This overlay will guide you through the buttons:

| |
|
तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् । अवेक्षमाणो हनुमान्ददर्श शयनासनम् ॥१॥
तत्र दिव्य-उपमम् मुख्यम् स्फाटिकम् रत्न-भूषितम् । अवेक्षमाणः हनुमान् ददर्श शयन-आसनम् ॥१॥
tatra divya-upamam mukhyam sphāṭikam ratna-bhūṣitam . avekṣamāṇaḥ hanumān dadarśa śayana-āsanam ..1..
दान्तकाशनचितरङ्गैर्वैदूश्च वरासनेः ।महार्हास्तरणोपेतैरुपपन्नं महाधनैः॥२॥
वरासनेः ।महार्ह-आस्तरण-उपेतैः उपपन्नम् महाधनैः॥२॥
varāsaneḥ .mahārha-āstaraṇa-upetaiḥ upapannam mahādhanaiḥ..2..
तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम् । ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम् ॥३॥
तस्य च एकतमे देशे सः अग्र्य-माल्य-विभूषितम् । ददर्श पाण्डुरम् छत्रम् ताराधिपति-संनिभम् ॥३॥
tasya ca ekatame deśe saḥ agrya-mālya-vibhūṣitam . dadarśa pāṇḍuram chatram tārādhipati-saṃnibham ..3..
जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम्॥अशोकमालाविततं ददर्श परमासनम्॥४॥
जातरूप-परिक्षिप्तम् चित्र-भानु-सम-प्रभम्॥अशोक-माला-विततम् ददर्श परम-आसनम्॥४॥
jātarūpa-parikṣiptam citra-bhānu-sama-prabham..aśoka-mālā-vitatam dadarśa parama-āsanam..4..
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः । गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥५॥
वाल-व्यजन-हस्ताभिः वीज्यमानम् समन्ततः । गन्धैः च विविधैः जुष्टम् वर-धूपेन धूपितम् ॥५॥
vāla-vyajana-hastābhiḥ vījyamānam samantataḥ . gandhaiḥ ca vividhaiḥ juṣṭam vara-dhūpena dhūpitam ..5..
परमास्तरणास्तीर्णमाविकाजिनसंवृतम् । दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥६॥
परम-आस्तरण-आस्तीर्णम् आविक-अजिन-संवृतम् । दामभिः वर-माल्यानाम् समन्तात् उपशोभितम् ॥६॥
parama-āstaraṇa-āstīrṇam āvika-ajina-saṃvṛtam . dāmabhiḥ vara-mālyānām samantāt upaśobhitam ..6..
तस्मिञ्जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम् । लोहिताक्षं महाबाहुं महारजतवाससं ॥७॥
तस्मिन् जीमूत-सङ्काशम् प्रदीप्त-उत्तम-कुण्डलम् । लोहित-अक्षम् महा-बाहुम् महारजत-वाससम् ॥७॥
tasmin jīmūta-saṅkāśam pradīpta-uttama-kuṇḍalam . lohita-akṣam mahā-bāhum mahārajata-vāsasam ..7..
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना । सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम् ॥८॥
लोहितेन अनुलिप्त-अङ्गम् चन्दनेन सुगन्धिना । सन्ध्या-रक्तम् इव आकाशे तोयदम् सतडिद्गुणम् ॥८॥
lohitena anulipta-aṅgam candanena sugandhinā . sandhyā-raktam iva ākāśe toyadam sataḍidguṇam ..8..
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् । सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥९॥
वृतम् आभरणैः दिव्यैः सुरूपम् कामरूपिणम् । स वृक्ष-वन-गुल्म-आढ्यम् प्रसुप्तम् इव मन्दरम् ॥९॥
vṛtam ābharaṇaiḥ divyaiḥ surūpam kāmarūpiṇam . sa vṛkṣa-vana-gulma-āḍhyam prasuptam iva mandaram ..9..
क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् । प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥१०॥
क्रीडित्वा उपरतम् रात्रौ वर-आभरण-भूषितम् । प्रियम् राक्षस-कन्यानाम् राक्षसानाम् सुख-आवहम् ॥१०॥
krīḍitvā uparatam rātrau vara-ābharaṇa-bhūṣitam . priyam rākṣasa-kanyānām rākṣasānām sukha-āvaham ..10..
पीत्वाप्युपरतं चापि ददर्श स महाकपिः । भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥११॥
पीत्वा अपि उपरतम् च अपि ददर्श स महा-कपिः । भास्करे शयने वीरम् प्रसुप्तम् राक्षस-अधिपम् ॥११॥
pītvā api uparatam ca api dadarśa sa mahā-kapiḥ . bhāskare śayane vīram prasuptam rākṣasa-adhipam ..11..
निःश्वसन्तं यथा नागं रावणं वानरोत्तमः । आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत् ॥१२॥
निःश्वसन्तम् यथा नागम् रावणम् वानर-उत्तमः । आसाद्य परम-उद्विग्नः सः अपासर्पत् सुभीत-वत् ॥१२॥
niḥśvasantam yathā nāgam rāvaṇam vānara-uttamaḥ . āsādya parama-udvignaḥ saḥ apāsarpat subhīta-vat ..12..
अथारोहणमासाद्य वेदिकान्तरमाश्रितः । सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥१३॥
अथ आरोहणम् आसाद्य वेदिका-अन्तरम् आश्रितः । सुप्तम् राक्षस-शार्दूलम् प्रेक्षते स्म महा-कपिः ॥१३॥
atha ārohaṇam āsādya vedikā-antaram āśritaḥ . suptam rākṣasa-śārdūlam prekṣate sma mahā-kapiḥ ..13..
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम् । गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत् ॥१४॥
शुशुभे राक्षस-इन्द्रस्य स्वपतः शयन-उत्तमम् । गन्धहस्तिनि संविष्टे यथाप्रस्रवणम् महत् ॥१४॥
śuśubhe rākṣasa-indrasya svapataḥ śayana-uttamam . gandhahastini saṃviṣṭe yathāprasravaṇam mahat ..14..
काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः । विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥१५॥
काञ्चन-अङ्गद-नद्धौ च ददर्श स महात्मनः । विक्षिप्तौ राक्षस-इन्द्रस्य भुजौ इन्द्र-ध्वज-उपमौ ॥१५॥
kāñcana-aṅgada-naddhau ca dadarśa sa mahātmanaḥ . vikṣiptau rākṣasa-indrasya bhujau indra-dhvaja-upamau ..15..
ऐरावतविषाणाग्रैरापीडितकृतव्रणौ । वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ ॥१६॥
ऐरावत-विषाण-अग्रैः आपीडित-कृत-व्रणौ । वज्र-उल्लिखित-पीन-अंसौ विष्णु-चक्र-परिक्षितौ ॥१६॥
airāvata-viṣāṇa-agraiḥ āpīḍita-kṛta-vraṇau . vajra-ullikhita-pīna-aṃsau viṣṇu-cakra-parikṣitau ..16..
पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ । सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥१७॥
पीनौ सम-सुजात-अंसौ बल-संयुतौ । नख-अङ्गुष्ठौ सु अङ्गुली-तल-लक्षितौ ॥१७॥
pīnau sama-sujāta-aṃsau bala-saṃyutau . nakha-aṅguṣṭhau su aṅgulī-tala-lakṣitau ..17..
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ । विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥१८॥
संहतौ परिघ-आकारौ वृत्तौ करि-कर-उपमौ । विक्षिप्तौ शयने शुभ्रे पञ्च-शीर्षौ इव उरगौ ॥१८॥
saṃhatau parigha-ākārau vṛttau kari-kara-upamau . vikṣiptau śayane śubhre pañca-śīrṣau iva uragau ..18..
शशक्षतजकल्पेन सुशीतेन सुगन्धिना । चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलङ्कृतौ ॥१९॥
शश-क्षतज-कल्पेन सु शीतेन सुगन्धिना । चन्दनेन परार्ध्येन सु अनुलिप्तौ सु अलङ्कृतौ ॥१९॥
śaśa-kṣataja-kalpena su śītena sugandhinā . candanena parārdhyena su anuliptau su alaṅkṛtau ..19..
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ । यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥२०॥
उत्तम-स्त्री-विमृदितौ गन्ध-उत्तम-निषेवितौ । यक्ष-पन्नग-गन्धर्व-देव-दानव-राविणौ ॥२०॥
uttama-strī-vimṛditau gandha-uttama-niṣevitau . yakṣa-pannaga-gandharva-deva-dānava-rāviṇau ..20..
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ । मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव ॥२१॥
ददर्श स कपिः तस्य बाहू शयन-संस्थितौ । मन्दरस्य अन्तरे सुप्तौ महार्ही रुषितौ इव ॥२१॥
dadarśa sa kapiḥ tasya bāhū śayana-saṃsthitau . mandarasya antare suptau mahārhī ruṣitau iva ..21..
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः । शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥२२॥
ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस-अधिपः । शुशुभे अचल-सङ्काशः शृङ्गाभ्याम् इव मन्दरः ॥२२॥
tābhyām sa paripūrṇābhyām bhujābhyām rākṣasa-adhipaḥ . śuśubhe acala-saṅkāśaḥ śṛṅgābhyām iva mandaraḥ ..22..
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः । मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः ॥२३॥
। मृष्ट-अन्न-रस-संयुक्तः पान-गन्ध-पुरःसरः ॥२३॥
. mṛṣṭa-anna-rasa-saṃyuktaḥ pāna-gandha-puraḥsaraḥ ..23..
तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान् । शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥२४॥
तस्य राक्षस-सिंहस्य निश्चक्राम मुखात् महान् । शयानस्य विनिःश्वासः पूरयन् इव तद्-गृहम् ॥२४॥
tasya rākṣasa-siṃhasya niścakrāma mukhāt mahān . śayānasya viniḥśvāsaḥ pūrayan iva tad-gṛham ..24..
मुक्तामणिविचित्रेण काञ्चनेन विराजता । मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥२५॥
मुक्तामणि-विचित्रेण काञ्चनेन विराजता । मुकुटेन अपवृत्तेन कुण्डल-उज्ज्वलित-आननम् ॥२५॥
muktāmaṇi-vicitreṇa kāñcanena virājatā . mukuṭena apavṛttena kuṇḍala-ujjvalita-ānanam ..25..
रक्तचन्दनदिग्धेन तथा हारेण शोभिता । पीनायतविशालेन वक्षसाभिविराजितम् ॥२६॥
रक्तचन्दन-दिग्धेन तथा हारेण शोभिता । पीन-आयत-विशालेन वक्षसा अभिविराजितम् ॥२६॥
raktacandana-digdhena tathā hāreṇa śobhitā . pīna-āyata-viśālena vakṣasā abhivirājitam ..26..
पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम् । महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥२७॥
पाण्डुरेण अपविद्धेन क्षौमेण क्षतज-ईक्षणम् । महार्हेण सु संवीतम् पीतेन उत्तम-वाससा ॥२७॥
pāṇḍureṇa apaviddhena kṣaumeṇa kṣataja-īkṣaṇam . mahārheṇa su saṃvītam pītena uttama-vāsasā ..27..
माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत् । गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम् ॥२८॥
माष-राशि-प्रतीकाशम् निःश्वसन्तम् भुजङ्ग-वत् । गाङ्गे महति तोय-अन्ते प्रसुतम् इव कुञ्जरम् ॥२८॥
māṣa-rāśi-pratīkāśam niḥśvasantam bhujaṅga-vat . gāṅge mahati toya-ante prasutam iva kuñjaram ..28..
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम् । प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥२९॥
चतुर्भिः काञ्चनैः दीपैः दीप्यमानैः चतुर्दिशम् । प्रकाशीकृत-सर्व-अङ्गम् मेघम् विद्युत्-गणैः इव ॥२९॥
caturbhiḥ kāñcanaiḥ dīpaiḥ dīpyamānaiḥ caturdiśam . prakāśīkṛta-sarva-aṅgam megham vidyut-gaṇaiḥ iva ..29..
पादमूलगताश्चापि ददर्श सुमहात्मनः । पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥३०॥
पाद-मूल-गताः च अपि ददर्श सु महात्मनः । पत्नीः स प्रिय-भार्यस्य तस्य रक्षःपतेः गृहे ॥३०॥
pāda-mūla-gatāḥ ca api dadarśa su mahātmanaḥ . patnīḥ sa priya-bhāryasya tasya rakṣaḥpateḥ gṛhe ..30..
शशिप्रकाशवदना वरकुण्डलभूषिताः । अम्लानमाल्याभरणा ददर्श हरियूथपः ॥३१॥
शशि-प्रकाश-वदनाः वर-कुण्डल-भूषिताः । अम्लान-माल्य-आभरणाः ददर्श हरि-यूथपः ॥३१॥
śaśi-prakāśa-vadanāḥ vara-kuṇḍala-bhūṣitāḥ . amlāna-mālya-ābharaṇāḥ dadarśa hari-yūthapaḥ ..31..
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः । वराभरणधारिण्यो निषन्ना ददृशे कपिः ॥३२॥
नृत्त-वादित्र-कुशलाः राक्षस-इन्द्र-भुज-अङ्क-गाः । वर-आभरण-धारिण्यः निषन्नाः ददृशे कपिः ॥३२॥
nṛtta-vāditra-kuśalāḥ rākṣasa-indra-bhuja-aṅka-gāḥ . vara-ābharaṇa-dhāriṇyaḥ niṣannāḥ dadṛśe kapiḥ ..32..
वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥३३॥
वज्र-वैदूर्य-गर्भाणि श्रवण-अन्तेषु योषिताम् । ददर्श तापनीयानि कुण्डलानि अङ्गदानि च ॥३३॥
vajra-vaidūrya-garbhāṇi śravaṇa-anteṣu yoṣitām . dadarśa tāpanīyāni kuṇḍalāni aṅgadāni ca ..33..
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः । विरराज विमानं तन्नभस्तारागणैरिव ॥३४॥
तासाम् चन्द्र-उपमैः वक्त्रैः शुभैः ललित-कुण्डलैः । विरराज विमानम् तत् नभः तारा-गणैः इव ॥३४॥
tāsām candra-upamaiḥ vaktraiḥ śubhaiḥ lalita-kuṇḍalaiḥ . virarāja vimānam tat nabhaḥ tārā-gaṇaiḥ iva ..34..
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः । तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥३५॥
मद-व्यायाम-खिन्नाः ताः राक्षस-इन्द्रस्य योषितः । तेषु तेषु अवकाशेषु प्रसुप्ताः तनु-मध्यमाः ॥३५॥
mada-vyāyāma-khinnāḥ tāḥ rākṣasa-indrasya yoṣitaḥ . teṣu teṣu avakāśeṣu prasuptāḥ tanu-madhyamāḥ ..35..
अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी।विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी॥३६॥
अङ्गहारैः तथा एवा अन्या कोमलैः नृत्त-शालिनी।विन्यस्त-शुभ-सर्व-अङ्गी प्रसुप्ता वरवर्णिनी॥३६॥
aṅgahāraiḥ tathā evā anyā komalaiḥ nṛtta-śālinī.vinyasta-śubha-sarva-aṅgī prasuptā varavarṇinī..36..
काचिद् वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते । महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥३७॥
काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते । महा-नदी-प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥३७॥
kācid vīṇām pariṣvajya prasuptā samprakāśate . mahā-nadī-prakīrṇā iva nalinī potam āśritā ..37..
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा । प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥३८॥
अन्या कक्ष-गतेन एव मड्डुकेन असित-ईक्षणा । प्रसुप्ता भामिनी भाति बाल-पुत्रा इव वत्सला ॥३८॥
anyā kakṣa-gatena eva maḍḍukena asita-īkṣaṇā . prasuptā bhāminī bhāti bāla-putrā iva vatsalā ..38..
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी । चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी ॥३९॥
पटहम् चारु-सर्व-अङ्गी पीड्य शेते शुभ-स्तनी । चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥३९॥
paṭaham cāru-sarva-aṅgī pīḍya śete śubha-stanī . cirasya ramaṇam labdhvā pariṣvajya iva kāminī ..39..
काचिद् वीणां परिष्वज्य सुप्ता कमललोचना । निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥४०॥
काचिद् वीणाम् परिष्वज्य सुप्ता कमल-लोचना । निद्रा-वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥४०॥
kācid vīṇām pariṣvajya suptā kamala-locanā . nidrā-vaśam anuprāptā saha kāntā iva bhāminī ..40..
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी।निद्रावशमनुप्राप्ता सह कान्तेव भामिनी॥४१॥
विपञ्चीम् परिगृह्य अन्या नियता नृत्त-शालिनी।निद्रा-वशम् अनुप्राप्ता सह कान्ता इव भामिनी॥४१॥
vipañcīm parigṛhya anyā niyatā nṛtta-śālinī.nidrā-vaśam anuprāptā saha kāntā iva bhāminī..41..
अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः । मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥४२॥
अन्या कनक-सङ्काशैः मृदु-पीनैः मनोरमैः । मृदङ्गम् परिपीड्य अङ्गैः प्रसुप्ता मत्त-लोचना ॥४२॥
anyā kanaka-saṅkāśaiḥ mṛdu-pīnaiḥ manoramaiḥ . mṛdaṅgam paripīḍya aṅgaiḥ prasuptā matta-locanā ..42..
भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी । पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥४३॥
भुज-पार्श्व-अन्तर-स्थेन कक्ष-गेण कृश-उदरी । पणवेन सह अनिन्द्या सुप्ता मद-कृत-श्रमा ॥४३॥
bhuja-pārśva-antara-sthena kakṣa-geṇa kṛśa-udarī . paṇavena saha anindyā suptā mada-kṛta-śramā ..43..
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा । प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥४४॥
डिण्डिमम् परिगृह्य अन्या तथा एव आसक्त-डिण्डिमा । प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥४४॥
ḍiṇḍimam parigṛhya anyā tathā eva āsakta-ḍiṇḍimā . prasuptā taruṇam vatsam upagūhya iva bhāminī ..44..
का चिदाडम्बरं नारी भुजसम्भोगपीडितम् । कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥४५॥
का चित् आडम्बरम् नारी भुज-सम्भोग-पीडितम् । कृत्वा कमल-पत्र-अक्षी प्रसुप्ता मद-मोहिता ॥४५॥
kā cit āḍambaram nārī bhuja-sambhoga-pīḍitam . kṛtvā kamala-patra-akṣī prasuptā mada-mohitā ..45..
कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्पशबला मालेव परिमार्जिता ॥४६॥
कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी । वसन्ते पुष्प-शबला माला इव परिमार्जिता ॥४६॥
kalaśīm apaviddhya anyā prasuptā bhāti bhāminī . vasante puṣpa-śabalā mālā iva parimārjitā ..46..
पाणिभ्यां च कुचौ का चित्सुवर्णकलशोपमौ । उपगूह्याबला सुप्ता निद्राबलपराजिता ॥४७॥
पाणिभ्याम् च कुचौ का चित् सुवर्ण-कलश-उपमौ । उपगूह्य अबला सुप्ता निद्रा-बल-पराजिता ॥४७॥
pāṇibhyām ca kucau kā cit suvarṇa-kalaśa-upamau . upagūhya abalā suptā nidrā-bala-parājitā ..47..
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना । अन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला ॥४८॥
पूर्ण-इन्दु-सदृश-आनना । अन्याम् आलिङ्ग्य सुश्रोणी प्रसुप्ता मद-विह्वला ॥४८॥
pūrṇa-indu-sadṛśa-ānanā . anyām āliṅgya suśroṇī prasuptā mada-vihvalā ..48..
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥४९॥
आतोद्यानि विचित्राणि परिष्वज्य वर-स्त्रियः । निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥४९॥
ātodyāni vicitrāṇi pariṣvajya vara-striyaḥ . nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva ..49..
तासामेकान्तविन्यस्ते शयानां शयने शुभे । ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥५०॥
तासाम् एकान्त-विन्यस्ते शयानाम् शयने शुभे । ददर्श रूप-सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५०॥
tāsām ekānta-vinyaste śayānām śayane śubhe . dadarśa rūpa-sampannām aparām sa kapiḥ striyam ..50..
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् । विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम् ॥५१॥
मुक्तामणि-समायुक्तैः भूषणैः सु विभूषिताम् । विभूषयन्तीम् इव च स्व-श्रिया भवन-उत्तमम् ॥५१॥
muktāmaṇi-samāyuktaiḥ bhūṣaṇaiḥ su vibhūṣitām . vibhūṣayantīm iva ca sva-śriyā bhavana-uttamam ..51..
गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् । कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥५२॥
गौरीम् कनक-वर्ण-आभाम् इष्टाम् अन्तःपुर-ईश्वरीम् । कपिः मन्दोदरीम् तत्र शयानाम् चारु-रूपिणीम् ॥५२॥
gaurīm kanaka-varṇa-ābhām iṣṭām antaḥpura-īśvarīm . kapiḥ mandodarīm tatra śayānām cāru-rūpiṇīm ..52..
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः । तर्कयामास सीतेति रूपयौवनसम्पदा । हर्षेण महता युक्तो ननन्द हरियूथपः ॥५३॥
स ताम् दृष्ट्वा महा-बाहुः भूषिताम् मारुतात्मजः । तर्कयामास सीता इति रूप-यौवन-सम्पदा । हर्षेण महता युक्तः ननन्द हरि-यूथपः ॥५३॥
sa tām dṛṣṭvā mahā-bāhuḥ bhūṣitām mārutātmajaḥ . tarkayāmāsa sītā iti rūpa-yauvana-sampadā . harṣeṇa mahatā yuktaḥ nananda hari-yūthapaḥ ..53..
आस्पोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम । स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥५४॥
आस्पोटयामास चुचुम्ब पुच्छम् ननन्द चिक्रीड जगौ जगाम । स्तम्भान् अरोहत् निपपात भूमौ निदर्शयन् स्वाम् प्रकृतिम् कपीनाम् ॥५४॥
āspoṭayāmāsa cucumba puccham nananda cikrīḍa jagau jagāma . stambhān arohat nipapāta bhūmau nidarśayan svām prakṛtim kapīnām ..54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In