This overlay will guide you through the buttons:

| |
|
अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥१॥
अवधूय च ताम् बुद्धिम् बभूव अवस्थितः तदा । जगाम च अपराम् चिन्ताम् सीताम् प्रति महा-कपिः ॥१॥
avadhūya ca tām buddhim babhūva avasthitaḥ tadā . jagāma ca aparām cintām sītām prati mahā-kapiḥ ..1..
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी । न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥२॥
न रामेण वियुक्ता सा स्वप्तुम् अर्हति भामिनी । न भोक्तुम् न अपि अलङ्कर्तुम् न पानम् उपसेवितुम् ॥२॥
na rāmeṇa viyuktā sā svaptum arhati bhāminī . na bhoktum na api alaṅkartum na pānam upasevitum ..2..
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् । न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥३॥
न अन्यम् नरम् उपस्थातुम् सुराणाम् अपि च ईश्वरम् । न हि राम-समः कश्चिद् विद्यते त्रिदशेषु अपि ॥३॥
na anyam naram upasthātum surāṇām api ca īśvaram . na hi rāma-samaḥ kaścid vidyate tridaśeṣu api ..3..
अन्येयमिति निश्चित्य पानभूमौ चचार सः ।पान हरिश्रेष्ठः सीतासंदर्शननोत्सुकः॥४॥
अन्या इयम् इति निश्चित्य पान-भूमौ चचार सः ।सीता-संदर्शन-न उत्सुकः॥४॥
anyā iyam iti niścitya pāna-bhūmau cacāra saḥ .sītā-saṃdarśana-na utsukaḥ..4..
क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः । नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा ॥५॥
क्रीडितेन अपराः क्लान्ताः गीतेन च तथा पराः । नृत्तेन च अपराः क्लान्ताः पान-विप्रहताः तथा ॥५॥
krīḍitena aparāḥ klāntāḥ gītena ca tathā parāḥ . nṛttena ca aparāḥ klāntāḥ pāna-viprahatāḥ tathā ..5..
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः । तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः ॥६॥
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः । तथा आस्तरण-मुख्य्येषु संविष्टाः च अपराः स्त्रियः ॥६॥
murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ . tathā āstaraṇa-mukhyyeṣu saṃviṣṭāḥ ca aparāḥ striyaḥ ..6..
अङ्गनानां सहस्रेण भूषितेन विभूषणैः । रूपसंलापशीलेन युक्तगीतार्थभाषिणा ॥७॥
अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः । रूप-संलाप-शीलेन युक्त-गीत-अर्थ-भाषिणा ॥७॥
aṅganānām sahasreṇa bhūṣitena vibhūṣaṇaiḥ . rūpa-saṃlāpa-śīlena yukta-gīta-artha-bhāṣiṇā ..7..
देशकालाभियुक्तेन युक्तवाक्याभिधायिना । रताभिरतसंसुप्तं ददर्श हरियूथपः ॥८॥
देश-काल-अभियुक्तेन युक्त-वाक्य-अभिधायिना । रत-अभिरत-संसुप्तम् ददर्श हरि-यूथपः ॥८॥
deśa-kāla-abhiyuktena yukta-vākya-abhidhāyinā . rata-abhirata-saṃsuptam dadarśa hari-yūthapaḥ ..8..
अन्त्रापि वस्सत्रीणं रूपसंलापशायिनाम्।सहस्त्रं युवीतानां तु प्रसुप्तं स ददर्श हरियूथपः॥९॥
रूप-संलाप-शायिनाम्।सहस्त्रम् युवीतानाम् तु प्रसुप्तम् स ददर्श हरि-यूथपः॥९॥
rūpa-saṃlāpa-śāyinām.sahastram yuvītānām tu prasuptam sa dadarśa hari-yūthapaḥ..9..
देशकालाभियुक्तं तु युक्तवाक्याभिधायिना।रताविरतसंसुप्तं ददर्श हरियूथप॥१०॥
देश-काल-अभियुक्तम् तु युक्त-वाक्य-अभिधायिना।रत-अविरत-संसुप्तम् ददर्श हरि-यूथप॥१०॥
deśa-kāla-abhiyuktam tu yukta-vākya-abhidhāyinā.rata-avirata-saṃsuptam dadarśa hari-yūthapa..10..
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः । गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥११॥
तासाम् मध्ये महा-बाहुः शुशुभे राक्षसेश्वरः । गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः ॥११॥
tāsām madhye mahā-bāhuḥ śuśubhe rākṣaseśvaraḥ . goṣṭhe mahati mukhyānām gavām madhye yathā vṛṣaḥ ..11..
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम् । करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः ॥१२॥
स राक्षस-इन्द्रः शुशुभे ताभिः परिवृतः स्वयम् । करेणुभिः यथा अरण्यम् परिकीर्णः महा-द्विपः ॥१२॥
sa rākṣasa-indraḥ śuśubhe tābhiḥ parivṛtaḥ svayam . kareṇubhiḥ yathā araṇyam parikīrṇaḥ mahā-dvipaḥ ..12..
सर्वकामैरुपेतां च पानभूमिं महात्मनः । ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥१३॥
सर्व-कामैः उपेताम् च पान-भूमिम् महात्मनः । ददर्श कपि-शार्दूलः तस्य रक्षःपतेः गृहे ॥१३॥
sarva-kāmaiḥ upetām ca pāna-bhūmim mahātmanaḥ . dadarśa kapi-śārdūlaḥ tasya rakṣaḥpateḥ gṛhe ..13..
मृगाणां महिषाणां च वराहाणां च भागशः । तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥१४॥
मृगाणाम् महिषाणाम् च वराहाणाम् च भागशस् । तत्र न्यस्तानि मांसानि पान-भूमौ ददर्श सः ॥१४॥
mṛgāṇām mahiṣāṇām ca varāhāṇām ca bhāgaśas . tatra nyastāni māṃsāni pāna-bhūmau dadarśa saḥ ..14..
रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् । ददर्श कपिशार्दूल मयूरान्कुक्कुटांस्तथा ॥१५॥
रौक्मेषु च विशलेषु भाजनेषु अर्ध-भक्षितान् । ददर्श कपि-शार्दूल मयूरान् कुक्कुटान् तथा ॥१५॥
raukmeṣu ca viśaleṣu bhājaneṣu ardha-bhakṣitān . dadarśa kapi-śārdūla mayūrān kukkuṭān tathā ..15..
वराहवार्ध्राणसकान् दधिसौवर्चलायुतान् । शल्यान् मृगमयूरांश्च हनूमानन्ववैक्षत ॥१६॥
वराह-वार्ध्राणसकान् दधि-सौवर्चल-आयुतान् । शल्यान् मृग-मयूरान् च हनूमान् अन्ववैक्षत ॥१६॥
varāha-vārdhrāṇasakān dadhi-sauvarcala-āyutān . śalyān mṛga-mayūrān ca hanūmān anvavaikṣata ..16..
कृकरान्विविधान्सिद्धांश्चकोरानर्धभक्षितान् । महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान् ॥१७॥
कृकरान् विविधान् सिद्धान् चकोरान् अर्ध-भक्षितान् । महिषान् एक-शल्यान् च छागान् च कृत-निष्ठितान् ॥१७॥
kṛkarān vividhān siddhān cakorān ardha-bhakṣitān . mahiṣān eka-śalyān ca chāgān ca kṛta-niṣṭhitān ..17..
लेह्यामनुच्चावचान् पेयान् भोज्यानयु च्चवचानि च ।तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः ॥१८॥
लेह्यान् अनुच्चावचान् पेयान् भोज्यान् अयु-च्चवचानि च ।तथा अम्ल-लवण-उत्तंसैः विविधैः रागषाडवैः ॥१८॥
lehyān anuccāvacān peyān bhojyān ayu-ccavacāni ca .tathā amla-lavaṇa-uttaṃsaiḥ vividhaiḥ rāgaṣāḍavaiḥ ..18..
हार नूपुरकेयूरैरपविद्धैर्महाधनैः ।पानभाजनविक्षिप्तैः फलैश् च विविधैरपि ॥१९॥
हार नूपुर-केयूरैः अपविद्धैः महाधनैः ।पान-भाजन-विक्षिप्तैः फलैः च विविधैः अपि ॥१९॥
hāra nūpura-keyūraiḥ apaviddhaiḥ mahādhanaiḥ .pāna-bhājana-vikṣiptaiḥ phalaiḥ ca vividhaiḥ api ..19..
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ।तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः ॥२०॥
कृत-पुष्प-उपहारा भूः अधिकम् पुष्यति श्रियम् ।तत्र तत्र च विन्यस्तैः सु श्लिष्टैः शयन-आसनैः ॥२०॥
kṛta-puṣpa-upahārā bhūḥ adhikam puṣyati śriyam .tatra tatra ca vinyastaiḥ su śliṣṭaiḥ śayana-āsanaiḥ ..20..
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ।बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः ॥२१॥
पान-भूमिः विना वह्निम् प्रदीप्ता इव उपलक्ष्यते ।बहु-प्रकारैः विविधैः वर-संस्कार-संस्कृतैः ॥२१॥
pāna-bhūmiḥ vinā vahnim pradīptā iva upalakṣyate .bahu-prakāraiḥ vividhaiḥ vara-saṃskāra-saṃskṛtaiḥ ..21..
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक् ।दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि ॥२२॥
मांसैः कुशल-संयुक्तैः पान-भूमि-गतैः पृथक् ।दिव्याः प्रसन्नाः विविधाः सुराः कृत-सुराः अपि ॥२२॥
māṃsaiḥ kuśala-saṃyuktaiḥ pāna-bhūmi-gataiḥ pṛthak .divyāḥ prasannāḥ vividhāḥ surāḥ kṛta-surāḥ api ..22..
शर्करासवमाध्वीकाः पुष्पासवफलासवाः । वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक् ॥२३॥
शर्करा-आसव-माध्वीकाः पुष्प-आसव-फल-आसवाः । वास-चूर्णैः च विविधैः मृष्टाः तैः तैः पृथक् पृथक् ॥२३॥
śarkarā-āsava-mādhvīkāḥ puṣpa-āsava-phala-āsavāḥ . vāsa-cūrṇaiḥ ca vividhaiḥ mṛṣṭāḥ taiḥ taiḥ pṛthak pṛthak ..23..
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः । हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि ॥२४॥
सन्तता शुशुभे भूमिः माल्यैः च बहु-संस्थितैः । हिरण्मयैः च करकैः भाजनैः स्फाटिकैः अपि ॥२४॥
santatā śuśubhe bhūmiḥ mālyaiḥ ca bahu-saṃsthitaiḥ . hiraṇmayaiḥ ca karakaiḥ bhājanaiḥ sphāṭikaiḥ api ..24..
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ।राजतेषु च कुम्भेषु जाम्बूनदमयेषु च ॥२५॥
जाम्बूनद-मयैः च अन्यैः करकैः अभिसंवृता ।राजतेषु च कुम्भेषु जाम्बूनद-मयेषु च ॥२५॥
jāmbūnada-mayaiḥ ca anyaiḥ karakaiḥ abhisaṃvṛtā .rājateṣu ca kumbheṣu jāmbūnada-mayeṣu ca ..25..
पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह ।सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च ॥२६॥
पान-श्रेष्ठम् तदा भूरि कपिः तत्र ददर्श ह ।सः अपश्यत् शातकुम्भानि शीधोः मणि-मयानि च ॥२६॥
pāna-śreṣṭham tadā bhūri kapiḥ tatra dadarśa ha .saḥ apaśyat śātakumbhāni śīdhoḥ maṇi-mayāni ca ..26..
तानि तानि च पूर्णानि भाजनानि महाकपिः ।क्वचिदर्धावशेषाणि क्वचित पीतान्यशेषतः॥२७॥
तानि तानि च पूर्णानि भाजनानि महा-कपिः ।क्वचिद् अर्ध-अवशेषाणि पीतानि अशेषतस्॥२७॥
tāni tāni ca pūrṇāni bhājanāni mahā-kapiḥ .kvacid ardha-avaśeṣāṇi pītāni aśeṣatas..27..
क्व चिन्नैव प्रपीतानि पानानि स ददर्श ह ।क्व चिद्भक्ष्यांश्च विविधान्क्व चित्पानानि भागशः ॥२८॥
क्व चित् ना एव प्रपीतानि पानानि स ददर्श ह ।क्व चित् भक्ष्यान् च विविधान् क्व चित् पानानि भागशस् ॥२८॥
kva cit nā eva prapītāni pānāni sa dadarśa ha .kva cit bhakṣyān ca vividhān kva cit pānāni bhāgaśas ..28..
क्वचिदर्धावशेषाणि पश्यन् वै विचचार ह । शयनान्यत्र नारीणां शून्यानि बहुधा पुनः । परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥२९॥
क्वचिद् अर्ध-अवशेषाणि पश्यन् वै विचचार ह । शयनानि अत्र नारीणाम् शून्यानि बहुधा पुनर् । परस्परम् समाश्लिष्य काश्चिद् सुप्ताः वर-अङ्गनाः ॥२९॥
kvacid ardha-avaśeṣāṇi paśyan vai vicacāra ha . śayanāni atra nārīṇām śūnyāni bahudhā punar . parasparam samāśliṣya kāścid suptāḥ vara-aṅganāḥ ..29..
का चिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च । उपगम्याबला सुप्ता निद्राबलपराजिता ॥३०॥
का चित् च वस्त्रम् अन्यस्याः अपहृत्य उपगुह्य च । उपगम्य अबला सुप्ता निद्रा-बल-पराजिता ॥३०॥
kā cit ca vastram anyasyāḥ apahṛtya upaguhya ca . upagamya abalā suptā nidrā-bala-parājitā ..30..
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् । नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥३१॥
तासाम् उच्छ्वास-वातेन वस्त्रम् माल्यम् च गात्र-जम् । न अत्यर्थम् स्पन्दते चित्रम् प्राप्य मन्दम् इव अनिलम् ॥३१॥
tāsām ucchvāsa-vātena vastram mālyam ca gātra-jam . na atyartham spandate citram prāpya mandam iva anilam ..31..
चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च । विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥३२॥
चन्दनस्य च शीतस्य शीधोः मधु-रसस्य च । विविधस्य च माल्यस्य पुष्पस्य विविधस्य च ॥३२॥
candanasya ca śītasya śīdhoḥ madhu-rasasya ca . vividhasya ca mālyasya puṣpasya vividhasya ca ..32..
बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् । स्नानानां चन्दनानां च धूपानां चैव मूर्छितः ॥३३॥
बहुधा मारुतः तत्र गन्धम् विविधम् उद्वहन् । स्नानानाम् चन्दनानाम् च धूपानाम् च एव मूर्छितः ॥३३॥
bahudhā mārutaḥ tatra gandham vividham udvahan . snānānām candanānām ca dhūpānām ca eva mūrchitaḥ ..33..
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ।श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः ॥३४॥
प्रववौ सुरभिः गन्धः विमाने पुष्पके तदा ।श्याम-अवदाताः तत्र अन्याः काश्चिद् कृष्णाः वर-अङ्गनाः ॥३४॥
pravavau surabhiḥ gandhaḥ vimāne puṣpake tadā .śyāma-avadātāḥ tatra anyāḥ kāścid kṛṣṇāḥ vara-aṅganāḥ ..34..
काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये । तासां निद्रावशत्वाच्च मदनेन विमूर्छितम् । पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥३५॥
काश्चिद् काञ्चन-वर्ण-अङ्ग्यः प्रमदाः राक्षस-आलये । तासाम् निद्रा-वश-त्वात् च मदनेन विमूर्छितम् । पद्मिनीनाम् प्रसुप्तानाम् रूपम् आसीत् यथा एव हि ॥३५॥
kāścid kāñcana-varṇa-aṅgyaḥ pramadāḥ rākṣasa-ālaye . tāsām nidrā-vaśa-tvāt ca madanena vimūrchitam . padminīnām prasuptānām rūpam āsīt yathā eva hi ..35..
एवं सर्वमशेषेण रावणान्तःपुरं कपिः । ददर्श सुमहातेजा न ददर्श च जानकीम् ॥३६॥
एवम् सर्वम् अशेषेण रावण-अन्तःपुरम् कपिः । ददर्श सु महा-तेजाः न ददर्श च जानकीम् ॥३६॥
evam sarvam aśeṣeṇa rāvaṇa-antaḥpuram kapiḥ . dadarśa su mahā-tejāḥ na dadarśa ca jānakīm ..36..
निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः । जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ॥३७॥
निरीक्षमाणः च ततस् ताः स्त्रियः स महा-कपिः । जगाम महतीम् चिन्ताम् धर्म-साध्वस-शङ्कितः ॥३७॥
nirīkṣamāṇaḥ ca tatas tāḥ striyaḥ sa mahā-kapiḥ . jagāma mahatīm cintām dharma-sādhvasa-śaṅkitaḥ ..37..
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् । इदं खलु ममात्यर्थं धर्मलोपं करिष्यति ॥३८॥
पर-दार-अवरोधस्य प्रसुप्तस्य निरीक्षणम् । इदम् खलु मम अत्यर्थम् धर्म-लोपम् करिष्यति ॥३८॥
para-dāra-avarodhasya prasuptasya nirīkṣaṇam . idam khalu mama atyartham dharma-lopam kariṣyati ..38..
न हि मे परदाराणां दृष्टिर्विषयवर्तिनी । अयं चात्र मया दृष्टः परदारपरिग्रहः ॥३९॥
न हि मे पर-दाराणाम् दृष्टिः विषय-वर्तिनी । अयम् च अत्र मया दृष्टः पर-दार-परिग्रहः ॥३९॥
na hi me para-dārāṇām dṛṣṭiḥ viṣaya-vartinī . ayam ca atra mayā dṛṣṭaḥ para-dāra-parigrahaḥ ..39..
तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः । निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥४०॥
तस्य प्रादुरभूत् चिन्ता पुनर् अन्या मनस्विनः । निश्चित-एकान्त-चित्तस्य कार्य-निश्चय-दर्शिनी ॥४०॥
tasya prādurabhūt cintā punar anyā manasvinaḥ . niścita-ekānta-cittasya kārya-niścaya-darśinī ..40..
कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः । न तु मे मनसः किं चिद्वैकृत्यमुपपद्यते ॥४१॥
कामम् दृष्ट्वा मया सर्वाः विश्वस्ताः रावण-स्त्रियः । न तु मे मनसः किम् चित् वैकृत्यम् उपपद्यते ॥४१॥
kāmam dṛṣṭvā mayā sarvāḥ viśvastāḥ rāvaṇa-striyaḥ . na tu me manasaḥ kim cit vaikṛtyam upapadyate ..41..
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥४२॥
मनः हि हेतुः सर्वेषाम् इन्द्रियाणाम् प्रवर्तते । शुभ-अशुभासु अवस्थासु तत् च मे सु व्यवस्थितम् ॥४२॥
manaḥ hi hetuḥ sarveṣām indriyāṇām pravartate . śubha-aśubhāsu avasthāsu tat ca me su vyavasthitam ..42..
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् । स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥४३॥
न अन्यत्र हि मया शक्या वैदेही परिमार्गितुम् । स्त्रियः हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥४३॥
na anyatra hi mayā śakyā vaidehī parimārgitum . striyaḥ hi strīṣu dṛśyante sadā samparimārgaṇe ..43..
यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते । न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥४४॥
यस्य सत्त्वस्य या योनिः तस्याम् तत् परिमार्ग्यते । न शक्यम् प्रमदाः नष्टाः मृगीषु परिमार्गितुम् ॥४४॥
yasya sattvasya yā yoniḥ tasyām tat parimārgyate . na śakyam pramadāḥ naṣṭāḥ mṛgīṣu parimārgitum ..44..
तदिदं मार्गितं तावच्छुद्धेन मनसा मया । रावणान्तःपुरं सरं दृश्यते न च जानकी ॥४५॥
तत् इदम् मार्गितम् तावत् शुद्धेन मनसा मया । रावण-अन्तःपुरम् सरम् दृश्यते न च जानकी ॥४५॥
tat idam mārgitam tāvat śuddhena manasā mayā . rāvaṇa-antaḥpuram saram dṛśyate na ca jānakī ..45..
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् । अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ॥४६॥
देव-गन्धर्व-कन्याः च नाग-कन्याः च वीर्यवान् । अवेक्षमाणः हनुमान् न एव अपश्यत जानकीम् ॥४६॥
deva-gandharva-kanyāḥ ca nāga-kanyāḥ ca vīryavān . avekṣamāṇaḥ hanumān na eva apaśyata jānakīm ..46..
तामपश्यन्कपिस्तत्र पश्यंश्चान्या वरस्त्रियः । अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे ॥४७॥
ताम् अपश्यन् कपिः तत्र पश्यन् च अन्याः वर-स्त्रियः । अपक्रम्य तदा वीरः प्रध्यातुम् उपचक्रमे ॥४७॥
tām apaśyan kapiḥ tatra paśyan ca anyāḥ vara-striyaḥ . apakramya tadā vīraḥ pradhyātum upacakrame ..47..
स भूय सर्वतः श्रीमान् मारुतिर्यत्नमास्थितः।आपानभूमिमुत्सृज्य तां विचेतुं प्रचक्रमे॥४८॥
स सर्वतस् श्रीमान् मारुतिः यत्नम् आस्थितः।आपानभूमिम् उत्सृज्य ताम् विचेतुम् प्रचक्रमे॥४८॥
sa sarvatas śrīmān mārutiḥ yatnam āsthitaḥ.āpānabhūmim utsṛjya tām vicetum pracakrame..48..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In