This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे नवमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe navamaḥ sargaḥ ..4..
वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः । पितुर्बहुमतो नित्यं मम चापि तथा पुरा॥ १॥
वाली नाम मम भ्राता ज्येष्ठः शत्रु-निषूदनः । पितुः बहु-मतः नित्यम् मम च अपि तथा पुरा॥ १॥
vālī nāma mama bhrātā jyeṣṭhaḥ śatru-niṣūdanaḥ . pituḥ bahu-mataḥ nityam mama ca api tathā purā.. 1..
पितर्युपरते तस्मिन् ज्येष्ठोऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसम्मतः॥ २॥
पितरि उपरते तस्मिन् ज्येष्ठः अयम् इति मन्त्रिभिः । कपीनाम् ईश्वरः राज्ये कृतः परम-सम्मतः॥ २॥
pitari uparate tasmin jyeṣṭhaḥ ayam iti mantribhiḥ . kapīnām īśvaraḥ rājye kṛtaḥ parama-sammataḥ.. 2..
राज्यं प्रशासतस्तस्य पितृपैतामहं महत् । अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः॥ ३॥
राज्यम् प्रशासतः तस्य पितृपैतामहम् महत् । अहम् सर्वेषु कालेषु प्रणतः प्रेष्य-वत् स्थितः॥ ३॥
rājyam praśāsataḥ tasya pitṛpaitāmaham mahat . aham sarveṣu kāleṣu praṇataḥ preṣya-vat sthitaḥ.. 3..
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं वालिनः स्त्रीकृतं पुरा॥ ४॥
मायावी नाम तेजस्वी पूर्वजः दुन्दुभेः सुतः । तेन तस्य महत् वैरम् वालिनः स्त्री-कृतम् पुरा॥ ४॥
māyāvī nāma tejasvī pūrvajaḥ dundubheḥ sutaḥ . tena tasya mahat vairam vālinaḥ strī-kṛtam purā.. 4..
स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः । नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे॥ ५॥
स तु सुप्ते जने रात्रौ किष्किन्धा-द्वारम् आगतः । नर्दति स्म सु संरब्धः वालिनम् च आह्वयत् रणे॥ ५॥
sa tu supte jane rātrau kiṣkindhā-dvāram āgataḥ . nardati sma su saṃrabdhaḥ vālinam ca āhvayat raṇe.. 5..
प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा॥ ६॥
प्रसुप्तः तु मम भ्राता नर्दतः भैरव-स्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा॥ ६॥
prasuptaḥ tu mama bhrātā nardataḥ bhairava-svanam . śrutvā na mamṛṣe vālī niṣpapāta javāt tadā.. 6..
स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना॥ ७॥
स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुर-उत्तमम् । वार्यमाणः ततस् स्त्रीभिः मया च प्रणत-आत्मना॥ ७॥
sa tu vai niḥsṛtaḥ krodhāt tam hantum asura-uttamam . vāryamāṇaḥ tatas strībhiḥ mayā ca praṇata-ātmanā.. 7..
स तु निर्धूय सर्वान् नो निर्जगाम महाबलः । ततोऽहमपि सौहार्दान्निःसृतो वालिना सह॥ ८॥
स तु निर्धूय सर्वान् नः निर्जगाम महा-बलः । ततस् अहम् अपि सौहार्दात् निःसृतः वालिना सह॥ ८॥
sa tu nirdhūya sarvān naḥ nirjagāma mahā-balaḥ . tatas aham api sauhārdāt niḥsṛtaḥ vālinā saha.. 8..
स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव तदा भृशम्॥ ९॥
स तु मे भ्रातरम् दृष्ट्वा माम् च दूरात् अवस्थितम् । असुरः जात-संत्रासः प्रदुद्राव तदा भृशम्॥ ९॥
sa tu me bhrātaram dṛṣṭvā mām ca dūrāt avasthitam . asuraḥ jāta-saṃtrāsaḥ pradudrāva tadā bhṛśam.. 9..
तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ । प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा॥ १०॥
तस्मिन् द्रवति संत्रस्ते हि आवाम् द्रुततरम् गतौ । प्रकाशः अपि कृतः मार्गः चन्द्रेण उद्गच्छता तदा॥ १०॥
tasmin dravati saṃtraste hi āvām drutataram gatau . prakāśaḥ api kṛtaḥ mārgaḥ candreṇa udgacchatā tadā.. 10..
स तृणैरावृतं दुर्गं धरण्या विवरं महत् । प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ॥ ११॥
स तृणैः आवृतम् दुर्गम् धरण्याः विवरम् महत् । प्रविवेश असुरः वेगात् आम् आसाद्य विष्ठितौ॥ ११॥
sa tṛṇaiḥ āvṛtam durgam dharaṇyāḥ vivaram mahat . praviveśa asuraḥ vegāt ām āsādya viṣṭhitau.. 11..
तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः । मामुवाच ततो वाली वचनं क्षुभितेन्द्रियः॥ १२॥
तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष-वशम् गतः । माम् उवाच ततस् वाली वचनम् क्षुभित-इन्द्रियः॥ १२॥
tam praviṣṭam ripum dṛṣṭvā bilam roṣa-vaśam gataḥ . mām uvāca tatas vālī vacanam kṣubhita-indriyaḥ.. 12..
इह तिष्ठाद्य सुग्रीव बिलद्वारि समाहितः । यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्॥ १३॥
इह तिष्ठ अद्य सुग्रीव बिल-द्वारि समाहितः । यावत् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम्॥ १३॥
iha tiṣṭha adya sugrīva bila-dvāri samāhitaḥ . yāvat atra praviśya aham nihanmi samare ripum.. 13..
मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च मां पद्भ्यां प्रविवेश बिलं ततः॥ १४॥
मया तु एतत् वचः श्रुत्वा याचितः स परंतपः । शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् ततस्॥ १४॥
mayā tu etat vacaḥ śrutvā yācitaḥ sa paraṃtapaḥ . śāpayitvā ca mām padbhyām praviveśa bilam tatas.. 14..
तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः । स्थितस्य च बिलद्वारि स कालो व्यत्यवर्तत॥ १५॥
तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरः गतः । स्थितस्य च बिल-द्वारि स कालः व्यत्यवर्तत॥ १५॥
tasya praviṣṭasya bilam sāgraḥ saṃvatsaraḥ gataḥ . sthitasya ca bila-dvāri sa kālaḥ vyatyavartata.. 15..
अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः । भ्रातरं न प्रपश्यामि पापशङ्कि च मे मनः॥ १६॥
अहम् तु नष्टम् तम् ज्ञात्वा स्नेहात् आगत-सम्भ्रमः । भ्रातरम् न प्रपश्यामि पाप-शङ्कि च मे मनः॥ १६॥
aham tu naṣṭam tam jñātvā snehāt āgata-sambhramaḥ . bhrātaram na prapaśyāmi pāpa-śaṅki ca me manaḥ.. 16..
अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् । सफेनं रुधिरं दृष्ट्वा ततोऽहं भृशदुःखितः॥ १७॥
अथ दीर्घस्य कालस्य बिलात् तस्मात् विनिःसृतम् । स फेनम् रुधिरम् दृष्ट्वा ततस् अहम् भृश-दुःखितः॥ १७॥
atha dīrghasya kālasya bilāt tasmāt viniḥsṛtam . sa phenam rudhiram dṛṣṭvā tatas aham bhṛśa-duḥkhitaḥ.. 17..
नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः । न रतस्य च संग्रामे क्रोशतोऽपि स्वनो गुरोः॥ १८॥
नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः । न रतस्य च संग्रामे क्रोशतः अपि स्वनः गुरोः॥ १८॥
nardatām asurāṇām ca dhvaniḥ me śrotram āgataḥ . na ratasya ca saṃgrāme krośataḥ api svanaḥ guroḥ.. 18..
अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया॥ १९॥
अहम् तु अवगतः बुद्ध्या चिह्नैः तैः भ्रातरम् हतम् । पिधाय च बिल-द्वारम् शिलया गिरि-मात्रया॥ १९॥
aham tu avagataḥ buddhyā cihnaiḥ taiḥ bhrātaram hatam . pidhāya ca bila-dvāram śilayā giri-mātrayā.. 19..
शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे । गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम्॥ २०॥
शोक-आर्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे । गूहमानस्य मे तत् त्वम् यत्नतः मन्त्रिभिः श्रुतम्॥ २०॥
śoka-ārtaḥ ca udakam kṛtvā kiṣkindhām āgataḥ sakhe . gūhamānasya me tat tvam yatnataḥ mantribhiḥ śrutam.. 20..
ततोऽहं तैः समागम्य समेतैरभिषेचितः । राज्यं प्रशासतस्तस्य न्यायतो मम राघव॥ २१॥
ततस् अहम् तैः समागम्य समेतैः अभिषेचितः । राज्यम् प्रशासतः तस्य न्यायतः मम राघव॥ २१॥
tatas aham taiḥ samāgamya sametaiḥ abhiṣecitaḥ . rājyam praśāsataḥ tasya nyāyataḥ mama rāghava.. 21..
आजगाम रिपुं हत्वा दानवं स तु वानरः । अभिषिक्तं तु मां दृष्ट्वा क्रोधात् संरक्तलोचनः॥ २२॥
आजगाम रिपुम् हत्वा दानवम् स तु वानरः । अभिषिक्तम् तु माम् दृष्ट्वा क्रोधात् संरक्त-लोचनः॥ २२॥
ājagāma ripum hatvā dānavam sa tu vānaraḥ . abhiṣiktam tu mām dṛṣṭvā krodhāt saṃrakta-locanaḥ.. 22..
मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् । निग्रहे च समर्थस्य तं पापं प्रति राघव॥ २३॥
मदीयान् मन्त्रिणः बद्ध्वा परुषम् वाक्यम् अब्रवीत् । निग्रहे च समर्थस्य तम् पापम् प्रति राघव॥ २३॥
madīyān mantriṇaḥ baddhvā paruṣam vākyam abravīt . nigrahe ca samarthasya tam pāpam prati rāghava.. 23..
न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता । हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा॥ २४॥
न प्रावर्तत मे बुद्धिः भ्रातृ-गौरव-यन्त्रिता । हत्वा शत्रुम् स मे भ्राता प्रविवेश पुरम् तदा॥ २४॥
na prāvartata me buddhiḥ bhrātṛ-gaurava-yantritā . hatvā śatrum sa me bhrātā praviveśa puram tadā.. 24..
मानयंस्तं महात्मानं यथावच्चाभिवादयम् । उक्ताश्च नाशिषस्तेन प्रहृष्टेनान्तरात्मना॥ २५॥
मानयन् तम् महात्मानम् यथावत् च अभिवादयम् । उक्ताः च न आशिषः तेन प्रहृष्टेन अन्तरात्मना॥ २५॥
mānayan tam mahātmānam yathāvat ca abhivādayam . uktāḥ ca na āśiṣaḥ tena prahṛṣṭena antarātmanā.. 25..
नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो । अपि वाली मम क्रोधान्न प्रसादं चकार सः॥ २६॥
नत्वा पाद-आवहम् तस्य मुकुटेन अस्पृशम् प्रभो । अपि वाली मम क्रोधात् न प्रसादम् चकार सः॥ २६॥
natvā pāda-āvaham tasya mukuṭena aspṛśam prabho . api vālī mama krodhāt na prasādam cakāra saḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येकिष्किन्धाकाण्डे नवमः सर्गः ॥४-९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे नवमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe navamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In