This overlay will guide you through the buttons:

| |
|
ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १॥
ततस् कुमुद-षण्ड-आभः निर्मलम् निर्मलः स्वयम् । प्रजगाम नभः चन्द्रः हंसः नीलम् इव उदकम् ॥ १॥
tatas kumuda-ṣaṇḍa-ābhaḥ nirmalam nirmalaḥ svayam . prajagāma nabhaḥ candraḥ haṃsaḥ nīlam iva udakam .. 1..
साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २॥
साचिव्यम् इव कुर्वन् स प्रभया निर्मल-प्रभः । चन्द्रमाः रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २॥
sācivyam iva kurvan sa prabhayā nirmala-prabhaḥ . candramāḥ raśmibhiḥ śītaiḥ siṣeve pavanātmajam .. 2..
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३॥
स ददर्श ततस् सीताम् पूर्ण-चन्द्र-निभ-आननाम् । शोक-भारैः इव न्यस्ताम् भारैः नावम् इव अम्भसि ॥ ३॥
sa dadarśa tatas sītām pūrṇa-candra-nibha-ānanām . śoka-bhāraiḥ iva nyastām bhāraiḥ nāvam iva ambhasi .. 3..
दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः । स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४॥
दिदृक्षमाणः वैदेहीम् हनूमान् मारुतात्मजः । स ददर्श अविदूर-स्थाः राक्षसीः घोर-दर्शनाः ॥ ४॥
didṛkṣamāṇaḥ vaidehīm hanūmān mārutātmajaḥ . sa dadarśa avidūra-sthāḥ rākṣasīḥ ghora-darśanāḥ .. 4..
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५॥
एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा । अकर्णाम् शङ्कु-कर्णाम् च मस्तक-उच्छ्वास-नासिकाम् ॥ ५॥
eka-akṣīm eka-karṇām ca karṇa-prāvaraṇām tathā . akarṇām śaṅku-karṇām ca mastaka-ucchvāsa-nāsikām .. 5..
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ॥ ६॥
अतिकाय-उत्तम-अङ्गीम् च तनु-दीर्घ-शिरोधराम् । ध्वस्त-केशीम् तथा अकेशीम् केश-कम्बल-धारिणीम् ॥ ६॥
atikāya-uttama-aṅgīm ca tanu-dīrgha-śirodharām . dhvasta-keśīm tathā akeśīm keśa-kambala-dhāriṇīm .. 6..
लम्बकर्णललाटां च लम्बोदरपयोधराम् । लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ ७॥
लम्ब-कर्ण-ललाटाम् च लम्ब-उदर-पयोधराम् । लम्ब-ओष्ठीम् चिबुक-ओष्ठीम् च लम्ब-आस्याम् लम्ब-जानुकाम् ॥ ७॥
lamba-karṇa-lalāṭām ca lamba-udara-payodharām . lamba-oṣṭhīm cibuka-oṣṭhīm ca lamba-āsyām lamba-jānukām .. 7..
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा । करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८॥
ह्रस्वाम् दीर्घाम् च कुब्जाम् च विकटाम् वामनाम् तथा । करालाम् भुग्न-वस्त्राम् च पिङ्ग-अक्षीम् विकृत-आननाम् ॥ ८॥
hrasvām dīrghām ca kubjām ca vikaṭām vāmanām tathā . karālām bhugna-vastrām ca piṅga-akṣīm vikṛta-ānanām .. 8..
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गरधारिणीः ॥ ९॥
विकृताः पिङ्गलाः क्रोधनाः कलह-प्रियाः । कालायस-महा-शूल-कूटमुद्गर-धारिणीः ॥ ९॥
vikṛtāḥ piṅgalāḥ krodhanāḥ kalaha-priyāḥ . kālāyasa-mahā-śūla-kūṭamudgara-dhāriṇīḥ .. 9..
वराहमृगशार्दूलमहिषाजशिवा मुखाः । गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः ॥ १०॥
वराह-मृग-शार्दूल-महिष-अज-शिवाः मुखाः । गज-उष्ट्र-हय-पादाः च निखात-शिरसः अपराः ॥ १०॥
varāha-mṛga-śārdūla-mahiṣa-aja-śivāḥ mukhāḥ . gaja-uṣṭra-haya-pādāḥ ca nikhāta-śirasaḥ aparāḥ .. 10..
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥ ११॥
एक-हस्त-एक-पादाः च खरकर्णि-अश्व-कर्णिकाः । गोकर्णीः हस्तिकर्णीः च हरिकर्णीः तथा अपराः ॥ ११॥
eka-hasta-eka-pādāḥ ca kharakarṇi-aśva-karṇikāḥ . gokarṇīḥ hastikarṇīḥ ca harikarṇīḥ tathā aparāḥ .. 11..
अतिनासाश्च काश्चिच्च तिर्यन्नासा विनासिकाः । गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ॥ १२॥
अति नासाः च काश्चिद् च तिर्यक्-नासाः विनासिकाः । गज-संनिभ-नासाः च ललाट-उच्छ्वास-नासिकाः ॥ १२॥
ati nāsāḥ ca kāścid ca tiryak-nāsāḥ vināsikāḥ . gaja-saṃnibha-nāsāḥ ca lalāṭa-ucchvāsa-nāsikāḥ .. 12..
हस्तिपादा महापादा गोपादाः पादचूलिकाः । अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ १३॥
हस्ति-पादाः महा-पादाः गो-पादाः पाद-चूलिकाः । अतिमात्र-शिरः-ग्रीवाः ॥ १३॥
hasti-pādāḥ mahā-pādāḥ go-pādāḥ pāda-cūlikāḥ . atimātra-śiraḥ-grīvāḥ .. 13..
अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा । अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ १४॥
अतिमात्रा अस्य नेत्राः च दीर्घ-जिह्वा-नखाः तथा । अजा-मुखीः हस्ति-मुखीः गो-मुखीः सूकरी-मुखीः ॥ १४॥
atimātrā asya netrāḥ ca dīrgha-jihvā-nakhāḥ tathā . ajā-mukhīḥ hasti-mukhīḥ go-mukhīḥ sūkarī-mukhīḥ .. 14..
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः । शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५॥
हय-उष्ट्र-खर-वक्त्राः च राक्षसीः घोर-दर्शनाः । शूल-मुद्गर-हस्ताः च क्रोधनाः कलह-प्रियाः ॥ १५॥
haya-uṣṭra-khara-vaktrāḥ ca rākṣasīḥ ghora-darśanāḥ . śūla-mudgara-hastāḥ ca krodhanāḥ kalaha-priyāḥ .. 15..
कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः । पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ १६॥
करालाः धूम्र-केशीः च रक्षसीः विकृत-आननाः । पिबन्तीः सततम् पानम् सदा मांस-सुरा-प्रियाः ॥ १६॥
karālāḥ dhūmra-keśīḥ ca rakṣasīḥ vikṛta-ānanāḥ . pibantīḥ satatam pānam sadā māṃsa-surā-priyāḥ .. 16..
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥ १७॥
मांस-शोणित-दिग्ध-अङ्गीः मांस-शोणित-भोजनाः । ताः ददर्श कपि-श्रेष्ठः रोमहर्षण-दर्शनाः ॥ १७॥
māṃsa-śoṇita-digdha-aṅgīḥ māṃsa-śoṇita-bhojanāḥ . tāḥ dadarśa kapi-śreṣṭhaḥ romaharṣaṇa-darśanāḥ .. 17..
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् । तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ॥ १८॥
स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम् । तस्य अधस्तात् च ताम् देवीम् राज-पुत्रीम् अनिन्दिताम् ॥ १८॥
skandhavantam upāsīnāḥ parivārya vanaspatim . tasya adhastāt ca tām devīm rāja-putrīm aninditām .. 18..
लक्षयामास लक्ष्मीवान्हनूमाञ्जनकात्मजाम् । निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम् ॥ १९॥
लक्षयामास लक्ष्मीवान् हनूमान् जनकात्मजाम् । निष्प्रभाम् शोक-सन्तप्ताम् मल-सङ्कुल-मूर्धजाम् ॥ १९॥
lakṣayāmāsa lakṣmīvān hanūmān janakātmajām . niṣprabhām śoka-santaptām mala-saṅkula-mūrdhajām .. 19..
क्षीणपुण्यां च्युतां भूमौ तारां निपतिताम् इव । चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ २०॥
क्षीण-पुण्याम् च्युताम् भूमौ ताराम् निपतिताम् इव । चारित्र्य व्यपदेश-आढ्याम् भर्तृ-दर्शन-दुर्गताम् ॥ २०॥
kṣīṇa-puṇyām cyutām bhūmau tārām nipatitām iva . cāritrya vyapadeśa-āḍhyām bhartṛ-darśana-durgatām .. 20..
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् । राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ २१॥
भूषणैः उत्तमैः हीनाम् भर्तृ-वात्सल्य-भूषिताम् । राक्षस-अधिप-संरुद्धाम् बन्धुभिः च विनाकृताम् ॥ २१॥
bhūṣaṇaiḥ uttamaiḥ hīnām bhartṛ-vātsalya-bhūṣitām . rākṣasa-adhipa-saṃruddhām bandhubhiḥ ca vinākṛtām .. 21..
वियूथां सिंहसंरुद्धां बद्धां गजवधूम् इव । चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ २२॥
वियूथाम् सिंह-संरुद्धाम् बद्धाम् गज-वधूम् इव । चन्द्रलेखाम् पयोद-अन्ते शारद-अभ्रैः इव आवृताम् ॥ २२॥
viyūthām siṃha-saṃruddhām baddhām gaja-vadhūm iva . candralekhām payoda-ante śārada-abhraiḥ iva āvṛtām .. 22..
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ॥ २३॥
क्लिष्ट-रूपाम् असंस्पर्शात् अयुक्ताम् इव वल्लकीम् । सीताम् भर्तृ-हिते युक्ताम् अयुक्ताम् रक्षसाम् वशे ॥ २३॥
kliṣṭa-rūpām asaṃsparśāt ayuktām iva vallakīm . sītām bhartṛ-hite yuktām ayuktām rakṣasām vaśe .. 23..
अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ २४॥
अशोक-वनिका-मध्ये शोक-सागरम् आप्लुताम् । ताभिः परिवृताम् तत्र स ग्रहाम् इव रोहिणीम् ॥ २४॥
aśoka-vanikā-madhye śoka-sāgaram āplutām . tābhiḥ parivṛtām tatra sa grahām iva rohiṇīm .. 24..
ददर्श हनुमान्देवीं लतामकुसुमाम् इव । सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता ।मृणाली पङ्कदिघ्देव विभाति च न भाति च ॥२५॥
ददर्श हनुमान् देवीम् लताम् अकुसुमाम् इव । सा मलेन च दिग्ध-अङ्गी वपुषा च अपि अलङ्कृता ।मृणाली पङ्क-दिघ्दा इव विभाति च न भाति च ॥२५॥
dadarśa hanumān devīm latām akusumām iva . sā malena ca digdha-aṅgī vapuṣā ca api alaṅkṛtā .mṛṇālī paṅka-dighdā iva vibhāti ca na bhāti ca ..25..
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः ॥२६॥
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।संवृताम् मृगशावाक्षीम् ददर्श हनुमान् कपिः ॥२६॥
malinena tu vastreṇa parikliṣṭena bhāminīm .saṃvṛtām mṛgaśāvākṣīm dadarśa hanumān kapiḥ ..26..
तां देवीं दीनवदनामदीनां भर्तृतेजसा ।रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥२७॥
ताम् देवीम् दीन-वदनाम् अदीनाम् भर्तृ-तेजसा ।रक्षिताम् स्वेन शीलेन सीताम् असित-लोचनाम् ॥२७॥
tām devīm dīna-vadanām adīnām bhartṛ-tejasā .rakṣitām svena śīlena sītām asita-locanām ..27..
तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम् ।मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ॥२८॥
ताम् दृष्ट्वा हनुमान् सीताम् मृग-शाव-निभ-ईक्षणाम् ।मृग-कन्याम् इव त्रस्ताम् वीक्षमाणाम् समन्ततः ॥२८॥
tām dṛṣṭvā hanumān sītām mṛga-śāva-nibha-īkṣaṇām .mṛga-kanyām iva trastām vīkṣamāṇām samantataḥ ..28..
दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणः ।सङ्घातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥२९॥
दहन्तीम् इव निःश्वासैः वृक्षान् पल्लव-धारिणः ।सङ्घातम् इव शोकानाम् दुःखस्य ऊर्मिम् इव उत्थिताम् ॥२९॥
dahantīm iva niḥśvāsaiḥ vṛkṣān pallava-dhāriṇaḥ .saṅghātam iva śokānām duḥkhasya ūrmim iva utthitām ..29..
तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥
ताम् क्षामाम् सुविभक्त-अङ्गीम् विना आभरण-शोभिनीम् ।प्रहर्षम् अतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥
tām kṣāmām suvibhakta-aṅgīm vinā ābharaṇa-śobhinīm .praharṣam atulam lebhe mārutiḥ prekṣya maithilīm ..30..
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥३१॥
हर्ष-जानि च सः अश्रूणि ताम् दृष्ट्वा मदिरा-ईक्षणाम् ।मुमोच हनुमान् तत्र नमः चक्रे च राघवम् ॥३१॥
harṣa-jāni ca saḥ aśrūṇi tām dṛṣṭvā madirā-īkṣaṇām .mumoca hanumān tatra namaḥ cakre ca rāghavam ..31..
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ।सीतादर्शनसंहृष्टो हनूमान्संवृतोऽभवत् ॥३२॥
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ।सीता-दर्शन-संहृष्टः हनूमान् संवृतः अभवत् ॥३२॥
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān .sītā-darśana-saṃhṛṣṭaḥ hanūmān saṃvṛtaḥ abhavat ..32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In