This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..4..
तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम् । वेगेनापूर्यमाणं च सहसा वानरोत्तमम्॥ १॥
तम् दृष्ट्वा जृम्भमाणम् ते क्रमितुम् शत-योजनम् । वेगेन आपूर्यमाणम् च सहसा वानर-उत्तमम्॥ १॥
tam dṛṣṭvā jṛmbhamāṇam te kramitum śata-yojanam . vegena āpūryamāṇam ca sahasā vānara-uttamam.. 1..
सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः । विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ २॥
सहसा शोकम् उत्सृज्य प्रहर्षेण समन्विताः । विनेदुः तुष्टुवुः च अपि हनूमन्तम् महा-बलम्॥ २॥
sahasā śokam utsṛjya praharṣeṇa samanvitāḥ . vineduḥ tuṣṭuvuḥ ca api hanūmantam mahā-balam.. 2..
प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः । त्रिविक्रमं कृतोत्साहं नारायणमिव प्रजाः॥ ३॥
प्रहृष्टाः विस्मिताः च अपि ते वीक्षन्ते समन्ततः । त्रिविक्रमम् कृत-उत्साहम् नारायणम् इव प्रजाः॥ ३॥
prahṛṣṭāḥ vismitāḥ ca api te vīkṣante samantataḥ . trivikramam kṛta-utsāham nārāyaṇam iva prajāḥ.. 3..
संस्तूयमानो हनुमान् व्यवर्धत महाबलः । समाविद्ध्य च लाङ्गूलं हर्षाद् बलमुपेयिवान्॥ ४॥
संस्तूयमानः हनुमान् व्यवर्धत महा-बलः । समाविद्ध्य च लाङ्गूलम् हर्षात् बलम् उपेयिवान्॥ ४॥
saṃstūyamānaḥ hanumān vyavardhata mahā-balaḥ . samāviddhya ca lāṅgūlam harṣāt balam upeyivān.. 4..
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः । तेजसाऽऽपूर्यमाणस्य रूपमासीदनुत्तमम्॥ ५॥
तस्य संस्तूयमानस्य वृद्धैः वानर-पुङ्गवैः । तेजसा आपूर्यमाणस्य रूपम् आसीत् अनुत्तमम्॥ ५॥
tasya saṃstūyamānasya vṛddhaiḥ vānara-puṅgavaiḥ . tejasā āpūryamāṇasya rūpam āsīt anuttamam.. 5..
यथा विजृम्भते सिंहो विवृते गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते॥ ६॥
यथा विजृम्भते सिंहः विवृते गिरि-गह्वरे । मारुतस्य औरसः पुत्रः तथा सम्प्रति जृम्भते॥ ६॥
yathā vijṛmbhate siṃhaḥ vivṛte giri-gahvare . mārutasya aurasaḥ putraḥ tathā samprati jṛmbhate.. 6..
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः । अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ ७॥
अशोभत मुखम् तस्य जृम्भमाणस्य धीमतः । अम्बरीष-उपमम् दीप्तम् विधूमः इव पावकः॥ ७॥
aśobhata mukham tasya jṛmbhamāṇasya dhīmataḥ . ambarīṣa-upamam dīptam vidhūmaḥ iva pāvakaḥ.. 7..
हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः । अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ ८॥
हरीणाम् उत्थितः मध्यात् सम्प्रहृष्ट-तनूरुहः । अभिवाद्य हरीन् वृद्धान् हनूमान् इदम् अब्रवीत्॥ ८॥
harīṇām utthitaḥ madhyāt samprahṛṣṭa-tanūruhaḥ . abhivādya harīn vṛddhān hanūmān idam abravīt.. 8..
आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः । बलवानप्रमेयश्च वायुराकाशगोचरः॥ ९॥
आरुजन् पर्वत-अग्राणि हुताशन-सखः अनिलः । बलवान् अप्रमेयः च वायुः आकाश-गोचरः॥ ९॥
ārujan parvata-agrāṇi hutāśana-sakhaḥ anilaḥ . balavān aprameyaḥ ca vāyuḥ ākāśa-gocaraḥ.. 9..
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः । मारुतस्यौरसः पुत्रः प्लवनेनास्मि तत्समः॥ १०॥
तस्य अहम् शीघ्रवेगस्य शीघ्रगस्य महात्मनः । मारुतस्य औरसः पुत्रः प्लवनेन अस्मि तद्-समः॥ १०॥
tasya aham śīghravegasya śīghragasya mahātmanaḥ . mārutasya aurasaḥ putraḥ plavanena asmi tad-samaḥ.. 10..
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् । मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११॥
उत्सहेयम् हि विस्तीर्णम् आलिखन्तम् इव अम्बरम् । मेरुम् गिरिम् असङ्गेन परिगन्तुम् सहस्रशस्॥ ११॥
utsaheyam hi vistīrṇam ālikhantam iva ambaram . merum girim asaṅgena parigantum sahasraśas.. 11..
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे । समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ १२॥
बाहु-वेग-प्रणुन्नेन सागरेण अहम् उत्सहे । समाप्लावयितुम् लोकम् स पर्वत-नदी-ह्रदम्॥ १२॥
bāhu-vega-praṇunnena sāgareṇa aham utsahe . samāplāvayitum lokam sa parvata-nadī-hradam.. 12..
ममोरुजङ्घावेगेन भविष्यति समुत्थितः । समुत्थितमहाग्राहः समुद्रो वरुणालयः॥ १३॥
मम ऊरु-जङ्घा-वेगेन भविष्यति समुत्थितः । समुत्थित-महा-ग्राहः समुद्रः वरुणालयः॥ १३॥
mama ūru-jaṅghā-vegena bhaviṣyati samutthitaḥ . samutthita-mahā-grāhaḥ samudraḥ varuṇālayaḥ.. 13..
पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ १४॥
पन्नगाशनम् आकाशे पतन्तम् पक्षि-सेवितम् । वैनतेयम् अहम् शक्तः परिगन्तुम् सहस्रशस्॥ १४॥
pannagāśanam ākāśe patantam pakṣi-sevitam . vainateyam aham śaktaḥ parigantum sahasraśas.. 14..
उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमहं गन्तुं समुत्सहे॥ १५॥
उदयात् प्रस्थितम् वा अपि ज्वलन्तम् रश्मिमालिनम् । अन् अस्तमितम् आदित्यम् अहम् गन्तुम् समुत्सहे॥ १५॥
udayāt prasthitam vā api jvalantam raśmimālinam . an astamitam ādityam aham gantum samutsahe.. 15..
ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १६॥
ततस् भूमिम् अ संस्पृष्ट्वा पुनर् आगन्तुम् उत्सहे । प्रवेगेन एव महता भीमेन प्लवग-ऋषभाः॥ १६॥
tatas bhūmim a saṃspṛṣṭvā punar āgantum utsahe . pravegena eva mahatā bhīmena plavaga-ṛṣabhāḥ.. 16..
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् । सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥
उत्सहेयम् अतिक्रान्तुम् सर्वान् आकाश-गोचरान् । सागरान् शोषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥
utsaheyam atikrāntum sarvān ākāśa-gocarān . sāgarān śoṣayiṣyāmi dārayiṣyāmi medinīm.. 17..
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमः । हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ १८॥
पर्वतान् चूर्णयिष्यामि प्लवमानः प्लवङ्गमः । हरिष्यामि उरु-वेगेन प्लवमानः महा-अर्णवम्॥ १८॥
parvatān cūrṇayiṣyāmi plavamānaḥ plavaṅgamaḥ . hariṣyāmi uru-vegena plavamānaḥ mahā-arṇavam.. 18..
लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यति मामद्य प्लवमानं विहायसा॥ १९॥
लतानाम् विविधम् पुष्पम् पादपानाम् च सर्वशस् । अनुयास्यति माम् अद्य प्लवमानम् विहायसा॥ १९॥
latānām vividham puṣpam pādapānām ca sarvaśas . anuyāsyati mām adya plavamānam vihāyasā.. 19..
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च॥ २०॥
भविष्यति हि मे पन्थाः स्वातेः पन्थाः इव अम्बरे । चरन्तम् घोरम् आकाशम् उत्पतिष्यन्तम् एव च॥ २०॥
bhaviṣyati hi me panthāḥ svāteḥ panthāḥ iva ambare . carantam ghoram ākāśam utpatiṣyantam eva ca.. 20..
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः । महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः॥ २१॥
द्रक्ष्यन्ति निपतन्तम् च सर्व-भूतानि वानराः । महा-मेरु-प्रतीकाशम् माम् द्रक्ष्यध्वम् प्लवङ्गमाः॥ २१॥
drakṣyanti nipatantam ca sarva-bhūtāni vānarāḥ . mahā-meru-pratīkāśam mām drakṣyadhvam plavaṅgamāḥ.. 21..
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् । विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् । सागरं शोषयिष्यामि प्लवमानः समाहितः॥ २२॥
दिवम् आवृत्य गच्छन्तम् ग्रसमानम् इव अम्बरम् । विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान् । सागरम् शोषयिष्यामि प्लवमानः समाहितः॥ २२॥
divam āvṛtya gacchantam grasamānam iva ambaram . vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān . sāgaram śoṣayiṣyāmi plavamānaḥ samāhitaḥ.. 22..
वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा । ऋते सुपर्णराजानं मारुतं वा महाबलम् । न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ २३॥
वैनतेयस्य वा शक्तिः मम वा मारुतस्य वा । ऋते सुपर्ण-राजानम् मारुतम् वा महा-बलम् । न तत् भूतम् प्रपश्यामि यत् माम् प्लुतम् अनुव्रजेत्॥ २३॥
vainateyasya vā śaktiḥ mama vā mārutasya vā . ṛte suparṇa-rājānam mārutam vā mahā-balam . na tat bhūtam prapaśyāmi yat mām plutam anuvrajet.. 23..
निमेषान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ २४॥
निमेष-अन्तर-मात्रेण निरालम्बनम् अम्बरम् । सहसा निपतिष्यामि घनात् विद्युत् इव उत्थिता॥ २४॥
nimeṣa-antara-mātreṇa nirālambanam ambaram . sahasā nipatiṣyāmi ghanāt vidyut iva utthitā.. 24..
भविष्यति हि मे रूपं प्लवमानस्य सागरम् । विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव॥ २५॥
भविष्यति हि मे रूपम् प्लवमानस्य सागरम् । विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमान् इव॥ २५॥
bhaviṣyati hi me rūpam plavamānasya sāgaram . viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva.. 25..
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा । अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २६॥
बुद्ध्या च अहम् प्रपश्यामि मनः-चेष्टा च मे तथा । अहम् द्रक्ष्यामि वैदेहीम् प्रमोदध्वम् प्लवङ्गमाः॥ २६॥
buddhyā ca aham prapaśyāmi manaḥ-ceṣṭā ca me tathā . aham drakṣyāmi vaidehīm pramodadhvam plavaṅgamāḥ.. 26..
मारुतस्य समो वेगे गरुडस्य समो जवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २७॥
मारुतस्य समः वेगे गरुडस्य समः जवे । अयुतम् योजनानाम् तु गमिष्यामि इति मे मतिः॥ २७॥
mārutasya samaḥ vege garuḍasya samaḥ jave . ayutam yojanānām tu gamiṣyāmi iti me matiḥ.. 27..
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः । विक्रम्य सहसा हस्तादमृतं तदिहानये॥ २८॥
वासवस्य स वज्रस्य ब्रह्मणः वा स्वयम्भुवः । विक्रम्य सहसा हस्तात् अमृतम् तत् इह आनये॥ २८॥
vāsavasya sa vajrasya brahmaṇaḥ vā svayambhuvaḥ . vikramya sahasā hastāt amṛtam tat iha ānaye.. 28..
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः । तमेवं वानरश्रेष्ठं गर्जन्तममितप्रभम्॥ २९॥
लङ्काम् वा अपि समुत्क्षिप्य गच्छेयम् इति मे मतिः । तम् एवम् वानर-श्रेष्ठम् गर्जन्तम् अमित-प्रभम्॥ २९॥
laṅkām vā api samutkṣipya gaccheyam iti me matiḥ . tam evam vānara-śreṣṭham garjantam amita-prabham.. 29..
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः । तच्चास्य वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ ३०॥
प्रहृष्टाः हरयः तत्र समुदैक्षन्त विस्मिताः । तत् च अस्य वचनम् श्रुत्वा ज्ञातीनाम् शोक-नाशनम्॥ ३०॥
prahṛṣṭāḥ harayaḥ tatra samudaikṣanta vismitāḥ . tat ca asya vacanam śrutvā jñātīnām śoka-nāśanam.. 30..
उवाच परिसंहृष्टो जाम्बवान् प्लवगेश्वरः । वीर केसरिणः पुत्र वेगवन् मारुतात्मज॥ ३१॥
उवाच परिसंहृष्टः जाम्बवान् प्लवग-ईश्वरः । वीर केसरिणः पुत्र वेगवत् मारुतात्मज॥ ३१॥
uvāca parisaṃhṛṣṭaḥ jāmbavān plavaga-īśvaraḥ . vīra kesariṇaḥ putra vegavat mārutātmaja.. 31..
ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः । तव कल्याणरुचयः कपिमुख्याः समागताः॥ ३२॥
ज्ञातीनाम् विपुलः शोकः त्वया तात प्रणाशितः । तव कल्याण-रुचयः कपि-मुख्याः समागताः॥ ३२॥
jñātīnām vipulaḥ śokaḥ tvayā tāta praṇāśitaḥ . tava kalyāṇa-rucayaḥ kapi-mukhyāḥ samāgatāḥ.. 32..
मङ्गलान्यर्थसिद्ध्यर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ ३३॥
मङ्गलानि अर्थ-सिद्धि-अर्थम् करिष्यन्ति समाहिताः । ऋषीणाम् च प्रसादेन कपि-वृद्ध-मतेन च॥ ३३॥
maṅgalāni artha-siddhi-artham kariṣyanti samāhitāḥ . ṛṣīṇām ca prasādena kapi-vṛddha-matena ca.. 33..
गुरूणां च प्रसादेन सम्प्लव त्वं महार्णवम् । स्थास्यामश्चैकपादेन यावदागमनं तव॥ ३४॥
गुरूणाम् च प्रसादेन सम्प्लव त्वम् महा-अर्णवम् । स्थास्यामः च एक-पादेन यावत् आगमनम् तव॥ ३४॥
gurūṇām ca prasādena samplava tvam mahā-arṇavam . sthāsyāmaḥ ca eka-pādena yāvat āgamanam tava.. 34..
त्वद्गतानि च सर्वेषां जीवनानि वनौकसाम् । ततश्च हरिशार्दूलस्तानुवाच वनौकसः॥ ३५॥
त्वद्-गतानि च सर्वेषाम् जीवनानि वनौकसाम् । ततस् च हरि-शार्दूलः तान् उवाच वनौकसः॥ ३५॥
tvad-gatāni ca sarveṣām jīvanāni vanaukasām . tatas ca hari-śārdūlaḥ tān uvāca vanaukasaḥ.. 35..
कोऽपि लोके न मे वेगं प्लवने धारयिष्यति । एतानीह नगस्यास्य शिलासंकटशालिनः॥ ३६॥
कः अपि लोके न मे वेगम् प्लवने धारयिष्यति । एतानि इह नगस्य अस्य शिला-संकट-शालिनः॥ ३६॥
kaḥ api loke na me vegam plavane dhārayiṣyati . etāni iha nagasya asya śilā-saṃkaṭa-śālinaḥ.. 36..
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च । येषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ ३७॥
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च । येषु वेगम् गमिष्यामि महेन्द्र-शिखरेषु अहम्॥ ३७॥
śikharāṇi mahendrasya sthirāṇi ca mahānti ca . yeṣu vegam gamiṣyāmi mahendra-śikhareṣu aham.. 37..
नानाद्रुमविकीर्णेषु धातुनिष्पन्दशोभिषु । एतानि मम वेगं हि शिखराणि महान्ति च॥ ३८॥
नाना द्रुम-विकीर्णेषु धातु-निष्पन्द-शोभिषु । एतानि मम वेगम् हि शिखराणि महान्ति च॥ ३८॥
nānā druma-vikīrṇeṣu dhātu-niṣpanda-śobhiṣu . etāni mama vegam hi śikharāṇi mahānti ca.. 38..
प्लवतो धारयिष्यन्ति योजनानामितः शतम् । ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः । आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ ३९॥
प्लवतः धारयिष्यन्ति योजनानाम् इतस् शतम् । ततस् तु मारुत-प्रख्यः स हरिः मारुतात्मजः । आरुरोह नग-श्रेष्ठम् महेन्द्रम् अरि-मर्दनः॥ ३९॥
plavataḥ dhārayiṣyanti yojanānām itas śatam . tatas tu māruta-prakhyaḥ sa hariḥ mārutātmajaḥ . āruroha naga-śreṣṭham mahendram ari-mardanaḥ.. 39..
वृतं नानाविधैः पुष्पैर्मृगसेवितशाद्वलम् । लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम्॥ ४०॥
वृतम् नानाविधैः पुष्पैः मृग-सेवित-शाद्वलम् । लता-कुसुम-सम्बाधम् नित्य-पुष्प-फल-द्रुमम्॥ ४०॥
vṛtam nānāvidhaiḥ puṣpaiḥ mṛga-sevita-śādvalam . latā-kusuma-sambādham nitya-puṣpa-phala-drumam.. 40..
सिंहशार्दूलसहितं मत्तमातङ्गसेवितम् । मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्॥ ४१॥
सिंह-शार्दूल-सहितम् मत्त-मातङ्ग-सेवितम् । मत्त-द्विज-गण-उद्घुष्टम् सलिल-उत्पीड-संकुलम्॥ ४१॥
siṃha-śārdūla-sahitam matta-mātaṅga-sevitam . matta-dvija-gaṇa-udghuṣṭam salila-utpīḍa-saṃkulam.. 41..
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः । विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥ ४२॥
महद्भिः उच्छ्रितम् शृङ्गैः महेन्द्रम् स महा-बलः । विचचार हरि-श्रेष्ठः महा-इन्द्र-सम-विक्रमः॥ ४२॥
mahadbhiḥ ucchritam śṛṅgaiḥ mahendram sa mahā-balaḥ . vicacāra hari-śreṣṭhaḥ mahā-indra-sama-vikramaḥ.. 42..
पादाभ्यां पीडितस्तेन महाशैलो महात्मना । ररास सिंहाभिहतो महान् मत्त इव द्विपः॥ ४३॥
पादाभ्याम् पीडितः तेन महा-शैलः महात्मना । ररास सिंह-अभिहतः महान् मत्तः इव द्विपः॥ ४३॥
pādābhyām pīḍitaḥ tena mahā-śailaḥ mahātmanā . rarāsa siṃha-abhihataḥ mahān mattaḥ iva dvipaḥ.. 43..
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः । वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ ४४॥
मुमोच सलिल-उत्पीडान् विप्रकीर्ण-शिला-उच्चयः । वित्रस्त-मृग-मातङ्गः प्रकम्पित-महा-द्रुमः॥ ४४॥
mumoca salila-utpīḍān viprakīrṇa-śilā-uccayaḥ . vitrasta-mṛga-mātaṅgaḥ prakampita-mahā-drumaḥ.. 44..
नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः । उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि॥ ४५॥
नाना गन्धर्व-मिथुनैः पान-संसर्ग-कर्कशैः । उत्पतद्भिः विहंगैः च विद्याधर-गणैः अपि॥ ४५॥
nānā gandharva-mithunaiḥ pāna-saṃsarga-karkaśaiḥ . utpatadbhiḥ vihaṃgaiḥ ca vidyādhara-gaṇaiḥ api.. 45..
त्यज्यमानमहासानुः संनिलीनमहोरगः । शैलशृङ्गशिलोत्पातस्तदाभूत् स महागिरिः॥ ४६॥
त्यज्यमान-महा-सानुः संनिलीन-महा-उरगः । शैल-शृङ्ग-शिला-उत्पातः तदा अभूत् स महा-गिरिः॥ ४६॥
tyajyamāna-mahā-sānuḥ saṃnilīna-mahā-uragaḥ . śaila-śṛṅga-śilā-utpātaḥ tadā abhūt sa mahā-giriḥ.. 46..
निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः । सपताक इवाभाति स तदा धरणीधरः॥ ४७॥
निःश्वसद्भिः तदा तैः तु भुजगैः अर्ध-निःसृतैः । स पताकः इव आभाति स तदा धरणीधरः॥ ४७॥
niḥśvasadbhiḥ tadā taiḥ tu bhujagaiḥ ardha-niḥsṛtaiḥ . sa patākaḥ iva ābhāti sa tadā dharaṇīdharaḥ.. 47..
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः । सीदन् महति कान्तारे सार्थहीन इवाध्वगः॥ ४८॥
ऋषिभिः त्रास-सम्भ्रान्तैः त्यज्यमानः शिलोच्चयः । सीदन् महति कान्तारे सार्थ-हीनः इव अध्वगः॥ ४८॥
ṛṣibhiḥ trāsa-sambhrāntaiḥ tyajyamānaḥ śiloccayaḥ . sīdan mahati kāntāre sārtha-hīnaḥ iva adhvagaḥ.. 48..
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता । मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी॥ ४९॥
स वेगवान् वेग-समाहित-आत्मा हरि-प्रवीरः पर-वीर-हन्ता । मनः समाधाय महा-अनुभावः जगाम लङ्काम् मनसा मनस्वी॥ ४९॥
sa vegavān vega-samāhita-ātmā hari-pravīraḥ para-vīra-hantā . manaḥ samādhāya mahā-anubhāvaḥ jagāma laṅkām manasā manasvī.. 49..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तषष्ठितमः सर्गः ॥४-६७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In