशासनात् । निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम्॥ ३३॥
तथा च ओषधयः अस्माभिः संचिताः देव-शासनात् । निर्मथ्यम् अमृतम् याभिः तदानीम् नः महत् बलम्॥ ३३॥
tathā ca oṣadhayaḥ asmābhiḥ saṃcitāḥ deva-śāsanāt . nirmathyam amṛtam yābhiḥ tadānīm naḥ mahat balam.. 33..
स इदानीमहं वृद्धः परिहीनपराक्रमः । साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः॥ ३४॥
सः इदानीम् अहम् वृद्धः परिहीन-पराक्रमः । साम्प्रतम् कालम् अस्माकम् भवान् सर्व-गुण-अन्वितः॥ ३४॥
saḥ idānīm aham vṛddhaḥ parihīna-parākramaḥ . sāmpratam kālam asmākam bhavān sarva-guṇa-anvitaḥ.. 34..
तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि । त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी॥ ३५॥
तत् विजृम्भस्व विक्रान्त प्लवताम् उत्तमः हि असि । त्वद्-वीर्यम् द्रष्टु-कामा हि सर्वा वानर-वाहिनी॥ ३५॥
tat vijṛmbhasva vikrānta plavatām uttamaḥ hi asi . tvad-vīryam draṣṭu-kāmā hi sarvā vānara-vāhinī.. 35..
उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव॥ ३६॥
उत्तिष्ठ हरि-शार्दूल लङ्घयस्व महा-अर्णवम् । परा हि सर्व-भूतानाम् हनुमन् या गतिः तव॥ ३६॥
uttiṣṭha hari-śārdūla laṅghayasva mahā-arṇavam . parā hi sarva-bhūtānām hanuman yā gatiḥ tava.. 36..
विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे । विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव॥ ३७॥
विषण्णाः हरयः सर्वे हनुमन् किम् उपेक्षसे । विक्रमस्व महा-वेग विष्णुः त्रीन् विक्रमान् इव॥ ३७॥
viṣaṇṇāḥ harayaḥ sarve hanuman kim upekṣase . vikramasva mahā-vega viṣṇuḥ trīn vikramān iva.. 37..
ततः कपीनामृषभेण चोदितः प्रतीतवेगः पवनात्मजः कपिः ।
ततस् कपीनाम् ऋषभेण चोदितः प्रतीत-वेगः पवनात्मजः कपिः ।
tatas kapīnām ṛṣabheṇa coditaḥ pratīta-vegaḥ pavanātmajaḥ kapiḥ .
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा॥ ३८॥
प्रहर्षयन् ताम् हरि-वीर-वाहिनीम् चकार रूपम् महत् आत्मनः तदा॥ ३८॥
praharṣayan tām hari-vīra-vāhinīm cakāra rūpam mahat ātmanaḥ tadā.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ॥४-६६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षट्षष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In