This overlay will guide you through the buttons:

| |
|
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥१॥
स वीक्षमाणः तत्रस्थः मार्गमाणः च मैथिलीम् । अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥१॥
sa vīkṣamāṇaḥ tatrasthaḥ mārgamāṇaḥ ca maithilīm . avekṣamāṇaḥ ca mahīm sarvām tām anvavaikṣata ..1..
सन्तान कलताभिश्च पादपैरुपशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥२॥
सन्तान-क-लताभिः च पादपैः उपशोभिताम् । दिव्य-गन्ध-रस-उपेताम् सर्वतस् समलङ्कृताम् ॥२॥
santāna-ka-latābhiḥ ca pādapaiḥ upaśobhitām . divya-gandha-rasa-upetām sarvatas samalaṅkṛtām ..2..
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् ॥३॥
ताम् स नन्दन-सङ्काशाम् मृग-पक्षिभिः आवृताम् । हर्म्य-प्रासाद-सम्बाधाम् कोकिल-आकुल-निःस्वनाम् ॥३॥
tām sa nandana-saṅkāśām mṛga-pakṣibhiḥ āvṛtām . harmya-prāsāda-sambādhām kokila-ākula-niḥsvanām ..3..
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् । बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥४॥
काञ्चन-उत्पल-पद्माभिः वापीभिः उपशोभिताम् । बहु-आसन-कुथ-उपेताम् बहु-भूमि-गृह-आयुताम् ॥४॥
kāñcana-utpala-padmābhiḥ vāpībhiḥ upaśobhitām . bahu-āsana-kutha-upetām bahu-bhūmi-gṛha-āyutām ..4..
सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः । पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥५॥
सर्व-ऋतु-कुसुमैः रम्यैः फलवद्भिः च पादपैः । पुष्पितानाम् अशोकानाम् श्रिया सूर्य-उदय-प्रभाम् ॥५॥
sarva-ṛtu-kusumaiḥ ramyaiḥ phalavadbhiḥ ca pādapaiḥ . puṣpitānām aśokānām śriyā sūrya-udaya-prabhām ..5..
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत । निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥६॥
प्रदीप्ताम् इव तत्रस्थः मारुतिः समुदैक्षत । निष्पत्र-शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥६॥
pradīptām iva tatrasthaḥ mārutiḥ samudaikṣata . niṣpatra-śākhām vihagaiḥ kriyamāṇām iva asakṛt ..6..
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।समूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥७॥
विनिष्पतद्भिः शतशस् चित्रैः पुष्प-अवतंसकैः ।स मूल-पुष्प-निचितैः अशोकैः शोक-नाशनैः ॥७॥
viniṣpatadbhiḥ śataśas citraiḥ puṣpa-avataṃsakaiḥ .sa mūla-puṣpa-nicitaiḥ aśokaiḥ śoka-nāśanaiḥ ..7..
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥८॥
पुष्प-भार-अतिभारैः च स्पृशद्भिः इव मेदिनीम् ।कर्णिकारैः कुसुमितैः किंशुकैः च सु पुष्पितैः ॥८॥
puṣpa-bhāra-atibhāraiḥ ca spṛśadbhiḥ iva medinīm .karṇikāraiḥ kusumitaiḥ kiṃśukaiḥ ca su puṣpitaiḥ ..8..
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥९॥
स देशः प्रभया तेषाम् प्रदीप्तः इव सर्वतस् ।पुंनागाः सप्तपर्णाः च चम्पक-उद्दालकाः तथा ॥९॥
sa deśaḥ prabhayā teṣām pradīptaḥ iva sarvatas .puṃnāgāḥ saptaparṇāḥ ca campaka-uddālakāḥ tathā ..9..
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः ।शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः ॥१०॥
विवृद्ध-मूलाः बहवः शोभन्ते स्म सु पुष्पिताः ।शातकुम्भ-निभाः के चित् के चित् अग्नि-शिखा-उपमाः ॥१०॥
vivṛddha-mūlāḥ bahavaḥ śobhante sma su puṣpitāḥ .śātakumbha-nibhāḥ ke cit ke cit agni-śikhā-upamāḥ ..10..
नीलाञ्जननिभाः के चित्तत्राशोकाः सहस्रशः ।नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ॥११॥
नीलाञ्जन-निभाः के चित् तत्र अशोकाः सहस्रशस् ।नन्दनम् विविध-उद्यानम् चित्रम् चैत्ररथम् यथा ॥११॥
nīlāñjana-nibhāḥ ke cit tatra aśokāḥ sahasraśas .nandanam vividha-udyānam citram caitraratham yathā ..11..
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् ।द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥१२॥
अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।द्वितीयम् इव च आकाशम् पुष्प-ज्योतिः-गण-आयुतम् ॥१२॥
ativṛttam iva acintyam divyam ramyam śriyā vṛtam .dvitīyam iva ca ākāśam puṣpa-jyotiḥ-gaṇa-āyutam ..12..
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ।सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ॥१३॥
पुष्प-रत्न-शतैः चित्रम् पञ्चमम् सागरम् यथा ।सर्व-ऋतु-पुष्पैः निचितम् पादपैः मधु-गन्धिभिः ॥१३॥
puṣpa-ratna-śataiḥ citram pañcamam sāgaram yathā .sarva-ṛtu-puṣpaiḥ nicitam pādapaiḥ madhu-gandhibhiḥ ..13..
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ।अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् ॥१४॥
नाना निनादैः उद्यानम् रम्यम् मृग-गणैः द्विजैः ।अनेक-गन्ध-प्रवहम् पुण्य-गन्धम् मनोरमम् ॥१४॥
nānā ninādaiḥ udyānam ramyam mṛga-gaṇaiḥ dvijaiḥ .aneka-gandha-pravaham puṇya-gandham manoramam ..14..
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ।अशोकवनिकायां तु तस्यां वानरपुङ्गवः ॥१५॥
शैल-इन्द्रम् इव गन्ध-आढ्यम् द्वितीयम् गन्धमादनम् ।अशोक-वनिकायाम् तु तस्याम् वानर-पुङ्गवः ॥१५॥
śaila-indram iva gandha-āḍhyam dvitīyam gandhamādanam .aśoka-vanikāyām tu tasyām vānara-puṅgavaḥ ..15..
स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् ।मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ॥१६॥
स ददर्श अविदूर-स्थम् चैत्य-प्रासादम् ऊर्जितम् ।मध्ये स्तम्भ-सहस्रेण स्थितम् कैलास-पाण्डुरम् ॥१६॥
sa dadarśa avidūra-stham caitya-prāsādam ūrjitam .madhye stambha-sahasreṇa sthitam kailāsa-pāṇḍuram ..16..
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् ।मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ॥१७॥
प्रवाल-कृत-सोपानम् तप्त-काञ्चन-वेदिकम् ।मुष्णन्तम् इव चक्षूंषि द्योतमानम् इव श्रिया ॥१७॥
pravāla-kṛta-sopānam tapta-kāñcana-vedikam .muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā ..17..
निर्मलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ।ततो मलिनसंवीतां राक्षसीभिः समावृताम् ॥१८॥
निर्मलम् प्रांशु-भाव-त्वात् उल्लिखन्तम् इव अम्बरम् ।ततस् मलिन-संवीताम् राक्षसीभिः समावृताम् ॥१८॥
nirmalam prāṃśu-bhāva-tvāt ullikhantam iva ambaram .tatas malina-saṃvītām rākṣasībhiḥ samāvṛtām ..18..
उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः । ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥१९॥
उपवास-कृशाम् दीनाम् निःश्वसान्तीम् पुनर् पुनर् । ददर्श शुक्ल-पक्ष-आदौ चन्द्र-रेखाम् इव अमलाम् ॥१९॥
upavāsa-kṛśām dīnām niḥśvasāntīm punar punar . dadarśa śukla-pakṣa-ādau candra-rekhām iva amalām ..19..
मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् । पिनद्धां धूमजालेन शिखामिव विभावसोः ॥२०॥
मन्द-प्रख्यायमानेन रूपेण रुचिर-प्रभाम् । पिनद्धाम् धूम-जालेन शिखाम् इव विभावसोः ॥२०॥
manda-prakhyāyamānena rūpeṇa rucira-prabhām . pinaddhām dhūma-jālena śikhām iva vibhāvasoḥ ..20..
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा । सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ॥२१॥
पीतेन एकेन संवीताम् क्लिष्टेन उत्तम-वाससा । स पङ्काम् अनलङ्काराम् विपद्माम् इव पद्मिनीम् ॥२१॥
pītena ekena saṃvītām kliṣṭena uttama-vāsasā . sa paṅkām analaṅkārām vipadmām iva padminīm ..21..
पीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् । ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् ॥२२॥
पीडिताम् दुःख-सन्तप्ताम् परिम्लानाम् तपस्विनीम् । ग्रहेण अङ्गारकेण एव पीडिताम् इव रोहिणीम् ॥२२॥
pīḍitām duḥkha-santaptām parimlānām tapasvinīm . graheṇa aṅgārakeṇa eva pīḍitām iva rohiṇīm ..22..
अश्रुपूर्णमुखीं दीनां कृशामननशेन च । शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥२३॥
अश्रु-पूर्ण-मुखीम् दीनाम् कृशाम् अननशेन च । शोक-ध्यान-पराम् दीनाम् नित्यम् दुःख-परायणाम् ॥२३॥
aśru-pūrṇa-mukhīm dīnām kṛśām ananaśena ca . śoka-dhyāna-parām dīnām nityam duḥkha-parāyaṇām ..23..
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् । स्वगणेन मृगीं हीनां श्वगणाभिवृताम् इव ॥२४॥
प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी-गणम् । स्व-गणेन मृगीम् हीनाम् श्व-गण-अभिवृताम् इव ॥२४॥
priyam janam apaśyantīm paśyantīm rākṣasī-gaṇam . sva-gaṇena mṛgīm hīnām śva-gaṇa-abhivṛtām iva ..24..
नीलनागाभया वेण्या जघनं गतयैकया ।नीलया नीरदापाये वनराज्या महीमिव॥।२५॥
नील-नाग-आभया वेण्या जघनम् गतया एकया ।नीलया नीरद-अपाये वन-राज्या महीम् इव॥।२५॥
nīla-nāga-ābhayā veṇyā jaghanam gatayā ekayā .nīlayā nīrada-apāye vana-rājyā mahīm iva...25..
सुखार्हां दुःखसन्तप्तां व्यसनानामकोदिवाम् ।तां वीलोक्य विशालाक्षीमधिकं मलिनां कृशाम् ॥२६॥
सुख-अर्हाम् दुःख-सन्तप्ताम् व्यसनानाम् अकोदिवाम् ।ताम् वीलोक्य विशाल-अक्षीम् अधिकम् मलिनाम् कृशाम् ॥२६॥
sukha-arhām duḥkha-santaptām vyasanānām akodivām .tām vīlokya viśāla-akṣīm adhikam malinām kṛśām ..26..
तर्कयामास सीतेति कारणैरुपपादिभिः ।ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥२७॥
तर्कयामास सीता इति कारणैः उपपादिभिः ।ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥२७॥
tarkayāmāsa sītā iti kāraṇaiḥ upapādibhiḥ .hriyamāṇā tadā tena rakṣasā kāmarūpiṇā ..27..
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ।पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥२८॥
यथारूपा हि दृष्टा वै तथारूपा इयम् अङ्गना ।पूर्ण-चन्द्र-आननाम् सुभ्रूम् चारु-वृत्त-पयोधराम् ॥२८॥
yathārūpā hi dṛṣṭā vai tathārūpā iyam aṅganā .pūrṇa-candra-ānanām subhrūm cāru-vṛtta-payodharām ..28..
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ।तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥२९॥
कुर्वन्तीम् प्रभया देवीम् सर्वाः वितिमिराः दिशः ।ताम् नील-केशीम् बिम्ब-ओष्ठीम् सु मध्याम् सु प्रतिष्ठिताम् ॥२९॥
kurvantīm prabhayā devīm sarvāḥ vitimirāḥ diśaḥ .tām nīla-keśīm bimba-oṣṭhīm su madhyām su pratiṣṭhitām ..29..
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव ॥३०॥
सीताम् पद्म-पलाश-अक्षीम् मन्मथस्य रतिम् यथा ।इष्टाम् सर्वस्य जगतः पूर्ण-चन्द्र-प्रभाम् इव ॥३०॥
sītām padma-palāśa-akṣīm manmathasya ratim yathā .iṣṭām sarvasya jagataḥ pūrṇa-candra-prabhām iva ..30..
भूमौ सुतनुमासीनां नियतामिव तापसीम् ।निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव ॥३१॥
भूमौ सु तनुम् आसीनाम् नियताम् इव तापसीम् ।निःश्वास-बहुलाम् भीरुम् भुजग-इन्द्र-वधूम् इव ॥३१॥
bhūmau su tanum āsīnām niyatām iva tāpasīm .niḥśvāsa-bahulām bhīrum bhujaga-indra-vadhūm iva ..31..
शोकजालेन महता विततेन न राजतीम् ।संसक्तां धूमजालेन शिखामिव विभावसोः ॥३२॥
शोक-जालेन महता विततेन न राजतीम् ।संसक्ताम् धूम-जालेन शिखाम् इव विभावसोः ॥३२॥
śoka-jālena mahatā vitatena na rājatīm .saṃsaktām dhūma-jālena śikhām iva vibhāvasoḥ ..32..
तां स्मृतीमिव सन्दिघ्दामृद्धिं निपतिताम् इव ।विहतामिव च श्रद्धामाशां प्रतिहताम् इव ॥३३॥
ताम् स्मृतीम् इव सन्दिघ्दाम् ऋद्धिम् निपतिताम् इव ।विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥३३॥
tām smṛtīm iva sandighdām ṛddhim nipatitām iva .vihatām iva ca śraddhām āśām pratihatām iva ..33..
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम् इव ।अभूतेनापवादेन कीर्तिं निपतिताम् इव ॥३४॥
स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव ।अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥३४॥
sa upasargām yathā siddhim buddhim sakaluṣām iva .abhūtena apavādena kīrtim nipatitām iva ..34..
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ।अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ॥३५॥
राम-उपरोध-व्यथिताम् रक्षः-हरण-कर्शिताम् ।अबलाम् मृगशावाक्षीम् वीक्षमाणाम् ततस् ततस् ॥३५॥
rāma-uparodha-vyathitām rakṣaḥ-haraṇa-karśitām .abalām mṛgaśāvākṣīm vīkṣamāṇām tatas tatas ..35..
बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा । वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः || ३४||॥३६॥
बाष्प-अम्बु-प्रतिपूर्णेन कृष्ण-वक्त्र-अक्षि-पक्ष्मणा । वदनेन अप्रसन्नेन निःश्वसन्तीम् पुनर् पुनर् ॥ ३४॥॥३६॥
bāṣpa-ambu-pratipūrṇena kṛṣṇa-vaktra-akṣi-pakṣmaṇā . vadanena aprasannena niḥśvasantīm punar punar .. 34....36..
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् । प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥३७॥
मल-पङ्क-धराम् दीनाम् मण्डन-अर्हाम् अमण्डिताम् । प्रभाम् नक्षत्रराजस्य काल-मेघैः इव आवृताम् ॥३७॥
mala-paṅka-dharām dīnām maṇḍana-arhām amaṇḍitām . prabhām nakṣatrarājasya kāla-meghaiḥ iva āvṛtām ..37..
तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु । आम्नायानामयोगेन विद्यां प्रशिथिलाम् इव ॥३८॥
तस्य सन्दिदिहे बुद्धिः मुहुर् सीताम् निरीक्ष्य तु । आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥३८॥
tasya sandidihe buddhiḥ muhur sītām nirīkṣya tu . āmnāyānām ayogena vidyām praśithilām iva ..38..
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् । संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् ॥३९॥
दुःखेन बुबुधे सीताम् हनुमान् अनलङ्कृताम् । संस्कारेण यथा अहीनाम् वाचम् अर्थ-अन्तरम् गताम् ॥३९॥
duḥkhena bubudhe sītām hanumān analaṅkṛtām . saṃskāreṇa yathā ahīnām vācam artha-antaram gatām ..39..
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् । तर्कयामास सीतेति कारणैरुपपादयन् ॥४०॥
ताम् समीक्ष्य विशाल-अक्षीम् राज-पुत्रीम् अनिन्दिताम् । तर्कयामास सीता इति कारणैः उपपादयन् ॥४०॥
tām samīkṣya viśāla-akṣīm rāja-putrīm aninditām . tarkayāmāsa sītā iti kāraṇaiḥ upapādayan ..40..
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् । तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥४१॥
वैदेह्याः यानि च अङ्गेषु तदा रामः अन्वकीर्तयत् । तानि आभरण-जालानि गात्र-शोभीनि अलक्षयत् ॥४१॥
vaidehyāḥ yāni ca aṅgeṣu tadā rāmaḥ anvakīrtayat . tāni ābharaṇa-jālāni gātra-śobhīni alakṣayat ..41..
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ । मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥४२॥
सु कृतौ कर्ण-वेष्टौ च श्व-दंष्ट्रौ च सु संस्थितौ । मणि-विद्रुम-चित्राणि हस्तेषु आभरणानि च ॥४२॥
su kṛtau karṇa-veṣṭau ca śva-daṃṣṭrau ca su saṃsthitau . maṇi-vidruma-citrāṇi hasteṣu ābharaṇāni ca ..42..
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च । तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् ॥४३॥
श्यामानि चिर-युक्त-त्वात् तथा संस्थानवन्ति च । तानि एव एतानि मन्ये अहम् यानि रामः अव अकीर्तयत् ॥४३॥
śyāmāni cira-yukta-tvāt tathā saṃsthānavanti ca . tāni eva etāni manye aham yāni rāmaḥ ava akīrtayat ..43..
तत्र यान्यवहीनानि तान्यहं नोपलक्षये । यान्यस्या नावहीनानि तानीमानि न संशयः ॥४४॥
तत्र यानि अवहीनानि तानि अहम् न उपलक्षये । यानि अस्याः न अवहीनानि तानि इमानि न संशयः ॥४४॥
tatra yāni avahīnāni tāni aham na upalakṣaye . yāni asyāḥ na avahīnāni tāni imāni na saṃśayaḥ ..44..
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् । उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥४५॥
पीतम् कनक-पट्ट-आभम् स्रस्तम् तत् वसनम् शुभम् । उत्तरीयम् नग-आसक्तम् तदा दृष्टम् प्लवङ्गमैः ॥४५॥
pītam kanaka-paṭṭa-ābham srastam tat vasanam śubham . uttarīyam naga-āsaktam tadā dṛṣṭam plavaṅgamaiḥ ..45..
भूषणानि च मुख्यानि दृष्टानि धरणीतले । अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥४६॥
भूषणानि च मुख्यानि दृष्टानि धरणी-तले । अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥४६॥
bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇī-tale . anayā eva apaviddhāni svanavanti mahānti ca ..46..
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् । तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥४७॥
इदम् चिर-गृहीत-त्वात् वसनम् क्लिष्टवत्तरम् । तथा हि नूनम् तद्-वर्णम् तथा श्रीमत् यथा इतरत् ॥४७॥
idam cira-gṛhīta-tvāt vasanam kliṣṭavattaram . tathā hi nūnam tad-varṇam tathā śrīmat yathā itarat ..47..
इदं कनकवर्णाङ्गी रामस्य महिषी प्रिया । प्रणष्टापि सती यस्य मनसो न प्रणश्यति ॥४८॥
इदम् कनक-वर्ण-अङ्गी रामस्य महिषी प्रिया । प्रणष्टा अपि सती यस्य मनसः न प्रणश्यति ॥४८॥
idam kanaka-varṇa-aṅgī rāmasya mahiṣī priyā . praṇaṣṭā api satī yasya manasaḥ na praṇaśyati ..48..
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते । कारुण्येनानृशंस्येन शोकेन मदनेन च ॥४९॥
इयम् सा यत् कृते रामः चतुर्भिः परितप्यते । कारुण्येन आनृशंस्येन शोकेन मदनेन च ॥४९॥
iyam sā yat kṛte rāmaḥ caturbhiḥ paritapyate . kāruṇyena ānṛśaṃsyena śokena madanena ca ..49..
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः । पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥५०॥
स्त्री प्रनष्टा इति कारुण्यात् आश्रिता इति आनृशंस्यतः । पत्नी नष्टा इति शोकेन प्रिया इति मदनेन च ॥५०॥
strī pranaṣṭā iti kāruṇyāt āśritā iti ānṛśaṃsyataḥ . patnī naṣṭā iti śokena priyā iti madanena ca ..50..
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं तस्येयमसितेक्षणा ॥५१॥
अस्याः देव्याः यथा रूपम् अङ्ग-प्रत्यङ्ग-सौष्ठवम् । रामस्य च यथारूपम् तस्य इयम् असित-ईक्षणा ॥५१॥
asyāḥ devyāḥ yathā rūpam aṅga-pratyaṅga-sauṣṭhavam . rāmasya ca yathārūpam tasya iyam asita-īkṣaṇā ..51..
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥५२॥
अस्याः देव्याः मनः तस्मिन् तस्य च अस्याम् प्रतिष्ठितम् । तेन इयम् स च धर्म-आत्मा मुहूर्तम् अपि जीवति ॥५२॥
asyāḥ devyāḥ manaḥ tasmin tasya ca asyām pratiṣṭhitam . tena iyam sa ca dharma-ātmā muhūrtam api jīvati ..52..
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् । सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥५३॥
दुष्करम् कुरुते रामः यः इमाम् मत्तकाशिनीम् । सीताम् विना महा-बाहुः मुहूर्तम् अपि जीवति ॥५३॥
duṣkaram kurute rāmaḥ yaḥ imām mattakāśinīm . sītām vinā mahā-bāhuḥ muhūrtam api jīvati ..53..
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः । जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥५४॥
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवनसम्भवः । जगाम मनसा रामम् प्रशशंस च तम् प्रभुम् ॥५४॥
evam sītām tadā dṛṣṭvā hṛṣṭaḥ pavanasambhavaḥ . jagāma manasā rāmam praśaśaṃsa ca tam prabhum ..54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In