This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥१॥
तस्य तत् वचनम् श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीन-स्वरा दीनम् प्रत्युवाच शनैस् वचः ॥१॥
tasya tat vacanam śrutvā sītā raudrasya rakṣasaḥ . ārtā dīna-svarā dīnam pratyuvāca śanais vacaḥ ..1..
दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ॥२॥
दुःख-आर्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिम् एव पतिव्रता ॥२॥
duḥkha-ārtā rudatī sītā vepamānā tapasvinī . cintayantī varārohā patim eva pativratā ..2..
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥३॥
तृणम् अन्तरतः कृत्वा प्रत्युवाच शुचि-स्मिता । निवर्तय मनः मत्तः स्व-जने क्रियताम् मनः ॥३॥
tṛṇam antarataḥ kṛtvā pratyuvāca śuci-smitā . nivartaya manaḥ mattaḥ sva-jane kriyatām manaḥ ..3..
न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् । अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ॥४॥
न माम् प्रार्थयितुम् युक्तः त्वम् सिद्धिम् इव पाप-कृत् । अकार्यम् न मया कार्यम् एकपत्न्या विगर्हितम् ॥४॥
na mām prārthayitum yuktaḥ tvam siddhim iva pāpa-kṛt . akāryam na mayā kāryam ekapatnyā vigarhitam ..4..
कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ॥५॥
कुलम् सम्प्राप्तया पुण्यम् कुले महति जातया ।एवम् उक्त्वा तु वैदेही रावणम् तम् यशस्विनी ॥५॥
kulam samprāptayā puṇyam kule mahati jātayā .evam uktvā tu vaidehī rāvaṇam tam yaśasvinī ..5..
रावणं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।नाहमौपयिकी भार्या परभार्या सती तव ॥६॥
रावणम् पृष्ठतस् कृत्वा भूयस् वचनम् अब्रवीत् ।न अहम् औपयिकी भार्या पर-भार्या सती तव ॥६॥
rāvaṇam pṛṣṭhatas kṛtvā bhūyas vacanam abravīt .na aham aupayikī bhāryā para-bhāryā satī tava ..6..
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।यथा तव तथान्येषां रक्ष्या दारा निशाचर ॥७॥
साधु धर्मम् अवेक्षस्व साधु साधु-व्रतम् चर ।यथा तव तथा अन्येषाम् रक्ष्याः दाराः निशाचर ॥७॥
sādhu dharmam avekṣasva sādhu sādhu-vratam cara .yathā tava tathā anyeṣām rakṣyāḥ dārāḥ niśācara ..7..
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् । नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ॥८॥
आत्मानम् उपमाम् कृत्वा स्वेषु दारेषु रम्यताम् । अतुष्टम् स्वेषु दारेषु चपलम् चलित-इन्द्रियम् । नयन्ति निकृति-प्रज्ञाम् पर-दाराः पराभवम् ॥८॥
ātmānam upamām kṛtvā sveṣu dāreṣu ramyatām . atuṣṭam sveṣu dāreṣu capalam calita-indriyam . nayanti nikṛti-prajñām para-dārāḥ parābhavam ..8..
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।यथा हि विपरीता ते बुद्धिराचारवर्जिता॥९॥
इह सन्तः न वा सन्ति सतः वा न अनुवर्तसे ।यथा हि विपरीता ते बुद्धिः आचार-वर्जिता॥९॥
iha santaḥ na vā santi sataḥ vā na anuvartase .yathā hi viparītā te buddhiḥ ācāra-varjitā..9..
वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।राक्षसानामभावाय त्वं वा न प्रतिपद्यसे॥१०॥
वचः मिथ्या प्रणीत-आत्मा पथ्यम् उक्तम् विचक्षणैः ।राक्षसानाम् अभावाय त्वम् वा न प्रतिपद्यसे॥१०॥
vacaḥ mithyā praṇīta-ātmā pathyam uktam vicakṣaṇaiḥ .rākṣasānām abhāvāya tvam vā na pratipadyase..10..
अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥११॥
अकृतात्मानम् आसाद्य राजानम् अनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥११॥
akṛtātmānam āsādya rājānam anaye ratam . samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca ..11..
तथौवं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला । अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥१२॥
त्वाम् समासाद्य लङ्का रत्न-ओघ सङ्कुला । अपराधात् तव एकस्य नचिरात् विनशिष्यति ॥१२॥
tvām samāsādya laṅkā ratna-ogha saṅkulā . aparādhāt tava ekasya nacirāt vinaśiṣyati ..12..
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः । अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥१३॥
स्व-कृतैः हन्यमानस्य रावण अदीर्घ-दर्शिनः । अभिनन्दन्ति भूतानि विनाशे पाप-कर्मणः ॥१३॥
sva-kṛtaiḥ hanyamānasya rāvaṇa adīrgha-darśinaḥ . abhinandanti bhūtāni vināśe pāpa-karmaṇaḥ ..13..
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः । दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥१४॥
एवम् त्वाम् पाप-कर्माणम् वक्ष्यन्ति निकृताः जनाः । दिष्ट्या एतद्-व्यसनम् प्राप्तः रौद्रः इति एव हर्षिताः ॥१४॥
evam tvām pāpa-karmāṇam vakṣyanti nikṛtāḥ janāḥ . diṣṭyā etad-vyasanam prāptaḥ raudraḥ iti eva harṣitāḥ ..14..
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥१५॥
शक्या लोभयितुम् न अहम् ऐश्वर्येण धनेन वा । अनन्या राघवेण अहम् भास्करेण प्रभा यथा ॥१५॥
śakyā lobhayitum na aham aiśvaryeṇa dhanena vā . ananyā rāghaveṇa aham bhāskareṇa prabhā yathā ..15..
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ॥१६॥
उपधाय भुजम् तस्य लोक-नाथस्य सत्कृतम् । कथम् नाम उपधास्यामि भुजम् अन्यस्य कस्य चित् ॥१६॥
upadhāya bhujam tasya loka-nāthasya satkṛtam . katham nāma upadhāsyāmi bhujam anyasya kasya cit ..16..
अहमौपयिकी भार्या तस्यैव वसुधापतेः । व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ॥१७॥
अहम् औपयिकी भार्या तस्य एव वसुधा-पतेः । व्रत-स्नातस्य विप्रस्य विद्या इव विदित-आत्मनः ॥१७॥
aham aupayikī bhāryā tasya eva vasudhā-pateḥ . vrata-snātasya viprasya vidyā iva vidita-ātmanaḥ ..17..
साधु रावण रामेण मां समानय दुःखिताम् । वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥१८॥
साधु रावण रामेण माम् समानय दुःखिताम् । वने वाशितया सार्धम् करेण्वा इव गज-अधिपम् ॥१८॥
sādhu rāvaṇa rāmeṇa mām samānaya duḥkhitām . vane vāśitayā sārdham kareṇvā iva gaja-adhipam ..18..
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥१९॥
मित्रम् औपयिकम् कर्तुम् रामः स्थानम् परीप्सता । वधम् च अन् इच्छता घोरम् त्वया असौ पुरुष-ऋषभः ॥१९॥
mitram aupayikam kartum rāmaḥ sthānam parīpsatā . vadham ca an icchatā ghoram tvayā asau puruṣa-ṛṣabhaḥ ..19..
विदितः स हि धर्मज्ञः शरणागतवत्सलः।तेन मैत्री भवतु ते यदि जीवितुमिच्छसि॥।२०॥
विदितः स हि धर्म-ज्ञः शरण-आगत-वत्सलः।तेन मैत्री भवतु ते यदि जीवितुम् इच्छसि॥।२०॥
viditaḥ sa hi dharma-jñaḥ śaraṇa-āgata-vatsalaḥ.tena maitrī bhavatu te yadi jīvitum icchasi...20..
प्रसादयस्व त्वं चैनं शरणागतवत्सलम्।मां चास्मै नियतो भूत्वा निर्यातयितुमर्हसि॥२१॥
प्रसादयस्व त्वम् च एनम् शरण-आगत-वत्सलम्।माम् च अस्मै नियतः भूत्वा निर्यातयितुम् अर्हसि॥२१॥
prasādayasva tvam ca enam śaraṇa-āgata-vatsalam.mām ca asmai niyataḥ bhūtvā niryātayitum arhasi..21..
एवं हि ते भवेत्स्वस्ति सम्प्रदाय रघूत्तमे।अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण॥२२॥
एवम् हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे।अन्यथा त्वम् हि कुर्वाणः वधम् प्राप्स्यसि रावण॥२२॥
evam hi te bhavet svasti sampradāya raghūttame.anyathā tvam hi kurvāṇaḥ vadham prāpsyasi rāvaṇa..22..
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् । त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ॥२३॥
वर्जयेत् वज्रम् उत्सृष्टम् वर्जयेत् अन्तकः चिरम् । त्वद्विधम् न तु सङ्क्रुद्धः लोक-नाथः स राघवः ॥२३॥
varjayet vajram utsṛṣṭam varjayet antakaḥ ciram . tvadvidham na tu saṅkruddhaḥ loka-nāthaḥ sa rāghavaḥ ..23..
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥२४॥
रामस्य धनुषः शब्दम् श्रोष्यसि त्वम् महा-स्वनम् । शतक्रतु-विसृष्टस्य निर्घोषम् अशनेः इव ॥२४॥
rāmasya dhanuṣaḥ śabdam śroṣyasi tvam mahā-svanam . śatakratu-visṛṣṭasya nirghoṣam aśaneḥ iva ..24..
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः । इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥२५॥
इह शीघ्रम् सु पर्वाणः ज्वलित-आस्याः इव उरगाः । इषवः निपतिष्यन्ति राम-लक्ष्मण-लक्षणाः ॥२५॥
iha śīghram su parvāṇaḥ jvalita-āsyāḥ iva uragāḥ . iṣavaḥ nipatiṣyanti rāma-lakṣmaṇa-lakṣaṇāḥ ..25..
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः । असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ॥२६॥
रक्षांसि परिनिघ्नन्तः पुर्याम् अस्याम् समन्ततः । अ सम्पातम् करिष्यन्ति पतन्तः कङ्क-वाससः ॥२६॥
rakṣāṃsi parinighnantaḥ puryām asyām samantataḥ . a sampātam kariṣyanti patantaḥ kaṅka-vāsasaḥ ..26..
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥२७॥
राक्षस-इन्द्र-महा-सर्पान् स राम-गरुडः महान् । उद्धरिष्यति वेगेन वैनतेयः इव उरगान् ॥२७॥
rākṣasa-indra-mahā-sarpān sa rāma-garuḍaḥ mahān . uddhariṣyati vegena vainateyaḥ iva uragān ..27..
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः । असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥२८॥
अपनेष्यति माम् भर्ता त्वत्तः शीघ्रम् अरिन्दमः । असुरेभ्यः श्रियम् दीप्ताम् विष्णुः त्रिभिः इव क्रमैः ॥२८॥
apaneṣyati mām bhartā tvattaḥ śīghram arindamaḥ . asurebhyaḥ śriyam dīptām viṣṇuḥ tribhiḥ iva kramaiḥ ..28..
जनस्थाने हतस्थाने निहते रक्षसां बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥२९॥
जनस्थाने हत-स्थाने निहते रक्षसाम् बले । अशक्तेन त्वया रक्षः कृतम् एतत् असाधु वै ॥२९॥
janasthāne hata-sthāne nihate rakṣasām bale . aśaktena tvayā rakṣaḥ kṛtam etat asādhu vai ..29..
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः । गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥३०॥
आश्रमम् तु तयोः शून्यम् प्रविश्य नर-सिंहयोः । गोचरम् गतयोः भ्रात्रोः अपनीता त्वया अधम ॥३०॥
āśramam tu tayoḥ śūnyam praviśya nara-siṃhayoḥ . gocaram gatayoḥ bhrātroḥ apanītā tvayā adhama ..30..
न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥३१॥
न हि गन्धम् उपाघ्राय राम-लक्ष्मणयोः त्वया । शक्यम् सन्दर्शने स्थातुम् शुना शार्दूलयोः इव ॥३१॥
na hi gandham upāghrāya rāma-lakṣmaṇayoḥ tvayā . śakyam sandarśane sthātum śunā śārdūlayoḥ iva ..31..
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥३२॥
तस्य ते विग्रहे ताभ्याम् युग-ग्रहणम् अस्थिरम् । वृत्रस्य इव इन्द्र-बाहुभ्याम् बाहोः एकस्य निग्रहः ॥३२॥
tasya te vigrahe tābhyām yuga-grahaṇam asthiram . vṛtrasya iva indra-bāhubhyām bāhoḥ ekasya nigrahaḥ ..32..
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥३३॥
क्षिप्रम् तव स नाथः मे रामः सौमित्रिणा सह । तोयम् अल्पम् इव आदित्यः प्राणान् आदास्यते शरैः ॥३३॥
kṣipram tava sa nāthaḥ me rāmaḥ saumitriṇā saha . toyam alpam iva ādityaḥ prāṇān ādāsyate śaraiḥ ..33..
गिरिं कुबेरस्य गतोऽथवालयं सभां गतो वा वरुणस्य राज्ञः । असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥३४॥
गिरिम् कुबेरस्य गतः अथवा आलयम् सभाम् गतः वा वरुणस्य राज्ञः । असंशयम् दाशरथेः न मोक्ष्यसे महा-द्रुमः काल-हतः अशनेः इव ॥३४॥
girim kuberasya gataḥ athavā ālayam sabhām gataḥ vā varuṇasya rājñaḥ . asaṃśayam dāśaratheḥ na mokṣyase mahā-drumaḥ kāla-hataḥ aśaneḥ iva ..34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In