This overlay will guide you through the buttons:

| |
|
स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ १॥
स मुहूर्तम् इव ध्य-त्वा मनसा च अधिगम्य ताम् । अवप्लुतः महा-तेजाः प्राकारम् तस्य वेश्मनः ॥ १॥
sa muhūrtam iva dhya-tvā manasā ca adhigamya tām . avaplutaḥ mahā-tejāḥ prākāram tasya veśmanaḥ .. 1..
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः । पुष्पिताग्रान्वसन्तादौ ददर्श विविधान्द्रुमान् ॥ २॥
स तु संहृष्ट-सर्व-अङ्गः प्राकार-स्थः महा-कपिः । पुष्पित-अग्रान् वसन्त-आदौ ददर्श विविधान् द्रुमान् ॥ २॥
sa tu saṃhṛṣṭa-sarva-aṅgaḥ prākāra-sthaḥ mahā-kapiḥ . puṣpita-agrān vasanta-ādau dadarśa vividhān drumān .. 2..
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ ३॥
सालान् अशोकान् भव्यान् च चम्पकान् च सु पुष्पितान् । उद्दालकान् नागवृक्षान् चूतान् कपि-मुखान् अपि ॥ ३॥
sālān aśokān bhavyān ca campakān ca su puṣpitān . uddālakān nāgavṛkṣān cūtān kapi-mukhān api .. 3..
अथाम्रवणसञ्चन्नां लताशतसमावृताम् । ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ ४॥
अथ आम्रवण-सञ्चन्नाम् लता-शत-समावृताम् । ज्या-मुक्तः इव नाराचः पुप्लुवे वृक्ष-वाटिकाम् ॥ ४॥
atha āmravaṇa-sañcannām latā-śata-samāvṛtām . jyā-muktaḥ iva nārācaḥ pupluve vṛkṣa-vāṭikām .. 4..
स प्रविष्य विचित्रां तां विहगैरभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम् ॥ ५॥
स प्रविष्य विचित्राम् ताम् विहगैः अभिनादिताम् । राजतैः काञ्चनैः च एव पादपैः सर्वतस् वृताम् ॥ ५॥
sa praviṣya vicitrām tām vihagaiḥ abhināditām . rājataiḥ kāñcanaiḥ ca eva pādapaiḥ sarvatas vṛtām .. 5..
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । उदितादित्यसङ्काशां ददर्श हनुमान्कपिः ॥ ६॥
विहगैः मृग-सङ्घैः च विचित्राम् चित्र-काननाम् । उदित-आदित्य-सङ्काशाम् ददर्श हनुमान् कपिः ॥ ६॥
vihagaiḥ mṛga-saṅghaiḥ ca vicitrām citra-kānanām . udita-āditya-saṅkāśām dadarśa hanumān kapiḥ .. 6..
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः । कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ ७॥
वृताम् नानाविधैः वृक्षैः पुष्प-उपग-फल-उपगैः । कोकिलैः भृङ्गराजैः च मत्तैः नित्य-निषेविताम् ॥ ७॥
vṛtām nānāvidhaiḥ vṛkṣaiḥ puṣpa-upaga-phala-upagaiḥ . kokilaiḥ bhṛṅgarājaiḥ ca mattaiḥ nitya-niṣevitām .. 7..
प्रहृष्टमनुजे कले मृगपक्षिसमाकुले । मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥ ८॥
प्रहृष्ट-मनुजे कले मृग-पक्षि-समाकुले । मत्त-बर्हिण-सङ्घुष्टाम् नाना द्विज-गण-आयुताम् ॥ ८॥
prahṛṣṭa-manuje kale mṛga-pakṣi-samākule . matta-barhiṇa-saṅghuṣṭām nānā dvija-gaṇa-āyutām .. 8..
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान्विहगान्बोधयामास वानरः ॥ ९॥
मार्गमाणः वरारोहाम् राज-पुत्रीम् अनिन्दिताम् । सुख-प्रसुप्तान् विहगान् बोधयामास वानरः ॥ ९॥
mārgamāṇaḥ varārohām rāja-putrīm aninditām . sukha-prasuptān vihagān bodhayāmāsa vānaraḥ .. 9..
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः । अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ १०॥
उत्पतद्भिः द्विज-गणैः पक्षैः सालाः समाहताः । अनेक-वर्णाः विविधाः मुमुचुः पुष्प-वृष्टयः ॥ १०॥
utpatadbhiḥ dvija-gaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ . aneka-varṇāḥ vividhāḥ mumucuḥ puṣpa-vṛṣṭayaḥ .. 10..
पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः । अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ ११॥
पुष्प-अवकीर्णः शुशुभे हनुमान् मारुतात्मजः । अशोक-वनिका-मध्ये यथा पुष्प-मयः गिरिः ॥ ११॥
puṣpa-avakīrṇaḥ śuśubhe hanumān mārutātmajaḥ . aśoka-vanikā-madhye yathā puṣpa-mayaḥ giriḥ .. 11..
दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ १२॥
दिशः वृक्ष-षण्ड-गतम् कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्तः इति मेनिरे ॥ १२॥
diśaḥ vṛkṣa-ṣaṇḍa-gatam kapim . dṛṣṭvā sarvāṇi bhūtāni vasantaḥ iti menire .. 12..
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः । रराज वसुधा तत्र प्रमदेव विभूषिता ॥ १३॥
वृक्षेभ्यः पतितैः पुष्पैः अवकीर्णा पृथग्विधैः । रराज वसुधा तत्र प्रमदा इव विभूषिता ॥ १३॥
vṛkṣebhyaḥ patitaiḥ puṣpaiḥ avakīrṇā pṛthagvidhaiḥ . rarāja vasudhā tatra pramadā iva vibhūṣitā .. 13..
तरस्विना ते तरवस्तरसाभिप्रकम्पिताः । कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ १४॥
तरस्विना ते तरवः तरसा अभिप्रकम्पिताः । कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ १४॥
tarasvinā te taravaḥ tarasā abhiprakampitāḥ . kusumāni vicitrāṇi sasṛjuḥ kapinā tadā .. 14..
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः । निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ १५॥
निर्धूत-पत्र-शिखराः शीर्ण-पुष्प-फल-द्रुमाः । निक्षिप्त-वस्त्र-आभरणाः धूर्ताः इव पराजिताः ॥ १५॥
nirdhūta-patra-śikharāḥ śīrṇa-puṣpa-phala-drumāḥ . nikṣipta-vastra-ābharaṇāḥ dhūrtāḥ iva parājitāḥ .. 15..
हनूमता वेगवता कम्पितास्ते नगोत्तमाः । पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ १६॥
हनूमता वेगवता कम्पिताः ते नग-उत्तमाः । पुष्प-पर्ण-फलानि आशु मुमुचुः पुष्प-शालिनः ॥ १६॥
hanūmatā vegavatā kampitāḥ te naga-uttamāḥ . puṣpa-parṇa-phalāni āśu mumucuḥ puṣpa-śālinaḥ .. 16..
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः । बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ १७॥
विहङ्ग-सङ्घैः हीनाः ते स्कन्ध-मात्र-आश्रयाः द्रुमाः । बभूवुः अगमाः सर्वे मारुतेन इव निर्धुताः ॥ १७॥
vihaṅga-saṅghaiḥ hīnāḥ te skandha-mātra-āśrayāḥ drumāḥ . babhūvuḥ agamāḥ sarve mārutena iva nirdhutāḥ .. 17..
विधूतकेशी युवतिर्यथा मृदितवर्णिका । निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता ॥ १८॥
विधूत-केशी युवतिः यथा मृदित-वर्णिका । निष्पीत-शुभ-दन्त-ओष्ठी नखैः दन्तैः च विक्षता ॥ १८॥
vidhūta-keśī yuvatiḥ yathā mṛdita-varṇikā . niṣpīta-śubha-danta-oṣṭhī nakhaiḥ dantaiḥ ca vikṣatā .. 18..
तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता । बभूवाशोकवनिका प्रभग्नवरपादपा ॥ १९॥
तथा लाङ्गूल-हस्तैः च चरणाभ्याम् च मर्दिता । बभूव अशोक-वनिका प्रभग्न-वर-पादपा ॥ १९॥
tathā lāṅgūla-hastaiḥ ca caraṇābhyām ca marditā . babhūva aśoka-vanikā prabhagna-vara-pādapā .. 19..
महालतानां दामानि व्यधमत्तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ २०॥
महा-लतानाम् दामानि व्यधमत् तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघ-जालानि मारुतः ॥ २०॥
mahā-latānām dāmāni vyadhamat tarasā kapiḥ . yathā prāvṛṣi vindhyasya megha-jālāni mārutaḥ .. 20..
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः । तथा काञ्चनभूमीश्च विचरन्ददृशे कपिः ॥ २१॥
स तत्र मणि-भूमीः च राजतीः च मनोरमाः । तथा काञ्चन-भूमीः च विचरन् ददृशे कपिः ॥ २१॥
sa tatra maṇi-bhūmīḥ ca rājatīḥ ca manoramāḥ . tathā kāñcana-bhūmīḥ ca vicaran dadṛśe kapiḥ .. 21..
वापीश्च विविधाकाराः पूर्णाः परमवारिणा । महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ २२॥
वापीः च विविध-आकाराः पूर्णाः परम-वारिणा । महार्हैः मणि-सोपानैः उपपन्नाः ततस् ततस् ॥ २२॥
vāpīḥ ca vividha-ākārāḥ pūrṇāḥ parama-vāriṇā . mahārhaiḥ maṇi-sopānaiḥ upapannāḥ tatas tatas .. 22..
मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः । काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ २३॥
मुक्ता-प्रवाल-सिकता स्फटिक-अन्तर-कुट्टिमाः । काञ्चनैः तरुभिः चित्रैः तीरजैः उपशोभिताः ॥ २३॥
muktā-pravāla-sikatā sphaṭika-antara-kuṭṭimāḥ . kāñcanaiḥ tarubhiḥ citraiḥ tīrajaiḥ upaśobhitāḥ .. 23..
बुध्दपद्मोत्पलवनाश्चक्रवाकोपकूजिताः । नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ॥ २४॥
बुध्द-पद्म-उत्पल-वनाः चक्रवाक-उपकूजिताः । नत्यूह-रुत-सङ्घुष्टाः हंस-सारस-नादिताः ॥ २४॥
budhda-padma-utpala-vanāḥ cakravāka-upakūjitāḥ . natyūha-ruta-saṅghuṣṭāḥ haṃsa-sārasa-nāditāḥ .. 24..
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः । अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ २५॥
दीर्घाभिः द्रुम-युक्ताभिः सरिद्भिः च समन्ततः । अमृत-उपम-तोयाभिः शिवाभिः उपसंस्कृताः ॥ २५॥
dīrghābhiḥ druma-yuktābhiḥ saridbhiḥ ca samantataḥ . amṛta-upama-toyābhiḥ śivābhiḥ upasaṃskṛtāḥ .. 25..
लताशतैरवतताः सन्तानकसमावृताः । नानागुल्मावृतवनाः करवीरकृतान्तराः ॥ २६॥
लता-शतैः अवतताः सन्तानक-समावृताः । नाना गुल्म-आवृत-वनाः करवीर-कृत-आन्तराः ॥ २६॥
latā-śataiḥ avatatāḥ santānaka-samāvṛtāḥ . nānā gulma-āvṛta-vanāḥ karavīra-kṛta-āntarāḥ .. 26..
ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् । विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ २७॥
ततस् अम्बुधर-सङ्काशम् प्रवृद्ध-शिखरम् गिरिम् । विचित्र-कूटम् कूटैः च सर्वतस् परिवारितम् ॥ २७॥
tatas ambudhara-saṅkāśam pravṛddha-śikharam girim . vicitra-kūṭam kūṭaiḥ ca sarvatas parivāritam .. 27..
शिलागृहैरवततं नानावृक्षैः समावृतम् । ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥ २८॥
शिलागृहैः अवततम् नाना वृक्षैः समावृतम् । ददर्श कपि-शार्दूलः रम्यम् जगति पर्वतम् ॥ २८॥
śilāgṛhaiḥ avatatam nānā vṛkṣaiḥ samāvṛtam . dadarśa kapi-śārdūlaḥ ramyam jagati parvatam .. 28..
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः । अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९॥
ददर्श च नगात् तस्मात् नदीम् निपतिताम् कपिः । अङ्कात् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥ २९॥
dadarśa ca nagāt tasmāt nadīm nipatitām kapiḥ . aṅkāt iva samutpatya priyasya patitām priyām .. 29..
जले निपतिताग्रैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ ३०॥
जले निपतित-अग्रैः च पादपैः उपशोभिताम् । वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय-बन्धुभिः ॥ ३०॥
jale nipatita-agraiḥ ca pādapaiḥ upaśobhitām . vāryamāṇām iva kruddhām pramadām priya-bandhubhiḥ .. 30..
पुनरावृत्ततोयां च ददर्श स महाकपिः । प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ ३१॥
पुनर् आवृत्त-तोयाम् च ददर्श स महा-कपिः । प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥ ३१॥
punar āvṛtta-toyām ca dadarśa sa mahā-kapiḥ . prasannām iva kāntasya kāntām punar upasthitām .. 31..
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः । ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः ॥ ३२॥
तस्य अदूरात् स पद्मिन्यः नाना द्विज-गण-आयुताः । ददर्श कपि-शार्दूलः हनुमान् मारुतात्मजः ॥ ३२॥
tasya adūrāt sa padminyaḥ nānā dvija-gaṇa-āyutāḥ . dadarśa kapi-śārdūlaḥ hanumān mārutātmajaḥ .. 32..
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा । मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ ३३॥
कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा । मणि-प्रवर-सोपानाम् मुक्ता-सिकत-शोभिताम् ॥ ३३॥
kṛtrimām dīrghikām ca api pūrṇām śītena vāriṇā . maṇi-pravara-sopānām muktā-sikata-śobhitām .. 33..
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥३४॥
विविधैः मृग-सङ्घैः च विचित्राम् चित्र-काननाम् । प्रासादैः सु महद्भिः च निर्मितैः विश्वकर्मणा ॥३४॥
vividhaiḥ mṛga-saṅghaiḥ ca vicitrām citra-kānanām . prāsādaiḥ su mahadbhiḥ ca nirmitaiḥ viśvakarmaṇā ..34..
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ।ये के चित्पादपास्तत्र पुष्पोपगफलोपगाः ॥३५॥
काननैः कृत्रिमैः च अपि सर्वतस् समलङ्कृताम् ।ये के चित् पादपाः तत्र पुष्प-उपग-फल-उपगाः ॥३५॥
kānanaiḥ kṛtrimaiḥ ca api sarvatas samalaṅkṛtām .ye ke cit pādapāḥ tatra puṣpa-upaga-phala-upagāḥ ..35..
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ।लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥३६॥
स छत्राः सवितर्दीकाः सर्वे सौवर्ण-वेदिकाः ।लता-प्रतानैः बहुभिः पर्णैः च बहुभिः वृताम् ॥३६॥
sa chatrāḥ savitardīkāḥ sarve sauvarṇa-vedikāḥ .latā-pratānaiḥ bahubhiḥ parṇaiḥ ca bahubhiḥ vṛtām ..36..
काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः ।वृतां हेममयीभिस्तु वेदिकाभिस्समन्ततः॥३७॥
काञ्चनीम् शिंशुपाम् एकाम् ददर्श स महा-कपिः ।वृताम् हेम-मयीभिः तु वेदिकाभिः समन्ततः॥३७॥
kāñcanīm śiṃśupām ekām dadarśa sa mahā-kapiḥ .vṛtām hema-mayībhiḥ tu vedikābhiḥ samantataḥ..37..
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च । सुवर्णवृक्षानपरान्ददर्श शिखिसंनिभान् ॥३८॥
सः अपश्यत् भूमि-भागान् च गर्त-प्रस्रवणानि च । सुवर्ण-वृक्षान् अपरान् ददर्श शिखि-संनिभान् ॥३८॥
saḥ apaśyat bhūmi-bhāgān ca garta-prasravaṇāni ca . suvarṇa-vṛkṣān aparān dadarśa śikhi-saṃnibhān ..38..
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः । अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥३९॥
तेषाम् द्रुमाणाम् प्रभया मेरोः इव महा-कपिः । अमन्यत तदा वीरः काञ्चनः अस्मि इति वानरः ॥३९॥
teṣām drumāṇām prabhayā meroḥ iva mahā-kapiḥ . amanyata tadā vīraḥ kāñcanaḥ asmi iti vānaraḥ ..39..
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम् । किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥४०॥
ताम् काञ्चनैः तरु-गणैः मारुतेन च वीजिताम् । किङ्किणी-शत-निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥४०॥
tām kāñcanaiḥ taru-gaṇaiḥ mārutena ca vījitām . kiṅkiṇī-śata-nirghoṣām dṛṣṭvā vismayam āgamat ..40..
सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम् । तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥४१॥
सु पुष्पित-अग्राम् रुचिराम् तरुण-अङ्कुर-पल्लवाम् । ताम् आरुह्य महा-वेगः शिंशपाम् पर्ण-संवृताम् ॥४१॥
su puṣpita-agrām rucirām taruṇa-aṅkura-pallavām . tām āruhya mahā-vegaḥ śiṃśapām parṇa-saṃvṛtām ..41..
इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम् । इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥४२॥
इतस् द्रक्ष्यामि वैदेहीम् राम दर्शन-लालसाम् । इतस् च इतस् च दुःख-आर्ताम् सम्पतन्तीम् यदृच्छया ॥४२॥
itas drakṣyāmi vaidehīm rāma darśana-lālasām . itas ca itas ca duḥkha-ārtām sampatantīm yadṛcchayā ..42..
अशोकवनिका चेयं दृढं रम्या दुरात्मनः । चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता ॥४३॥
अशोक-वनिका च इयम् दृढम् रम्या दुरात्मनः । चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥४३॥
aśoka-vanikā ca iyam dṛḍham ramyā durātmanaḥ . campakaiḥ candanaiḥ ca api bakulaiḥ ca vibhūṣitā ..43..
इयं च नलिनी रम्या द्विजसङ्घनिषेविता । इमां सा राममहिषी नूनमेष्यति जानकी ॥४४॥
इयम् च नलिनी रम्या द्विज-सङ्घ-निषेविता । इमाम् सा राम-महिषी नूनम् एष्यति जानकी ॥४४॥
iyam ca nalinī ramyā dvija-saṅgha-niṣevitā . imām sā rāma-mahiṣī nūnam eṣyati jānakī ..44..
सा राम राममहिषी राघवस्य प्रिया सदा । वनसञ्चारकुशला नूनमेष्यति जानकी ॥४५॥
सा राम राम-महिषी राघवस्य प्रिया सदा । वन-सञ्चार-कुशला नूनम् एष्यति जानकी ॥४५॥
sā rāma rāma-mahiṣī rāghavasya priyā sadā . vana-sañcāra-kuśalā nūnam eṣyati jānakī ..45..
अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा । वनमेष्यति सा चेह रामचिन्तानुकर्शिता ॥४६॥
अथ वा मृगशावाक्षी वनस्य अस्य विचक्षणा । वनम् एष्यति सा च इह राम-चिन्ता-अनुकर्शिता ॥४६॥
atha vā mṛgaśāvākṣī vanasya asya vicakṣaṇā . vanam eṣyati sā ca iha rāma-cintā-anukarśitā ..46..
रामशोकाभिसन्तप्ता सा देवी वामलोचना । वनवासरता नित्यमेष्यते वनचारिणी ॥४७॥
राम-शोक-अभिसन्तप्ता सा देवी वाम-लोचना । वन-वास-रता नित्यम् एष्यते वन-चारिणी ॥४७॥
rāma-śoka-abhisantaptā sā devī vāma-locanā . vana-vāsa-ratā nityam eṣyate vana-cāriṇī ..47..
वनेचराणां सततं नूनं स्पृहयते पुरा । रामस्य दयिता भार्या जनकस्य सुता सती ॥४८॥
वनेचराणाम् सततम् नूनम् स्पृहयते पुरा । रामस्य दयिता भार्या जनकस्य सुता सती ॥४८॥
vanecarāṇām satatam nūnam spṛhayate purā . rāmasya dayitā bhāryā janakasya sutā satī ..48..
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी । नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ॥४९॥
सन्ध्या-काल-मनाः श्यामा ध्रुवम् एष्यति जानकी । नदीम् च इमाम् शिव-जलाम् सन्ध्या-अर्थे वरवर्णिनी ॥४९॥
sandhyā-kāla-manāḥ śyāmā dhruvam eṣyati jānakī . nadīm ca imām śiva-jalām sandhyā-arthe varavarṇinī ..49..
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा । शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता ॥५०॥
तस्याः च अपि अनुरूपा इयम् अशोक-वनिका शुभा । शुभा या पार्थिव-इन्द्रस्य पत्नी रामस्य संमिता ॥५०॥
tasyāḥ ca api anurūpā iyam aśoka-vanikā śubhā . śubhā yā pārthiva-indrasya patnī rāmasya saṃmitā ..50..
यदि जिवति सा देवी ताराधिपनिभानना । आगमिष्यति सावश्यमिमां शिवजलां नदीम् ॥५१॥
यदि जिवति सा देवी ताराधिप-निभ-आनना । आगमिष्यति सा अवश्यम् इमाम् शिव-जलाम् नदीम् ॥५१॥
yadi jivati sā devī tārādhipa-nibha-ānanā . āgamiṣyati sā avaśyam imām śiva-jalām nadīm ..51..
एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥५२॥
एवम् तु मत्वा हनुमान् महात्मा प्रतीक्षमाणः मनुज-इन्द्र-पत्नीम् । अवेक्षमाणः च ददर्श सर्वम् सु पुष्पिते पर्ण-घने निलीनः ॥५२॥
evam tu matvā hanumān mahātmā pratīkṣamāṇaḥ manuja-indra-patnīm . avekṣamāṇaḥ ca dadarśa sarvam su puṣpite parṇa-ghane nilīnaḥ ..52..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In