This overlay will guide you through the buttons:

| |
|
स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ १ ॥
स सागरम् अनाधृष्यम् अतिक्रम्य महा-बलः । त्रिकूट-शिखरे लङ्काम् स्थिताम् स्वस्थः ददर्श ह ॥ १ ॥
sa sāgaram anādhṛṣyam atikramya mahā-balaḥ . trikūṭa-śikhare laṅkām sthitām svasthaḥ dadarśa ha .. 1 ..
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ २ ॥
ततस् पादप-मुक्तेन पुष्प-वर्षेण वीर्यवान् । अभिवृष्टः स्थितः तत्र बभौ पुष्प-मयः यथा ॥ २ ॥
tatas pādapa-muktena puṣpa-varṣeṇa vīryavān . abhivṛṣṭaḥ sthitaḥ tatra babhau puṣpa-mayaḥ yathā .. 2 ..
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः । अनिःश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ ॥
योजनानाम् शतम् श्रीमान् तीर्त्वा अपि उत्तम-विक्रमः । अ निःश्वसन् कपिः तत्र न ग्लानिम् अधिगच्छति ॥ ३ ॥
yojanānām śatam śrīmān tīrtvā api uttama-vikramaḥ . a niḥśvasan kapiḥ tatra na glānim adhigacchati .. 3 ..
शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ ४ ॥
शतानि अहम् योजनानाम् क्रमेयम् सु बहूनि अपि । किम् पुनर् सागरस्य अन्तम् सङ्ख्यातम् शत-योजनम् ॥ ४ ॥
śatāni aham yojanānām krameyam su bahūni api . kim punar sāgarasya antam saṅkhyātam śata-yojanam .. 4 ..
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् ॥ ५ ॥
स तु वीर्यवताम् श्रेष्ठः प्लवताम् अपि च उत्तमः । जगाम वेगवान् लङ्काम् लङ्घयित्वा महा-उदधिम् ॥ ५ ॥
sa tu vīryavatām śreṣṭhaḥ plavatām api ca uttamaḥ . jagāma vegavān laṅkām laṅghayitvā mahā-udadhim .. 5 ..
शाद्वलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ ॥
śādvalāni ca nīlāni gandhavanti vanāni ca . gaṇḍavanti ca madhyena jagāma nagavanti ca .. 6 ..
शैलांश्च तरुसञ्छन्नान्वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ॥ ७ ॥
शैलान् च तरु-सञ्छन्नान् वन-राजीः च पुष्पिताः । अभिचक्राम तेजस्वी हनूमान् प्लवग-ऋषभः ॥ ७ ॥
śailān ca taru-sañchannān vana-rājīḥ ca puṣpitāḥ . abhicakrāma tejasvī hanūmān plavaga-ṛṣabhaḥ .. 7 ..
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च । स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ ८ ॥
स तस्मिन् अचले तिष्ठन् वनानि उपवनानि च । स नग-अग्रे च ताम् लङ्काम् ददर्श पवनात्मजः ॥ ८ ॥
sa tasmin acale tiṣṭhan vanāni upavanāni ca . sa naga-agre ca tām laṅkām dadarśa pavanātmajaḥ .. 8 ..
सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् । प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि ॥ ९ ॥
सरलान् कर्णिकारान् च खर्जूरान् च सु पुष्पितान् । प्रियालान् मुचुलिन्दान् च कुटजान् केतकान् अपि ॥ ९ ॥
saralān karṇikārān ca kharjūrān ca su puṣpitān . priyālān muculindān ca kuṭajān ketakān api .. 9 ..
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा । असनान्कोविदारांश्च करवीरांश्च पुष्पितान् ॥ १० ॥
प्रियङ्गून् गन्ध-पूर्णान् च नीपान् सप्तच्छदान् तथा । असनान् कोविदारान् च करवीरान् च पुष्पितान् ॥ १० ॥
priyaṅgūn gandha-pūrṇān ca nīpān saptacchadān tathā . asanān kovidārān ca karavīrān ca puṣpitān .. 10 ..
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि । पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥ ११ ॥
पुष्प-भार-निबद्धान् च तथा मुकुलितान् अपि । पादपान् विहग-आकीर्णान् पवन-आधूत-मस्तकान् ॥ ११ ॥
puṣpa-bhāra-nibaddhān ca tathā mukulitān api . pādapān vihaga-ākīrṇān pavana-ādhūta-mastakān .. 11 ..
हंसकारण्डवाकीर्णाः वापीः पद्मोत्पलायुताः । आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥ १२ ॥
हंस-कारण्डव-आकीर्णाः वापीः पद्म-उत्पल-आयुताः । आक्रीडान् विविधान् रम्यान् विविधान् च जलाशयान् ॥ १२ ॥
haṃsa-kāraṇḍava-ākīrṇāḥ vāpīḥ padma-utpala-āyutāḥ . ākrīḍān vividhān ramyān vividhān ca jalāśayān .. 12 ..
सन्ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ ॥
सन्ततान् विविधैः वृक्षैः सर्व-ऋतु-फल-पुष्पितैः । उद्यानानि च रम्याणि ददर्श कपि-कुञ्जरः ॥ १३ ॥
santatān vividhaiḥ vṛkṣaiḥ sarva-ṛtu-phala-puṣpitaiḥ . udyānāni ca ramyāṇi dadarśa kapi-kuñjaraḥ .. 13 ..
समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् । परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ॥ १४ ॥
समासाद्य च लक्ष्मीवान् लङ्काम् रावण-पालिताम् । परिखाभिः स पद्माभिः स उत्पलाभिः अलङ्कृताम् ॥ १४ ॥
samāsādya ca lakṣmīvān laṅkām rāvaṇa-pālitām . parikhābhiḥ sa padmābhiḥ sa utpalābhiḥ alaṅkṛtām .. 14 ..
सीतापहरणार्थेन रावणेन सुरक्षिताम् । समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ १५ ॥
सीता-अपहरण-अर्थेन रावणेन सु रक्षिताम् । समन्तात् विचरद्भिः च राक्षसैः उग्र-धन्विभिः ॥ १५ ॥
sītā-apaharaṇa-arthena rāvaṇena su rakṣitām . samantāt vicaradbhiḥ ca rākṣasaiḥ ugra-dhanvibhiḥ .. 15 ..
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ १६ ॥
काञ्चनेन आवृताम् रम्याम् प्राकारेण महा-पुरीम् । गृहैः च ग्रह-सङ्काशैः शारद-अम्बुद-सन्निभैः ॥ १६ ॥
kāñcanena āvṛtām ramyām prākāreṇa mahā-purīm . gṛhaiḥ ca graha-saṅkāśaiḥ śārada-ambuda-sannibhaiḥ .. 16 ..
पाण्डराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् । अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ १७ ॥
पाण्डराभिः प्रतोलीभिः उच्चाभिः अभिसंवृताम् । अट्टालक-शत-आकीर्णाम् पताका-ध्वज-मालिनीम् ॥ १७ ॥
pāṇḍarābhiḥ pratolībhiḥ uccābhiḥ abhisaṃvṛtām . aṭṭālaka-śata-ākīrṇām patākā-dhvaja-mālinīm .. 17 ..
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः । ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव ॥ १८ ॥
तोरणैः काञ्चनैः दिव्यैः लता-पङ्क्ति-विचित्रितैः । ददर्श हनुमान् लङ्काम् दिवि देव-पुरीम् इव ॥ १८ ॥
toraṇaiḥ kāñcanaiḥ divyaiḥ latā-paṅkti-vicitritaiḥ . dadarśa hanumān laṅkām divi deva-purīm iva .. 18 ..
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः । ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ १९ ॥
गिरि-मूर्ध्नि स्थिताम् लङ्काम् पाण्डुरैः भवनैः शुभैः । ददर्श स कपि-श्रेष्ठः पुरम् आकाश-गम् यथा ॥ १९ ॥
giri-mūrdhni sthitām laṅkām pāṇḍuraiḥ bhavanaiḥ śubhaiḥ . dadarśa sa kapi-śreṣṭhaḥ puram ākāśa-gam yathā .. 19 ..
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा । प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् ॥ २० ॥
पालिताम् राक्षस-इन्द्रेण निर्मिताम् विश्वकर्मणा । प्लवमानाम् इव आकाशे ददर्श हनुमान् पुरीम् ॥ २० ॥
pālitām rākṣasa-indreṇa nirmitām viśvakarmaṇā . plavamānām iva ākāśe dadarśa hanumān purīm .. 20 ..
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् । शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥ २१ ॥
वप्र-प्राकार-जघनाम् विपुल-अम्बु-नव-अम्बराम् । शतघ्नी-शूल-केश-अन्ताम् अट्टालक-वतंसकाम् ॥ २१ ॥
vapra-prākāra-jaghanām vipula-ambu-nava-ambarām . śataghnī-śūla-keśa-antām aṭṭālaka-vataṃsakām .. 21 ..
मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा । द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ ॥
मनसा इव कृताम् लङ्काम् निर्मिताम् विश्वकर्मणा । द्वारम् उत्तरम् आसाद्य चिन्तयामास वानरः ॥ २२ ॥
manasā iva kṛtām laṅkām nirmitām viśvakarmaṇā . dvāram uttaram āsādya cintayāmāsa vānaraḥ .. 22 ..
कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् । ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ २३ ॥
कैलास-शिखर-प्रख्याम् आलिखन्तीम् इव अम्बरम् । ध्रियमाणम् इव आकाशम् उच्छ्रितैः भवन-उत्तमैः ॥ २३ ॥
kailāsa-śikhara-prakhyām ālikhantīm iva ambaram . dhriyamāṇam iva ākāśam ucchritaiḥ bhavana-uttamaiḥ .. 23 ..
सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ २४ ॥
सम्पूर्णाम् राक्षसैः घोरैः नागैः भोगवतीम् इव । अचिन्त्याम् सु कृताम् स्पष्टाम् कुबेर-अध्युषिताम् पुरा ॥ २४ ॥
sampūrṇām rākṣasaiḥ ghoraiḥ nāgaiḥ bhogavatīm iva . acintyām su kṛtām spaṣṭām kubera-adhyuṣitām purā .. 24 ..
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिसपाणिभिः । रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ २५ ॥
दंष्ट्रिभिः बहुभिः शूरैः शूल-पट्टि-स पाणिभिः । रक्षिताम् राक्षसैः घोरैः गुहाम् आशीविषैः इव ॥ २५ ॥
daṃṣṭribhiḥ bahubhiḥ śūraiḥ śūla-paṭṭi-sa pāṇibhiḥ . rakṣitām rākṣasaiḥ ghoraiḥ guhām āśīviṣaiḥ iva .. 25 ..
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः । रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥
तस्याः च महतीम् गुप्तिम् सागरम् च निरीक्ष्य सः । रावणम् च रिपुम् घोरम् चिन्तयामास वानरः ॥ २६ ॥
tasyāḥ ca mahatīm guptim sāgaram ca nirīkṣya saḥ . rāvaṇam ca ripum ghoram cintayāmāsa vānaraḥ .. 26 ..
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः । नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ २७ ॥
आगत्य अपि इह हरयः भविष्यन्ति निरर्थकाः । नहि युद्धेन वै लङ्का शक्या जेतुम् सुरैः अपि ॥ २७ ॥
āgatya api iha harayaḥ bhaviṣyanti nirarthakāḥ . nahi yuddhena vai laṅkā śakyā jetum suraiḥ api .. 27 ..
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् । प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ २८ ॥
इमाम् तु विषमाम् दुर्गाम् लङ्काम् रावण-पालिताम् । प्राप्य अपि स महा-बाहुः किम् करिष्यति राघवः ॥ २८ ॥
imām tu viṣamām durgām laṅkām rāvaṇa-pālitām . prāpya api sa mahā-bāhuḥ kim kariṣyati rāghavaḥ .. 28 ..
अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥
अवकाशः न सान्त्वस्य राक्षसेषु अभिगम्यते । न दानस्य न भेदस्य न एव युद्धस्य दृश्यते ॥ २९ ॥
avakāśaḥ na sāntvasya rākṣaseṣu abhigamyate . na dānasya na bhedasya na eva yuddhasya dṛśyate .. 29 ..
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥
चतुर्णाम् एव हि गतिः वानराणाम् महात्मनाम् । वालि-पुत्रस्य नीलस्य मम राज्ञः च धीमतः ॥ ३० ॥
caturṇām eva hi gatiḥ vānarāṇām mahātmanām . vāli-putrasya nīlasya mama rājñaḥ ca dhīmataḥ .. 30 ..
यावज्जानामि वैदेहीं यदि जीवति वा नवा । तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ ३१ ॥
यावत् जानामि वैदेहीम् यदि जीवति वा नवा । तत्र एव चिन्तयिष्यामि दृष्ट्वा ताम् जनकात्मजाम् ॥ ३१ ॥
yāvat jānāmi vaidehīm yadi jīvati vā navā . tatra eva cintayiṣyāmi dṛṣṭvā tām janakātmajām .. 31 ..
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः । गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः ॥ ३२ ॥
ततस् स चिन्तयामास मुहूर्तम् कपि-कुञ्जरः । गिरि-शृङ्गे स्थितः तस्मिन् रामस्य अभ्युदये रतः ॥ ३२ ॥
tatas sa cintayāmāsa muhūrtam kapi-kuñjaraḥ . giri-śṛṅge sthitaḥ tasmin rāmasya abhyudaye rataḥ .. 32 ..
अनेन रूपेण मया न शक्या रक्षसां पुरी । प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ ३३ ॥
अनेन रूपेण मया न शक्या रक्षसाम् पुरी । प्रवेष्टुम् राक्षसैः गुप्ता क्रूरैः बल-समन्वितैः ॥ ३३ ॥
anena rūpeṇa mayā na śakyā rakṣasām purī . praveṣṭum rākṣasaiḥ guptā krūraiḥ bala-samanvitaiḥ .. 33 ..
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः । वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ ३४ ॥
उग्र-ओजसः महा-वीर्याः बलवन्तः च राक्षसाः । वञ्चनीयाः मया सर्वे जानकीम् परिमार्गता ॥ ३४ ॥
ugra-ojasaḥ mahā-vīryāḥ balavantaḥ ca rākṣasāḥ . vañcanīyāḥ mayā sarve jānakīm parimārgatā .. 34 ..
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया । प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ ३५ ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का-पुरी मया । प्रवेष्टुम् प्राप्त-कालम् मे कृत्यम् साधयितुम् महत् ॥ ३५ ॥
lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā-purī mayā . praveṣṭum prāpta-kālam me kṛtyam sādhayitum mahat .. 35 ..
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः । हनूमांश्चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥ ३६ ॥ [विनिश्वस्य]
ताम् पुरीम् तादृशीम् दृष्ट्वा दुराधर्षाम् सुर-असुरैः । हनूमान् चिन्तयामास विनिश्चित्य मुहुर् मुहुर् ॥ ३६ ॥ [विनिश्वस्य
tām purīm tādṛśīm dṛṣṭvā durādharṣām sura-asuraiḥ . hanūmān cintayāmāsa viniścitya muhur muhur .. 36 .. [viniśvasya
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् । अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥
केन उपायेन पश्येयम् मैथिलीम् जनकात्मजाम् । अदृष्टः राक्षस-इन्द्रेण रावणेन दुरात्मना ॥ ३७ ॥
kena upāyena paśyeyam maithilīm janakātmajām . adṛṣṭaḥ rākṣasa-indreṇa rāvaṇena durātmanā .. 37 ..
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः । एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ ३८ ॥
न विनश्येत् कथम् कार्यम् रामस्य विदित-आत्मनः । एकाम् एकः च पश्येयम् रहिते जनकात्मजाम् ॥ ३८ ॥
na vinaśyet katham kāryam rāmasya vidita-ātmanaḥ . ekām ekaḥ ca paśyeyam rahite janakātmajām .. 38 ..
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३९ ॥
भूताः च अर्थाः विपद्यन्ते देश-काल-विरोधिताः । विक्लवम् दूतम् आसाद्य तमः सूर्य-उदये यथा ॥ ३९ ॥
bhūtāḥ ca arthāḥ vipadyante deśa-kāla-virodhitāḥ . viklavam dūtam āsādya tamaḥ sūrya-udaye yathā .. 39 ..
अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ४० ॥
अर्थ-अनर्थ-अन्तरे बुद्धिः निश्चिता अपि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डित-मानिनः ॥ ४० ॥
artha-anartha-antare buddhiḥ niścitā api na śobhate . ghātayanti hi kāryāṇi dūtāḥ paṇḍita-māninaḥ .. 40 ..
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ४१ ॥
न विनश्येत् कथम् कार्यम् वैक्लव्यम् न कथम् भवेत् । लङ्घनम् च समुद्रस्य कथम् नु न वृथा भवेत् ॥ ४१ ॥
na vinaśyet katham kāryam vaiklavyam na katham bhavet . laṅghanam ca samudrasya katham nu na vṛthā bhavet .. 41 ..
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः । भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ ४२ ॥
मयि दृष्टे तु रक्षोभिः रामस्य विदित-आत्मनः । भवेत् व्यर्थम् इदम् कार्यम् रावण-अनर्थम् इच्छतः ॥ ४२ ॥
mayi dṛṣṭe tu rakṣobhiḥ rāmasya vidita-ātmanaḥ . bhavet vyartham idam kāryam rāvaṇa-anartham icchataḥ .. 42 ..
न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः । अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ ४३ ॥
न हि शक्यम् क्वचिद् स्थातुम् अविज्ञातेन राक्षसैः । अपि राक्षस-रूपेण किम् उत अन्येन केनचिद् ॥ ४३ ॥
na hi śakyam kvacid sthātum avijñātena rākṣasaiḥ . api rākṣasa-rūpeṇa kim uta anyena kenacid .. 43 ..
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम । न ह्यस्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम् ॥ ४४ ॥
वायुः अपि अत्र न अज्ञातः चरेत् इति मतिः मम । न हि अस्ति अविदितम् किञ्चिद् राक्षसानाम् बलीयसाम् ॥ ४४ ॥
vāyuḥ api atra na ajñātaḥ caret iti matiḥ mama . na hi asti aviditam kiñcid rākṣasānām balīyasām .. 44 ..
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः । विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ ४५ ॥
इह अहम् यदि तिष्ठामि स्वेन रूपेण संवृतः । विनाशम् उपयास्यामि भर्तुः अर्थः च हीयते ॥ ४५ ॥
iha aham yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ . vināśam upayāsyāmi bhartuḥ arthaḥ ca hīyate .. 45 ..
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः । लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ ४६ ॥
तत् अहम् स्वेन रूपेण रजन्याम् ह्रस्वताम् गतः । लङ्काम् अधिपतिष्यामि राघवस्य अर्थ-सिद्धये ॥ ४६ ॥
tat aham svena rūpeṇa rajanyām hrasvatām gataḥ . laṅkām adhipatiṣyāmi rāghavasya artha-siddhaye .. 46 ..
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् । विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥
रावणस्य पुरीम् रात्रौ प्रविश्य सु दुरासदाम् । विचिन्वन् भवनम् सर्वम् द्रक्ष्यामि जनकात्मजाम् ॥ ४७ ॥
rāvaṇasya purīm rātrau praviśya su durāsadām . vicinvan bhavanam sarvam drakṣyāmi janakātmajām .. 47 ..
इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः । आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ ४८ ॥
इति सञ्चिन्त्य हनुमान् सूर्यस्य अस्तमयम् कपिः । आचकाङ्क्षे तदा वीरः वैदेह्याः दर्शन-उत्सुकः ॥ ४८ ॥
iti sañcintya hanumān sūryasya astamayam kapiḥ . ācakāṅkṣe tadā vīraḥ vaidehyāḥ darśana-utsukaḥ .. 48 ..
सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः । वृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः ॥ ४९ ॥
सूर्ये च अस्तम् गते रात्रौ देहम् सङ्क्षिप्य मारुतिः । वृषदंशक-मात्रः सन् बभूव अद्भुत-दर्शनः ॥ ४९ ॥
sūrye ca astam gate rātrau deham saṅkṣipya mārutiḥ . vṛṣadaṃśaka-mātraḥ san babhūva adbhuta-darśanaḥ .. 49 ..
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् । प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ ५० ॥
प्रदोष-काले हनुमान् तूर्णम् उत्प्लुत्य वीर्यवान् । प्रविवेश पुरीम् रम्याम् सुविभक्त-महापथाम् ॥ ५० ॥
pradoṣa-kāle hanumān tūrṇam utplutya vīryavān . praviveśa purīm ramyām suvibhakta-mahāpathām .. 50 ..
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः । शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ ॥
प्रासाद-माला-वितताम् स्तम्भैः काञ्चन-राजतैः । शातकुम्भ-मयैः जालैः गन्धर्वनगर-उपमाम् ॥ ५१ ॥
prāsāda-mālā-vitatām stambhaiḥ kāñcana-rājataiḥ . śātakumbha-mayaiḥ jālaiḥ gandharvanagara-upamām .. 51 ..
सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् । तलैः स्फटिकसङ्कीर्णैः कार्तस्वरविभूषितैः ॥ ५२ ॥
सप्त-भूम-अष्ट-भूमैः च स ददर्श महा-पुरीम् । तलैः स्फटिक-सङ्कीर्णैः कार्तस्वर-विभूषितैः ॥ ५२ ॥
sapta-bhūma-aṣṭa-bhūmaiḥ ca sa dadarśa mahā-purīm . talaiḥ sphaṭika-saṅkīrṇaiḥ kārtasvara-vibhūṣitaiḥ .. 52 ..
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः । तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५३ ॥
वैडूर्य-मणि-चित्रैः च मुक्ता-जाल-विभूषितैः । तलैः शुशुभिरे तानि भवनानि अत्र रक्षसाम् ॥ ५३ ॥
vaiḍūrya-maṇi-citraiḥ ca muktā-jāla-vibhūṣitaiḥ . talaiḥ śuśubhire tāni bhavanāni atra rakṣasām .. 53 ..
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ ५४ ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्काम् उद्द्योतयामासुः सर्वतस् समलङ्कृताम् ॥ ५४ ॥
kāñcanāni vicitrāṇi toraṇāni ca rakṣasām . laṅkām uddyotayāmāsuḥ sarvatas samalaṅkṛtām .. 54 ..
अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः । आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ ॥
अचिन्त्याम् अद्भुत-आकाराम् दृष्ट्वा लङ्काम् महा-कपिः । आसीत् विषण्णः हृष्टः च वैदेह्याः दर्शन-उत्सुकः ॥ ५५ ॥
acintyām adbhuta-ākārām dṛṣṭvā laṅkām mahā-kapiḥ . āsīt viṣaṇṇaḥ hṛṣṭaḥ ca vaidehyāḥ darśana-utsukaḥ .. 55 ..
स पाण्डुरोद्विद्धविमानमालिनींमहार्हजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितांक्षपाचरैर्भीमबलैः समावृताम् ॥ ५६ ॥
स पाण्डुर-उद्विद्ध-विमान-मालिनीम् महार्ह-जाम्बूनद-जाल-तोरणाम् । यशस्विनीम् रावण-बाहु-पालिताम् क्षपाचरैः भीम-बलैः समावृताम् ॥ ५६ ॥
sa pāṇḍura-udviddha-vimāna-mālinīm mahārha-jāmbūnada-jāla-toraṇām . yaśasvinīm rāvaṇa-bāhu-pālitām kṣapācaraiḥ bhīma-balaiḥ samāvṛtām .. 56 ..
चन्द्रोऽपि साचिव्यमिवास्य कुर्वं--स्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन वितत्य लोक--मुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ ॥
चन्द्रः अपि साचिव्यम् इव अस्य कुर्वन् तारा-गणैः मध्य-गतः विराजन् । ज्योत्स्ना-वितानेन वितत्य लोकम् उत्तिष्ठते न एक-सहस्र-रश्मिः ॥ ५७ ॥
candraḥ api sācivyam iva asya kurvan tārā-gaṇaiḥ madhya-gataḥ virājan . jyotsnā-vitānena vitatya lokam uttiṣṭhate na eka-sahasra-raśmiḥ .. 57 ..
शङ्खप्रभं क्षीरमृणालवर्ण--मुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रं स हरिप्रवीरःपोप्लूयमानं सरसीव हंसम् ॥ ५८ ॥
शङ्ख-प्रभम् क्षीर-मृणाल-वर्ण-मुद्ग-छमानम् व्यवभासमानम् । ददर्श चन्द्रम् स हरि-प्रवीरः पोप्लूयमानम् सरसि इव हंसम् ॥ ५८ ॥
śaṅkha-prabham kṣīra-mṛṇāla-varṇa-mudga-chamānam vyavabhāsamānam . dadarśa candram sa hari-pravīraḥ poplūyamānam sarasi iva haṃsam .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In