This overlay will guide you through the buttons:

| |
|
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥
ततो रावण-नीतायाः सीतायाः शत्रु-कर्शनः । इयेष पदम् अन्वेष्टुम् चारण-आचरिते पथि ॥ १ ॥
tato rāvaṇa-nītāyāḥ sītāyāḥ śatru-karśanaḥ . iyeṣa padam anveṣṭum cāraṇa-ācarite pathi .. 1 ..
दुष्करं निष्पतिदन्दर॑ चिकीर्षन्करम वानरः । समुद्रशचिरोग्रीवो ग्वापतिरिवाऽऽवभौ ॥ २ ॥
दुष्करम् निष्पति-दन्दर चिकीर्षन् करम वानरः । समुद्र-शचिरः ग्रीवः ग्वापतिः इव ॥ २ ॥
duṣkaram niṣpati-dandara cikīrṣan karama vānaraḥ . samudra-śaciraḥ grīvaḥ gvāpatiḥ iva .. 2 ..
अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः । धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ ३ ॥
अथ वैदूर्य-वर्णेषु शाद्वलेषु महा-बलः । धीरः सलिल-कल्पेषु विचचार यथासुखम् ॥ ३ ॥
atha vaidūrya-varṇeṣu śādvaleṣu mahā-balaḥ . dhīraḥ salila-kalpeṣu vicacāra yathāsukham .. 3 ..
द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् । मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ४ ॥
द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन् । मृगान् च सु बहून् निघ्नन् प्रवृद्धः इव केसरी ॥ ४ ॥
dvijān vitrāsayan dhīmān urasā pādapān haran . mṛgān ca su bahūn nighnan pravṛddhaḥ iva kesarī .. 4 ..
नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः । स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ ५ ॥
नीललोहित-माञ्जिष्ठ-पद्म-वर्णैः सित-असितैः । स्वभाव-विहितैः चित्रैः धातुभिः समलङ्कृतम् ॥ ५ ॥
nīlalohita-māñjiṣṭha-padma-varṇaiḥ sita-asitaiḥ . svabhāva-vihitaiḥ citraiḥ dhātubhiḥ samalaṅkṛtam .. 5 ..
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः । यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ ६ ॥
कामरूपिभिः आविष्टम् अभीक्ष्णम् स परिच्छदैः । यक्ष-किंनर-गन्धर्वैः देव-कल्पैः च पन्नगैः ॥ ६ ॥
kāmarūpibhiḥ āviṣṭam abhīkṣṇam sa paricchadaiḥ . yakṣa-kiṃnara-gandharvaiḥ deva-kalpaiḥ ca pannagaiḥ .. 6 ..
स तस्य गिरिवर्यस्य तले नागवरायुते । तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ७ ॥
स तस्य गिरि-वर्यस्य तले नाग-वर-आयुते । तिष्ठन् कपि-वरः तत्र ह्रदे नागः इव आबभौ ॥ ७ ॥
sa tasya giri-varyasya tale nāga-vara-āyute . tiṣṭhan kapi-varaḥ tatra hrade nāgaḥ iva ābabhau .. 7 ..
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे । भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ८ ॥
स सूर्याय महा-इन्द्राय पवनाय स्वयम्भुवे । भूतेभ्यः च अञ्जलिम् कृत्वा चकार गमने मतिम् ॥ ८ ॥
sa sūryāya mahā-indrāya pavanāya svayambhuve . bhūtebhyaḥ ca añjalim kṛtvā cakāra gamane matim .. 8 ..
अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये । ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ९ ॥
अञ्जलिम् प्राच्-मुखः कुर्वन् पवनाय आत्मयोनये । ततस् हि ववृधे गन्तुम् दक्षिणः दक्षिणाम् दिशम् ॥ ९ ॥
añjalim prāc-mukhaḥ kurvan pavanāya ātmayonaye . tatas hi vavṛdhe gantum dakṣiṇaḥ dakṣiṇām diśam .. 9 ..
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः । ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ १० ॥
प्लवङ्ग-प्रवरैः दृष्टः प्लवने कृत-निश्चयः । ववृधे राम-वृद्धि-अर्थम् समुद्रः इव पर्वसु ॥ १० ॥
plavaṅga-pravaraiḥ dṛṣṭaḥ plavane kṛta-niścayaḥ . vavṛdhe rāma-vṛddhi-artham samudraḥ iva parvasu .. 10 ..
निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् । बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ ११ ॥
निष्प्रमाण शरीरः सन् लिलङ्घयिषुः अर्णवम् । बाहुभ्याम् पीडयामास चरणाभ्याम् च पर्वतम् ॥ ११ ॥
niṣpramāṇa śarīraḥ san lilaṅghayiṣuḥ arṇavam . bāhubhyām pīḍayāmāsa caraṇābhyām ca parvatam .. 11 ..
स चचालाचलाश्चारु मुहूर्तं कपिपीडितः । तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ १२ ॥
स चचाल अचलाः चारु मुहूर्तम् कपि-पीडितः । तरूणाम् पुष्पित-अग्राणाम् सर्वम् पुष्पम् अशातयत् ॥ १२ ॥
sa cacāla acalāḥ cāru muhūrtam kapi-pīḍitaḥ . tarūṇām puṣpita-agrāṇām sarvam puṣpam aśātayat .. 12 ..
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना । सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ १३ ॥
तेन पादप-मुक्तेन पुष्प-ओघेण सुगन्धिना । सर्वतस् संवृतः शैलः बभौ पुष्प-मयः यथा ॥ १३ ॥
tena pādapa-muktena puṣpa-ogheṇa sugandhinā . sarvatas saṃvṛtaḥ śailaḥ babhau puṣpa-mayaḥ yathā .. 13 ..
तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः । सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ १४ ॥
तेन च उत्तम-वीर्येण पीड्यमानः स पर्वतः । सलिलम् सम्प्रसुस्राव मदम् मत्तः इव द्विपः ॥ १४ ॥
tena ca uttama-vīryeṇa pīḍyamānaḥ sa parvataḥ . salilam samprasusrāva madam mattaḥ iva dvipaḥ .. 14 ..
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ॥ १५ ॥
पीड्यमानः तु बलिना महेन्द्रः तेन पर्वतः । रीतिः निर्वर्तयामास काञ्चन-अञ्जन-राजतीः ॥ १५ ॥
pīḍyamānaḥ tu balinā mahendraḥ tena parvataḥ . rītiḥ nirvartayāmāsa kāñcana-añjana-rājatīḥ .. 15 ..
मुमोच च शिलाः शैलो विशालाः समनःशिलाः । मध्यमेनाचिषा जषटो धूमराजीरिवानरः ॥ १६ ॥
मुमोच च शिलाः शैलः विशालाः समनःशिलाः । मध्यमेन अचिषा जषटः धूम-राजीः इव अनरः ॥ १६ ॥
mumoca ca śilāḥ śailaḥ viśālāḥ samanaḥśilāḥ . madhyamena aciṣā jaṣaṭaḥ dhūma-rājīḥ iva anaraḥ .. 16 ..
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः । गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ १७ ॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वशस् । गुहा-आविष्टानि भूतानि विनेदुः विकृतैः स्वरैः ॥ १७ ॥
giriṇā pīḍyamānena pīḍyamānāni sarvaśas . guhā-āviṣṭāni bhūtāni vineduḥ vikṛtaiḥ svaraiḥ .. 17 ..
स महासत्त्वसंनादः शैलपीडानिमित्तजः । पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ १८ ॥
स महा-सत्त्व-संनादः शैल-पीडा-निमित्त-जः । पृथिवीम् पूरयामास दिशः च उपवनानि च ॥ १८ ॥
sa mahā-sattva-saṃnādaḥ śaila-pīḍā-nimitta-jaḥ . pṛthivīm pūrayāmāsa diśaḥ ca upavanāni ca .. 18 ..
शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ १९ ॥
शिरोभिः पृथुभिः सर्पाः व्यक्त-स्वस्तिक-लक्षणैः । वमन्तः पावकम् घोरम् ददंशुः दशनैः शिलाः ॥ १९ ॥
śirobhiḥ pṛthubhiḥ sarpāḥ vyakta-svastika-lakṣaṇaiḥ . vamantaḥ pāvakam ghoram dadaṃśuḥ daśanaiḥ śilāḥ .. 19 ..
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः । जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा ॥ २० ॥
ताः तदा सविषैः दष्टाः कुपितैः तैः महा-शिलाः । जज्वलुः पावक-उद्दीप्ताः विभिदुः च सहस्रधा ॥ २० ॥
tāḥ tadā saviṣaiḥ daṣṭāḥ kupitaiḥ taiḥ mahā-śilāḥ . jajvaluḥ pāvaka-uddīptāḥ vibhiduḥ ca sahasradhā .. 20 ..
यानि चौषधजालानि तस्मिञ्जातानि पर्वते । विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ २१ ॥
यानि च औषध-जालानि तस्मिन् जातानि पर्वते । विष-घ्नानि अपि नागानाम् न शेकुः शमितुम् विषम् ॥ २१ ॥
yāni ca auṣadha-jālāni tasmin jātāni parvate . viṣa-ghnāni api nāgānām na śekuḥ śamitum viṣam .. 21 ..
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः । त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह ॥ २२ ॥
भिद्यते अयम् गिरिः भूतैः इति मत्वा तपस्विनः । त्रस्ताः विद्याधराः तस्मात् उत्पेतुः स्त्री-गणैः सह ॥ २२ ॥
bhidyate ayam giriḥ bhūtaiḥ iti matvā tapasvinaḥ . trastāḥ vidyādharāḥ tasmāt utpetuḥ strī-gaṇaiḥ saha .. 22 ..
पानभूमिगतं हित्वा हैममासनभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३ ॥
पान-भूमि-गतम् हित्वा हैमम् आसन-भाजनम् । पात्राणि च महार्हाणि करकान् च हिरण्मयान् ॥ २३ ॥
pāna-bhūmi-gatam hitvā haimam āsana-bhājanam . pātrāṇi ca mahārhāṇi karakān ca hiraṇmayān .. 23 ..
लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च । आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ २४ ॥
लेह्यान् उच्चावचान् भक्ष्यान् मांसानि विविधानि च । आर्षभाणि च चर्माणि खड्गान् च कनक-त्सरून् ॥ २४ ॥
lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca . ārṣabhāṇi ca carmāṇi khaḍgān ca kanaka-tsarūn .. 24 ..
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः । रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ २५ ॥
कृत-कण्ठ-गुणाः क्षीबाः रक्त-माल्य-अनुलेपनाः । रक्त-अक्षाः पुष्कर-अक्षाः च गगनम् प्रतिपेदिरे ॥ २५ ॥
kṛta-kaṇṭha-guṇāḥ kṣībāḥ rakta-mālya-anulepanāḥ . rakta-akṣāḥ puṣkara-akṣāḥ ca gaganam pratipedire .. 25 ..
हारनूपुरकेयूर पारिहार्य धराः स्त्रियः । विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ २६ ॥
हार-नूपुर-केयूर-पारिहार्य-धराः स्त्रियः । विस्मिताः स स्मिताः तस्थुः आकाशे रमणैः सह ॥ २६ ॥
hāra-nūpura-keyūra-pārihārya-dharāḥ striyaḥ . vismitāḥ sa smitāḥ tasthuḥ ākāśe ramaṇaiḥ saha .. 26 ..
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः । सहितास्तस्थुराकाशे वीक्षां चक्रुश् च पर्वतम् ॥ २७ ॥
दर्शयन्तः महा-विद्याम् विद्याधर-महा-ऋषयः । सहिताः तस्थुः आकाशे वीक्षाम् चक्रुः च पर्वतम् ॥ २७ ॥
darśayantaḥ mahā-vidyām vidyādhara-mahā-ṛṣayaḥ . sahitāḥ tasthuḥ ākāśe vīkṣām cakruḥ ca parvatam .. 27 ..
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् । चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ २८ ॥
शुश्रुवुः च तदा शब्दम् ऋषीणाम् भावितात्मनाम् । चारणानाम् च सिद्धानाम् स्थितानाम् विमले अम्बरे ॥ २८ ॥
śuśruvuḥ ca tadā śabdam ṛṣīṇām bhāvitātmanām . cāraṇānām ca siddhānām sthitānām vimale ambare .. 28 ..
एष पर्वतसङ्काशो हनूमान्मारुतात्मजः । तितीर्षति महावेगं समुद्रं मकरालयम् ॥ २९ ॥
एष पर्वत-सङ्काशः हनूमान् मारुतात्मजः । तितीर्षति महा-वेगम् समुद्रम् मकर-आलयम् ॥ २९ ॥
eṣa parvata-saṅkāśaḥ hanūmān mārutātmajaḥ . titīrṣati mahā-vegam samudram makara-ālayam .. 29 ..
रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् । समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ ३० ॥
राम-अर्थम् वानर-अर्थम् च चिकीर्षन् कर्म दुष्करम् । समुद्रस्य परम् पारम् दुष्प्रापम् प्राप्तुम् इच्छति ॥ ३० ॥
rāma-artham vānara-artham ca cikīrṣan karma duṣkaram . samudrasya param pāram duṣprāpam prāptum icchati .. 30 ..
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ॥ तमपमेयं ददृशुः पर्वते वानरर्षभम् ॥ ३१ ॥
इति विद्याधराः श्रुत्वा वचः तेषाम् महात्मनाम् ॥ तम् अपमेयम् ददृशुः पर्वते वानर-ऋषभम् ॥ ३१ ॥
iti vidyādharāḥ śrutvā vacaḥ teṣām mahātmanām .. tam apameyam dadṛśuḥ parvate vānara-ṛṣabham .. 31 ..
दुधुवे च स रोमाणि चकम्पे चाचलोपमः । ननाद च महानादं सुमहानिव तोयदः ॥ ३२ ॥
दुधुवे च स रोमाणि चकम्पे च अचल-उपमः । ननाद च महा-नादम् सु महान् इव तोयदः ॥ ३२ ॥
dudhuve ca sa romāṇi cakampe ca acala-upamaḥ . nanāda ca mahā-nādam su mahān iva toyadaḥ .. 32 ..
आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश् चितम् । उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३३ ॥
आनुपूर्व्यात् च वृत्तम् च लाङ्गूलम् रोमभिः चितम् । उत्पतिष्यन् विचिक्षेप पक्षि-राजः इव उरगम् ॥ ३३ ॥
ānupūrvyāt ca vṛttam ca lāṅgūlam romabhiḥ citam . utpatiṣyan vicikṣepa pakṣi-rājaḥ iva uragam .. 33 ..
तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः । ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३४ ॥
तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतस् । ददृशे गरुडेन इव ह्रियमाणः महा-उरगः ॥ ३४ ॥
tasya lāṅgūlam āviddham ativegasya pṛṣṭhatas . dadṛśe garuḍena iva hriyamāṇaḥ mahā-uragaḥ .. 34 ..
बाहू संस्तम्भयामास महापरिघसंनिभौ । ससाद च कपिः कट्यां चरणौ सञ्चुकोप च ॥ ३५ ॥
बाहू संस्तम्भयामास महा-परिघ-संनिभौ । ससाद च कपिः कट्याम् चरणौ सञ्चुकोप च ॥ ३५ ॥
bāhū saṃstambhayāmāsa mahā-parigha-saṃnibhau . sasāda ca kapiḥ kaṭyām caraṇau sañcukopa ca .. 35 ..
संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् । तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ३६ ॥
संहृत्य च भुजौ श्रीमान् तथा एव च शिरोधराम् । तेजः सत्त्वम् तथा वीर्यम् आविवेश स वीर्यवान् ॥ ३६ ॥
saṃhṛtya ca bhujau śrīmān tathā eva ca śirodharām . tejaḥ sattvam tathā vīryam āviveśa sa vīryavān .. 36 ..
मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः । रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ ३७ ॥
मार्गम् आलोकयन् दूरात् ऊर्ध्व-प्रणिहित-ईक्षणः । रुरोध हृदये प्राणान् आकाशम् अवलोकयन् ॥ ३७ ॥
mārgam ālokayan dūrāt ūrdhva-praṇihita-īkṣaṇaḥ . rurodha hṛdaye prāṇān ākāśam avalokayan .. 37 ..
पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः । निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ॥ वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३८ ॥
पद्भ्याम् दृढम् अवस्थानम् कृत्वा स कपि-कुञ्जरः । निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महा-बलः ॥ वानरान् वानर-श्रेष्ठः इदम् वचनम् अब्रवीत् ॥ ३८ ॥
padbhyām dṛḍham avasthānam kṛtvā sa kapi-kuñjaraḥ . nikuñcya karṇau hanumān utpatiṣyan mahā-balaḥ .. vānarān vānara-śreṣṭhaḥ idam vacanam abravīt .. 38 ..
यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः । गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३९ ॥
यथा राघव-निर्मुक्तः शरः श्वसन-विक्रमः । गच्छेत् तद्वत् गमिष्यामि लङ्काम् रावण-पालिताम् ॥ ३९ ॥
yathā rāghava-nirmuktaḥ śaraḥ śvasana-vikramaḥ . gacchet tadvat gamiṣyāmi laṅkām rāvaṇa-pālitām .. 39 ..
न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् । अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ४० ॥
न हि द्रक्ष्यामि यदि ताम् लङ्कायाम् जनकात्मजाम् । अनेन एव हि वेगेन गमिष्यामि सुरालयम् ॥ ४० ॥
na hi drakṣyāmi yadi tām laṅkāyām janakātmajām . anena eva hi vegena gamiṣyāmi surālayam .. 40 ..
यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः । बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ४१ ॥
यदि वा त्रिदिवे सीताम् न द्रक्ष्यामि कृत-श्रमः । बद्ध्वा राक्षस-राजानम् आनयिष्यामि रावणम् ॥ ४१ ॥
yadi vā tridive sītām na drakṣyāmi kṛta-śramaḥ . baddhvā rākṣasa-rājānam ānayiṣyāmi rāvaṇam .. 41 ..
सर्वथा कृतकार्योऽहमेष्यामि सह सीतया । आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ ४२ ॥
सर्वथा कृत-कार्यः अहम् एष्यामि सह सीतया । आनयिष्यामि वा लङ्काम् समुत्पाट्य स रावणाम् ॥ ४२ ॥
sarvathā kṛta-kāryaḥ aham eṣyāmi saha sītayā . ānayiṣyāmi vā laṅkām samutpāṭya sa rāvaṇām .. 42 ..
एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥ ४३ ॥ । उत्पपाताथ वेगेन वेगवानविचारयन् ॥ सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ ४४ ॥
एवम् उक्त्वा तु हनुमान् वानरान् वानर-उत्तमः ॥ ४३ ॥ । उत्पपात अथ वेगेन वेगवान् अविचारयन् ॥ सुपर्णम् इव च आत्मानम् मेने स कपि-कुञ्जरः ॥ ४४ ॥
evam uktvā tu hanumān vānarān vānara-uttamaḥ .. 43 .. . utpapāta atha vegena vegavān avicārayan .. suparṇam iva ca ātmānam mene sa kapi-kuñjaraḥ .. 44 ..
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः । संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४५ ॥
समुत्पतति तस्मिन् तु वेगात् ते नग-रोहिणः । संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः ॥ ४५ ॥
samutpatati tasmin tu vegāt te naga-rohiṇaḥ . saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ .. 45 ..
स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः । उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ ४६ ॥
स मत्त-कोयष्टिभकान् पादपान् पुष्प-शालिनः । उद्वहन् ऊरु-वेगेन जगाम विमले अम्बरे ॥ ४६ ॥
sa matta-koyaṣṭibhakān pādapān puṣpa-śālinaḥ . udvahan ūru-vegena jagāma vimale ambare .. 46 ..
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः । प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ४७ ॥
ऊरु-वेग-उद्धताः वृक्षाः मुहूर्तम् कपिम् अन्वयुः । प्रस्थितम् दीर्घम् अध्वानम् स्व-बन्धुम् इव बान्धवाः ॥ ४७ ॥
ūru-vega-uddhatāḥ vṛkṣāḥ muhūrtam kapim anvayuḥ . prasthitam dīrgham adhvānam sva-bandhum iva bāndhavāḥ .. 47 ..
तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः । अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४८ ॥
तम् ऊरु-वेग-उन्मथिताः सालाः च अन्ये नग-उत्तमाः । अनुजग्मुः हनूमन्तम् सैन्याः इव महीपतिम् ॥ ४८ ॥
tam ūru-vega-unmathitāḥ sālāḥ ca anye naga-uttamāḥ . anujagmuḥ hanūmantam sainyāḥ iva mahīpatim .. 48 ..
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः । हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ४९ ॥
सु पुष्पित-अग्रैः बहुभिः पादपैः अन्वितः कपिः । हनुमान् पर्वत-आकारः बभूव अद्भुत-दर्शनः ॥ ४९ ॥
su puṣpita-agraiḥ bahubhiḥ pādapaiḥ anvitaḥ kapiḥ . hanumān parvata-ākāraḥ babhūva adbhuta-darśanaḥ .. 49 ..
सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि । भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ ५० ॥
सारवन्तः अथ ये वृक्षाः न्यमज्जन् लवणाम्भसि । भयात् इव महा-इन्द्रस्य पर्वताः वरुणालये ॥ ५० ॥
sāravantaḥ atha ye vṛkṣāḥ nyamajjan lavaṇāmbhasi . bhayāt iva mahā-indrasya parvatāḥ varuṇālaye .. 50 ..
स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः । शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ ५१ ॥
स नाना कुसुमैः कीर्णः कपिः स अङ्कुर-कोरकैः । शुशुभे मेघ-सङ्काशः खद्योतैः इव पर्वतः ॥ ५१ ॥
sa nānā kusumaiḥ kīrṇaḥ kapiḥ sa aṅkura-korakaiḥ . śuśubhe megha-saṅkāśaḥ khadyotaiḥ iva parvataḥ .. 51 ..
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ५२ ॥
विमुक्ताः तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः । अवशीर्यन्त सलिले निवृत्ताः सुहृदः यथा ॥ ५२ ॥
vimuktāḥ tasya vegena muktvā puṣpāṇi te drumāḥ . avaśīryanta salile nivṛttāḥ suhṛdaḥ yathā .. 52 ..
लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् । द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ । ५३ ॥
लघु-त्वेन उपपन्नम् तत् विचित्रम् सागरे अपतत् । द्रुमाणाम् विविधम् पुष्पम् कपि-वायु-समीरितम् ॥ तारा-आचितम् इव आकाशम् प्रबभौ स महा-अर्णवः ॥ । ५३ ॥
laghu-tvena upapannam tat vicitram sāgare apatat . drumāṇām vividham puṣpam kapi-vāyu-samīritam .. tārā-ācitam iva ākāśam prababhau sa mahā-arṇavaḥ .. . 53 ..
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः । बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः ॥ ५४ ॥
पुष्प-ओघेण अनुबद्धेन नाना वर्णेन वानरः । बभौ मेघः इव उद्यन् वै विद्युत्-गण-विभूषितः ॥ ५४ ॥
puṣpa-ogheṇa anubaddhena nānā varṇena vānaraḥ . babhau meghaḥ iva udyan vai vidyut-gaṇa-vibhūṣitaḥ .. 54 ..
तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत । ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ ५५ ॥
तस्य वेग-समुद्भूतैः पुष्पैः तोयम् अदृश्यत । ताराभिः अभिरामाभिः उदिताभिः इव अम्बरम् ॥ ५५ ॥
tasya vega-samudbhūtaiḥ puṣpaiḥ toyam adṛśyata . tārābhiḥ abhirāmābhiḥ uditābhiḥ iva ambaram .. 55 ..
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ । पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५६ ॥
तस्य अम्बर-गतौ बाहू ददृशाते प्रसारितौ । पर्वत-अग्रात् विनिष्क्रान्तौ पञ्च-आस्यौ इव पन्नगौ ॥ ५६ ॥
tasya ambara-gatau bāhū dadṛśāte prasāritau . parvata-agrāt viniṣkrāntau pañca-āsyau iva pannagau .. 56 ..
पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् । पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५७ ॥
पिबन् इव बभौ च अपि स ऊर्मि-जालम् महा-अर्णवम् । पिपासुः इव च आकाशम् ददृशे स महा-कपिः ॥ ५७ ॥
piban iva babhau ca api sa ūrmi-jālam mahā-arṇavam . pipāsuḥ iva ca ākāśam dadṛśe sa mahā-kapiḥ .. 57 ..
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः । नयने विप्रकाशेते पर्वतस्थाविवानलौ ॥ ५८ ॥
तस्य विद्युत्-प्रभा-आकारे वायु-मार्ग-अनुसारिणः । नयने विप्रकाशेते पर्वत-स्थौ इव अनलौ ॥ ५८ ॥
tasya vidyut-prabhā-ākāre vāyu-mārga-anusāriṇaḥ . nayane viprakāśete parvata-sthau iva analau .. 58 ..
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले । चक्षुषी सम्प्रकशेते चन्द्रसूर्याविव स्थितौ ॥ ५९ ॥
पिङ्गे पिङ्ग-अक्ष-मुख्यस्य बृहती परिमण्डले । चक्षुषी सम्प्रकशेते चन्द्र-सूर्यौ इव स्थितौ ॥ ५९ ॥
piṅge piṅga-akṣa-mukhyasya bṛhatī parimaṇḍale . cakṣuṣī samprakaśete candra-sūryau iva sthitau .. 59 ..
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ । सन्ध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥ ६० ॥
मुखम् नासिकया तस्य ताम्रया ताम्रम् आबभौ । सन्ध्यया समभिस्पृष्टम् यथा सूर्यस्य मण्डलम् ॥ ६० ॥
mukham nāsikayā tasya tāmrayā tāmram ābabhau . sandhyayā samabhispṛṣṭam yathā sūryasya maṇḍalam .. 60 ..
लाङ्गलं च समाविद्धं प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ ६१ ॥
लाङ्गलम् च समाविद्धम् प्लवमानस्य शोभते । अम्बरे वायुपुत्रस्य शक्र-ध्वजः इव उच्छ्रितः ॥ ६१ ॥
lāṅgalam ca samāviddham plavamānasya śobhate . ambare vāyuputrasya śakra-dhvajaḥ iva ucchritaḥ .. 61 ..
लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः । व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ६२ ॥
लाङ्गूल-चक्रेण महान् शुक्ल-दंष्ट्रः अनिलात्मजः । व्यरोचत महा-प्राज्ञः परिवेषी इव भास्करः ॥ ६२ ॥
lāṅgūla-cakreṇa mahān śukla-daṃṣṭraḥ anilātmajaḥ . vyarocata mahā-prājñaḥ pariveṣī iva bhāskaraḥ .. 62 ..
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः । महता दारितेनेव गिरिर्गैरिकधातुना ॥ ६३ ॥
स्फिच्-देशेन अभिताम्रेण रराज स महा-कपिः । महता दारितेन इव गिरिः गैरिक-धातुना ॥ ६३ ॥
sphic-deśena abhitāmreṇa rarāja sa mahā-kapiḥ . mahatā dāritena iva giriḥ gairika-dhātunā .. 63 ..
तस्य वानरसिंहस्य प्लवमानस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६४ ॥
तस्य वानर-सिंहस्य प्लवमानस्य सागरम् । कक्ष-अन्तर-गतः वायुः जीमूतः इव गर्जति ॥ ६४ ॥
tasya vānara-siṃhasya plavamānasya sāgaram . kakṣa-antara-gataḥ vāyuḥ jīmūtaḥ iva garjati .. 64 ..
खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता । दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६५ ॥
खे यथा निपतति उल्का उत्तर-अन्तात् विनिःसृता । दृश्यते सानुबन्धा च तथा स कपि-कुञ्जरः ॥ ६५ ॥
khe yathā nipatati ulkā uttara-antāt viniḥsṛtā . dṛśyate sānubandhā ca tathā sa kapi-kuñjaraḥ .. 65 ..
पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः । प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया ॥ ६६ ॥
पतत्-पतङ्ग-सङ्काशः व्यायतः शुशुभे कपिः । प्रवृद्धः इव मातङ्गः कक्ष्यया बध्यमानया ॥ ६६ ॥
patat-pataṅga-saṅkāśaḥ vyāyataḥ śuśubhe kapiḥ . pravṛddhaḥ iva mātaṅgaḥ kakṣyayā badhyamānayā .. 66 ..
उपरिष्टाच्छरीरेण छायया चावगाढया । सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ६७ ॥
उपरिष्टात् शरीरेण छायया च अवगाढया । सागरे मारुत-आविष्टा नौः इव आसीत् तदा कपिः ॥ ६७ ॥
upariṣṭāt śarīreṇa chāyayā ca avagāḍhayā . sāgare māruta-āviṣṭā nauḥ iva āsīt tadā kapiḥ .. 67 ..
यं यं देशं समुद्रस्य जगाम स महाकपिः । स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ॥ ६८ ॥
यम् यम् देशम् समुद्रस्य जगाम स महा-कपिः । स स तस्य अङ्ग-वेगेन स उन्मादः इव लक्ष्यते ॥ ६८ ॥
yam yam deśam samudrasya jagāma sa mahā-kapiḥ . sa sa tasya aṅga-vegena sa unmādaḥ iva lakṣyate .. 68 ..
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् । अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ६९ ॥
सागरस्य ऊर्मि-जालानाम् उरसा शैल-वर्ष्मणाम् । अभिघ्नन् तु महा-वेगः पुप्लुवे स महा-कपिः ॥ ६९ ॥
sāgarasya ūrmi-jālānām urasā śaila-varṣmaṇām . abhighnan tu mahā-vegaḥ pupluve sa mahā-kapiḥ .. 69 ..
कपिवातश्च बलवान्मेघवातश्च निःसृतः । सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ७० ॥
कपि-वातः च बलवान् मेघ-वातः च निःसृतः । सागरम् भीम-निर्घोषम् कम्पयामासतुः भृशम् ॥ ७० ॥
kapi-vātaḥ ca balavān megha-vātaḥ ca niḥsṛtaḥ . sāgaram bhīma-nirghoṣam kampayāmāsatuḥ bhṛśam .. 70 ..
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि । अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव ॥ ७१ ॥
विकर्षन् ऊर्मि-जालानि बृहन्ति लवणाम्भसि । अत्यक्रामत् महा-वेगः तरङ्गान् गणयन् इव ॥ ७१ ॥
vikarṣan ūrmi-jālāni bṛhanti lavaṇāmbhasi . atyakrāmat mahā-vegaḥ taraṅgān gaṇayan iva .. 71 ..
मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे ॥ अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ ७२ ॥
मेरु-मन्दर-सङ्काशान् उद्धतान् स महा-अर्णवे ॥ अत्यक्रामत् महा-वेगः तरङ्गान् गणयन् इव ॥ ७२ ॥
meru-mandara-saṅkāśān uddhatān sa mahā-arṇave .. atyakrāmat mahā-vegaḥ taraṅgān gaṇayan iva .. 72 ..
तस्य वेगसमुद्धूतं जलं सजलदं तदा । अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ ७३ ॥
तस्य वेग-समुद्धूतम् जलम् स जलदम् तदा । अम्बर-स्थम् विबभ्राज शारद-अभ्रम् इव आततम् ॥ ७३ ॥
tasya vega-samuddhūtam jalam sa jaladam tadā . ambara-stham vibabhrāja śārada-abhram iva ātatam .. 73 ..
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा । वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ ७४ ॥
तिमि-नक्र-झषाः कूर्माः दृश्यन्ते विवृताः तदा । वस्त्र-अपकर्षणेन इव शरीराणि शरीरिणाम् ॥ ७४ ॥
timi-nakra-jhaṣāḥ kūrmāḥ dṛśyante vivṛtāḥ tadā . vastra-apakarṣaṇena iva śarīrāṇi śarīriṇām .. 74 ..
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः । व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे ॥ ७५ ॥
प्लवमानम् समीक्ष्य अथ भुजङ्गाः सागर-आलयाः । व्योम्नि तम् कपि-शार्दूलम् सुपर्णम् इति मेनिरे ॥ ७५ ॥
plavamānam samīkṣya atha bhujaṅgāḥ sāgara-ālayāḥ . vyomni tam kapi-śārdūlam suparṇam iti menire .. 75 ..
दशयोजनविस्तीर्णा त्रिंशद्योजनमायता । छाया वानरसिंहस्य जले चारुतराभवत् ॥ ७६ ॥
दश-योजन-विस्तीर्णा त्रिंशत्-योजनम् आयता । छाया वानर-सिंहस्य जले चारुतरा भवत् ॥ ७६ ॥
daśa-yojana-vistīrṇā triṃśat-yojanam āyatā . chāyā vānara-siṃhasya jale cārutarā bhavat .. 76 ..
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी । तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७७ ॥
श्वेत-अभ्र-घन-राजी इव वायुपुत्र-अनुगामिनी । तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७७ ॥
śveta-abhra-ghana-rājī iva vāyuputra-anugāminī . tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi .. 77 ..
शुशुभे स महातेजा महाकायो महाकपिः । वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ ७८ ॥
शुशुभे स महा-तेजाः महा-कायः महा-कपिः । वायु-मार्गे निरालम्बे पक्षवान् इव पर्वतः ॥ ७८ ॥
śuśubhe sa mahā-tejāḥ mahā-kāyaḥ mahā-kapiḥ . vāyu-mārge nirālambe pakṣavān iva parvataḥ .. 78 ..
येनासौ याति बलवान् वेगेन कपिकुञ्जरः । तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ ७९ ॥
येन असौ याति बलवान् वेगेन कपि-कुञ्जरः । तेन मार्गेण सहसा द्रोणीकृतः इव अर्णवः ॥ ७९ ॥
yena asau yāti balavān vegena kapi-kuñjaraḥ . tena mārgeṇa sahasā droṇīkṛtaḥ iva arṇavaḥ .. 79 ..
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् । हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥ ८० ॥
आपाते पक्षि-सङ्घानाम् पक्षिराजः इव व्रजन् । हनुमान् मेघ-जालानि प्रकर्षन् मारुतः यथा ॥ ८० ॥
āpāte pakṣi-saṅghānām pakṣirājaḥ iva vrajan . hanumān megha-jālāni prakarṣan mārutaḥ yathā .. 80 ..
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च । कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ ८१ ॥
पाण्डुर-अरुण-वर्णानि नील-माञ्जिष्ठकानि च । कपिना आकृष्यमाणानि महा-अभ्राणि चकाशिरे ॥ ८१ ॥
pāṇḍura-aruṇa-varṇāni nīla-māñjiṣṭhakāni ca . kapinā ākṛṣyamāṇāni mahā-abhrāṇi cakāśire .. 81 ..
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः । प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ८२ ॥
प्रविशन् अभ्र-जालानि निष्पतन् च पुनर् पुनर् । प्रच्छन्नः च प्रकाशः च चन्द्रमाः इव लक्ष्यते ॥ ८२ ॥
praviśan abhra-jālāni niṣpatan ca punar punar . pracchannaḥ ca prakāśaḥ ca candramāḥ iva lakṣyate .. 82 ..
प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा । ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ ८३ ॥
प्लवमानम् तु तम् दृष्ट्वा प्लवगम् त्वरितम् तदा । ववृषुः पुष्प-वर्षाणि देव-गन्धर्व-दानवाः ॥ ८३ ॥
plavamānam tu tam dṛṣṭvā plavagam tvaritam tadā . vavṛṣuḥ puṣpa-varṣāṇi deva-gandharva-dānavāḥ .. 83 ..
तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् । सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ८४ ॥
तताप न हि तम् सूर्यः प्लवन्तम् वानर-ईश्वरम् । सिषेवे च तदा वायुः राम-कार्य-अर्थ-सिद्धये ॥ ८४ ॥
tatāpa na hi tam sūryaḥ plavantam vānara-īśvaram . siṣeve ca tadā vāyuḥ rāma-kārya-artha-siddhaye .. 84 ..
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा । जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं ॥ ८५ ॥
ऋषयः तुष्टुवुः च एनम् प्लवमानम् विहायसा । जगुः च देव-गन्धर्वाः प्रशंसन्तः महा-ओजसम् ॥ ८५ ॥
ṛṣayaḥ tuṣṭuvuḥ ca enam plavamānam vihāyasā . jaguḥ ca deva-gandharvāḥ praśaṃsantaḥ mahā-ojasam .. 85 ..
नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः । प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् ॥ ८६ ॥
नागाः च तुष्टुवुः यक्षाः रक्षांसि विबुधाः खगाः । प्रेक्ष्य आकाशे कपि-वरम् सहसा विगत-क्लमम् ॥ ८६ ॥
nāgāḥ ca tuṣṭuvuḥ yakṣāḥ rakṣāṃsi vibudhāḥ khagāḥ . prekṣya ākāśe kapi-varam sahasā vigata-klamam .. 86 ..
तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति । इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ८७ ॥
तस्मिन् प्लवग-शार्दूले प्लवमाने हनूमति । इक्ष्वाकु-कुल-मान-अर्थी चिन्तयामास सागरः ॥ ८७ ॥
tasmin plavaga-śārdūle plavamāne hanūmati . ikṣvāku-kula-māna-arthī cintayāmāsa sāgaraḥ .. 87 ..
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः । करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ८८ ॥
साहाय्यम् वानर-इन्द्रस्य यदि न अहम् हनूमतः । करिष्यामि भविष्यामि सर्व-वाच्यः विवक्षताम् ॥ ८८ ॥
sāhāyyam vānara-indrasya yadi na aham hanūmataḥ . kariṣyāmi bhaviṣyāmi sarva-vācyaḥ vivakṣatām .. 88 ..
अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः । इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ ८९ ॥
अहम् इक्ष्वाकु-नाथेन सगरेण विवर्धितः । इक्ष्वाकु-सचिवः च अयम् न अवसीदितुम् अर्हति ॥ ८९ ॥
aham ikṣvāku-nāthena sagareṇa vivardhitaḥ . ikṣvāku-sacivaḥ ca ayam na avasīditum arhati .. 89 ..
तथा मया विधातव्यं विश्रमेत यथा कपिः । शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति ॥ ९० ॥
तथा मया विधातव्यम् विश्रमेत यथा कपिः । शेषम् च मयि विश्रान्तः सुखेन अतिपतिष्यति ॥ ९० ॥
tathā mayā vidhātavyam viśrameta yathā kapiḥ . śeṣam ca mayi viśrāntaḥ sukhena atipatiṣyati .. 90 ..
इति कृत्वा मतिं साध्वीं समुद्रश् छन्नमम्भसि । हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ९१ ॥
इति कृत्वा मतिम् साध्वीम् समुद्रः छन्नम् अम्भसि । हिरण्यनाभम् मैनाकम् उवाच गिरि-सत्तमम् ॥ ९१ ॥
iti kṛtvā matim sādhvīm samudraḥ channam ambhasi . hiraṇyanābham mainākam uvāca giri-sattamam .. 91 ..
त्वमिहासुरसङ्घानां पातालतलवासिनाम् । देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ॥ ९२ ॥
त्वम् इह असुर-सङ्घानाम् पाताल-तल-वासिनाम् । देवराज्ञा गिरि-श्रेष्ठ परिघः संनिवेशितः ॥ ९२ ॥
tvam iha asura-saṅghānām pātāla-tala-vāsinām . devarājñā giri-śreṣṭha parighaḥ saṃniveśitaḥ .. 92 ..
त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् । पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ९३ ॥
त्वम् एषाम् ज्ञात-वीर्याणाम् पुनर् एव उत्पतिष्यताम् । पातालस्य अप्रमेयस्य द्वारम् आवृत्य तिष्ठसि ॥ ९३ ॥
tvam eṣām jñāta-vīryāṇām punar eva utpatiṣyatām . pātālasya aprameyasya dvāram āvṛtya tiṣṭhasi .. 93 ..
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् । तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ नगसत्तम ॥ ९४ ॥
तिर्यक् ऊर्ध्वम् अधस् च एव शक्तिः ते शैल-वर्धितुम् । तस्मात् सञ्चोदयामि त्वाम् उत्तिष्ठ नग-सत्तम ॥ ९४ ॥
tiryak ūrdhvam adhas ca eva śaktiḥ te śaila-vardhitum . tasmāt sañcodayāmi tvām uttiṣṭha naga-sattama .. 94 ..
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् । हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ ९५ ॥
सः एष कपि-शार्दूलः त्वाम् उपरि एति वीर्यवान् । हनूमान् राम-कार्य-अर्थम् भीम-कर्मा खम् आप्लुतः ॥ ९५ ॥
saḥ eṣa kapi-śārdūlaḥ tvām upari eti vīryavān . hanūmān rāma-kārya-artham bhīma-karmā kham āplutaḥ .. 95 ..
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः । मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ९६ ॥
अस्य साह्यम् मया कार्यम् इक्ष्वाकु-कुल-वर्तिनः । मम इक्ष्वाकवः पूज्याः परम् पूज्यतमाः तव ॥ ९६ ॥
asya sāhyam mayā kāryam ikṣvāku-kula-vartinaḥ . mama ikṣvākavaḥ pūjyāḥ param pūjyatamāḥ tava .. 96 ..
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् । कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ ९७ ॥
कुरु साचिव्यम् अस्माकम् न नः कार्यम् अतिक्रमेत् । कर्तव्यम् अकृतम् कार्यम् सताम् मन्युम् उदीरयेत् ॥ ९७ ॥
kuru sācivyam asmākam na naḥ kāryam atikramet . kartavyam akṛtam kāryam satām manyum udīrayet .. 97 ..
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि । अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ९८ ॥
सलिलात् ऊर्ध्वम् उत्तिष्ठ तिष्ठतु एष कपिः त्वयि । अस्माकम् अतिथिः च एव पूज्यः च प्लवताम् वरः ॥ ९८ ॥
salilāt ūrdhvam uttiṣṭha tiṣṭhatu eṣa kapiḥ tvayi . asmākam atithiḥ ca eva pūjyaḥ ca plavatām varaḥ .. 98 ..
चामीकरमहानाभ देवगन्धर्वसेवित । हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥ ९९ ॥
चामीकर-महानाभ देव-गन्धर्व-सेवित । हनूमान् त्वयि विश्रान्तः ततस् शेषम् गमिष्यति ॥ ९९ ॥
cāmīkara-mahānābha deva-gandharva-sevita . hanūmān tvayi viśrāntaḥ tatas śeṣam gamiṣyati .. 99 ..
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् । श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ १०० ॥
काकुत्स्थस्य आनृशंस्यम् च मैथिल्याः च विवासनम् । श्रमम् च प्लवग-इन्द्रस्य समीक्ष्य उत्थातुम् अर्हसि ॥ १०० ॥
kākutsthasya ānṛśaṃsyam ca maithilyāḥ ca vivāsanam . śramam ca plavaga-indrasya samīkṣya utthātum arhasi .. 100 ..
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः । उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ १०१ ॥
हिरण्यनाभः मैनाकः निशम्य लवणाम्भसः । उत्पपात जलात् तूर्णम् महा-द्रुम-लता-युतः ॥ १०१ ॥
hiraṇyanābhaḥ mainākaḥ niśamya lavaṇāmbhasaḥ . utpapāta jalāt tūrṇam mahā-druma-latā-yutaḥ .. 101 ..
स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा । यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ १०२ ॥
स सागर-जलम् भित्त्वा बभूव अति उत्थितः तदा । यथा जलधरम् भित्त्वा दीप्त-रश्मिः दिवाकरः ॥ १०२ ॥
sa sāgara-jalam bhittvā babhūva ati utthitaḥ tadā . yathā jaladharam bhittvā dīpta-raśmiḥ divākaraḥ .. 102 ..
स महात्मा मुहूर्तेन सर्वतः सलिलावृतःदर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०३ ॥
स महात्मा मुहूर्तेन सर्वतस् सलिल-आवृतः दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ १०३ ॥
sa mahātmā muhūrtena sarvatas salila-āvṛtaḥ darśayāmāsa śṛṅgāṇi sāgareṇa niyojitaḥ .. 103 ..
शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः । आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ १०४ ॥
शातकुम्भ-मयैः शृङ्गैः स किंनर-महा-उरगैः । आदित्य-उदय-सङ्काशैः आलिखद्भिः इव अम्बरम् ॥ १०४ ॥
śātakumbha-mayaiḥ śṛṅgaiḥ sa kiṃnara-mahā-uragaiḥ . āditya-udaya-saṅkāśaiḥ ālikhadbhiḥ iva ambaram .. 104 ..
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः । आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् ॥ १०५ ॥
तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः । आकाशम् शस्त्र-सङ्काशम् अभवत् काञ्चन-प्रभम् ॥ १०५ ॥
tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ . ākāśam śastra-saṅkāśam abhavat kāñcana-prabham .. 105 ..
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः । आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः ॥ १०६ ॥
जातरूप-मयैः शृङ्गैः भ्राजमानैः स्वयम् प्रभैः । आदित्य-शत-सङ्काशः सः अभवत् गिरि-सत्तमः ॥ १०६ ॥
jātarūpa-mayaiḥ śṛṅgaiḥ bhrājamānaiḥ svayam prabhaiḥ . āditya-śata-saṅkāśaḥ saḥ abhavat giri-sattamaḥ .. 106 ..
तमुत्थितमसङ्गेन हनूमानग्रतः स्थितम् । मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ १०७ ॥
तम् उत्थितम् असङ्गेन हनूमान् अग्रतस् स्थितम् । मध्ये लवणतोयस्य विघ्नः अयम् इति निश्चितः ॥ १०७ ॥
tam utthitam asaṅgena hanūmān agratas sthitam . madhye lavaṇatoyasya vighnaḥ ayam iti niścitaḥ .. 107 ..
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः । उरसा पातयामास जीमूतमिव मारुतः ॥ १०८ ॥
स तम् उच्छ्रितम् अत्यर्थम् महा-वेगः महा-कपिः । उरसा पातयामास जीमूतम् इव मारुतः ॥ १०८ ॥
sa tam ucchritam atyartham mahā-vegaḥ mahā-kapiḥ . urasā pātayāmāsa jīmūtam iva mārutaḥ .. 108 ..
स तदा पातितस्तेन कपिना पर्वतोत्तमः । बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ १०९ ॥
स तदा पातितः तेन कपिना पर्वत-उत्तमः । बुद्ध्वा तस्य कपेः वेगम् जहर्ष च ननन्द च ॥ १०९ ॥
sa tadā pātitaḥ tena kapinā parvata-uttamaḥ . buddhvā tasya kapeḥ vegam jaharṣa ca nananda ca .. 109 ..
तमाकाशगतं वीरमाकाशे समवस्थितम् । प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ॥ ११० ॥
तम् आकाश-गतम् वीरम् आकाशे समवस्थितम् । प्रीतः हृष्ट-मनाः वाक्यम् अब्रवीत् पर्वतः कपिम् ॥ ११० ॥
tam ākāśa-gatam vīram ākāśe samavasthitam . prītaḥ hṛṣṭa-manāḥ vākyam abravīt parvataḥ kapim .. 110 ..
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः । दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ॥ १११ ॥
मानुषम् धारयन् रूपम् आत्मनः शिखरे स्थितः । दुष्करम् कृतवान् कर्म त्वम् इदम् वानर-उत्तम ॥ १११ ॥
mānuṣam dhārayan rūpam ātmanaḥ śikhare sthitaḥ . duṣkaram kṛtavān karma tvam idam vānara-uttama .. 111 ..
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् । राघावस्य कुले जातैरुदधिः परिवर्धितः ॥ ११२ ॥
निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम् । राघावस्य कुले जातैः उदधिः परिवर्धितः ॥ ११२ ॥
nipatya mama śṛṅgeṣu viśramasva yathāsukham . rāghāvasya kule jātaiḥ udadhiḥ parivardhitaḥ .. 112 ..
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः । कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ॥ ११३ ॥
स त्वाम् राम-हिते युक्तम् प्रत्यर्चयति सागरः । कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ॥ ११३ ॥
sa tvām rāma-hite yuktam pratyarcayati sāgaraḥ . kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ .. 113 ..
सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति । त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ॥ ११४ ॥
सः अयम् तद्-प्रतिकार-अर्थी त्वत्तः संमानम् अर्हति । त्वद्-निमित्तम् अनेन अहम् बहु-मानात् प्रचोदितः ॥ ११४ ॥
saḥ ayam tad-pratikāra-arthī tvattaḥ saṃmānam arhati . tvad-nimittam anena aham bahu-mānāt pracoditaḥ .. 114 ..
योजनानां शतं चापि कपिरेष समाप्लुतः । तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥ । ११५ ॥
योजनानाम् शतम् च अपि कपिः एष समाप्लुतः । तव सानुषु विश्रान्तः शेषम् प्रक्रमताम् इति ॥ । ११५ ॥
yojanānām śatam ca api kapiḥ eṣa samāplutaḥ . tava sānuṣu viśrāntaḥ śeṣam prakramatām iti .. . 115 ..
तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम् । तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु ॥ ११६ ॥
तिष्ठ त्वम् हरि-शार्दूल मयि विश्रम्य गम्यताम् । तत् इदम् गन्धवत् स्वादु कन्द-मूल-फलम् बहु ॥ ११६ ॥
tiṣṭha tvam hari-śārdūla mayi viśramya gamyatām . tat idam gandhavat svādu kanda-mūla-phalam bahu .. 116 ..
अस्माकमपि सम्बन्धः कपिमुख्यस्त्वयास्ति वै । प्रख्यतस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ ११७ ॥
अस्माकम् अपि सम्बन्धः कपि-मुख्यः त्वया अस्ति वै । प्रख्यतः त्रिषु लोकेषु महा-गुण-परिग्रहः ॥ ११७ ॥
asmākam api sambandhaḥ kapi-mukhyaḥ tvayā asti vai . prakhyataḥ triṣu lokeṣu mahā-guṇa-parigrahaḥ .. 117 ..
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज । तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ ११८ ॥
वेगवन्तः प्लवन्तः ये प्लवगाः मारुतात्मज । तेषाम् मुख्यतमम् मन्ये त्वाम् अहम् कपि-कुञ्जर ॥ ११८ ॥
vegavantaḥ plavantaḥ ye plavagāḥ mārutātmaja . teṣām mukhyatamam manye tvām aham kapi-kuñjara .. 118 ..
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता । धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥ ११९ ॥
अतिथिः किल पूजा-अर्हः प्राकृतः अपि विजानता । धर्मम् जिज्ञासमानेन किम् पुनर् यादृशः भवान् ॥ ११९ ॥
atithiḥ kila pūjā-arhaḥ prākṛtaḥ api vijānatā . dharmam jijñāsamānena kim punar yādṛśaḥ bhavān .. 119 ..
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः । पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १२० ॥
त्वम् हि देव-वरिष्ठस्य मारुतस्य महात्मनः । पुत्रः तस्य एव वेगेन सदृशः कपि-कुञ्जर ॥ १२० ॥
tvam hi deva-variṣṭhasya mārutasya mahātmanaḥ . putraḥ tasya eva vegena sadṛśaḥ kapi-kuñjara .. 120 ..
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः । तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १२१ ॥
पूजिते त्वयि धर्म-ज्ञ पूजाम् प्राप्नोति मारुतः । तस्मात् त्वम् पूजनीयः मे शृणु च अपि अत्र कारणम् ॥ १२१ ॥
pūjite tvayi dharma-jña pūjām prāpnoti mārutaḥ . tasmāt tvam pūjanīyaḥ me śṛṇu ca api atra kāraṇam .. 121 ..
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् । तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ १२२ ॥
पूर्वम् कृत-युगे तात पर्वताः पक्षिणः अभवन् । ते अपि जग्मुः दिशः सर्वाः गरुड-अनिल-वेगिनः ॥ १२२ ॥
pūrvam kṛta-yuge tāta parvatāḥ pakṣiṇaḥ abhavan . te api jagmuḥ diśaḥ sarvāḥ garuḍa-anila-veginaḥ .. 122 ..
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः । भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १२३ ॥
ततस् तेषु प्रयातेषु देव-सङ्घाः सह ऋषिभिः । भूतानि च भयम् जग्मुः तेषाम् पतन-शङ्कया ॥ १२३ ॥
tatas teṣu prayāteṣu deva-saṅghāḥ saha ṛṣibhiḥ . bhūtāni ca bhayam jagmuḥ teṣām patana-śaṅkayā .. 123 ..
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः । पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥ १२४ ॥
ततस् क्रुद्धः सहस्राक्षः पर्वतानाम् शतक्रतुः । पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशस् ॥ १२४ ॥
tatas kruddhaḥ sahasrākṣaḥ parvatānām śatakratuḥ . pakṣān ciccheda vajreṇa tatra tatra sahasraśas .. 124 ..
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् । ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२५ ॥
स माम् उपगतः क्रुद्धः वज्रम् उद्यम्य । ततस् अहम् सहसा क्षिप्तः श्वसनेन महात्मना ॥ १२५ ॥
sa mām upagataḥ kruddhaḥ vajram udyamya . tatas aham sahasā kṣiptaḥ śvasanena mahātmanā .. 125 ..
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम । गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः ॥ १२६ ॥
अस्मिन् लवणतोये च प्रक्षिप्तः प्लवग-उत्तम । गुप्त-पक्षः समग्रः च तव पित्रा अभिरक्षितः ॥ १२६ ॥
asmin lavaṇatoye ca prakṣiptaḥ plavaga-uttama . gupta-pakṣaḥ samagraḥ ca tava pitrā abhirakṣitaḥ .. 126 ..
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः । त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ १२७ ॥
ततस् अहम् मानयामि त्वाम् मान्यः हि मम मारुतः । त्वया मे हि एष सम्बन्धः कपि-मुख्य महा-गुणः ॥ १२७ ॥
tatas aham mānayāmi tvām mānyaḥ hi mama mārutaḥ . tvayā me hi eṣa sambandhaḥ kapi-mukhya mahā-guṇaḥ .. 127 ..
अस्मिन्नेवङ्गते कार्ये सागरस्य ममैव च । प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे ॥ १२८ ॥
अस्मिन् एवङ्गते कार्ये सागरस्य मम एव च । प्रीतिम् प्रीत-मनाः कर्तुम् त्वम् अर्हसि महा-कपे ॥ १२८ ॥
asmin evaṅgate kārye sāgarasya mama eva ca . prītim prīta-manāḥ kartum tvam arhasi mahā-kape .. 128 ..
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम । प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ १२९ ॥
श्रमम् मोक्षय पूजाम् च गृहाण कपि-सत्तम । प्रीतिम् च बहु मन्यस्व प्रीतः अस्मि तव दर्शनात् ॥ १२९ ॥
śramam mokṣaya pūjām ca gṛhāṇa kapi-sattama . prītim ca bahu manyasva prītaḥ asmi tava darśanāt .. 129 ..
एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् । प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥ १३० ॥
एवम् उक्तः कपि-श्रेष्ठः तम् नग-उत्तमम् अब्रवीत् । प्रीतः अस्मि कृतम् आतिथ्यम् मन्युः एषः अपनीयताम् ॥ १३० ॥
evam uktaḥ kapi-śreṣṭhaḥ tam naga-uttamam abravīt . prītaḥ asmi kṛtam ātithyam manyuḥ eṣaḥ apanīyatām .. 130 ..
त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते । प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा ॥ १३१ ॥
त्वरते कार्य-कालः मे अहर् च अपि अतिवर्तते । प्रतिज्ञा च मया दत्ता न स्थातव्यम् इह अन्तरा ॥ १३१ ॥
tvarate kārya-kālaḥ me ahar ca api ativartate . pratijñā ca mayā dattā na sthātavyam iha antarā .. 131 ..
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः । जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव ॥ १३२ ॥
इति उक्त्वा पाणिना शैलम् आलभ्य हरि-पुङ्गवः । जगाम आकाशम् आविश्य वीर्यवान् प्रहसन् इव ॥ १३२ ॥
iti uktvā pāṇinā śailam ālabhya hari-puṅgavaḥ . jagāma ākāśam āviśya vīryavān prahasan iva .. 132 ..
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः । पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ १३३ ॥
स पर्वत-समुद्राभ्याम् बहु-मानात् अवेक्षितः । पूजितः च उपपन्नाभिः आशीर्भिः अनिलात्मजः ॥ १३३ ॥
sa parvata-samudrābhyām bahu-mānāt avekṣitaḥ . pūjitaḥ ca upapannābhiḥ āśīrbhiḥ anilātmajaḥ .. 133 ..
अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ । पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ १३४ ॥
अथ ऊर्ध्वम् दूरम् उत्पत्य हित्वा शैल-महा-अर्णवौ । पितुः पन्थानम् आस्थाय जगाम विमले अम्बरे ॥ १३४ ॥
atha ūrdhvam dūram utpatya hitvā śaila-mahā-arṇavau . pituḥ panthānam āsthāya jagāma vimale ambare .. 134 ..
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् । वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे ॥ १३५ ॥
भूयस् च ऊर्ध्व-गतिम् प्राप्य गिरिम् तम् अवलोकयन् । वायुसूनुः निरालम्बे जगाम विमले अम्बरे ॥ १३५ ॥
bhūyas ca ūrdhva-gatim prāpya girim tam avalokayan . vāyusūnuḥ nirālambe jagāma vimale ambare .. 135 ..
तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १३६ ॥
तत् द्वितीयम् हनुमतः दृष्ट्वा कर्म सु दुष्करम् । प्रशशंसुः सुराः सर्वे सिद्धाः च परम-ऋषयः ॥ १३६ ॥
tat dvitīyam hanumataḥ dṛṣṭvā karma su duṣkaram . praśaśaṃsuḥ surāḥ sarve siddhāḥ ca parama-ṛṣayaḥ .. 136 ..
देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा । काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १३७ ॥
देवताः च अभवन् हृष्टाः तत्रस्थाः तस्य कर्मणा । काञ्चनस्य सुनाभस्य सहस्राक्षः च वासवः ॥ १३७ ॥
devatāḥ ca abhavan hṛṣṭāḥ tatrasthāḥ tasya karmaṇā . kāñcanasya sunābhasya sahasrākṣaḥ ca vāsavaḥ .. 137 ..
उवाच वचनं धीमान्परितोषात्सगद्गदम् । सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ १३८ ॥
उवाच वचनम् धीमान् परितोषात् स गद्गदम् । सुनाभम् पर्वत-श्रेष्ठम् स्वयम् एव शचीपतिः ॥ १३८ ॥
uvāca vacanam dhīmān paritoṣāt sa gadgadam . sunābham parvata-śreṣṭham svayam eva śacīpatiḥ .. 138 ..
हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम् । अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ १३९ ॥
हिरण्यनाभ-शैल-इन्द्र-परितुष्टः अस्मि ते भृशम् । अभयम् ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ १३९ ॥
hiraṇyanābha-śaila-indra-parituṣṭaḥ asmi te bhṛśam . abhayam te prayacchāmi tiṣṭha saumya yathāsukham .. 139 ..
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः । क्रमतो योजनशतं निर्भयस्य भये सति ॥ १४० ॥
साह्यम् कृतम् ते सु महत् विक्रान्तस्य हनूमतः । क्रमतः योजन-शतम् निर्भयस्य भये सति ॥ १४० ॥
sāhyam kṛtam te su mahat vikrāntasya hanūmataḥ . kramataḥ yojana-śatam nirbhayasya bhaye sati .. 140 ..
रामस्यैष हि दौत्येन याति दाशरथेर्हरिः । सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया ॥ १४१ ॥
रामस्य एष हि दौत्येन याति दाशरथेः हरिः । सत्क्रियाम् कुर्वता शक्या तोषितः अस्मि दृढम् त्वया ॥ १४१ ॥
rāmasya eṣa hi dautyena yāti dāśaratheḥ hariḥ . satkriyām kurvatā śakyā toṣitaḥ asmi dṛḍham tvayā .. 141 ..
स ततः प्रहर्षमलभद् विपुलं पर्वतोत्तमः । देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ १४२ ॥
स ततस् प्रहर्षम् अलभत् विपुलम् पर्वत-उत्तमः । देवतानाम् पतिम् दृष्ट्वा परितुष्टम् शतक्रतुम् ॥ १४२ ॥
sa tatas praharṣam alabhat vipulam parvata-uttamaḥ . devatānām patim dṛṣṭvā parituṣṭam śatakratum .. 142 ..
स वै दत्तवरः शैलो बभूवावस्थितस्तदा । हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४३ ॥
स वै शैलः बभूव अवस्थितः तदा । हनूमान् च मुहूर्तेन व्यतिचक्राम सागरम् ॥ १४३ ॥
sa vai śailaḥ babhūva avasthitaḥ tadā . hanūmān ca muhūrtena vyaticakrāma sāgaram .. 143 ..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अब्रुवन्सूर्यसङ्काशां सुरसां नागमातरम् ॥ १४४ ॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । अब्रुवन् सूर्य-सङ्काशाम् सुरसाम् नागमातरम् ॥ १४४ ॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . abruvan sūrya-saṅkāśām surasām nāgamātaram .. 144 ..
अयं वातात्मजः श्रीमान्प्लवते सागरोपरि । हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ १४५ ॥
अयम् वातात्मजः श्रीमान् प्लवते सागर-उपरि । हनूमान् नाम तस्य त्वम् मुहूर्तम् विघ्नम् आचर ॥ १४५ ॥
ayam vātātmajaḥ śrīmān plavate sāgara-upari . hanūmān nāma tasya tvam muhūrtam vighnam ācara .. 145 ..
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् । दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम् ॥ १४६ ॥
राक्षसम् रूपम् आस्थाय सु घोरम् पर्वत-उपमम् । दंष्ट्रा-करालम् पिङ्ग-अक्षम् वक्त्रम् कृत्वा नभः-स्पृशम् ॥ १४६ ॥
rākṣasam rūpam āsthāya su ghoram parvata-upamam . daṃṣṭrā-karālam piṅga-akṣam vaktram kṛtvā nabhaḥ-spṛśam .. 146 ..
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् । त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति ॥ १४७ ॥
बलम् इच्छामहे ज्ञातुम् भूयस् च अस्य पराक्रमम् । त्वाम् विजेष्यति उपायेन विषदम् वा गमिष्यति ॥ १४७ ॥
balam icchāmahe jñātum bhūyas ca asya parākramam . tvām vijeṣyati upāyena viṣadam vā gamiṣyati .. 147 ..
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता । समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ १४८ ॥
एवम् उक्ता तु सा देवी दैवतैः अभिसत्कृता । समुद्र-मध्ये सुरसा बिभ्रती राक्षसम् वपुः ॥ १४८ ॥
evam uktā tu sā devī daivataiḥ abhisatkṛtā . samudra-madhye surasā bibhratī rākṣasam vapuḥ .. 148 ..
विकृतं च विरूपं च सर्वस्य च भयावहम् । प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ १४९ ॥
विकृतम् च विरूपम् च सर्वस्य च भय-आवहम् । प्लवमानम् हनूमन्तम् आवृत्य इदम् उवाच ह ॥ १४९ ॥
vikṛtam ca virūpam ca sarvasya ca bhaya-āvaham . plavamānam hanūmantam āvṛtya idam uvāca ha .. 149 ..
मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ । अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ १५० ॥
मम भक्षः प्रदिष्टः त्वम् ईश्वरैः वानर-ऋषभ । अहम् त्वाम् भक्षयिष्यामि प्रविश इदम् मम आननम् ॥ १५० ॥
mama bhakṣaḥ pradiṣṭaḥ tvam īśvaraiḥ vānara-ṛṣabha . aham tvām bhakṣayiṣyāmi praviśa idam mama ānanam .. 150 ..
वर एषे पुरा दत्तो भेम धात्रि सत्वरा । व्यादाय वक्रं ्रिषुलं खिता सा मारुतेः पुरः ॥ १५१ ॥
वरः एषे पुरा दत्तः भेम धात्रि स त्वरा । व्यादाय वक्रम् रिषुलम् खिता सा मारुतेः पुरस् ॥ १५१ ॥
varaḥ eṣe purā dattaḥ bhema dhātri sa tvarā . vyādāya vakram riṣulam khitā sā māruteḥ puras .. 151 ..
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः । रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५२ ॥
एवम् उक्तः सुरसया प्राञ्जलिः वानर-ऋषभः । रामः दाशरथिः नाम प्रविष्टः दण्डक-वनम् ॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या च अपि भार्यया ॥ १५२ ॥
evam uktaḥ surasayā prāñjaliḥ vānara-ṛṣabhaḥ . rāmaḥ dāśarathiḥ nāma praviṣṭaḥ daṇḍaka-vanam .. lakṣmaṇena saha bhrātrā vaidehyā ca api bhāryayā .. 152 ..
अन्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः । तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १५३ ॥
कार्य-विषक्तस्य बद्ध-वैरस्य राक्षसैः । तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ १५३ ॥
kārya-viṣaktasya baddha-vairasya rākṣasaiḥ . tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī .. 153 ..
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् । कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ १५४ ॥
तस्याः सकाशम् दूतः अहम् गमिष्ये राम-शासनात् । कर्तुम् अर्हसि रामस्य साह्यम् विषय-वासिनि ॥ १५४ ॥
tasyāḥ sakāśam dūtaḥ aham gamiṣye rāma-śāsanāt . kartum arhasi rāmasya sāhyam viṣaya-vāsini .. 154 ..
अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् । आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ १५५ ॥
अथ वा मैथिलीम् दृष्ट्वा रामम् च अक्लिष्ट-कारिणम् । आगमिष्यामि ते वक्त्रम् सत्यम् प्रतिशृणोमि ते ॥ १५५ ॥
atha vā maithilīm dṛṣṭvā rāmam ca akliṣṭa-kāriṇam . āgamiṣyāmi te vaktram satyam pratiśṛṇomi te .. 155 ..
एवमुक्ता हनुमता सुरसा कामरूपिणी । अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ १५६ ॥
एवम् उक्ता हनुमता सुरसा कामरूपिणी । अब्रवीत् न अतिवर्तेत् माम् कश्चिद् एष वरः मम ॥ १५६ ॥
evam uktā hanumatā surasā kāmarūpiṇī . abravīt na ativartet mām kaścid eṣa varaḥ mama .. 156 ..
तं श्रयन्तं समुदीक्ष्य सरसा ःचाक्यमनरनीत् । बलं जिक्ञासंपाना वै नाग॑माता हनूमतः ॥ १५७ ॥
तम् श्रयन्तम् समुदीक्ष्य सरसा । बलम् जिक्ञा-संपाना वै नाग-माता हनूमतः ॥ १५७ ॥
tam śrayantam samudīkṣya sarasā . balam jikñā-saṃpānā vai nāga-mātā hanūmataḥ .. 157 ..
निविश्य वदनं मेऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ १५८ ॥
निविश्य वदनम् मे अद्य गन्तव्यम् वानर-उत्तम । वरः एष पुरा दत्तः मम धात्रा इति स त्वरा ॥ १५८ ॥
niviśya vadanam me adya gantavyam vānara-uttama . varaḥ eṣa purā dattaḥ mama dhātrā iti sa tvarā .. 158 ..
व्यादाय वैरं विषुरं धिता सा मारतः पुरः । एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ॥ १५९ ॥
व्यादाय वैरम् विषुरम् धिता सा मारतः पुरस् । एवम् उक्तः सुरसया क्रुद्धः वानर-पुङ्गवः ॥ १५९ ॥
vyādāya vairam viṣuram dhitā sā mārataḥ puras . evam uktaḥ surasayā kruddhaḥ vānara-puṅgavaḥ .. 159 ..
अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ॥ दशयोजनविस्तारो बभूव हनुमांस्तदा ॥ १६० ॥
अब्रवीत् कुरु वै वक्त्रम् येन माम् विषहिष्यसे । इति उक्त्वा सुरसाम् क्रुद्धः दश-योजनम् आयतः ॥ दश-योजन-विस्तारः बभूव हनुमान् तदा ॥ १६० ॥
abravīt kuru vai vaktram yena mām viṣahiṣyase . iti uktvā surasām kruddhaḥ daśa-yojanam āyataḥ .. daśa-yojana-vistāraḥ babhūva hanumān tadā .. 160 ..
तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् । चकार सुरसाप्यास्यं विंशद्योजनमायतम् ॥ १६१ ॥
तम् दृष्ट्वा मेघ-सङ्काशम् दश-योजनम् आयतम् । चकार सुरसा अपि आस्यम् विंशत्-योजनम् आयतम् ॥ १६१ ॥
tam dṛṣṭvā megha-saṅkāśam daśa-yojanam āyatam . cakāra surasā api āsyam viṃśat-yojanam āyatam .. 161 ..
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः । चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ॥ १६२ ॥
हनुमान् तु ततस् क्रुद्धः त्रिंशत्-योजनम् आयतः । चकार सुरसा वक्त्रम् चत्वारिंशत् तथा उच्छ्रितम् ॥ १६२ ॥
hanumān tu tatas kruddhaḥ triṃśat-yojanam āyataḥ . cakāra surasā vaktram catvāriṃśat tathā ucchritam .. 162 ..
बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् ॥ १६३ ॥
बभूव हनुमान् वीरः पञ्चाशत्-योजन-उच्छ्रितः । चकार सुरसा वक्त्रम् षष्टि-योजनम् आयतम् ॥ १६३ ॥
babhūva hanumān vīraḥ pañcāśat-yojana-ucchritaḥ . cakāra surasā vaktram ṣaṣṭi-yojanam āyatam .. 163 ..
तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः । चकार सुरसा वक्त्रमशीतिं योजनायतम् ॥ १६४ ॥
तथा एव हनुमान् वीरः सप्ततिम् योजन-उच्छ्रितः । चकार सुरसा वक्त्रम् अशीतिम् योजन-आयतम् ॥ १६४ ॥
tathā eva hanumān vīraḥ saptatim yojana-ucchritaḥ . cakāra surasā vaktram aśītim yojana-āyatam .. 164 ..
हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनमायतम् ॥ १६५ ॥
हनूमान् अचल प्रख्यः नवतिम् योजन-उच्छ्रितः । चकार सुरसा वक्त्रम् शत-योजनम् आयतम् ॥ १६५ ॥
hanūmān acala prakhyaḥ navatim yojana-ucchritaḥ . cakāra surasā vaktram śata-yojanam āyatam .. 165 ..
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान् । दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ १६६ ॥
तत् दृष्ट्वा व्यादितम् तु आस्यम् वायुपुत्रः स बुद्धिमान् । दीर्घ-जिह्वम् सुरसया सु घोरम् नरक-उपमम् ॥ १६६ ॥
tat dṛṣṭvā vyāditam tu āsyam vāyuputraḥ sa buddhimān . dīrgha-jihvam surasayā su ghoram naraka-upamam .. 166 ..
स सङ्क्षिप्यात्मनः कायं जीमूत इव मारुतिः । तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः ॥ १६७ ॥
स सङ्क्षिप्य आत्मनः कायम् जीमूतः इव मारुतिः । तस्मिन् मुहूर्ते हनुमान् बभूव अङ्गुष्ठ-मात्रकः ॥ १६७ ॥
sa saṅkṣipya ātmanaḥ kāyam jīmūtaḥ iva mārutiḥ . tasmin muhūrte hanumān babhūva aṅguṣṭha-mātrakaḥ .. 167 ..
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ १६८ ॥
सः अभिपत्य आशु तद्-वक्त्रम् निष्पत्य च महा-जवः । अन्तरिक्षे स्थितः श्रीमान् इदम् वचनम् अब्रवीत् ॥ १६८ ॥
saḥ abhipatya āśu tad-vaktram niṣpatya ca mahā-javaḥ . antarikṣe sthitaḥ śrīmān idam vacanam abravīt .. 168 ..
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते । गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव ॥ १६९ ॥
प्रविष्टः अस्मि हि ते वक्त्रम् दाक्षायणि नमः अस्तु ते । गमिष्ये यत्र वैदेही सत्यम् च अस्तु वचः तव ॥ १६९ ॥
praviṣṭaḥ asmi hi te vaktram dākṣāyaṇi namaḥ astu te . gamiṣye yatra vaidehī satyam ca astu vacaḥ tava .. 169 ..
तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव । अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ १७० ॥
तम् दृष्ट्वा वदनात् मुक्तम् चन्द्रम् राहु-मुखात् इव । अब्रवीत् सुरसा देवी स्वेन रूपेण वानरम् ॥ १७० ॥
tam dṛṣṭvā vadanāt muktam candram rāhu-mukhāt iva . abravīt surasā devī svena rūpeṇa vānaram .. 170 ..
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीं राघवेण महात्मना ॥ १७१ ॥
अर्थ-सिद्ध्यै हरि-श्रेष्ठ गच्छ सौम्य यथासुखम् । समानय च वैदेहीम् राघवेण महात्मना ॥ १७१ ॥
artha-siddhyai hari-śreṣṭha gaccha saumya yathāsukham . samānaya ca vaidehīm rāghaveṇa mahātmanā .. 171 ..
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् । साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ १७२ ॥
तत् तृतीयम् हनुमतः दृष्ट्वा कर्म सु दुष्करम् । साधु साधु इति भूतानि प्रशशंसुः तदा हरिम् ॥ १७२ ॥
tat tṛtīyam hanumataḥ dṛṣṭvā karma su duṣkaram . sādhu sādhu iti bhūtāni praśaśaṃsuḥ tadā harim .. 172 ..
स सागरमनाधृष्यमभ्येत्य वरुणालयम् । जगामाकाशमाविश्य वेगेन गरुणोपमः ॥ १७३ ॥
स सागरम् अनाधृष्यम् अभ्येत्य वरुणालयम् । जगाम आकाशम् आविश्य वेगेन गरुण-उपमः ॥ १७३ ॥
sa sāgaram anādhṛṣyam abhyetya varuṇālayam . jagāma ākāśam āviśya vegena garuṇa-upamaḥ .. 173 ..
सेविते वारिधारिभिः पतगैश्च निषेविते । चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ १७४ ॥
सेविते वारि-धारिभिः पतगैः च निषेविते । चरिते कैशिक-आचार्यैः ऐरावत-निषेविते ॥ १७४ ॥
sevite vāri-dhāribhiḥ patagaiḥ ca niṣevite . carite kaiśika-ācāryaiḥ airāvata-niṣevite .. 174 ..
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः । विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते ॥175॥
सिंह-कुञ्जर-शार्दूल-पतग-उरग-वाहनैः । विमानैः सम्पतद्भिः च विमलैः समलङ्कृते ॥१७५॥
siṃha-kuñjara-śārdūla-pataga-uraga-vāhanaiḥ . vimānaiḥ sampatadbhiḥ ca vimalaiḥ samalaṅkṛte ..175..
वज्राशनिसमाघातैः पावकैरुपशोभिते । कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृते ॥176॥
वज्र-अशनि-समाघातैः पावकैः उपशोभिते । कृत-पुण्यैः महाभागैः अलङ्कृते ॥१७६॥
vajra-aśani-samāghātaiḥ pāvakaiḥ upaśobhite . kṛta-puṇyaiḥ mahābhāgaiḥ alaṅkṛte ..176..
वहता हव्यमत्यन्तं सेविते चित्रभानुना । ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥177॥
वहता हव्यम् अत्यन्तम् सेविते चित्रभानुना । ग्रह-नक्षत्र-चन्द्र-अर्क-तारा-गण-विभूषिते ॥१७७॥
vahatā havyam atyantam sevite citrabhānunā . graha-nakṣatra-candra-arka-tārā-gaṇa-vibhūṣite ..177..
महर्षिगणगन्धर्वनागयक्षसमाकुले । विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥178॥
महा-ऋषि-गण-गन्धर्व-नाग-यक्ष-समाकुले । विविक्ते विमले विश्वे विश्वावसु-निषेविते ॥१७८॥
mahā-ṛṣi-gaṇa-gandharva-nāga-yakṣa-samākule . vivikte vimale viśve viśvāvasu-niṣevite ..178..
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे । विताने जीवलोकस्य विततो ब्रह्मनिर्मिते ॥179॥
देवराज-गज-आक्रान्ते चन्द्र-सूर्य-पथे शिवे । विताने जीव-लोकस्य विततः ब्रह्म-निर्मिते ॥१७९॥
devarāja-gaja-ākrānte candra-sūrya-pathe śive . vitāne jīva-lokasya vitataḥ brahma-nirmite ..179..
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः । जगाम वायुमार्गे तु गरुत्मानिव भौरुतिः ॥180॥
बहुशस् सेविते वीरैः विद्याधर-गणैः वरैः । जगाम वायु-मार्गे तु गरुत्मान् इव भौरुतिः ॥१८०॥
bahuśas sevite vīraiḥ vidyādhara-gaṇaiḥ varaiḥ . jagāma vāyu-mārge tu garutmān iva bhaurutiḥ ..180..
हनुमान् मेघजालानि प्राकर्षन् मारूतो यथा । कालागरूसवर्णानि रक्तपीतसितानि च ॥181॥
हनुमान् मेघ-जालानि प्राकर्षत् मारूतः यथा । काल-आगरू-स वर्णानि रक्त-पीत-सितानि च ॥१८१॥
hanumān megha-jālāni prākarṣat mārūtaḥ yathā . kāla-āgarū-sa varṇāni rakta-pīta-sitāni ca ..181..
कपिना कृष्यमाणानि महाभ्राणि चकाशिरे । प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ॥182॥
कपिना कृष्यमाणानि महा-अभ्राणि चकाशिरे । प्रविशन् अभ्र-जालानि निष्पतन् च पुनर् पुनर् ॥१८२॥
kapinā kṛṣyamāṇāni mahā-abhrāṇi cakāśire . praviśan abhra-jālāni niṣpatan ca punar punar ..182..
प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा । प्रदृश्यमानः सर्वत्रः हनुमान्मारुतात्मजः ॥183॥
प्रावृषि इन्दुः इव आभाति निष्पतन् प्रविशन् तदा । प्रदृश्यमानः सर्वत्र हनुमान् मारुतात्मजः ॥१८३॥
prāvṛṣi induḥ iva ābhāti niṣpatan praviśan tadā . pradṛśyamānaḥ sarvatra hanumān mārutātmajaḥ ..183..
भेजेऽम्बरं निरालमबं म्ब इवाद्िराय् । प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ॥184॥
भेजे अम्बरम् म्बे इव आदिराय् । प्लवमानम् तु तम् दृष्ट्वा सिंहिका नाम राक्षसी ॥१८४॥
bheje ambaram mbe iva ādirāy . plavamānam tu tam dṛṣṭvā siṃhikā nāma rākṣasī ..184..
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी । अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ॥185॥
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी । अद्य दीर्घस्य कालस्य भविष्यामि अहम् आशिता ॥१८५॥
manasā cintayāmāsa pravṛddhā kāmarūpiṇī . adya dīrghasya kālasya bhaviṣyāmi aham āśitā ..185..
इदं मम महत्सत्त्वं चिरस्य वशमागतम् । इति सञ्चिन्त्य मनसा छायामस्य समक्षिपत् ॥186॥
इदम् मम महत् सत्त्वम् चिरस्य वशम् आगतम् । इति सञ्चिन्त्य मनसा छायाम् अस्य समक्षिपत् ॥१८६॥
idam mama mahat sattvam cirasya vaśam āgatam . iti sañcintya manasā chāyām asya samakṣipat ..186..
छायायां सङ्गृहीतायां चिन्तयामास वानरः । समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः ॥187॥
छायायाम् सङ्गृहीतायाम् चिन्तयामास वानरः । समाक्षिप्तः अस्मि सहसा पङ्गूकृत-पराक्रमः ॥१८७॥
chāyāyām saṅgṛhītāyām cintayāmāsa vānaraḥ . samākṣiptaḥ asmi sahasā paṅgūkṛta-parākramaḥ ..187..
प्रतिलोमेन वातेन महानौरिव सागरे । तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ॥188॥
प्रतिलोमेन वातेन महा-नौः इव सागरे । तिर्यक् ऊर्ध्वम् अधस् च एव वीक्षमाणः ततस् कपिः ॥१८८॥
pratilomena vātena mahā-nauḥ iva sāgare . tiryak ūrdhvam adhas ca eva vīkṣamāṇaḥ tatas kapiḥ ..188..
ददर्श स महासत्त्वमुत्थितं लवणाम्भसि । तद्दृष्टवा चिन्तयामास मारुतिर्विकृताननाम् ॥189॥
ददर्श स महा-सत्त्वम् उत्थितम् लवणाम्भसि । तत् दृष्टवा चिन्तयामास मारुतिः विकृत-आननाम् ॥१८९॥
dadarśa sa mahā-sattvam utthitam lavaṇāmbhasi . tat dṛṣṭavā cintayāmāsa mārutiḥ vikṛta-ānanām ..189..
कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम् । छायाग्राहि महावीर्यं तदिदं नात्र संशयः ॥190॥
कपि-राज्ञा यत् आख्यातम् सत्त्वम् अद्भुत-दर्शनम् । छाया-ग्राहि महा-वीर्यम् तत् इदम् न अत्र संशयः ॥१९०॥
kapi-rājñā yat ākhyātam sattvam adbhuta-darśanam . chāyā-grāhi mahā-vīryam tat idam na atra saṃśayaḥ ..190..
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः । व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥191॥
स ताम् बुद्ध्वा अर्थ-तत्त्वेन सिंहिकाम् मतिमान् कपिः । व्यवर्धत महा-कायः प्रावृषि इव बलाहकः ॥१९१॥
sa tām buddhvā artha-tattvena siṃhikām matimān kapiḥ . vyavardhata mahā-kāyaḥ prāvṛṣi iva balāhakaḥ ..191..
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः । वक्त्रं प्रसारयामास पातालाम्बरसंनिभम् ॥192॥
तस्य सा कायम् उद्वीक्ष्य वर्धमानम् महा-कपेः । वक्त्रम् प्रसारयामास पाताल-अम्बर-संनिभम् ॥१९२॥
tasya sā kāyam udvīkṣya vardhamānam mahā-kapeḥ . vaktram prasārayāmāsa pātāla-ambara-saṃnibham ..192..
घनराजीव गर्जन्ती वानरं समभिद्रवत् । स ददर्श ततस्तस्या विकृतं सुमहन्मुखम् ॥193॥
घन-राजी इव गर्जन्ती वानरम् समभिद्रवत् । स ददर्श ततस् तस्याः विकृतम् सु महत् मुखम् ॥१९३॥
ghana-rājī iva garjantī vānaram samabhidravat . sa dadarśa tatas tasyāḥ vikṛtam su mahat mukham ..193..
कायमात्रं च मेधावी मर्माणि च महाकपिः । स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ॥194॥
काय-मात्रम् च मेधावी मर्माणि च महा-कपिः । स तस्याः विवृते वक्त्रे वज्र-संहननः कपिः ॥१९४॥
kāya-mātram ca medhāvī marmāṇi ca mahā-kapiḥ . sa tasyāḥ vivṛte vaktre vajra-saṃhananaḥ kapiḥ ..194..
सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः । आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ॥195॥
सङ्क्षिप्य मुहुर् आत्मानम् निष्पपात महा-बलः । आस्ये तस्याः निमज्जन्तम् ददृशुः सिद्ध-चारणाः ॥१९५॥
saṅkṣipya muhur ātmānam niṣpapāta mahā-balaḥ . āsye tasyāḥ nimajjantam dadṛśuḥ siddha-cāraṇāḥ ..195..
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा । ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ॥196॥
ग्रस्यमानम् यथा चन्द्रम् पूर्णम् पर्वणि राहुणा । ततस् तस्य नखैः तीक्ष्णैः मर्माणि उत्कृत्य वानरः ॥१९६॥
grasyamānam yathā candram pūrṇam parvaṇi rāhuṇā . tatas tasya nakhaiḥ tīkṣṇaiḥ marmāṇi utkṛtya vānaraḥ ..196..
उत्पपाताथ वेगेन मनःसम्पातविक्रमः । तां तु द्ष्या च ध्रत्या च दाक्षिण्येन निपात्य सः॥ ॥197॥
उत्पपात अथ वेगेन मनः-सम्पात-विक्रमः । ताम् तु द्ष्या च ध्रत्या च दाक्षिण्येन निपात्य सः॥ ॥१९७॥
utpapāta atha vegena manaḥ-sampāta-vikramaḥ . tām tu dṣyā ca dhratyā ca dākṣiṇyena nipātya saḥ.. ..197..
कपिप्रवीरो वेगा ववृधे पुनरात्मवान् । हृतह्त्सा हनुमता पपात विधुराम्भसि । स्वयम्भुवैव हनुमन् सृष्टस्तस्या निपातने ॥198॥
कपि-प्रवीरः वेगाः ववृधे पुनर् आत्मवान् । हृत-ह्त्सा हनुमता पपात विधुर-अम्भसि । स्वयम्भुवा एव हनुमन् सृष्टः तस्याः निपातने ॥१९८॥
kapi-pravīraḥ vegāḥ vavṛdhe punar ātmavān . hṛta-htsā hanumatā papāta vidhura-ambhasi . svayambhuvā eva hanuman sṛṣṭaḥ tasyāḥ nipātane ..198..
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् । भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम् ॥199॥
ताम् हताम् वानरेण आशु पतिताम् वीक्ष्य सिंहिकाम् । भूतानि आकाश-चारीणि तम् ऊचुः प्लवग-ऋषभम् ॥१९९॥
tām hatām vānareṇa āśu patitām vīkṣya siṃhikām . bhūtāni ākāśa-cārīṇi tam ūcuḥ plavaga-ṛṣabham ..199..
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् । साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥200॥
भीमम् अद्य कृतम् कर्म महत्-सत्त्वम् त्वया हतम् । साधय अर्थम् अभिप्रेतम् अरिष्टम् प्लवताम् वर ॥२००॥
bhīmam adya kṛtam karma mahat-sattvam tvayā hatam . sādhaya artham abhipretam ariṣṭam plavatām vara ..200..
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥201॥
यस्य तु एतानि चत्वारि वानर-इन्द्र यथा तव । धृतिः दृष्टिः मतिः दाक्ष्यम् स कर्मसु न सीदति ॥२०१॥
yasya tu etāni catvāri vānara-indra yathā tava . dhṛtiḥ dṛṣṭiḥ matiḥ dākṣyam sa karmasu na sīdati ..201..
स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः । जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥202॥
स तैः सम्भावितः पूज्यः प्रतिपन्न-प्रयोजनः । जगाम आकाशम् आविश्य पन्नगाशन-वत् कपिः ॥२०२॥
sa taiḥ sambhāvitaḥ pūjyaḥ pratipanna-prayojanaḥ . jagāma ākāśam āviśya pannagāśana-vat kapiḥ ..202..
प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् । योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥203॥
प्राप्त-भूयिष्ठ-पारः तु सर्वतस् प्रतिलोकयन् । योजनानाम् शतस्य अन्ते वन-राजिम् ददर्श सः ॥२०३॥
prāpta-bhūyiṣṭha-pāraḥ tu sarvatas pratilokayan . yojanānām śatasya ante vana-rājim dadarśa saḥ ..203..
ददर्श च पतन्नेव विविधद्रुमभूषितम् । द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ॥204॥
ददर्श च पतन् एव विविध-द्रुम-भूषितम् । द्वीपम् शाखामृग-श्रेष्ठः मलय-उपवनानि च ॥२०४॥
dadarśa ca patan eva vividha-druma-bhūṣitam . dvīpam śākhāmṛga-śreṣṭhaḥ malaya-upavanāni ca ..204..
सागरं सागरानूपान्सागरानूपजान्द्रुमान् । सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥205॥
सागरम् सागर-अनूपान् सागर-अनूप-जान् द्रुमान् । सागरस्य च पत्नीनाम् मुखानि अपि विलोकयन् ॥२०५॥
sāgaram sāgara-anūpān sāgara-anūpa-jān drumān . sāgarasya ca patnīnām mukhāni api vilokayan ..205..
स महामेघसङ्काशं समीक्ष्यात्मानमात्मना । निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥206॥
स महा-मेघ-सङ्काशम् समीक्ष्य आत्मानम् आत्मना । निरुन्धन्तम् इव आकाशम् चकार मतिमान् मतिम् ॥२०६॥
sa mahā-megha-saṅkāśam samīkṣya ātmānam ātmanā . nirundhantam iva ākāśam cakāra matimān matim ..206..
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः । मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥207॥
काय-वृद्धिम् प्रवेगम् च मम दृष्ट्वा एव राक्षसाः । मयि कौतूहलम् कुर्युः इति मेने महा-कपिः ॥२०७॥
kāya-vṛddhim pravegam ca mama dṛṣṭvā eva rākṣasāḥ . mayi kautūhalam kuryuḥ iti mene mahā-kapiḥ ..207..
ततः शरीरं सङ्क्षिप्य तन्महीधरसंनिभम् । पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥208॥
ततस् शरीरम् सङ्क्षिप्य तत् महीधर-संनिभम् । पुनर् प्रकृतिम् आपेदे वीत-मोहः इव आत्मवान् ॥२०८॥
tatas śarīram saṅkṣipya tat mahīdhara-saṃnibham . punar prakṛtim āpede vīta-mohaḥ iva ātmavān ..208..
तदरूपमतिसंकषिप्य हनुमान् प्रकृतौ स्थितः । त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥209॥
तत् अरूपम् अति संकषिप्य हनुमान् प्रकृतौ स्थितः । त्रीन् क्रमान् इव विक्रम्य बलि-वीर्य-हरः हरिः ॥२०९॥
tat arūpam ati saṃkaṣipya hanumān prakṛtau sthitaḥ . trīn kramān iva vikramya bali-vīrya-haraḥ hariḥ ..209..
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् । परैरशक्यप्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥210॥
स चारु-नानाविध-रूप-धारी परम् समासाद्य समुद्र-तीरम् । परैः अशक्य-प्रतिपन्न-रूपः समीक्षित-आत्मा समवेक्षित-अर्थः ॥२१०॥
sa cāru-nānāvidha-rūpa-dhārī param samāsādya samudra-tīram . paraiḥ aśakya-pratipanna-rūpaḥ samīkṣita-ātmā samavekṣita-arthaḥ ..210..
ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे । सकेतकोद्दालकनारिकेरे महाभूकूटप्रतिमो महात्मा ॥211॥
ततस् स लम्बस्य गिरेः समृद्धे विचित्र-कूटे निपपात कूटे । सकेतक-उद्दालक-नारिकेरे महा-भू-कूट-प्रतिमः महात्मा ॥२११॥
tatas sa lambasya gireḥ samṛddhe vicitra-kūṭe nipapāta kūṭe . saketaka-uddālaka-nārikere mahā-bhū-kūṭa-pratimaḥ mahātmā ..211..
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य रूपं गिरिवयमर्धिन् ॥ । कपिस्तु तस्मिन निपपात पर्वते विधूय रूपं व्यभयन्मृगव्दिजान् ॥212॥
ततस् तु सम्प्राप्य समुद्र-तीरम् समीक्ष्य रूपम् गिरि-वयम् अर्धिन् ॥ । कपिः तु निपपात पर्वते विधूय रूपम् व्यभयत् मृग-व्दिजान् ॥२१२॥
tatas tu samprāpya samudra-tīram samīkṣya rūpam giri-vayam ardhin .. . kapiḥ tu nipapāta parvate vidhūya rūpam vyabhayat mṛga-vdijān ..212..
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् । निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीम् इव ॥213॥
स सागरम् दानव-पन्नग-आयुतम् बलेन विक्रम्य महा-ऊर्मि-मालिनम् । निपत्य तीरे च महा-उदधेः तदा ददर्श लङ्काम् अमरावतीम् इव ॥२१३॥
sa sāgaram dānava-pannaga-āyutam balena vikramya mahā-ūrmi-mālinam . nipatya tīre ca mahā-udadheḥ tadā dadarśa laṅkām amarāvatīm iva ..213..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In