This overlay will guide you through the buttons:

| |
|
स तां परिवृतां दीनां निरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १॥
स ताम् परिवृताम् दीनाम् निरानन्दाम् तपस्विनीम् । स आकारैः मधुरैः वाक्यैः न्यदर्शयत रावणः ॥ १॥
sa tām parivṛtām dīnām nirānandām tapasvinīm . sa ākāraiḥ madhuraiḥ vākyaiḥ nyadarśayata rāvaṇaḥ .. 1..
मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २॥
माम् दृष्ट्वा नाग-नासा-ऊरु-गूहमाना स्तन-उदरम् । अदर्शनम् इव आत्मानम् भयात् नेतुम् त्वम् इच्छसि ॥ २॥
mām dṛṣṭvā nāga-nāsā-ūru-gūhamānā stana-udaram . adarśanam iva ātmānam bhayāt netum tvam icchasi .. 2..
कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये । सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ ३॥
कामये त्वाम् विशाल-अक्षि बहु मन्यस्व माम् प्रिये । सर्व-अङ्ग-गुण-सम्पन्ने सर्व-लोक-मनोहरे ॥ ३॥
kāmaye tvām viśāla-akṣi bahu manyasva mām priye . sarva-aṅga-guṇa-sampanne sarva-loka-manohare .. 3..
नेह के चिन्मनुष्या वा राक्षसाः कामरूपिणः । व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४॥
न इह के चित् मनुष्याः वा राक्षसाः कामरूपिणः । व्यपसर्पतु ते सीते भयम् मत्तः समुत्थितम् ॥ ४॥
na iha ke cit manuṣyāḥ vā rākṣasāḥ kāmarūpiṇaḥ . vyapasarpatu te sīte bhayam mattaḥ samutthitam .. 4..
स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः । गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ ५॥
स्वधर्मे रक्षसाम् भीरु सर्वथा एष न संशयः । गमनम् वा पर-स्त्रीणाम् हरणम् सम्प्रमथ्य वा ॥ ५॥
svadharme rakṣasām bhīru sarvathā eṣa na saṃśayaḥ . gamanam vā para-strīṇām haraṇam sampramathya vā .. 5..
एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि । कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६॥
एवम् च एतत् अकामाम् च न त्वाम् स्प्रक्ष्यामि मैथिलि । कामम् कामः शरीरे मे यथाकामम् प्रवर्तताम् ॥ ६॥
evam ca etat akāmām ca na tvām sprakṣyāmi maithili . kāmam kāmaḥ śarīre me yathākāmam pravartatām .. 6..
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७॥
देवि न इह भयम् कार्यम् मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मा एवम् भूः शोक-लालसा ॥ ७॥
devi na iha bhayam kāryam mayi viśvasihi priye . praṇayasva ca tattvena mā evam bhūḥ śoka-lālasā .. 7..
एकवेणी धराशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८॥
एक-वेणी धरा-शय्या ध्यानम् मलिनम् अम्बरम् । अस्थाने अपि उपवासः च न एतानि औपयिकानि ते ॥ ८॥
eka-veṇī dharā-śayyā dhyānam malinam ambaram . asthāne api upavāsaḥ ca na etāni aupayikāni te .. 8..
विचित्राणि च माल्यानि चन्दनान्यगरूणि च । विविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९॥
विचित्राणि च माल्यानि चन्दनानि अगरूणि च । विविधानि च वासांसि दिव्यानि आभरणानि च ॥ ९॥
vicitrāṇi ca mālyāni candanāni agarūṇi ca . vividhāni ca vāsāṃsi divyāni ābharaṇāni ca .. 9..
महार्हाणि च पानानि यानानि शयनानि च । गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १०॥
महार्हाणि च पानानि यानानि शयनानि च । गीतम् नृत्तम् च वाद्यम् च लभ माम् प्राप्य मैथिलि ॥ १०॥
mahārhāṇi ca pānāni yānāni śayanāni ca . gītam nṛttam ca vādyam ca labha mām prāpya maithili .. 10..
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे ॥ ११॥
स्त्री-रत्नम् असि मा एवम् भूः कुरु गात्रेषु भूषणम् । माम् प्राप्य तु कथम् हि स्याः त्वम् अनर्हा सु विग्रहे ॥ ११॥
strī-ratnam asi mā evam bhūḥ kuru gātreṣu bhūṣaṇam . mām prāpya tu katham hi syāḥ tvam anarhā su vigrahe .. 11..
इदं ते चारुसञ्जातं यौवनं व्यतिवर्तते । यदतीतं पुनर्नैति स्रोतः शीघ्रमपाम् इव ॥ १२॥
इदम् ते चारु-सञ्जातम् यौवनम् व्यतिवर्तते । यत् अतीतम् पुनर् न एति स्रोतः शीघ्रम् अपाम् इव ॥ १२॥
idam te cāru-sañjātam yauvanam vyativartate . yat atītam punar na eti srotaḥ śīghram apām iva .. 12..
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् । न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ १३॥
त्वाम् कृत्वा उपरतः मन्ये रूप-कर्ता स विश्व-कृत् । न हि रूप-उपमा तु अन्या तव अस्ति शुभ-दर्शने ॥ १३॥
tvām kṛtvā uparataḥ manye rūpa-kartā sa viśva-kṛt . na hi rūpa-upamā tu anyā tava asti śubha-darśane .. 13..
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४॥
त्वाम् समासाद्य वैदेहि रूप-यौवन-शालिनीम् । कः पुमान् अतिवर्तेत साक्षात् अपि पितामहः ॥ १४॥
tvām samāsādya vaidehi rūpa-yauvana-śālinīm . kaḥ pumān ativarteta sākṣāt api pitāmahaḥ .. 14..
यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने । तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५॥
यत् यत् पश्यामि ते गात्रम् शीतांशु-सदृश-आनने । तस्मिन् तस्मिन् पृथु-श्रोणि चक्षुः मम निबध्यते ॥ १५॥
yat yat paśyāmi te gātram śītāṃśu-sadṛśa-ānane . tasmin tasmin pṛthu-śroṇi cakṣuḥ mama nibadhyate .. 15..
भव मैथिलि भार्या मे मोहमेनं विसर्जय । बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥ १६॥
भव मैथिलि भार्या मे मोहम् एनम् विसर्जय । बह्वीनाम् उत्तम-स्त्रीणाम् मम अग्रमहिषी भव ॥ १६॥
bhava maithili bhāryā me moham enam visarjaya . bahvīnām uttama-strīṇām mama agramahiṣī bhava .. 16..
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे । तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥
लोकेभ्यः यानि रत्नानि सम्प्रमथ्य आहृतानि मे । तानि ते भीरु सर्वाणि राज्यम् च एतत् अहम् च ते ॥ १७॥
lokebhyaḥ yāni ratnāni sampramathya āhṛtāni me . tāni te bhīru sarvāṇi rājyam ca etat aham ca te .. 17..
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् । जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८॥
विजित्य पृथिवीम् सर्वाम् नाना नगर-मालिनीम् । जनकाय प्रदास्यामि तव हेतोः विलासिनि ॥ १८॥
vijitya pṛthivīm sarvām nānā nagara-mālinīm . janakāya pradāsyāmi tava hetoḥ vilāsini .. 18..
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् । पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९॥
न इह पश्यामि लोके अन्यम् यः मे प्रतिबलः भवेत् । पश्य मे सु महत् वीर्यम् अप्रतिद्वन्द्वम् आहवे ॥ १९॥
na iha paśyāmi loke anyam yaḥ me pratibalaḥ bhavet . paśya me su mahat vīryam apratidvandvam āhave .. 19..
असकृत्संयुगे भग्ना मया विमृदितध्वजाः । अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २०॥
असकृत् संयुगे भग्नाः मया विमृदित-ध्वजाः । अशक्ताः प्रत्यनीकेषु स्थातुम् मम सुर-असुराः ॥ २०॥
asakṛt saṃyuge bhagnāḥ mayā vimṛdita-dhvajāḥ . aśaktāḥ pratyanīkeṣu sthātum mama sura-asurāḥ .. 20..
इच्छ मां क्रियताम् अद्य प्रतिकर्म तवोत्तमम् । सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च । साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥ २१॥
इच्छ माम् क्रियताम् अद्य प्रतिकर्म तव उत्तमम् । स प्रभाणि अवसज्जन्ताम् तव अङ्गे भूषणानि च । साधु पश्यामि ते रूपम् संयुक्तम् प्रतिकर्मणा ॥ २१॥
iccha mām kriyatām adya pratikarma tava uttamam . sa prabhāṇi avasajjantām tava aṅge bhūṣaṇāni ca . sādhu paśyāmi te rūpam saṃyuktam pratikarmaṇā .. 21..
साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा।प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ॥२२॥
साधु पश्यामि ते रूपम् संयुक्तम् प्रतिकर्मणा।प्रतिकर्म-अभिसंयुक्ता दाक्षिण्येन वरानने ॥२२॥
sādhu paśyāmi te rūpam saṃyuktam pratikarmaṇā.pratikarma-abhisaṃyuktā dākṣiṇyena varānane ..22..
भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च । यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥२३॥
भुङ्क्ष्व भोगान् यथाकामम् पिब भीरु रमस्व च । यथा इष्टम् च प्रयच्छ त्वम् पृथिवीम् वा धनानि च ॥२३॥
bhuṅkṣva bhogān yathākāmam piba bhīru ramasva ca . yathā iṣṭam ca prayaccha tvam pṛthivīm vā dhanāni ca ..23..
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥२४॥
ललस्व मयि विस्रब्धा धृष्टम् आज्ञापयस्व च । मद्-प्रभावात् ललन्त्याः च ललन्ताम् बान्धवाः तव ॥२४॥
lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca . mad-prabhāvāt lalantyāḥ ca lalantām bāndhavāḥ tava ..24..
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश् च मे । किं करिष्यसि रामेण सुभगे चीरवाससा ॥२५॥
ऋद्धिम् मम अनुपश्य त्वम् श्रियम् भद्रे यशः च मे । किम् करिष्यसि रामेण सुभगे चीर-वाससा ॥२५॥
ṛddhim mama anupaśya tvam śriyam bhadre yaśaḥ ca me . kim kariṣyasi rāmeṇa subhage cīra-vāsasā ..25..
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः । व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥२६॥
निक्षिप्त-विजयः रामः गत-श्रीः वन-गोचरः । व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥२६॥
nikṣipta-vijayaḥ rāmaḥ gata-śrīḥ vana-gocaraḥ . vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā ..26..
न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते । पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥२७॥
न हि वैदेहि रामः त्वाम् द्रष्टुम् वा अपि उपलप्स्यते । पुरस् बलाकैः असितैः मेघैः ज्योत्स्नाम् इव आवृताम् ॥२७॥
na hi vaidehi rāmaḥ tvām draṣṭum vā api upalapsyate . puras balākaiḥ asitaiḥ meghaiḥ jyotsnām iva āvṛtām ..27..
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगताम् इव ॥२८॥
न च अपि मम हस्तात् त्वाम् प्राप्तुम् अर्हति राघवः । हिरण्यकशिपुः कीर्तिम् इन्द्र-हस्त-गताम् इव ॥२८॥
na ca api mama hastāt tvām prāptum arhati rāghavaḥ . hiraṇyakaśipuḥ kīrtim indra-hasta-gatām iva ..28..
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥२९॥
चारु-स्मिते चारु-नेत्रे विलासिनि । मनः हरसि मे भीरु सुपर्णः पन्नगम् यथा ॥२९॥
cāru-smite cāru-netre vilāsini . manaḥ harasi me bhīru suparṇaḥ pannagam yathā ..29..
क्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् । तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥३०॥
क्लिष्ट-कौशेय-वसनाम् तन्वीम् अपि अनलङ्कृताम् । ताम् दृष्ट्वा स्वेषु दारेषु रतिम् न उपलभामि अहम् ॥३०॥
kliṣṭa-kauśeya-vasanām tanvīm api analaṅkṛtām . tām dṛṣṭvā sveṣu dāreṣu ratim na upalabhāmi aham ..30..
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥३१॥
अन्तःपुर-निवासिन्यः स्त्रियः सर्व-गुण-अन्विताः । यावन्त्यः मम सर्वासाम् ऐश्वर्यम् कुरु जानकि ॥३१॥
antaḥpura-nivāsinyaḥ striyaḥ sarva-guṇa-anvitāḥ . yāvantyaḥ mama sarvāsām aiśvaryam kuru jānaki ..31..
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः । तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥३२॥
मम हि असित-केशान्ते त्रैलोक्य-प्रवराः स्त्रियः । ताः त्वाम् परिचरिष्यन्ति श्रियम् अप्सरसः यथा ॥३२॥
mama hi asita-keśānte trailokya-pravarāḥ striyaḥ . tāḥ tvām paricariṣyanti śriyam apsarasaḥ yathā ..32..
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥३३॥
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । तानि लोकान् च सुश्रोणि माम् च भुङ्क्ष्व यथासुखम् ॥३३॥
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca . tāni lokān ca suśroṇi mām ca bhuṅkṣva yathāsukham ..33..
न रामस्तपसा देवि न बलेन न विक्रमैः । न धनेन मया तुल्यस्तेजसा यशसापि वा ॥३४॥
न रामः तपसा देवि न बलेन न विक्रमैः । न धनेन मया तुल्यः तेजसा यशसा अपि वा ॥३४॥
na rāmaḥ tapasā devi na balena na vikramaiḥ . na dhanena mayā tulyaḥ tejasā yaśasā api vā ..34..
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । मयि लल ललने यथासुखं त्वंत्वयि च समेत्य ललन्तु बान्धवास्ते ॥३५॥
पिब विहर रमस्व भुङ्क्ष्व भोगान् धन-निचयम् प्रदिशामि मेदिनीम् च । मयि लल ललने यथासुखम् त्वम् त्वयि च समेत्य ललन्तु बान्धवाः ते ॥३५॥
piba vihara ramasva bhuṅkṣva bhogān dhana-nicayam pradiśāmi medinīm ca . mayi lala lalane yathāsukham tvam tvayi ca sametya lalantu bāndhavāḥ te ..35..
कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥३६॥
कुसुमित-तरु-जाल-सन्ततानि भ्रमर-युतानि समुद्र-तीर-जानि । कनक-विमल-हार-भूषित-अङ्गी विहर मया सह भीरु काननानि ॥३६॥
kusumita-taru-jāla-santatāni bhramara-yutāni samudra-tīra-jāni . kanaka-vimala-hāra-bhūṣita-aṅgī vihara mayā saha bhīru kānanāni ..36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In