This overlay will guide you through the buttons:

| |
|
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता । रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥ १॥
तस्मिन् एव ततस् काले राज-पुत्री तु अनिन्दिता । रूप-यौवन-सम्पन्नम् भूषण-उत्तम-भूषितम् ॥ १॥
tasmin eva tatas kāle rāja-putrī tu aninditā . rūpa-yauvana-sampannam bhūṣaṇa-uttama-bhūṣitam .. 1..
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २॥
ततस् दृष्ट्वा एव वैदेही रावणम् राक्षस-अधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २॥
tatas dṛṣṭvā eva vaidehī rāvaṇam rākṣasa-adhipam . prāvepata varārohā pravāte kadalī yathā .. 2..
ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ । उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ ३॥
ऊरुभ्याम् उदरम् छाद्य बाहुभ्याम् च पयोधरौ । उपविष्टा विशाल-अक्षी रुदन्ती वरवर्णिनी ॥ ३॥
ūrubhyām udaram chādya bāhubhyām ca payodharau . upaviṣṭā viśāla-akṣī rudantī varavarṇinī .. 3..
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः । ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे ॥ ४॥
दशग्रीवः तु वैदेहीम् रक्षिताम् राक्षसी-गणैः । ददर्श दीनाम् दुःख-आर्तम् नावम् सन्नाम् इव अर्णवे ॥ ४॥
daśagrīvaḥ tu vaidehīm rakṣitām rākṣasī-gaṇaiḥ . dadarśa dīnām duḥkha-ārtam nāvam sannām iva arṇave .. 4..
असंवृतायामासीनां धरण्यां संशितव्रताम् । छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः । मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् || ५||
असंवृतायाम् आसीनाम् धरण्याम् संशित-व्रताम् । छिन्नाम् प्रपतिताम् भूमौ शाखाम् इव वनस्पतेः । मल-मण्डन-दिग्ध-अङ्गीम् मण्डन-अर्हाम् अमण्डिताम् ॥ ५॥
asaṃvṛtāyām āsīnām dharaṇyām saṃśita-vratām . chinnām prapatitām bhūmau śākhām iva vanaspateḥ . mala-maṇḍana-digdha-aṅgīm maṇḍana-arhām amaṇḍitām .. 5..
मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम्।मृणाली पङ्कदिग्धेव विभाति न विभाति च॥६॥
मल-मण्डन-चित्र-अङ्गीम् मण्डन-अर्हाम् अमण्डिताम्।मृणाली पङ्क-दिग्धा इव विभाति न विभाति च॥६॥
mala-maṇḍana-citra-aṅgīm maṇḍana-arhām amaṇḍitām.mṛṇālī paṅka-digdhā iva vibhāti na vibhāti ca..6..
समीपं राजसिंहस्य रामस्य विदितात्मनः । सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥७॥
समीपम् राज-सिंहस्य रामस्य विदित-आत्मनः । सङ्कल्प-हय-संयुक्तैः यान्तीम् इव मनोरथैः ॥७॥
samīpam rāja-siṃhasya rāmasya vidita-ātmanaḥ . saṅkalpa-haya-saṃyuktaiḥ yāntīm iva manorathaiḥ ..7..
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम् । दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥८॥
शुष्यन्तीम् रुदतीम् एकाम् ध्यान-शोक-परायणाम् । दुःखस्य अन्तम् अपश्यन्तीम् रामाम् रामम् अनुव्रताम् ॥८॥
śuṣyantīm rudatīm ekām dhyāna-śoka-parāyaṇām . duḥkhasya antam apaśyantīm rāmām rāmam anuvratām ..8..
वेष्टमानामथाविष्टां पन्नगेन्द्रवधूम् इव । धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥९॥
वेष्टमानाम् अथ आविष्टाम् पन्नग-इन्द्र-वधूम् इव । धूप्यमानाम् ग्रहेण इव रोहिणीम् धूमकेतुना ॥९॥
veṣṭamānām atha āviṣṭām pannaga-indra-vadhūm iva . dhūpyamānām graheṇa iva rohiṇīm dhūmaketunā ..9..
वृत्तशीले कुले जातामाचारवति धार्मिके । पुनः संस्कारमापन्नां जातमिव च दुष्कुले ॥१०॥
वृत्त-शीले कुले जाताम् आचारवति धार्मिके । पुनर् संस्कारम् आपन्नाम् जातम् इव च दुष्कुले ॥१०॥
vṛtta-śīle kule jātām ācāravati dhārmike . punar saṃskāram āpannām jātam iva ca duṣkule ..10..
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम् । प्रज्ञामिव परिक्षीणामाशां प्रतिहताम् इव ॥११॥
सन्नाम् इव महा-कीर्तिम् श्रद्धाम् इव विमानिताम् । प्रज्ञाम् इव परिक्षीणाम् आशाम् प्रतिहताम् इव ॥११॥
sannām iva mahā-kīrtim śraddhām iva vimānitām . prajñām iva parikṣīṇām āśām pratihatām iva ..11..
आयतीमिव विध्वस्तामाज्ञां प्रतिहताम् इव । दीप्तामिव दिशं काले पूजामपहृताम् इव ॥१२॥
आयतीम् इव विध्वस्ताम् आज्ञाम् प्रतिहताम् इव । दीप्ताम् इव दिशम् काले पूजाम् अपहृताम् इव ॥१२॥
āyatīm iva vidhvastām ājñām pratihatām iva . dīptām iva diśam kāle pūjām apahṛtām iva ..12..
पद्मिनीमिव विध्वस्तां हतशूरां चमूम् इव । प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम् ॥१३॥
पद्मिनीम् इव विध्वस्ताम् हत-शूराम् चमूम् इव । प्रभाम् इव तपः-ध्वस्ताम् उपक्षीणाम् इव आपगाम् ॥१३॥
padminīm iva vidhvastām hata-śūrām camūm iva . prabhām iva tapaḥ-dhvastām upakṣīṇām iva āpagām ..13..
वेदीमिव परामृष्टां शान्तामग्निशिखाम् इव । पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥१४॥
वेदीम् इव परामृष्टाम् शान्ताम् अग्नि-शिखाम् इव । पौर्णमासीम् इव निशाम् राहु-ग्रस्त-इन्दु-मण्डलाम् ॥१४॥
vedīm iva parāmṛṣṭām śāntām agni-śikhām iva . paurṇamāsīm iva niśām rāhu-grasta-indu-maṇḍalām ..14..
उत्कृष्टपर्णकमलां वित्रासितविहङ्गमाम् । हस्तिहस्तपरामृष्टामाकुलां पद्मिनीम् इव ॥१५॥
उत्कृष्ट-पर्ण-कमलाम् वित्रासित-विहङ्गमाम् । हस्ति-हस्त-परामृष्टाम् आकुलाम् पद्मिनीम् इव ॥१५॥
utkṛṣṭa-parṇa-kamalām vitrāsita-vihaṅgamām . hasti-hasta-parāmṛṣṭām ākulām padminīm iva ..15..
पतिशोकातुरां शुष्कां नदीं विस्राविताम् इव । परया मृजया हीनां कृष्णपक्षे निशाम् इव ॥१६॥
पति-शोक-आतुराम् शुष्काम् नदीम् विस्राविताम् इव । परया मृजया हीनाम् कृष्ण-पक्षे निशाम् इव ॥१६॥
pati-śoka-āturām śuṣkām nadīm visrāvitām iva . parayā mṛjayā hīnām kṛṣṇa-pakṣe niśām iva ..16..
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् । तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥१७॥
सुकुमारीम् सुजात-अङ्गीम् रत्न-गर्भगृह-उचिताम् । तप्यमानाम् इव उष्णेन मृणालीम् अचिर-उद्धृताम् ॥१७॥
sukumārīm sujāta-aṅgīm ratna-garbhagṛha-ucitām . tapyamānām iva uṣṇena mṛṇālīm acira-uddhṛtām ..17..
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् । निःश्वसन्तीं सुदुःखार्तां गजराजवधूम् इव ॥१८॥
स्तम्भे यूथपेन विनाकृताम् । निःश्वसन्तीम् सु दुःख-आर्ताम् गज-राज-वधूम् इव ॥१८॥
stambhe yūthapena vinākṛtām . niḥśvasantīm su duḥkha-ārtām gaja-rāja-vadhūm iva ..18..
एकया दीर्घया वेण्या शोभमानामयत्नतः । नीलया नीरदापाये वनराज्या महीम् इव ॥१९॥
एकया दीर्घया वेण्या शोभमानाम् अयत्नतः । नीलया नीरद-अपाये वन-राज्या महीम् इव ॥१९॥
ekayā dīrghayā veṇyā śobhamānām ayatnataḥ . nīlayā nīrada-apāye vana-rājyā mahīm iva ..19..
उपवासेन शोकेन ध्यानेन च भयेन च । परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥२०॥
उपवासेन शोकेन ध्यानेन च भयेन च । परिक्षीणाम् कृशाम् दीनाम् अल्प-आहाराम् तपोधनाम् ॥२०॥
upavāsena śokena dhyānena ca bhayena ca . parikṣīṇām kṛśām dīnām alpa-āhārām tapodhanām ..20..
आयाचमानां दुःखार्तां प्राञ्जलिं देवताम् इव । भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥२१॥
आयाचमानाम् दुःख-आर्ताम् प्राञ्जलिम् देवताम् इव । भावेन रघु-मुख्यस्य दशग्रीव-पराभवम् ॥२१॥
āyācamānām duḥkha-ārtām prāñjalim devatām iva . bhāvena raghu-mukhyasya daśagrīva-parābhavam ..21..
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायतशुक्ललोचनाम् । अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥२२॥
समीक्षमाणाम् रुदतीम् अनिन्दिताम् सुपक्ष्म-ताम्र-आयत-शुक्ल-लोचनाम् । अनुव्रताम् रामम् अतीव मैथिलीम् प्रलोभयामास वधाय रावणः ॥२२॥
samīkṣamāṇām rudatīm aninditām supakṣma-tāmra-āyata-śukla-locanām . anuvratām rāmam atīva maithilīm pralobhayāmāsa vadhāya rāvaṇaḥ ..22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In