This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptamaḥ sargaḥ ..4..
एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः॥ १॥
एवम् उक्तः तु सुग्रीवः रामेण आर्तेन वानरः । अब्रवीत् प्राञ्जलिः वाक्यम् स बाष्पम् बाष्प-गद्गदः॥ १॥
evam uktaḥ tu sugrīvaḥ rāmeṇa ārtena vānaraḥ . abravīt prāñjaliḥ vākyam sa bāṣpam bāṣpa-gadgadaḥ.. 1..
न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्॥ २॥
न जाने निलयम् तस्य सर्वथा पाप-रक्षसः । सामर्थ्यम् विक्रमम् वा अपि दौष्कुलेयस्य वा कुलम्॥ २॥
na jāne nilayam tasya sarvathā pāpa-rakṣasaḥ . sāmarthyam vikramam vā api dauṣkuleyasya vā kulam.. 2..
सत्यं तु प्रतिजानामि त्यज शोकमरिंदम । करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥ ३॥
सत्यम् तु प्रतिजानामि त्यज शोकम् अरिंदम । करिष्यामि तथा यत्नम् यथा प्राप्स्यसि मैथिलीम्॥ ३॥
satyam tu pratijānāmi tyaja śokam ariṃdama . kariṣyāmi tathā yatnam yathā prāpsyasi maithilīm.. 3..
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि॥ ४॥
रावणम् स गणम् हत्वा परितोष्य आत्म-पौरुषम् । तथा अस्मि कर्ता नचिरात् यथा प्रीतः भविष्यसि॥ ४॥
rāvaṇam sa gaṇam hatvā paritoṣya ātma-pauruṣam . tathā asmi kartā nacirāt yathā prītaḥ bhaviṣyasi.. 4..
अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर । त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्॥ ५॥
अलम् वैक्लव्यम् आलम्ब्य धैर्यम् आत्म-गतम् स्मर । त्वद्विधानाम् न सदृशम् ईदृशम् बुद्धि-लाघवम्॥ ५॥
alam vaiklavyam ālambya dhairyam ātma-gatam smara . tvadvidhānām na sadṛśam īdṛśam buddhi-lāghavam.. 5..
मयापि व्यसनं प्राप्तं भार्याविरहजं महत् । नाहमेवं हि शोचामि धैर्यं न च परित्यजे॥ ६॥
मया अपि व्यसनम् प्राप्तम् भार्या-विरह-जम् महत् । न अहम् एवम् हि शोचामि धैर्यम् न च परित्यजे॥ ६॥
mayā api vyasanam prāptam bhāryā-viraha-jam mahat . na aham evam hi śocāmi dhairyam na ca parityaje.. 6..
नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् । महात्मा च विनीतश्च किं पुनर्धृतिमान् महान्॥ ७॥
न अहम् ताम् अनुशोचामि प्राकृतः वानरः अपि सन् । महात्मा च विनीतः च किम् पुनर् धृतिमान् महान्॥ ७॥
na aham tām anuśocāmi prākṛtaḥ vānaraḥ api san . mahātmā ca vinītaḥ ca kim punar dhṛtimān mahān.. 7..
बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥ ८॥
बाष्पम् आपतितम् धैर्यात् निग्रहीतुम् त्वम् अर्हसि । मर्यादाम् सत्त्व-युक्तानाम् धृतिम् ना उत्स्रष्टुम् अर्हसि॥ ८॥
bāṣpam āpatitam dhairyāt nigrahītum tvam arhasi . maryādām sattva-yuktānām dhṛtim nā utsraṣṭum arhasi.. 8..
व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे । विमृशंश्च स्वयाबुद्ध्या धृतिमान् नावसीदति॥ ९॥
व्यसने वा अर्थ-कृच्छ्रे वा भये वा जीवितान्त-गे । विमृशन् च स्वया अबुद्ध्या धृतिमान् न अवसीदति॥ ९॥
vyasane vā artha-kṛcchre vā bhaye vā jīvitānta-ge . vimṛśan ca svayā abuddhyā dhṛtimān na avasīdati.. 9..
बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते । स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले॥ १०॥
बालिशः तु नरः नित्यम् वैक्लव्यम् यः अनुवर्तते । स मज्जति अवशः शोके भार-आक्रान्ता इव नौः जले॥ १०॥
bāliśaḥ tu naraḥ nityam vaiklavyam yaḥ anuvartate . sa majjati avaśaḥ śoke bhāra-ākrāntā iva nauḥ jale.. 10..
एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये । पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥ ११॥
एषः अञ्जलिः मया बद्धः प्रणयात् त्वाम् प्रसादये । पौरुषम् श्रय शोकस्य ना अन्तरम् दातुम् अर्हसि॥ ११॥
eṣaḥ añjaliḥ mayā baddhaḥ praṇayāt tvām prasādaye . pauruṣam śraya śokasya nā antaram dātum arhasi.. 11..
ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥ १२॥
ये शोकम् अनुवर्तन्ते न तेषाम् विद्यते सुखम् । तेजः च क्षीयते तेषाम् न त्वम् शोचितुम् अर्हसि॥ १२॥
ye śokam anuvartante na teṣām vidyate sukham . tejaḥ ca kṣīyate teṣām na tvam śocitum arhasi.. 12..
शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम्॥ १३॥
शोकेन अभिप्रपन्नस्य जीविते च अपि संशयः । स शोकम् त्यज राज-इन्द्र धैर्यम् आश्रय केवलम्॥ १३॥
śokena abhiprapannasya jīvite ca api saṃśayaḥ . sa śokam tyaja rāja-indra dhairyam āśraya kevalam.. 13..
हितं वयस्यभावेन ब्रूहि नोपदिशामि ते । वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि॥ १४॥
हितम् वयस्य-भावेन ब्रूहि ना उपदिशामि ते । वयस्यताम् पूजयन् मे न त्वम् शोचितुम् अर्हसि॥ १४॥
hitam vayasya-bhāvena brūhi nā upadiśāmi te . vayasyatām pūjayan me na tvam śocitum arhasi.. 14..
मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्॥ १५॥
मधुरम् सान्त्वितः तेन सुग्रीवेण स राघवः । मुखम् अश्रु-परिक्लिन्नम् वस्त्र-अन्तेन प्रमार्जयत्॥ १५॥
madhuram sāntvitaḥ tena sugrīveṇa sa rāghavaḥ . mukham aśru-pariklinnam vastra-antena pramārjayat.. 15..
प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः । सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥ १६॥
प्रकृति-स्थः तु काकुत्स्थः सुग्री-वचनात् प्रभुः । सम्परिष्वज्य सुग्रीवम् इदम् वचनम् अब्रवीत्॥ १६॥
prakṛti-sthaḥ tu kākutsthaḥ sugrī-vacanāt prabhuḥ . sampariṣvajya sugrīvam idam vacanam abravīt.. 16..
कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च । अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया॥ १७॥
कर्तव्यम् यत् वयस्येन स्निग्धेन च हितेन च । अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत् त्वया॥ १७॥
kartavyam yat vayasyena snigdhena ca hitena ca . anurūpam ca yuktam ca kṛtam sugrīva tat tvayā.. 17..
एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे । दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥ १८॥
एष च प्रकृति-स्थः अहम् अनुनीतः त्वया सखे । दुर्लभः हि ईदृशः बन्धुः अस्मिन् काले विशेषतः॥ १८॥
eṣa ca prakṛti-sthaḥ aham anunītaḥ tvayā sakhe . durlabhaḥ hi īdṛśaḥ bandhuḥ asmin kāle viśeṣataḥ.. 18..
किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ १९॥
किम् तु यत्नः त्वया कार्यः मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ १९॥
kim tu yatnaḥ tvayā kāryaḥ maithilyāḥ parimārgaṇe . rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ.. 19..
मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव॥ २०॥
मया च यत् अनुष्ठेयम् विस्रब्धेन तत् उच्यताम् । वर्षासु इव च सुक्षेत्रे सर्वम् सम्पद्यते तव॥ २०॥
mayā ca yat anuṣṭheyam visrabdhena tat ucyatām . varṣāsu iva ca sukṣetre sarvam sampadyate tava.. 20..
मया च यदिदं वाक्यमभिमानात् समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥ २१॥
मया च यत् इदम् वाक्यम् अभिमानात् समीरितम् । तत् त्वया हरि-शार्दूल तत्त्वम् इति उपधार्यताम्॥ २१॥
mayā ca yat idam vākyam abhimānāt samīritam . tat tvayā hari-śārdūla tattvam iti upadhāryatām.. 21..
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम्॥ २२॥
अनृतम् न उक्त-पूर्वम् मे न च वक्ष्ये कदाचन । एतत् ते प्रतिजानामि सत्येन एव शपामि अहम्॥ २२॥
anṛtam na ukta-pūrvam me na ca vakṣye kadācana . etat te pratijānāmi satyena eva śapāmi aham.. 22..
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥ २३॥
ततस् प्रहृष्टः सुग्रीवः वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातम् विशेषतः॥ २३॥
tatas prahṛṣṭaḥ sugrīvaḥ vānaraiḥ sacivaiḥ saha . rāghavasya vacaḥ śrutvā pratijñātam viśeṣataḥ.. 23..
एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ । उभावन्योन्यसदृशं सुखं दुःखमभाषताम्॥ २४॥
एवम् एकान्त-सम्पृक्तौ ततस् तौ नर-वानरौ । उभौ अन्योन्य-सदृशम् सुखम् दुःखम् अभाषताम्॥ २४॥
evam ekānta-sampṛktau tatas tau nara-vānarau . ubhau anyonya-sadṛśam sukham duḥkham abhāṣatām.. 24..
महानुभावस्य वचो निशम्य हरिर्नृपाणामधिपस्य तस्य । कृतं स मेने हरिवीरमुख्य- स्तदा च कार्यं हृदयेन विद्वान्॥ २५॥
महा-अनुभावस्य वचः निशम्य हरिः नृपाणाम् अधिपस्य तस्य । कृतम् स मेने हरि-वीर-मुख्यः तदा च कार्यम् हृदयेन विद्वान्॥ २५॥
mahā-anubhāvasya vacaḥ niśamya hariḥ nṛpāṇām adhipasya tasya . kṛtam sa mene hari-vīra-mukhyaḥ tadā ca kāryam hṛdayena vidvān.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तमः सर्गः ॥४-७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In