This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे अष्टमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe aṣṭamaḥ sargaḥ ..4..
परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः । लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत्॥ १॥
परितुष्टः तु सुग्रीवः तेन वाक्येन हर्षितः । लक्ष्मणस्य अग्रजम् शूरम् इदम् वचनम् अब्रवीत्॥ १॥
parituṣṭaḥ tu sugrīvaḥ tena vākyena harṣitaḥ . lakṣmaṇasya agrajam śūram idam vacanam abravīt.. 1..
सर्वथाहमनुग्राह्यो देवतानां न संशयः । उपपन्नो गुणोपेतः सखा यस्य भवान् मम॥ २॥
सर्वथा अहम् अनुग्राह्यः देवतानाम् न संशयः । उपपन्नः गुण-उपेतः सखा यस्य भवान् मम॥ २॥
sarvathā aham anugrāhyaḥ devatānām na saṃśayaḥ . upapannaḥ guṇa-upetaḥ sakhā yasya bhavān mama.. 2..
शक्यं खलु भवेद् राम सहायेन त्वयानघ । सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो॥ ३॥
शक्यम् खलु भवेत् राम सहायेन त्वया अनघ । सुर-राज्यम् अपि प्राप्तुम् स्व-राज्यम् किम् उत प्रभो॥ ३॥
śakyam khalu bhavet rāma sahāyena tvayā anagha . sura-rājyam api prāptum sva-rājyam kim uta prabho.. 3..
सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्॥ ४॥
सः अहम् सभाज्यः बन्धूनाम् सुहृदाम् च एव राघव । यस्य अग्नि-साक्षिकम् मित्रम् लब्धम् राघव-वंश-जम्॥ ४॥
saḥ aham sabhājyaḥ bandhūnām suhṛdām ca eva rāghava . yasya agni-sākṣikam mitram labdham rāghava-vaṃśa-jam.. 4..
अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः । न तु वक्तुं समर्थोऽहं त्वयि आत्मगतान् गुणान्॥ ५॥
अहम् अपि अनुरूपः ते वयस्यः ज्ञास्यसे शनैस् । न तु वक्तुम् समर्थः अहम् त्वयि आत्म-गतान् गुणान्॥ ५॥
aham api anurūpaḥ te vayasyaḥ jñāsyase śanais . na tu vaktum samarthaḥ aham tvayi ātma-gatān guṇān.. 5..
महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिर्धैर्यमात्मवतां वर॥ ६॥
महात्मनाम् तु भूयिष्ठम् त्वद्विधानाम् कृतात्मनाम् । निश्चला भवति प्रीतिः धैर्यम् आत्मवताम् वर॥ ६॥
mahātmanām tu bhūyiṣṭham tvadvidhānām kṛtātmanām . niścalā bhavati prītiḥ dhairyam ātmavatām vara.. 6..
रजतं वा सुवर्णं वा शुभान्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः॥ ७॥
रजतम् वा सुवर्णम् वा शुभानि आभरणानि च । अविभक्तानि साधूनाम् अवगच्छन्ति साधवः॥ ७॥
rajatam vā suvarṇam vā śubhāni ābharaṇāni ca . avibhaktāni sādhūnām avagacchanti sādhavaḥ.. 7..
आढ्योवापि दरिद्रो वा दुःखितः सुखितोऽपि वा । निर्दोषश्च सदोषश्च वयस्यः परमा गतिः॥ ८॥
आढ्यः उ वा अपि दरिद्रः वा दुःखितः सुखितः अपि वा । निर्दोषः च स दोषः च वयस्यः परमा गतिः॥ ८॥
āḍhyaḥ u vā api daridraḥ vā duḥkhitaḥ sukhitaḥ api vā . nirdoṣaḥ ca sa doṣaḥ ca vayasyaḥ paramā gatiḥ.. 8..
धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्॥ ९॥
धन-त्यागः सुख-त्यागः देश-त्यागः अपि वा अनघ । वयस्य-अर्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथाविधम्॥ ९॥
dhana-tyāgaḥ sukha-tyāgaḥ deśa-tyāgaḥ api vā anagha . vayasya-arthe pravartante sneham dṛṣṭvā tathāvidham.. 9..
तत् तथेत्यब्रवीद् रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः॥ १०॥
तत् तथा इति अब्रवीत् रामः सुग्रीवम् प्रिय-वादिनम् । लक्ष्मणस्य अग्रतस् लक्ष्म्याः वासवस्य इव धीमतः॥ १०॥
tat tathā iti abravīt rāmaḥ sugrīvam priya-vādinam . lakṣmaṇasya agratas lakṣmyāḥ vāsavasya iva dhīmataḥ.. 10..
ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्॥ ११॥
ततस् रामम् स्थितम् दृष्ट्वा लक्ष्मणम् च महा-बलम् । सुग्रीवः सर्वतस् चक्षुः वने लोलम् अपातयत्॥ ११॥
tatas rāmam sthitam dṛṣṭvā lakṣmaṇam ca mahā-balam . sugrīvaḥ sarvatas cakṣuḥ vane lolam apātayat.. 11..
स ददर्श ततः सालमविदूरे हरीश्वरः । सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्॥ १२॥
स ददर्श ततस् सालम् अविदूरे हरि-ईश्वरः । सु पुष्पम् ईषत् पत्र-आढ्यम् भ्रमरैः उपशोभितम्॥ १२॥
sa dadarśa tatas sālam avidūre hari-īśvaraḥ . su puṣpam īṣat patra-āḍhyam bhramaraiḥ upaśobhitam.. 12..
तस्यैकां पर्णबहुलां शाखां भङ्क्त्वा सुशोभिताम् । रामस्यास्तीर्य सुग्रीवो निषसाद सराघवः॥ १३॥
तस्य एकाम् पर्ण-बहुलाम् शाखाम् भङ्क्त्वा सु शोभिताम् । रामस्य आस्तीर्य सुग्रीवः निषसाद स राघवः॥ १३॥
tasya ekām parṇa-bahulām śākhām bhaṅktvā su śobhitām . rāmasya āstīrya sugrīvaḥ niṣasāda sa rāghavaḥ.. 13..
तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् । शालशाखां समुत्पाट्य विनीतमुपवेशयत्॥ १४॥
तौ आसीनौ ततस् दृष्ट्वा हनूमान् अपि लक्ष्मणम् । शाल-शाखाम् समुत्पाट्य विनीतम् उपवेशयत्॥ १४॥
tau āsīnau tatas dṛṣṭvā hanūmān api lakṣmaṇam . śāla-śākhām samutpāṭya vinītam upaveśayat.. 14..
सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा । सालपुष्पावसंकीर्णे तस्मिन् गिरिवरोत्तमे॥ १५॥
सुख-उपविष्टम् रामम् तु प्रसन्नम् उदधिम् यथा । तस्मिन् गिरि-वर-उत्तमे॥ १५॥
sukha-upaviṣṭam rāmam tu prasannam udadhim yathā . tasmin giri-vara-uttame.. 15..
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा । उवाच प्रणयाद् रामं हर्षव्याकुलिताक्षरम्॥ १६॥
ततस् प्रहृष्टः सुग्रीवः श्लक्ष्णया शुभया गिरा । उवाच प्रणयात् रामम् हर्ष-व्याकुलित-अक्षरम्॥ १६॥
tatas prahṛṣṭaḥ sugrīvaḥ ślakṣṇayā śubhayā girā . uvāca praṇayāt rāmam harṣa-vyākulita-akṣaram.. 16..
अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः । ऋष्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥ १७॥
अहम् विनिकृतः भ्रात्रा चरामि एष भय-अर्दितः । ऋष्यमूकम् गिरि-वरम् हृत-भार्यः सु दुःखितः॥ १७॥
aham vinikṛtaḥ bhrātrā carāmi eṣa bhaya-arditaḥ . ṛṣyamūkam giri-varam hṛta-bhāryaḥ su duḥkhitaḥ.. 17..
सोऽहं त्रस्तो भये मग्नो वने सम्भ्रान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव॥ १८॥
सः अहम् त्रस्तः भये मग्नः वने सम्भ्रान्त-चेतनः । वालिना निकृतः भ्रात्रा कृत-वैरः च राघव॥ १८॥
saḥ aham trastaḥ bhaye magnaḥ vane sambhrānta-cetanaḥ . vālinā nikṛtaḥ bhrātrā kṛta-vairaḥ ca rāghava.. 18..
वालिनो मे भयार्तस्य सर्वलोकाभयंकर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि॥ १९॥
वालिनः मे भय-आर्तस्य सर्व-लोकाः अभयंकर । मम अपि त्वम् अनाथस्य प्रसादम् कर्तुम् अर्हसि॥ १९॥
vālinaḥ me bhaya-ārtasya sarva-lokāḥ abhayaṃkara . mama api tvam anāthasya prasādam kartum arhasi.. 19..
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव॥ २०॥
एवम् उक्तः तु तेजस्वी धर्म-ज्ञः धर्म-वत्सलः । प्रत्युवाच स काकुत्स्थः सुग्रीवम् प्रहसन् इव॥ २०॥
evam uktaḥ tu tejasvī dharma-jñaḥ dharma-vatsalaḥ . pratyuvāca sa kākutsthaḥ sugrīvam prahasan iva.. 20..
उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव तं वधिष्यामि तव भार्यापहारिणम्॥ २१॥
उपकार-फलम् मित्रम् अपकारः अरि-लक्षणम् । अद्या एव तम् वधिष्यामि तव भार्या-अपहारिणम्॥ २१॥
upakāra-phalam mitram apakāraḥ ari-lakṣaṇam . adyā eva tam vadhiṣyāmi tava bhāryā-apahāriṇam.. 21..
इमे हि मे महाभाग पत्रिणस्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः॥ २२॥
इमे हि मे महाभाग पत्रिणः तिग्म-तेजसः । कार्तिकेय-वन-उद्भूताः शराः हेम-विभूषिताः॥ २२॥
ime hi me mahābhāga patriṇaḥ tigma-tejasaḥ . kārtikeya-vana-udbhūtāḥ śarāḥ hema-vibhūṣitāḥ.. 22..
कङ्कपत्रपरिच्छन्ना महेन्द्राशनिसंनिभाः । सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव॥ २३॥
कङ्क-पत्र-परिच्छन्नाः महा-इन्द्र-अशनि-संनिभाः । सु पर्वाणः सु तीक्ष्ण-अग्राः स रोषाः भुजगाः इव॥ २३॥
kaṅka-patra-paricchannāḥ mahā-indra-aśani-saṃnibhāḥ . su parvāṇaḥ su tīkṣṇa-agrāḥ sa roṣāḥ bhujagāḥ iva.. 23..
वालिसंज्ञममित्रं ते भ्रातरं कृतकिल्बिषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्॥ २४॥
वालि-संज्ञम् अमित्रम् ते भ्रातरम् कृत-किल्बिषम् । शरैः विनिहतम् पश्य विकीर्णम् इव पर्वतम्॥ २४॥
vāli-saṃjñam amitram te bhrātaram kṛta-kilbiṣam . śaraiḥ vinihatam paśya vikīrṇam iva parvatam.. 24..
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्॥ २५॥
राघवस्य वचः श्रुत्वा सुग्रीवः वाहिनीपतिः । प्रहर्षम् अतुलम् लेभे साधु साधु इति च अब्रवीत्॥ २५॥
rāghavasya vacaḥ śrutvā sugrīvaḥ vāhinīpatiḥ . praharṣam atulam lebhe sādhu sādhu iti ca abravīt.. 25..
राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः । वयस्य इति कृत्वा हि त्वय्यहं परिदेवये॥ २६॥
राम शोक-अभिभूतः अहम् शोक-आर्तानाम् भवान् गतिः । वयस्यः इति कृत्वा हि त्वयि अहम् परिदेवये॥ २६॥
rāma śoka-abhibhūtaḥ aham śoka-ārtānām bhavān gatiḥ . vayasyaḥ iti kṛtvā hi tvayi aham paridevaye.. 26..
त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतः प्राणैर्बहुमतः सत्येन च शपाम्यहम्॥ २७॥
त्वम् हि पाणि-प्रदानेन वयस्यः मे अग्नि-साक्षिकम् । कृतः प्राणैः बहु-मतः सत्येन च शपामि अहम्॥ २७॥
tvam hi pāṇi-pradānena vayasyaḥ me agni-sākṣikam . kṛtaḥ prāṇaiḥ bahu-mataḥ satyena ca śapāmi aham.. 27..
वयस्य इति कृत्वा च विस्रब्धः प्रवदाम्यहम् । दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः॥ २८॥
वयस्यः इति कृत्वा च विस्रब्धः प्रवदामि अहम् । दुःखम् अन्तर्गतम् तत् मे मनः हरति नित्यशस्॥ २८॥
vayasyaḥ iti kṛtvā ca visrabdhaḥ pravadāmi aham . duḥkham antargatam tat me manaḥ harati nityaśas.. 28..
एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम्॥ २९॥
एतावत् उक्त्वा वचनम् बाष्प-दूषित-लोचनः । बाष्प-दूषितया वाचा न उच्चैस् शक्नोति भाषितुम्॥ २९॥
etāvat uktvā vacanam bāṣpa-dūṣita-locanaḥ . bāṣpa-dūṣitayā vācā na uccais śaknoti bhāṣitum.. 29..
बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसंनिधौ॥ ३०॥
बाष्प-वेगम् तु सहसा नदी-वेगम् इव आगतम् । धारयामास धैर्येण सुग्रीवः राम-संनिधौ॥ ३०॥
bāṣpa-vegam tu sahasā nadī-vegam iva āgatam . dhārayāmāsa dhairyeṇa sugrīvaḥ rāma-saṃnidhau.. 30..
स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान्॥ ३१॥
स निगृह्य तु तम् बाष्पम् प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवम् पुनर् ऊचिवान्॥ ३१॥
sa nigṛhya tu tam bāṣpam pramṛjya nayane śubhe . viniḥśvasya ca tejasvī rāghavam punar ūcivān.. 31..
पुराहं वालिना राम राज्यात् स्वादवरोपितः । परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा॥ ३२॥
पुरा अहम् वालिना राम राज्यात् स्वात् अवरोपितः । परुषाणि च संश्राव्य निर्धूतः अस्मि बलीयसा॥ ३२॥
purā aham vālinā rāma rājyāt svāt avaropitaḥ . paruṣāṇi ca saṃśrāvya nirdhūtaḥ asmi balīyasā.. 32..
हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी । सुहृदश्च मदीया ये संयता बन्धनेषु ते॥ ३३॥
हृता भार्या च मे तेन प्राणेभ्यः अपि गरीयसी । सुहृदः च मदीयाः ये संयताः बन्धनेषु ते॥ ३३॥
hṛtā bhāryā ca me tena prāṇebhyaḥ api garīyasī . suhṛdaḥ ca madīyāḥ ye saṃyatāḥ bandhaneṣu te.. 33..
यत्नवांश्च स दुष्टात्मा मद्विनाशाय राघव । बहुशस्तप्रयुक्ताश्च वानरा निहता मया॥ ३४॥
यत्नवान् च स दुष्ट-आत्मा मद्-विनाशाय राघव । बहुशस् तद्-प्रयुक्ताः च वानराः निहताः मया॥ ३४॥
yatnavān ca sa duṣṭa-ātmā mad-vināśāya rāghava . bahuśas tad-prayuktāḥ ca vānarāḥ nihatāḥ mayā.. 34..
शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति॥ ३५॥
शङ्कया तु एतया अहम् च दृष्ट्वा त्वाम् अपि राघव । न उपसर्पामि अहम् भीतः भये सर्वे हि बिभ्यति॥ ३५॥
śaṅkayā tu etayā aham ca dṛṣṭvā tvām api rāghava . na upasarpāmi aham bhītaḥ bhaye sarve hi bibhyati.. 35..
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन्॥ ३६॥
केवलम् हि सहायाः मे हनुमत्-प्रमुखाः तु इमे । अतस् अहम् धारयामि अद्य प्राणान् कृच्छ्र-गतः अपि सन्॥ ३६॥
kevalam hi sahāyāḥ me hanumat-pramukhāḥ tu ime . atas aham dhārayāmi adya prāṇān kṛcchra-gataḥ api san.. 36..
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते॥ ३७॥
एते हि कपयः स्निग्धाः माम् रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च आस्थिते॥ ३७॥
ete hi kapayaḥ snigdhāḥ mām rakṣanti samantataḥ . saha gacchanti gantavye nityam tiṣṭhanti ca āsthite.. 37..
संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः॥ ३८॥
संक्षेपः तु एष मे राम किम् उक्त्वा विस्तरम् हि ते । स मे ज्येष्ठः रिपुः भ्राता वाली विश्रुत-पौरुषः॥ ३८॥
saṃkṣepaḥ tu eṣa me rāma kim uktvā vistaram hi te . sa me jyeṣṭhaḥ ripuḥ bhrātā vālī viśruta-pauruṣaḥ.. 38..
तद्विनाशेऽपि मे दुःखं प्रमृष्टं स्यादनन्तरम् । सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्॥ ३९॥
तद्-विनाशे अपि मे दुःखम् प्रमृष्टम् स्यात् अनन्तरम् । सुखम् मे जीवितम् च एव तद्-विनाश-निबन्धनम्॥ ३९॥
tad-vināśe api me duḥkham pramṛṣṭam syāt anantaram . sukham me jīvitam ca eva tad-vināśa-nibandhanam.. 39..
एष मे राम शोकान्तः शोकार्तेन निवेदितः । दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः॥ ४०॥
एष मे राम शोक-अन्तः शोक-आर्तेन निवेदितः । दुःखितः सुखितः वा अपि सख्युः नित्यम् सखा गतिः॥ ४०॥
eṣa me rāma śoka-antaḥ śoka-ārtena niveditaḥ . duḥkhitaḥ sukhitaḥ vā api sakhyuḥ nityam sakhā gatiḥ.. 40..
श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् । किं निमित्तमभूद् वैरं श्रोतुमिच्छामि तत्त्वतः॥ ४१॥
श्रुत्वा एतत् च वचः रामः सुग्रीवम् इदम् अब्रवीत् । किम् निमित्तम् अभूत् वैरम् श्रोतुम् इच्छामि तत्त्वतः॥ ४१॥
śrutvā etat ca vacaḥ rāmaḥ sugrīvam idam abravīt . kim nimittam abhūt vairam śrotum icchāmi tattvataḥ.. 41..
सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तर्याद् विधास्यामि सम्प्रधार्य बलाबलम्॥ ४२॥
सुखम् हि कारणम् श्रुत्वा वैरस्य तव वानर । आनन्तर्यात् विधास्यामि सम्प्रधार्य बलाबलम्॥ ४२॥
sukham hi kāraṇam śrutvā vairasya tava vānara . ānantaryāt vidhāsyāmi sampradhārya balābalam.. 42..
बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् । वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः॥ ४३॥
बलवान् हि मम आमर्षः श्रुत्वा त्वाम् अवमानितम् । वर्धते हृदय-उत्कम्पी प्रावृष्-वेगः इव अम्भसः॥ ४३॥
balavān hi mama āmarṣaḥ śrutvā tvām avamānitam . vardhate hṛdaya-utkampī prāvṛṣ-vegaḥ iva ambhasaḥ.. 43..
हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः । सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव॥ ४४॥
हृष्टः कथय विस्रब्धः यावत् आरोप्यते धनुः । सृष्टः च हि मया बाणः निरस्तः च रिपुः तव॥ ४४॥
hṛṣṭaḥ kathaya visrabdhaḥ yāvat āropyate dhanuḥ . sṛṣṭaḥ ca hi mayā bāṇaḥ nirastaḥ ca ripuḥ tava.. 44..
एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः॥ ४५॥
एवम् उक्तः तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षम् अतुलम् लेभे चतुर्भिः सह वानरैः॥ ४५॥
evam uktaḥ tu sugrīvaḥ kākutsthena mahātmanā . praharṣam atulam lebhe caturbhiḥ saha vānaraiḥ.. 45..
ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे॥ ४६॥
ततस् प्रहृष्ट-वदनः सुग्रीवः लक्ष्मण-अग्रजे । वैरस्य कारणम् तत्त्वम् आख्यातुम् उपचक्रमे॥ ४६॥
tatas prahṛṣṭa-vadanaḥ sugrīvaḥ lakṣmaṇa-agraje . vairasya kāraṇam tattvam ākhyātum upacakrame.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अष्टमः सर्गः ॥४-८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे अष्टमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe aṣṭamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In