This overlay will guide you through the buttons:

| |
|
विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः । हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे ॥ १॥
विमानात् तु सु सङ्क्रम्य प्राकारम् हरि-यूथपः । हनूमान् वेगवान् आसीत् यथा विद्युत्-घन-अन्तरे ॥ १॥
vimānāt tu su saṅkramya prākāram hari-yūthapaḥ . hanūmān vegavān āsīt yathā vidyut-ghana-antare .. 1..
सम्परिक्रम्य हनुमान्रावणस्य निवेशनान् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २॥
सम्परिक्रम्य हनुमान् रावणस्य । अ दृष्ट्वा जानकीम् सीताम् अब्रवीत् वचनम् कपिः ॥ २॥
samparikramya hanumān rāvaṇasya . a dṛṣṭvā jānakīm sītām abravīt vacanam kapiḥ .. 2..
भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३॥
भूयिष्ठम् लोडिता लङ्का रामस्य चरता प्रियम् । न हि पश्यामि वैदेहीम् सीताम् सर्व-अङ्ग-शोभनाम् ॥ ३॥
bhūyiṣṭham loḍitā laṅkā rāmasya caratā priyam . na hi paśyāmi vaidehīm sītām sarva-aṅga-śobhanām .. 3..
पल्वलानि तटाकानि सरांसि सरितस्तथा । नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः । लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ॥ ४॥
पल्वलानि तटाकानि सरांसि सरितः तथा । नद्यः अनूप-वनान्ताः च दुर्गाः च धरणीधराः । लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ॥ ४॥
palvalāni taṭākāni sarāṃsi saritaḥ tathā . nadyaḥ anūpa-vanāntāḥ ca durgāḥ ca dharaṇīdharāḥ . loḍitā vasudhā sarvā na ca paśyāmi jānakīm .. 4..
इह सम्पातिना सीता रावणस्य निवेशने । आख्याता गृध्रराजेन न च पश्यामि ताम् अहम् ॥ ५॥
इह सम्पातिना सीता रावणस्य निवेशने । आख्याता गृध्र-राजेन न च पश्यामि ताम् अहम् ॥ ५॥
iha sampātinā sītā rāvaṇasya niveśane . ākhyātā gṛdhra-rājena na ca paśyāmi tām aham .. 5..
किं नु सीताथ वैदेही मैथिली जनकात्मजा । उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ॥ ६॥
किम् नु सीता अथ वैदेही मैथिली जनकात्मजा । उपतिष्ठेत विवशा रावणम् दुष्ट-चारिणम् ॥ ६॥
kim nu sītā atha vaidehī maithilī janakātmajā . upatiṣṭheta vivaśā rāvaṇam duṣṭa-cāriṇam .. 6..
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः । बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ ७॥
क्षिप्रम् उत्पततः मन्ये सीताम् आदाय रक्षसः । बिभ्यतः राम-बाणानाम् अन्तरा पतिता भवेत् ॥ ७॥
kṣipram utpatataḥ manye sītām ādāya rakṣasaḥ . bibhyataḥ rāma-bāṇānām antarā patitā bhavet .. 7..
अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते । मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ ८॥
अथ वा ह्रियमाणायाः पथि सिद्ध-निषेविते । मन्ये पतितम् आर्यायाः हृदयम् प्रेक्ष्य सागरम् ॥ ८॥
atha vā hriyamāṇāyāḥ pathi siddha-niṣevite . manye patitam āryāyāḥ hṛdayam prekṣya sāgaram .. 8..
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च । तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ ९॥
रावणस्य ऊरु-वेगेन भुजाभ्याम् पीडितेन च । तया मन्ये विशाल-अक्ष्या त्यक्तम् जीवितम् आर्यया ॥ ९॥
rāvaṇasya ūru-vegena bhujābhyām pīḍitena ca . tayā manye viśāla-akṣyā tyaktam jīvitam āryayā .. 9..
उपर्युपरि वा नूनं सागरं क्रमतस्तदा । विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १०॥
उपरि उपरि वा नूनम् सागरम् क्रमतः तदा । विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ १०॥
upari upari vā nūnam sāgaram kramataḥ tadā . viveṣṭamānā patitā samudre janakātmajā .. 10..
आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः । अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११॥
आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः । अबन्धुः भक्षिता सीता रावणेन तपस्विनी ॥ ११॥
āho kṣudreṇa ca anena rakṣantī śīlam ātmanaḥ . abandhuḥ bhakṣitā sītā rāvaṇena tapasvinī .. 11..
अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा । अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ १२॥
अथ वा राक्षस-इन्द्रस्य पत्नीभिः असित-ईक्षणा । अदुष्टा दुष्ट-भावाभिः भक्षिता सा भविष्यति ॥ १२॥
atha vā rākṣasa-indrasya patnībhiḥ asita-īkṣaṇā . aduṣṭā duṣṭa-bhāvābhiḥ bhakṣitā sā bhaviṣyati .. 12..
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् । रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३॥
सम्पूर्ण-चन्द्र-प्रतिमम् पद्म-पत्र-निभ-ईक्षणम् । रामस्य ध्यायती वक्त्रम् पञ्चत्वम् कृपणा गता ॥ १३॥
sampūrṇa-candra-pratimam padma-patra-nibha-īkṣaṇam . rāmasya dhyāyatī vaktram pañcatvam kṛpaṇā gatā .. 13..
हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली । विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ १४॥
हा राम लक्ष्मण इति एव ह अयोध्या इति च मैथिली । विलप्य बहु वैदेही न्यस्त-देहा भविष्यति ॥ १४॥
hā rāma lakṣmaṇa iti eva ha ayodhyā iti ca maithilī . vilapya bahu vaidehī nyasta-dehā bhaviṣyati .. 14..
अथ वा निहिता मन्ये रावणस्य निवेशने । नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका ॥ १५॥
अथ वा निहिता मन्ये रावणस्य निवेशने । नूनम् लालप्यते मन्दम् पञ्जर-स्था इव शारिका ॥ १५॥
atha vā nihitā manye rāvaṇasya niveśane . nūnam lālapyate mandam pañjara-sthā iva śārikā .. 15..
जनकस्य कुले जाता रामपत्नी सुमध्यमा । कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ १६॥
जनकस्य कुले जाता राम-पत्नी सुमध्यमा । कथम् उत्पल-पत्र-अक्षी रावणस्य वशम् व्रजेत् ॥ १६॥
janakasya kule jātā rāma-patnī sumadhyamā . katham utpala-patra-akṣī rāvaṇasya vaśam vrajet .. 16..
विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा । रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ १७॥
विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा । रामस्य प्रिय-भार्यस्य न निवेदयितुम् क्षमम् ॥ १७॥
vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā . rāmasya priya-bhāryasya na nivedayitum kṣamam .. 17..
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने । कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८॥
निवेद्यमाने दोषः स्यात् दोषः स्यात् अनिवेदने । कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे ॥ १८॥
nivedyamāne doṣaḥ syāt doṣaḥ syāt anivedane . katham nu khalu kartavyam viṣamam pratibhāti me .. 18..
अस्मिन्नेवङ्गते कर्ये प्राप्तकालं क्षमं च किम् । भवेदिति मतिं भूयो हनुमान्प्रविचारयन् ॥ १९॥
अस्मिन् एवङ्गते कर्ये प्राप्त-कालम् क्षमम् च किम् । भवेत् इति मतिम् भूयस् हनुमान् प्रविचारयन् ॥ १९॥
asmin evaṅgate karye prāpta-kālam kṣamam ca kim . bhavet iti matim bhūyas hanumān pravicārayan .. 19..
यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः । गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २०॥
यदि सीताम् अ दृष्ट्वा अहम् वानर-इन्द्र-पुरीम् इतस् । गमिष्यामि ततस् कः मे पुरुष-अर्थः भविष्यति ॥ २०॥
yadi sītām a dṛṣṭvā aham vānara-indra-purīm itas . gamiṣyāmi tatas kaḥ me puruṣa-arthaḥ bhaviṣyati .. 20..
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति । प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम् ॥ २१॥
मम इदम् लङ्घनम् व्यर्थम् सागरस्य भविष्यति । प्रवेशः चिव लङ्कायाः राक्षसानाम् च दर्शनम् ॥ २१॥
mama idam laṅghanam vyartham sāgarasya bhaviṣyati . praveśaḥ civa laṅkāyāḥ rākṣasānām ca darśanam .. 21..
किं वा वक्ष्यति सुग्रीवो हरयो व समागताः । किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ ॥ २२॥
किम् वा वक्ष्यति सुग्रीवः हरयः समागताः । किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ-आत्मजौ ॥ २२॥
kim vā vakṣyati sugrīvaḥ harayaḥ samāgatāḥ . kiṣkindhām samanuprāptau tau vā daśaratha-ātmajau .. 22..
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् । न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् ॥ २३॥
गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम-प्रियम् । न दृष्टा इति मया सीता ततस् त्यक्ष्यन्ति जीवितम् ॥ २३॥
gatvā tu yadi kākutstham vakṣyāmi parama-priyam . na dṛṣṭā iti mayā sītā tatas tyakṣyanti jīvitam .. 23..
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् । सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ २४॥
परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय-तापनम् । सीता-निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति ॥ २४॥
paruṣam dāruṇam krūram tīkṣṇam indriya-tāpanam . sītā-nimittam durvākyam śrutvā sa na bhaviṣyati .. 24..
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं । भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ २५॥
तम् तु कृच्छ्र-गतम् दृष्ट्वा पञ्चत्व-गत-मानसम् । भृश-अनुरक्तः मेधावी न भविष्यति लक्ष्मणः ॥ २५॥
tam tu kṛcchra-gatam dṛṣṭvā pañcatva-gata-mānasam . bhṛśa-anuraktaḥ medhāvī na bhaviṣyati lakṣmaṇaḥ .. 25..
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति । भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ २६॥
विनष्टौ भ्रातरौ श्रुत्वा भरतः अपि मरिष्यति । भरतम् च मृतम् दृष्ट्वा शत्रुघ्नः न भविष्यति ॥ २६॥
vinaṣṭau bhrātarau śrutvā bharataḥ api mariṣyati . bharatam ca mṛtam dṛṣṭvā śatrughnaḥ na bhaviṣyati .. 26..
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः । कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७॥
पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः । कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७॥
putrān mṛtān samīkṣya atha na bhaviṣyanti mātaraḥ . kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ .. 27..
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः । रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् ॥ २८॥
कृतज्ञः सत्य-सन्धः च सुग्रीवः प्लवग-अधिपः । रामम् तथा गतम् दृष्ट्वा ततस् त्यक्ष्यन्ति जीवितम् ॥ २८॥
kṛtajñaḥ satya-sandhaḥ ca sugrīvaḥ plavaga-adhipaḥ . rāmam tathā gatam dṛṣṭvā tatas tyakṣyanti jīvitam .. 28..
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी । पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९॥
दुर्मनाः व्यथिता दीना निरानन्दा तपस्विनी । पीडिता भर्तृ-शोकेन रुमा त्यक्ष्यति जीवितम् ॥ २९॥
durmanāḥ vyathitā dīnā nirānandā tapasvinī . pīḍitā bhartṛ-śokena rumā tyakṣyati jīvitam .. 29..
वालिजेन तु दुःखेन पीडिता शोककर्शिता । पञ्चत्वगमने राज्ञस्तारापि न भविष्यति ॥ ३०॥
वालि-जेन तु दुःखेन पीडिता शोक-कर्शिता । पञ्चत्व-गमने राज्ञः तारा अपि न भविष्यति ॥ ३०॥
vāli-jena tu duḥkhena pīḍitā śoka-karśitā . pañcatva-gamane rājñaḥ tārā api na bhaviṣyati .. 30..
मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च । कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम् ॥ ३१॥
माता-पित्रोः विनाशेन सुग्रीव व्यसनेन च । कुमारः अपि अङ्गदः कस्मात् धारयिष्यति जीवितम् ॥ ३१॥
mātā-pitroḥ vināśena sugrīva vyasanena ca . kumāraḥ api aṅgadaḥ kasmāt dhārayiṣyati jīvitam .. 31..
भर्तृजेन तु शोकेन अभिभूता वनौकसः । शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२॥
भर्तृ-जेन तु शोकेन अभिभूताः वनौकसः । शिरांसि अभिहनिष्यन्ति तलैः मुष्टिभिः एव च ॥ ३२॥
bhartṛ-jena tu śokena abhibhūtāḥ vanaukasaḥ . śirāṃsi abhihaniṣyanti talaiḥ muṣṭibhiḥ eva ca .. 32..
सान्त्वेनानुप्रदानेन मानेन च यशस्विना । लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३॥
सान्त्वेन अनुप्रदानेन मानेन च यशस्विना । लालिताः कपि-राजेन प्राणान् त्यक्ष्यन्ति वानराः ॥ ३३॥
sāntvena anupradānena mānena ca yaśasvinā . lālitāḥ kapi-rājena prāṇān tyakṣyanti vānarāḥ .. 33..
न वनेषु न शैलेषु न निरोधेषु वा पुनः । क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४॥
न वनेषु न शैलेषु न निरोधेषु वा पुनर् । क्रीडाम् अनुभविष्यन्ति समेत्य कपि-कुञ्जराः ॥ ३४॥
na vaneṣu na śaileṣu na nirodheṣu vā punar . krīḍām anubhaviṣyanti sametya kapi-kuñjarāḥ .. 34..
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः । शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ३५॥
स पुत्र-दाराः स अमात्याः भर्तृ-व्यसन-पीडिताः । शैल-अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ ३५॥
sa putra-dārāḥ sa amātyāḥ bhartṛ-vyasana-pīḍitāḥ . śaila-agrebhyaḥ patiṣyanti sametya viṣameṣu ca .. 35..
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा । उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः ॥ ३६॥
विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा । उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः ॥ ३६॥
viṣam udbandhanam vā api praveśam jvalanasya vā . upavāsam atho śastram pracariṣyanti vānarāḥ .. 36..
घोरमारोदनं मन्ये गते मयि भविष्यति । इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७॥
घोरम् आरोदनम् मन्ये गते मयि भविष्यति । इक्ष्वाकु-कुल-नाशः च नाशः च एव वनौकसाम् ॥ ३७॥
ghoram ārodanam manye gate mayi bhaviṣyati . ikṣvāku-kula-nāśaḥ ca nāśaḥ ca eva vanaukasām .. 37..
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः । न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८॥
सः अहम् ना एव गमिष्यामि किष्किन्धाम् नगरीम् इतस् । न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना ॥ ३८॥
saḥ aham nā eva gamiṣyāmi kiṣkindhām nagarīm itas . na hi śakṣyāmi aham draṣṭum sugrīvam maithilīm vinā .. 38..
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ । आशया तौ धरिष्येते वनराश्च मनस्विनः ॥ ३९॥
मयि अगच्छति च इहस्थे धर्म-आत्मानौ महा-रथौ । आशया तौ धरिष्येते वनराः च मनस्विनः ॥ ३९॥
mayi agacchati ca ihasthe dharma-ātmānau mahā-rathau . āśayā tau dhariṣyete vanarāḥ ca manasvinaḥ .. 39..
हस्तादानो मुखादानो नियतो वृक्षमूलिकः । वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम् ॥ ४०॥
हस्त-आदानः मुख-आदानः नियतः वृक्षमूलिकः । वानप्रस्थः भविष्यामि अ दृष्ट्वा जनकात्मजाम् ॥ ४०॥
hasta-ādānaḥ mukha-ādānaḥ niyataḥ vṛkṣamūlikaḥ . vānaprasthaḥ bhaviṣyāmi a dṛṣṭvā janakātmajām .. 40..
सागरानूपजे देशे बहुमूलफलोदके । चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ ४१॥
सागर-अनूप-जे देशे बहु-मूल-फल-उदके । चिताम् कृत्वा प्रवेक्ष्यामि समिद्धमरणी-सुतम् ॥ ४१॥
sāgara-anūpa-je deśe bahu-mūla-phala-udake . citām kṛtvā pravekṣyāmi samiddhamaraṇī-sutam .. 41..
उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः । शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२॥
उपविष्टस्य वा सम्यक् लिङ्गिनम् साधयिष्यतः । शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ ४२॥
upaviṣṭasya vā samyak liṅginam sādhayiṣyataḥ . śarīram bhakṣayiṣyanti vāyasāḥ śvāpadāni ca .. 42..
इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः । सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ ४३॥
इदम् अपि ऋषिभिः दृष्टम् निर्याणम् इति मे मतिः । सम्यक् अपः प्रवेक्ष्यामि न चेद् पश्यामि जानकीम् ॥ ४३॥
idam api ṛṣibhiḥ dṛṣṭam niryāṇam iti me matiḥ . samyak apaḥ pravekṣyāmi na ced paśyāmi jānakīm .. 43..
सुजातमूला सुभगा कीर्तिमालायशस्विनी । प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ ४४॥
सुजात-मूला सुभगा कीर्ति-माला-यशस्विनी । प्रभग्ना चिर-रात्री इयम् मम सीताम् अपश्यतः ॥ ४४॥
sujāta-mūlā subhagā kīrti-mālā-yaśasvinī . prabhagnā cira-rātrī iyam mama sītām apaśyataḥ .. 44..
तापसो वा भविष्यामि नियतो वृक्षमूलिकः । नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ॥ ४५॥
तापसः वा भविष्यामि नियतः वृक्षमूलिकः । न इतस् प्रतिगमिष्यामि ताम् अ दृष्ट्वा असित-ईक्षणाम् ॥ ४५॥
tāpasaḥ vā bhaviṣyāmi niyataḥ vṛkṣamūlikaḥ . na itas pratigamiṣyāmi tām a dṛṣṭvā asita-īkṣaṇām .. 45..
यदी तु प्रतिगच्छामि सीतामनधिगम्य ताम् । अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति ॥ ४६॥
यदी तु प्रतिगच्छामि सीताम् अन् अधिगम्य ताम् । अङ्गदः सहितैः सर्वैः वानरैः न भविष्यति ॥ ४६॥
yadī tu pratigacchāmi sītām an adhigamya tām . aṅgadaḥ sahitaiḥ sarvaiḥ vānaraiḥ na bhaviṣyati .. 46..
विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम् । तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति सङ्गमः ॥ ४७॥
विनाशे बहवः दोषाः जीवन् प्राप्नोति भद्रकम् । तस्मात् प्राणान् धरिष्यामि ध्रुवः जीवति सङ्गमः ॥ ४७॥
vināśe bahavaḥ doṣāḥ jīvan prāpnoti bhadrakam . tasmāt prāṇān dhariṣyāmi dhruvaḥ jīvati saṅgamaḥ .. 47..
एवं बहुविधं दुःखं मनसा धारयन्मुहुः । नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ ४८॥
एवम् बहुविधम् दुःखम् मनसा धारयन् मुहुर् । न अध्यगच्छत् तदा पारम् शोकस्य कपि-कुञ्जरः ॥ ४८॥
evam bahuvidham duḥkham manasā dhārayan muhur . na adhyagacchat tadā pāram śokasya kapi-kuñjaraḥ .. 48..
रावणं वा वधिष्यामि दशग्रीवं महाबलम् । काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ ४९॥
रावणम् वा वधिष्यामि दशग्रीवम् महा-बलम् । कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति ॥ ४९॥
rāvaṇam vā vadhiṣyāmi daśagrīvam mahā-balam . kāmam astu hṛtā sītā pratyācīrṇam bhaviṣyati .. 49..
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् । रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ ५०॥
अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् । रामाय उपहरिष्यामि पशुम् पशुपतेः इव ॥ ५०॥
athavā enam samutkṣipya upari upari sāgaram . rāmāya upahariṣyāmi paśum paśupateḥ iva .. 50..
इति चिन्ता समापन्नः सीतामनधिगम्य ताम् । ध्यानशोका परीतात्मा चिन्तयामास वानरः ॥ ५१॥
इति चिन्ता समापन्नः सीताम् अन् अधिगम्य ताम् । ध्यान-शोका परीत-आत्मा चिन्तयामास वानरः ॥ ५१॥
iti cintā samāpannaḥ sītām an adhigamya tām . dhyāna-śokā parīta-ātmā cintayāmāsa vānaraḥ .. 51..
यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् । तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ ५२॥
यावत् सीताम् न पश्यामि राम-पत्नीम् यशस्विनीम् । तावत् एताम् पुरीम् लङ्काम् विचिनोमि पुनर् पुनर् ॥ ५२॥
yāvat sītām na paśyāmi rāma-patnīm yaśasvinīm . tāvat etām purīm laṅkām vicinomi punar punar .. 52..
सम्पाति वचनाच्चापि रामं यद्यानयाम्यहम् । अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान् ॥ ५३॥
सम्पाति वचनात् च अपि रामम् यदि आनयामि अहम् । अपश्यान् राघवः भार्याम् निर्दहेत् सर्व-वानरान् ॥ ५३॥
sampāti vacanāt ca api rāmam yadi ānayāmi aham . apaśyān rāghavaḥ bhāryām nirdahet sarva-vānarān .. 53..
इहैव नियताहारो वत्स्यामि नियतेन्द्रियः । न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ ५४॥
इह एव नियत-आहारः वत्स्यामि नियत-इन्द्रियः । न मद्-कृते विनश्येयुः सर्वे ते नर-वानराः ॥ ५४॥
iha eva niyata-āhāraḥ vatsyāmi niyata-indriyaḥ . na mad-kṛte vinaśyeyuḥ sarve te nara-vānarāḥ .. 54..
अशोकवनिका चापि महतीयं महाद्रुमा । इमामभिगमिष्यामि न हीयं विचिता मया ॥ ५५॥
अशोक-वनिका च अपि महती इयम् महा-द्रुमा । इमाम् अभिगमिष्यामि न हि इयम् विचिता मया ॥ ५५॥
aśoka-vanikā ca api mahatī iyam mahā-drumā . imām abhigamiṣyāmi na hi iyam vicitā mayā .. 55..
वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च । नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ ५६॥
वसून् रुद्रान् तथा आदित्यान् अश्विनौ मरुतः अपि च । नमस्कृत्वा गमिष्यामि रक्षसाम् शोक-वर्धनः ॥ ५६॥
vasūn rudrān tathā ādityān aśvinau marutaḥ api ca . namaskṛtvā gamiṣyāmi rakṣasām śoka-vardhanaḥ .. 56..
जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम् । सम्प्रदास्यामि रामाया यथासिद्धिं तपस्विने ॥ ५७॥
जित्वा तु राक्षसान् देवीम् इक्ष्वाकु-कुल-नन्दिनीम् । सम्प्रदास्यामि रामायाः यथा सिद्धिम् तपस्विने ॥ ५७॥
jitvā tu rākṣasān devīm ikṣvāku-kula-nandinīm . sampradāsyāmi rāmāyāḥ yathā siddhim tapasvine .. 57..
स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः । उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः ॥ ५८॥
स मुहूर्तम् इव ध्यात्वा चिन्ता-विग्रथित-इन्द्रियः । उदतिष्ठत् महा-बाहुः हनूमान् मारुतात्मजः ॥ ५८॥
sa muhūrtam iva dhyātvā cintā-vigrathita-indriyaḥ . udatiṣṭhat mahā-bāhuḥ hanūmān mārutātmajaḥ .. 58..
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ ५९॥
नमः अस्तु रामाय स लक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमः अस्तु रुद्र-इन्द्र-यम-अनिलेभ्यः नमः अस्तु चन्द्र-अर्क-मरुत्-गणेभ्यः ॥ ५९॥
namaḥ astu rāmāya sa lakṣmaṇāya devyai ca tasyai janakātmajāyai . namaḥ astu rudra-indra-yama-anilebhyaḥ namaḥ astu candra-arka-marut-gaṇebhyaḥ .. 59..
स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः । दिशः सर्वाः समालोक्य अशोकवनिकां प्रति ॥ ६०॥
स तेभ्यः तु नमस्कृत्वा सुग्रीवाय च मारुतिः । दिशः सर्वाः समालोक्य अशोक-वनिकाम् प्रति ॥ ६०॥
sa tebhyaḥ tu namaskṛtvā sugrīvāya ca mārutiḥ . diśaḥ sarvāḥ samālokya aśoka-vanikām prati .. 60..
स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् । उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ ६१॥
स गत्वा मनसा पूर्वम् अशोक-वनिकाम् शुभाम् । उत्तरम् चिन्तयामास वानरः मारुतात्मजः ॥ ६१॥
sa gatvā manasā pūrvam aśoka-vanikām śubhām . uttaram cintayāmāsa vānaraḥ mārutātmajaḥ .. 61..
ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला । अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ ६२॥
ध्रुवम् तु रक्षः-बहुला भविष्यति वन-आकुला । अशोक-वनिका चिन्त्या सर्व-संस्कार-संस्कृता ॥ ६२॥
dhruvam tu rakṣaḥ-bahulā bhaviṣyati vana-ākulā . aśoka-vanikā cintyā sarva-saṃskāra-saṃskṛtā .. 62..
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान् । भगवानपि सर्वात्मा नातिक्षोभं प्रवायति ॥ ६३॥
रक्षिणः च अत्र विहिताः नूनम् रक्षन्ति पादपान् । भगवान् अपि सर्व-आत्मा न अतिक्षोभम् प्रवायति ॥ ६३॥
rakṣiṇaḥ ca atra vihitāḥ nūnam rakṣanti pādapān . bhagavān api sarva-ātmā na atikṣobham pravāyati .. 63..
सङ्क्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च । सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ ६४॥
सङ्क्षिप्तः अयम् मया आत्मा च राम-अर्थे रावणस्य च । सिद्धिम् मे संविधास्यन्ति देवाः स ऋषि-गणाः तु इह ॥ ६४॥
saṅkṣiptaḥ ayam mayā ātmā ca rāma-arthe rāvaṇasya ca . siddhim me saṃvidhāsyanti devāḥ sa ṛṣi-gaṇāḥ tu iha .. 64..
ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे । सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत् ॥ ६५॥
ब्रह्मा स्वयम्भूः भगवान् देवाः च एव दिशन्तु मे । सिद्धिम् अग्निः च वायुः च पुरुहूतः च वज्र-धृत् ॥ ६५॥
brahmā svayambhūḥ bhagavān devāḥ ca eva diśantu me . siddhim agniḥ ca vāyuḥ ca puruhūtaḥ ca vajra-dhṛt .. 65..
वरुणः पाशहस्तश्च सोमादित्यै तथैव च । अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥ ६६॥
वरुणः पाश-हस्तः च सोम-अदित्यै तथा एव च । अश्विनौ च महात्मानौ मरुतः सर्वे एव च ॥ ६६॥
varuṇaḥ pāśa-hastaḥ ca soma-adityai tathā eva ca . aśvinau ca mahātmānau marutaḥ sarve eva ca .. 66..
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः । दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः ॥ ६७॥
सिद्धिम् सर्वाणि भूतानि भूतानाम् च एव यः प्रभुः । दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥ ६७॥
siddhim sarvāṇi bhūtāni bhūtānām ca eva yaḥ prabhuḥ . dāsyanti mama ye ca anye adṛṣṭāḥ pathi gocarāḥ .. 67..
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम् । द्रक्ष्ये तदार्यावदनं कदा न्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ ६८॥
तत् उन्नसम् पाण्डुर-दन्तम् अव्रणम् शुचि-स्मितम् पद्म-पलाश-लोचनम् । द्रक्ष्ये तदा आर्या-वदनम् कदा नु अहम् प्रसन्न-ताराधिप-तुल्य-दर्शनम् ॥ ६८॥
tat unnasam pāṇḍura-dantam avraṇam śuci-smitam padma-palāśa-locanam . drakṣye tadā āryā-vadanam kadā nu aham prasanna-tārādhipa-tulya-darśanam .. 68..
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालाङ्कृतवेषधारिणा । बलाभिभूता अबला तपस्विनी कथं नु मे दृष्टपथेऽद्य सा भवेत् ॥ ६९॥
क्षुद्रेण पापेन नृशंस-कर्मणा सु दारुण-अलाङ्कृत-वेष-धारिणा । बल-अभिभूता अबला तपस्विनी कथम् नु मे दृष्ट-पथे अद्य सा भवेत् ॥ ६९॥
kṣudreṇa pāpena nṛśaṃsa-karmaṇā su dāruṇa-alāṅkṛta-veṣa-dhāriṇā . bala-abhibhūtā abalā tapasvinī katham nu me dṛṣṭa-pathe adya sā bhavet .. 69..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In