This overlay will guide you through the buttons:

| |
|
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः । गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ १॥
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि-पुङ्गवः । गुण-अभिरामम् रामम् च पुनर् चिन्ता-परः अभवत् ॥ १॥
praśasya tu praśastavyām sītām tām hari-puṅgavaḥ . guṇa-abhirāmam rāmam ca punar cintā-paraḥ abhavat .. 1..
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः । सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह ॥ २॥
स मुहूर्तम् इव ध्यात्वा बाष्प-पर्याकुल-ईक्षणः । सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥ २॥
sa muhūrtam iva dhyātvā bāṣpa-paryākula-īkṣaṇaḥ . sītām āśritya tejasvī hanumān vilalāpa ha .. 2..
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया । यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ॥ ३॥
मान्या गुरु-विनीतस्य लक्ष्मणस्य गुरु-प्रिया । यदि सीता अपि दुःख-आर्ता कालः हि दुरतिक्रमः ॥ ३॥
mānyā guru-vinītasya lakṣmaṇasya guru-priyā . yadi sītā api duḥkha-ārtā kālaḥ hi duratikramaḥ .. 3..
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः । नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४॥
रामस्य व्यवसाय-ज्ञाः लक्ष्मणस्य च धीमतः । न अत्यर्थम् क्षुभ्यते देवी गङ्गा इव जलदागमे ॥ ४॥
rāmasya vyavasāya-jñāḥ lakṣmaṇasya ca dhīmataḥ . na atyartham kṣubhyate devī gaṅgā iva jaladāgame .. 4..
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५॥
तुल्य-शील-वयः-वृत्ताम् तुल्य-अभिजन-लक्षणाम् । राघवः अर्हति वैदेहीम् तम् च इयम् असित-ईक्षणा ॥ ५॥
tulya-śīla-vayaḥ-vṛttām tulya-abhijana-lakṣaṇām . rāghavaḥ arhati vaidehīm tam ca iyam asita-īkṣaṇā .. 5..
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् । जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६॥
ताम् दृष्ट्वा नव-हेम-आभाम् लोक-कान्ताम् इव श्रियम् । जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥ ६॥
tām dṛṣṭvā nava-hema-ābhām loka-kāntām iva śriyam . jagāma manasā rāmam vacanam ca idam abravīt .. 6..
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः । रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७॥
अस्याः हेतोः विशाल-अक्ष्याः हतः वाली महा-बलः । रावण-प्रतिमः वीर्ये कबन्धः च निपातितः ॥ ७॥
asyāḥ hetoḥ viśāla-akṣyāḥ hataḥ vālī mahā-balaḥ . rāvaṇa-pratimaḥ vīrye kabandhaḥ ca nipātitaḥ .. 7..
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः । वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८॥
विराधः च हतः सङ्ख्ये राक्षसः भीम-विक्रमः । वने रामेण विक्रम्य महा-इन्द्रेण इव शम्बरः ॥ ८॥
virādhaḥ ca hataḥ saṅkhye rākṣasaḥ bhīma-vikramaḥ . vane rāmeṇa vikramya mahā-indreṇa iva śambaraḥ .. 8..
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ ९॥
चतुर्दश-सहस्राणि रक्षसाम् भीम-कर्मणाम् । निहतानि जनस्थाने शरैः अग्नि-शिखा-उपमैः ॥ ९॥
caturdaśa-sahasrāṇi rakṣasām bhīma-karmaṇām . nihatāni janasthāne śaraiḥ agni-śikhā-upamaiḥ .. 9..
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः । दूषणश्च महातेजा रामेण विदितात्मना ॥ १०॥
खरः च निहतः सङ्ख्ये त्रिशिराः च निपातितः । दूषणः च महा-तेजाः रामेण विदित-आत्मना ॥ १०॥
kharaḥ ca nihataḥ saṅkhye triśirāḥ ca nipātitaḥ . dūṣaṇaḥ ca mahā-tejāḥ rāmeṇa vidita-ātmanā .. 10..
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम् । अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम् ॥ ११॥
ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि-पालितम् । अस्याः निमित्ते सुग्रीवः प्राप्तवान् लोक-सत्कृतम् ॥ ११॥
aiśvaryam vānarāṇām ca durlabham vāli-pālitam . asyāḥ nimitte sugrīvaḥ prāptavān loka-satkṛtam .. 11..
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः । अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ १२॥
सागरः च मया क्रान्तः श्रीमान् नदनदीपतिः । अस्याः हेतोः विशाल-अक्ष्याः पुरी च इयम् निरीक्षिता ॥ १२॥
sāgaraḥ ca mayā krāntaḥ śrīmān nadanadīpatiḥ . asyāḥ hetoḥ viśāla-akṣyāḥ purī ca iyam nirīkṣitā .. 12..
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् । अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ १३॥
यदि रामः समुद्र-अन्ताम् मेदिनीम् परिवर्तयेत् । अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥ १३॥
yadi rāmaḥ samudra-antām medinīm parivartayet . asyāḥ kṛte jagat ca api yuktam iti eva me matiḥ .. 13..
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा । त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम् ॥ १४॥
राज्यम् वा त्रिषु लोकेषु सीता वा जनकात्मजा । त्रैलोक्य-राज्यम् सकलम् सीतायाः ना आप्नुयात् कलाम् ॥ १४॥
rājyam vā triṣu lokeṣu sītā vā janakātmajā . trailokya-rājyam sakalam sītāyāḥ nā āpnuyāt kalām .. 14..
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः । सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ १५॥
इयम् सा धर्म-शीलस्य मैथिलस्य महात्मनः । सुता जनक-राजस्य सीता भर्तृ-दृढ-व्रता ॥ १५॥
iyam sā dharma-śīlasya maithilasya mahātmanaḥ . sutā janaka-rājasya sītā bhartṛ-dṛḍha-vratā .. 15..
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते । पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६॥
उत्थिताः मेदिनीम् भित्त्वा क्षेत्रे हलमुख-क्षते । पद्म-रेणु-निभैः कीर्णा शुभैः केदार-पांसुभिः ॥ १६॥
utthitāḥ medinīm bhittvā kṣetre halamukha-kṣate . padma-reṇu-nibhaiḥ kīrṇā śubhaiḥ kedāra-pāṃsubhiḥ .. 16..
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः । स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ १७॥
विक्रान्तस्य आर्य-शीलस्य संयुगेषु अनिवर्तिनः । स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञः यशस्विनी ॥ १७॥
vikrāntasya ārya-śīlasya saṃyugeṣu anivartinaḥ . snuṣā daśarathasya eṣā jyeṣṭhā rājñaḥ yaśasvinī .. 17..
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः । इयं सा दयिता भार्या राक्षसी वशमागता ॥ १८॥
धर्म-ज्ञस्य कृतज्ञस्य रामस्य विदित-आत्मनः । इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥ १८॥
dharma-jñasya kṛtajñasya rāmasya vidita-ātmanaḥ . iyam sā dayitā bhāryā rākṣasī vaśam āgatā .. 18..
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता । अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ १९॥
सर्वान् भोगान् परित्यज्य भर्तृ-स्नेह-बलात्कृता । अ चिन्तयित्वा दुःखानि प्रविष्टाः निर्जनम् वनम् ॥ १९॥
sarvān bhogān parityajya bhartṛ-sneha-balātkṛtā . a cintayitvā duḥkhāni praviṣṭāḥ nirjanam vanam .. 19..
सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता । या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ २०॥
सन्तुष्टा फल-मूलेन भर्तृ-शुश्रूषणे रता । या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥ २०॥
santuṣṭā phala-mūlena bhartṛ-śuśrūṣaṇe ratā . yā parām bhajate prītim vane api bhavane yathā .. 20..
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी । सहते यातनामेतामनर्थानामभागिनी ॥ २१॥
सा इयम् कनक-वर्ण-अङ्गी नित्यम् सु स्मित-भाषिणी । सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥ २१॥
sā iyam kanaka-varṇa-aṅgī nityam su smita-bhāṣiṇī . sahate yātanām etām anarthānām abhāginī .. 21..
इमां तु शीलसम्पन्नां द्रष्टुमिच्छति राघवः । रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२॥
इमाम् तु शील-सम्पन्नाम् द्रष्टुम् इच्छति राघवः । रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥ २२॥
imām tu śīla-sampannām draṣṭum icchati rāghavaḥ . rāvaṇena pramathitām prapām iva pipāsitaḥ .. 22..
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३॥
अस्याः नूनम् पुनर् लाभात् राघवः प्रीतिम् एष्यति । राजा राज्य-परिभ्रष्टः पुनर् प्राप्य इव मेदिनीम् ॥ २३॥
asyāḥ nūnam punar lābhāt rāghavaḥ prītim eṣyati . rājā rājya-paribhraṣṭaḥ punar prāpya iva medinīm .. 23..
कामभोगैः परित्यक्ता हीना बन्धुजनेन च । धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ २४॥
काम-भोगैः परित्यक्ताः हीनाः बन्धु-जनेन च । धारयति आत्मनः देहम् तद्-समागम-काङ्क्षिणी ॥ २४॥
kāma-bhogaiḥ parityaktāḥ hīnāḥ bandhu-janena ca . dhārayati ātmanaḥ deham tad-samāgama-kāṅkṣiṇī .. 24..
नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५॥
न एषा पश्यति राक्षस्यः न इमान् पुष्प-फल-द्रुमान् । एकस्थ-हृदया नूनम् रामम् एव अनुपश्यति ॥ २५॥
na eṣā paśyati rākṣasyaḥ na imān puṣpa-phala-drumān . ekastha-hṛdayā nūnam rāmam eva anupaśyati .. 25..
भर्ता नाम परं नार्या भूषणं भूषणादपि । एषा हि रहिता तेन शोभनार्हा न शोभते ॥ २६॥
भर्ता नाम परम् नार्याः भूषणम् भूषणात् अपि । एषा हि रहिता तेन शोभन-अर्हा न शोभते ॥ २६॥
bhartā nāma param nāryāḥ bhūṣaṇam bhūṣaṇāt api . eṣā hi rahitā tena śobhana-arhā na śobhate .. 26..
दुष्करं कुरुते रामो हीनो यदनया प्रभुः । धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७॥
दुष्करम् कुरुते रामः हीनः यत् अनया प्रभुः । धारयति आत्मनः देहम् न दुःखेन अवसीदति ॥ २७॥
duṣkaram kurute rāmaḥ hīnaḥ yat anayā prabhuḥ . dhārayati ātmanaḥ deham na duḥkhena avasīdati .. 27..
इमामसितकेशान्तां शतपत्रनिभेक्षणाम् । सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ २८॥
इमाम् असित-केशान्ताम् शतपत्र-निभ-ईक्षणाम् । सुख-अर्हाम् दुःखिताम् दृष्ट्वा मम अपि व्यथितम् मनः ॥ २८॥
imām asita-keśāntām śatapatra-nibha-īkṣaṇām . sukha-arhām duḥkhitām dṛṣṭvā mama api vyathitam manaḥ .. 28..
क्षितिक्षमा पुष्करसंनिभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् । सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले ॥ २९॥
क्षिति-क्षमा पुष्कर-संनिभ-अक्षी या रक्षिता राघव-लक्ष्मणाभ्याम् । सा राक्षसीभिः विकृत-ईक्षणाभिः संरक्ष्यते सम्प्रति वृक्ष-मूले ॥ २९॥
kṣiti-kṣamā puṣkara-saṃnibha-akṣī yā rakṣitā rāghava-lakṣmaṇābhyām . sā rākṣasībhiḥ vikṛta-īkṣaṇābhiḥ saṃrakṣyate samprati vṛkṣa-mūle .. 29..
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परया निपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ ३०॥
हिम-हत-नलिनी इव नष्ट-शोभा व्यसन-परम्परया निपीड्यमाना । सहचर-रहिता इव चक्रवाकी जनकसुता कृपणाम् दशाम् प्रपन्ना ॥ ३०॥
hima-hata-nalinī iva naṣṭa-śobhā vyasana-paramparayā nipīḍyamānā . sahacara-rahitā iva cakravākī janakasutā kṛpaṇām daśām prapannā .. 30..
अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयत्यशोकाः । हिमव्यपायेन च मन्दरश्मिर् अभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१॥
अस्याः हि पुष्प-अवनत-अग्र-शाखाः शोकम् दृढम् वै जनयति अशोकाः । हिम-व्यपायेन च मन्दरश्मिः अभ्युत्थितः न एक-सहस्र-रश्मिः ॥ ३१॥
asyāḥ hi puṣpa-avanata-agra-śākhāḥ śokam dṛḍham vai janayati aśokāḥ . hima-vyapāyena ca mandaraśmiḥ abhyutthitaḥ na eka-sahasra-raśmiḥ .. 31..
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः । संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२॥
इति एवम् अर्थम् कपिः अन्ववेक्ष्य सीता इयम् इति एव निविष्ट-बुद्धिः । संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणाम् ऋषभः तरस्वी ॥ ३२॥
iti evam artham kapiḥ anvavekṣya sītā iyam iti eva niviṣṭa-buddhiḥ . saṃśritya tasmin niṣasāda vṛkṣe balī harīṇām ṛṣabhaḥ tarasvī .. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In