This overlay will guide you through the buttons:

| |
|
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । विचिन्वतश्च वैदेहीं किं चिच्छेषा निशाभवत् ॥ १॥
तथा विप्रेक्षमाणस्य वनम् पुष्पित-पादपम् । विचिन्वतः च वैदेहीम् किम् चित्-शेषा निशा अभवत् ॥ १॥
tathā viprekṣamāṇasya vanam puṣpita-pādapam . vicinvataḥ ca vaidehīm kim cit-śeṣā niśā abhavat .. 1..
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २॥
षष्-अङ्ग-वेद-विदुषाम् क्रतु-प्रवर-याजिनाम् । शुश्राव ब्रह्मघोषान् च विरात्रे ब्रह्मरक्षसाम् ॥ २॥
ṣaṣ-aṅga-veda-viduṣām kratu-pravara-yājinām . śuśrāva brahmaghoṣān ca virātre brahmarakṣasām .. 2..
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः ॥ ३॥
अथ मङ्गल-वादित्रैः शब्दैः श्रोत्र-मनोहरैः । प्राबोध्यत महा-बाहुः दशग्रीवः महा-बलः ॥ ३॥
atha maṅgala-vāditraiḥ śabdaiḥ śrotra-manoharaiḥ . prābodhyata mahā-bāhuḥ daśagrīvaḥ mahā-balaḥ .. 3..
विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान् । स्रस्तमाल्याम्बरधरो वैदेहीम् अन्वचिन्तयत् ॥ ४॥
विबुध्य तु यथाकालम् राक्षस-इन्द्रः प्रतावपान् । स्रस्त-माल्य-अम्बर-धरः वैदेहीम् अन्वचिन्तयत् ॥ ४॥
vibudhya tu yathākālam rākṣasa-indraḥ pratāvapān . srasta-mālya-ambara-dharaḥ vaidehīm anvacintayat .. 4..
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः । न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५॥
भृशम् नियुक्तः तस्याम् च मदनेन मद-उत्कटः । न स तम् राक्षसः कामम् शशाक आत्मनि गूहितुम् ॥ ५॥
bhṛśam niyuktaḥ tasyām ca madanena mada-utkaṭaḥ . na sa tam rākṣasaḥ kāmam śaśāka ātmani gūhitum .. 5..
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६॥
स सर्व-आभरणैः युक्तः बिभ्रत् श्रियम् अनुत्तमाम् । ताम् नगैः विविधैः जुष्टाम् सर्व-पुष्प-फल-उपगैः ॥ ६॥
sa sarva-ābharaṇaiḥ yuktaḥ bibhrat śriyam anuttamām . tām nagaiḥ vividhaiḥ juṣṭām sarva-puṣpa-phala-upagaiḥ .. 6..
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ ७॥
वृताम् पुष्करिणीभिः च नाना पुष्प-उपशोभिताम् । सदामदैः च विहगैः विचित्राम् परम-अद्भुताम् ॥ ७॥
vṛtām puṣkariṇībhiḥ ca nānā puṣpa-upaśobhitām . sadāmadaiḥ ca vihagaiḥ vicitrām parama-adbhutām .. 7..
ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः । वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ ८॥
ईहामृगैः च दृष्टि-मनोहरैः । वीथीः सम्प्रेक्षमाणः च मणि-काञ्चन-तोरणाः ॥ ८॥
īhāmṛgaiḥ ca dṛṣṭi-manoharaiḥ . vīthīḥ samprekṣamāṇaḥ ca maṇi-kāñcana-toraṇāḥ .. 8..
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् । अशोकवनिकामेव प्राविशत्सन्ततद्रुमाम् ॥ ९॥
नाना मृग-गण-आकीर्णाम् फलैः प्रपतितैः वृताम् । अशोक-वनिकाम् एव प्राविशत् सन्तत-द्रुमाम् ॥ ९॥
nānā mṛga-gaṇa-ākīrṇām phalaiḥ prapatitaiḥ vṛtām . aśoka-vanikām eva prāviśat santata-drumām .. 9..
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् । महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १०॥
अङ्गना-शत-मात्रम् तु तम् व्रजन्तम् अनुव्रजत् । महा-इन्द्रम् इव पौलस्त्यम् देवगन्धर्व-योषितः ॥ १०॥
aṅganā-śata-mātram tu tam vrajantam anuvrajat . mahā-indram iva paulastyam devagandharva-yoṣitaḥ .. 10..
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः । बालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ ११॥
दीपिकाः काञ्चनीः काश्चिद् जगृहुः तत्र योषितः । बाल-व्यजन-हस्ताः च तालवृन्तानि च अपराः ॥ ११॥
dīpikāḥ kāñcanīḥ kāścid jagṛhuḥ tatra yoṣitaḥ . bāla-vyajana-hastāḥ ca tālavṛntāni ca aparāḥ .. 11..
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः । मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ १२॥
काञ्चनैः अपि भृङ्गारैः जह्रुः सलिलम् अग्रतस् । मण्डल-अग्रान् असीन् च एव गृह्य अन्याः पृष्ठतस् ययुः ॥ १२॥
kāñcanaiḥ api bhṛṅgāraiḥ jahruḥ salilam agratas . maṇḍala-agrān asīn ca eva gṛhya anyāḥ pṛṣṭhatas yayuḥ .. 12..
का चिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी । दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३॥
का चित् रत्न-मयीम् पात्रीम् पूर्णाम् पानस्य भामिनी । दक्षिणा दक्षिणेन एव तदा जग्राह पाणिना ॥ १३॥
kā cit ratna-mayīm pātrīm pūrṇām pānasya bhāminī . dakṣiṇā dakṣiṇena eva tadā jagrāha pāṇinā .. 13..
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम् । सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४॥
राजहंस-प्रतीकाशम् छत्रम् पूर्ण-शशि-प्रभम् । सौवर्ण-दण्डम् अपरा गृहीत्वा पृष्ठतस् ययौ ॥ १४॥
rājahaṃsa-pratīkāśam chatram pūrṇa-śaśi-prabham . sauvarṇa-daṇḍam aparā gṛhītvā pṛṣṭhatas yayau .. 14..
निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः । अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५॥
निद्रा-मद-परीत-अक्ष्यः रावणस्य उत्तम-स्त्रियः । अनुजग्मुः पतिम् वीरम् घनम् विद्युत्-लताः इव ॥ १५॥
nidrā-mada-parīta-akṣyaḥ rāvaṇasya uttama-striyaḥ . anujagmuḥ patim vīram ghanam vidyut-latāḥ iva .. 15..
व्याविद्धहारकेयूराः समामृदितवर्णकाः।समागळितकेशान्तास्सस्वेदवदनास्तथा॥१६॥
व्याविद्ध-हार-केयूराः समामृदित-वर्णकाः।समागळित-केशान्ताः स स्वेद-वदनाः तथा॥१६॥
vyāviddha-hāra-keyūrāḥ samāmṛdita-varṇakāḥ.samāgal̤ita-keśāntāḥ sa sveda-vadanāḥ tathā..16..
घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः।स्वेदक्लिष्टाङ्गकुसुमास्सुमाल्याकुलमूर्धजाः॥१७॥
घूर्णन्त्यः मद-शेषेण निद्रया च शुभ-आननाः।स्वेद-क्लिष्ट-अङ्ग-कुसुमाः सुमाल्य-आकुल-मूर्धजाः॥१७॥
ghūrṇantyaḥ mada-śeṣeṇa nidrayā ca śubha-ānanāḥ.sveda-kliṣṭa-aṅga-kusumāḥ sumālya-ākula-mūrdhajāḥ..17..
प्रयान्तं नैऋतपतिं नार्यो मदिरलोचनाः।बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः॥१८॥
प्रयान्तम् नैऋत-पतिम् नार्यः मदिर-लोचनाः।बहु-मानात् च कामात् च प्रियाः भार्याः तम् अन्वयुः॥१८॥
prayāntam naiṛta-patim nāryaḥ madira-locanāḥ.bahu-mānāt ca kāmāt ca priyāḥ bhāryāḥ tam anvayuḥ..18..
स च कामपराधीन: पतिस्तासां महाबलः।सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ॥१९॥
स च काम-पर-अधीनः पतिः तासाम् महा-बलः।सीता-सक्त-मनाः मन्दः मन्द-आञ्चित-गतिः बभौ॥१९॥
sa ca kāma-para-adhīnaḥ patiḥ tāsām mahā-balaḥ.sītā-sakta-manāḥ mandaḥ manda-āñcita-gatiḥ babhau..19..
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥२०॥
ततस् काञ्ची-निनादम् च नूपुराणाम् च निःस्वनम् । शुश्राव परम-स्त्रीणाम् स कपिः मारुतात्मजः ॥२०॥
tatas kāñcī-ninādam ca nūpurāṇām ca niḥsvanam . śuśrāva parama-strīṇām sa kapiḥ mārutātmajaḥ ..20..
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् । द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥२१॥
तम् च अप्रतिम-कर्माणम् अचिन्त्य-बल-पौरुषम् । द्वार-देशम् अनुप्राप्तम् ददर्श हनुमान् कपिः ॥२१॥
tam ca apratima-karmāṇam acintya-bala-pauruṣam . dvāra-deśam anuprāptam dadarśa hanumān kapiḥ ..21..
दीपिकाभिरनेकाभिः समन्तादवभासितम् । गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥२२॥
दीपिकाभिः अनेकाभिः समन्तात् अवभासितम् । गन्ध-तैल-अवसिक्ताभिः ध्रियमाणाभिः अग्रतस् ॥२२॥
dīpikābhiḥ anekābhiḥ samantāt avabhāsitam . gandha-taila-avasiktābhiḥ dhriyamāṇābhiḥ agratas ..22..
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । समक्षमिव कन्दर्पमपविद्ध शरासनम् ॥२३॥
काम-दर्प-मदैः युक्तम् जिह्म-ताम्र-आयत-ईक्षणम् । समक्षम् इव कन्दर्पम् अपविद्ध शरासनम् ॥२३॥
kāma-darpa-madaiḥ yuktam jihma-tāmra-āyata-īkṣaṇam . samakṣam iva kandarpam apaviddha śarāsanam ..23..
मथितामृतफेनाभमरजो वस्त्रमुत्तमम् । सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥२४॥
मथित-अमृत-फेन-आभम् अरजः वस्त्रम् उत्तमम् । स लीलम् अनुकर्षन्तम् विमुक्तम् सक्तम् अङ्गदे ॥२४॥
mathita-amṛta-phena-ābham arajaḥ vastram uttamam . sa līlam anukarṣantam vimuktam saktam aṅgade ..24..
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः । समीपमुपसङ्क्रान्तं निध्यातुमुपचक्रमे ॥२५॥
तम् पत्र-विटपे लीनः पत्र-पुष्प-घन-आवृतः । समीपम् उपसङ्क्रान्तम् निध्यातुम् उपचक्रमे ॥२५॥
tam patra-viṭape līnaḥ patra-puṣpa-ghana-āvṛtaḥ . samīpam upasaṅkrāntam nidhyātum upacakrame ..25..
अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः । रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥२६॥
अवेक्षमाणः च ततस् ददर्श कपि-कुञ्जरः । रूप-यौवन-सम्पन्नाः रावणस्य वर-स्त्रियः ॥२६॥
avekṣamāṇaḥ ca tatas dadarśa kapi-kuñjaraḥ . rūpa-yauvana-sampannāḥ rāvaṇasya vara-striyaḥ ..26..
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः । तन्मृगद्विजसङ्घुष्टं प्रविष्टः प्रमदावनम् ॥२७॥
ताभिः परिवृतः राजा सुरूपाभिः महा-यशाः । तत् मृग-द्विज-सङ्घुष्टम् प्रविष्टः प्रमदा-वनम् ॥२७॥
tābhiḥ parivṛtaḥ rājā surūpābhiḥ mahā-yaśāḥ . tat mṛga-dvija-saṅghuṣṭam praviṣṭaḥ pramadā-vanam ..27..
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥२८॥
क्षीबः विचित्र-आभरणः शङ्कु-कर्णः महा-बलः । तेन विश्रवसः पुत्रः स दृष्टः राक्षस-अधिपः ॥२८॥
kṣībaḥ vicitra-ābharaṇaḥ śaṅku-karṇaḥ mahā-balaḥ . tena viśravasaḥ putraḥ sa dṛṣṭaḥ rākṣasa-adhipaḥ ..28..
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः । तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥२९॥
वृतः परम-नारीभिः ताराभिः इव चन्द्रमाः । तम् ददर्श महा-तेजाः तेजोवन्तम् महा-कपिः ॥२९॥
vṛtaḥ parama-nārībhiḥ tārābhiḥ iva candramāḥ . tam dadarśa mahā-tejāḥ tejovantam mahā-kapiḥ ..29..
रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः । अवप्लुतो महातेजा हनूमान्मारुतात्मजः ॥३०॥
रावणः अयम् महा-बाहुः इति सञ्चिन्त्य वानरः । अवप्लुतः महा-तेजाः हनूमान् मारुतात्मजः ॥३०॥
rāvaṇaḥ ayam mahā-bāhuḥ iti sañcintya vānaraḥ . avaplutaḥ mahā-tejāḥ hanūmān mārutātmajaḥ ..30..
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा । पत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् ॥३१॥
स तथा अपि उग्र-तेजाः सन् निर्धूतः तस्य तेजसा । पत्र-गुह्य-अन्तरे सक्तः हनूमान् संवृतः अभवत् ॥३१॥
sa tathā api ugra-tejāḥ san nirdhūtaḥ tasya tejasā . patra-guhya-antare saktaḥ hanūmān saṃvṛtaḥ abhavat ..31..
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् । दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥३२॥
स ताम् असित-केशान्ताम् सु श्रोणीम् संहत-स्तनीम् । दिदृक्षुः असितापाङ्गीम् उपावर्तत रावणः ॥३२॥
sa tām asita-keśāntām su śroṇīm saṃhata-stanīm . didṛkṣuḥ asitāpāṅgīm upāvartata rāvaṇaḥ ..32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In