This overlay will guide you through the buttons:

| |
|
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ १॥
सीतायाः वचनम् श्रुत्वा परुषम् राक्षस-अधिपः । प्रत्युवाच ततस् सीताम् विप्रियम् प्रिय-दर्शनाम् ॥ १॥
sītāyāḥ vacanam śrutvā paruṣam rākṣasa-adhipaḥ . pratyuvāca tatas sītām vipriyam priya-darśanām .. 1..
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ २॥
यथा यथा सान्त्वयिता वश्यः स्त्रीणाम् तथा तथा । यथा यथा प्रियम् वक्ता परिभूतः तथा तथा ॥ २॥
yathā yathā sāntvayitā vaśyaḥ strīṇām tathā tathā . yathā yathā priyam vaktā paribhūtaḥ tathā tathā .. 2..
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥ ३॥
संनियच्छति मे क्रोधम् त्वयि कामः समुत्थितः । द्रवतः मार्गम् आसाद्य हयान् इव सुसारथिः ॥ ३॥
saṃniyacchati me krodham tvayi kāmaḥ samutthitaḥ . dravataḥ mārgam āsādya hayān iva susārathiḥ .. 3..
वामः कामो मनुष्याणां यस्मिन्किल निबध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ ४॥
वामः कामः मनुष्याणाम् यस्मिन् किल निबध्यते । जने तस्मिन् तु अनुक्रोशः स्नेहः च किल जायते ॥ ४॥
vāmaḥ kāmaḥ manuṣyāṇām yasmin kila nibadhyate . jane tasmin tu anukrośaḥ snehaḥ ca kila jāyate .. 4..
एतस्मात्कारणान्न तां घतयामि वरानने । वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ ५॥
एतस्मात् कारणात् न ताम् वरानने । वध-अर्हाम् अवमान-अर्हाम् मिथ्याप्रव्रजिते रताम् ॥ ५॥
etasmāt kāraṇāt na tām varānane . vadha-arhām avamāna-arhām mithyāpravrajite ratām .. 5..
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६॥
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधः युक्तः तव मैथिलि दारुणः ॥ ६॥
paruṣāṇi hi vākyāni yāni yāni bravīṣi mām . teṣu teṣu vadhaḥ yuktaḥ tava maithili dāruṇaḥ .. 6..
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः । क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७॥
एवम् उक्त्वा तु वैदेहीम् रावणः राक्षस-अधिपः । क्रोध-संरम्भ-संयुक्तः सीताम् उत्तरम् अब्रवीत् ॥ ७॥
evam uktvā tu vaidehīm rāvaṇaḥ rākṣasa-adhipaḥ . krodha-saṃrambha-saṃyuktaḥ sītām uttaram abravīt .. 7..
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८॥
द्वौ मासौ रक्षितव्यौ मे यः अवधिः ते मया कृतः । ततस् शयनम् आरोह मम त्वम् वरवर्णिनि ॥ ८॥
dvau māsau rakṣitavyau me yaḥ avadhiḥ te mayā kṛtaḥ . tatas śayanam āroha mama tvam varavarṇini .. 8..
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ ९॥
द्वाभ्याम् ऊर्ध्वम् तु मासाभ्याम् भर्तारम् माम् अन् इच्छतीम् । मम त्वाम् प्रातराश-अर्थम् आरभन्ते महानसे ॥ ९॥
dvābhyām ūrdhvam tu māsābhyām bhartāram mām an icchatīm . mama tvām prātarāśa-artham ārabhante mahānase .. 9..
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः ॥ १०॥
ताम् तर्ज्यमानाम् सम्प्रेक्ष्य राक्षस-इन्द्रेण जानकीम् । देव-गन्धर्व-कन्याः ताः विषेदुः विपुल-ईक्षणाः ॥ १०॥
tām tarjyamānām samprekṣya rākṣasa-indreṇa jānakīm . deva-gandharva-kanyāḥ tāḥ viṣeduḥ vipula-īkṣaṇāḥ .. 10..
ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ ११॥
ओष्ठ-प्रकारैः अपराः नेत्र-वक्त्रैः तथा अपराः । सीताम् आश्वासयामासुः तर्जिताम् तेन रक्षसा ॥ ११॥
oṣṭha-prakāraiḥ aparāḥ netra-vaktraiḥ tathā aparāḥ . sītām āśvāsayāmāsuḥ tarjitām tena rakṣasā .. 11..
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२॥
ताभिः आश्वासिता सीता रावणम् राक्षस-अधिपम् । उवाच आत्म-हितम् वाक्यम् वृत्त-शौण्डीर्य-गर्वितम् ॥ १२॥
tābhiḥ āśvāsitā sītā rāvaṇam rākṣasa-adhipam . uvāca ātma-hitam vākyam vṛtta-śauṇḍīrya-garvitam .. 12..
नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ १३॥
नूनम् न ते जनः कश्चिद् असित् निःश्रेयसे स्थितः । निवारयति यः न त्वाम् कर्मणः अस्मात् विगर्हितात् ॥ १३॥
nūnam na te janaḥ kaścid asit niḥśreyase sthitaḥ . nivārayati yaḥ na tvām karmaṇaḥ asmāt vigarhitāt .. 13..
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ १४॥
माम् हि धर्म-आत्मनः पत्नीम् शचीम् इव शचीपतेः । त्वत् अन्यः त्रिषु लोकेषु प्रार्थयेत् मनसा अपि कः ॥ १४॥
mām hi dharma-ātmanaḥ patnīm śacīm iva śacīpateḥ . tvat anyaḥ triṣu lokeṣu prārthayet manasā api kaḥ .. 14..
राक्षसाधम रामस्य भार्याममिततेजसः । उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥ १५॥
राक्षस-अधम रामस्य भार्याम् अमित-तेजसः । उक्तवान् असि यत् पापम् क्व गतः तस्य मोक्ष्यसे ॥ १५॥
rākṣasa-adhama rāmasya bhāryām amita-tejasaḥ . uktavān asi yat pāpam kva gataḥ tasya mokṣyase .. 15..
यथा दृप्तश्च मातङ्गः शशश् च सहितौ वने । तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६॥
यथा दृप्तः च मातङ्गः शशः च सहितौ वने । तथा द्विरद-वत् रामः त्वम् नीच शश-वत् स्मृतः ॥ १६॥
yathā dṛptaḥ ca mātaṅgaḥ śaśaḥ ca sahitau vane . tathā dvirada-vat rāmaḥ tvam nīca śaśa-vat smṛtaḥ .. 16..
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे । चक्षुषो विषयं तस्य न तावदुपगच्छसि ॥ १७॥
स त्वम् इक्ष्वाकु-नाथम् वै क्षिपन् इह न लज्जसे । चक्षुषः विषयम् तस्य न तावत् उपगच्छसि ॥ १७॥
sa tvam ikṣvāku-nātham vai kṣipan iha na lajjase . cakṣuṣaḥ viṣayam tasya na tāvat upagacchasi .. 17..
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले । क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः ॥ १८॥
इमे ते नयने क्रूरे विरूपे कृष्ण-पिङ्गले । क्षितौ न पतिते कस्मात् माम् अनार्य-निरीक्षितः ॥ १८॥
ime te nayane krūre virūpe kṛṣṇa-piṅgale . kṣitau na patite kasmāt mām anārya-nirīkṣitaḥ .. 18..
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ॥ १९॥
तस्य धर्म-आत्मनः पत्नीम् स्नुषाम् दशरथस्य च । कथम् व्याहरतः माम् ते न जिह्वा पाप शीर्यते ॥ १९॥
tasya dharma-ātmanaḥ patnīm snuṣām daśarathasya ca . katham vyāharataḥ mām te na jihvā pāpa śīryate .. 19..
असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥ २०॥
असन्देशात् तु रामस्य तपसः च अनुपालनात् । न त्वाम् कुर्मि दशग्रीव भस्म भस्म-अर्ह-तेजसा ॥ २०॥
asandeśāt tu rāmasya tapasaḥ ca anupālanāt . na tvām kurmi daśagrīva bhasma bhasma-arha-tejasā .. 20..
नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१॥
न अपहर्तुम् अहम् शक्या तस्य रामस्य धीमतः । विधिः तव वध-अर्थाय विहितः न अत्र संशयः ॥ २१॥
na apahartum aham śakyā tasya rāmasya dhīmataḥ . vidhiḥ tava vadha-arthāya vihitaḥ na atra saṃśayaḥ .. 21..
शूरेण धनदभ्राता बलैः समुदितेन च । अपोह्य रामं कस्माद्धि दारचाउर्य.म् त्वया क्र्तम् ॥ २२॥
शूरेण धनद-भ्राता बलैः समुदितेन च । अपोह्य रामम् कस्मात् हि दारचाउर्य।त्वया क्र्तम् ॥ २२॥
śūreṇa dhanada-bhrātā balaiḥ samuditena ca . apohya rāmam kasmāt hi dāracāurya.tvayā krtam .. 22..
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३॥
सीतायाः वचनम् श्रुत्वा रावणः राक्षस-अधिपः । विवृत्य नयने क्रूरे जानकीम् अन्ववैक्षत ॥ २३॥
sītāyāḥ vacanam śrutvā rāvaṇaḥ rākṣasa-adhipaḥ . vivṛtya nayane krūre jānakīm anvavaikṣata .. 23..
नीलजीमूतसङ्काशो महाभुजशिरोधरः । सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः ॥ २४॥
नील-जीमूत-सङ्काशः महा-भुज-शिरोधरः । सिंह-सत्त्व-गतिः श्रीमान् दीप्त-जिह्वा-उग्र-लोचनः ॥ २४॥
nīla-jīmūta-saṅkāśaḥ mahā-bhuja-śirodharaḥ . siṃha-sattva-gatiḥ śrīmān dīpta-jihvā-ugra-locanaḥ .. 24..
चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५॥
चल-अग्र-मकुटः प्रांशुः चित्र-माल्य-अनुलेपनः । रक्त-माल्य-अम्बर-धरः तप्त-अङ्गद-विभूषणः ॥ २५॥
cala-agra-makuṭaḥ prāṃśuḥ citra-mālya-anulepanaḥ . rakta-mālya-ambara-dharaḥ tapta-aṅgada-vibhūṣaṇaḥ .. 25..
श्रोणीसूत्रेण महता मेककेन सुसंवृतः । अमृतोत्पादनद्धेन भुजङ्गेनेव मन्दरः ॥ २६॥
श्रोणी-सूत्रेण महता मेककेन सु संवृतः । अमृत-उत्पाद-नद्धेन भुजङ्गेन इव मन्दरः ॥ २६॥
śroṇī-sūtreṇa mahatā mekakena su saṃvṛtaḥ . amṛta-utpāda-naddhena bhujaṅgena iva mandaraḥ .. 26..
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः॥२७॥
ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षसेश्वरः।शुशुभे अचल-सङ्काशः शृङ्गाभ्याम् इव मन्दरः॥२७॥
tābhyām sa paripūrṇābhyām bhujābhyām rākṣaseśvaraḥ.śuśubhe acala-saṅkāśaḥ śṛṅgābhyām iva mandaraḥ..27..
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥२८॥
तरुण-आदित्य-वर्णाभ्याम् कुण्डलाभ्याम् विभूषितः । रक्त-पल्लव-पुष्पाभ्याम् अशोकाभ्याम् इव अचलः ॥२८॥
taruṇa-āditya-varṇābhyām kuṇḍalābhyām vibhūṣitaḥ . rakta-pallava-puṣpābhyām aśokābhyām iva acalaḥ ..28..
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्।श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः॥२९॥
स कल्पवृक्ष-प्रतिमः वसन्तः इव मूर्तिमान्।श्मशान-चैत्य-प्रतिमः भूषितः अपि भयङ्करः॥२९॥
sa kalpavṛkṣa-pratimaḥ vasantaḥ iva mūrtimān.śmaśāna-caitya-pratimaḥ bhūṣitaḥ api bhayaṅkaraḥ..29..
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥३०॥
अवेक्षमाणः वैदेहीम् कोप-संरक्त-लोचनः । उवाच रावणः सीताम् भुजङ्गः इव निःश्वसन् ॥३०॥
avekṣamāṇaḥ vaidehīm kopa-saṃrakta-locanaḥ . uvāca rāvaṇaḥ sītām bhujaṅgaḥ iva niḥśvasan ..30..
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥३१॥
अनयेन अभिसम्पन्नम् अर्थ-हीनम् अनुव्रते । नाशयामि अहम् अद्य त्वाम् सूर्यः सन्ध्याम् इव ओजसा ॥३१॥
anayena abhisampannam artha-hīnam anuvrate . nāśayāmi aham adya tvām sūryaḥ sandhyām iva ojasā ..31..
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । सन्दिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥३२॥
इति उक्त्वा मैथिलीम् राजा रावणः शत्रु-रावणः । सन्दिदेश ततस् सर्वाः राक्षसीः घोर-दर्शनाः ॥३२॥
iti uktvā maithilīm rājā rāvaṇaḥ śatru-rāvaṇaḥ . sandideśa tatas sarvāḥ rākṣasīḥ ghora-darśanāḥ ..32..
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥३३॥
एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा । गोकर्णीम् हस्तिकर्णीम् च लम्बकर्णीम् अकर्णिकाम् ॥३३॥
eka-akṣīm eka-karṇām ca karṇa-prāvaraṇām tathā . gokarṇīm hastikarṇīm ca lambakarṇīm akarṇikām ..33..
हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् । एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥३४॥
श्व-पद्यौ च गोपदीम् पाद-चूलिकाम् । एक-अक्षीम् एकपादीम् च पृथुपादीम् अपादिकाम् ॥३४॥
śva-padyau ca gopadīm pāda-cūlikām . eka-akṣīm ekapādīm ca pṛthupādīm apādikām ..34..
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ॥३५॥
अतिमात्र-शिरः-ग्रीवाम् अतिमात्र-कुच-उदरीम् । अतिमात्र-आस्य-नेत्राम् च दीर्घजिह्वाम् अजिह्विकाम् ॥३५॥
atimātra-śiraḥ-grīvām atimātra-kuca-udarīm . atimātra-āsya-netrām ca dīrghajihvām ajihvikām ..35..
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥३६॥
अ नासिकाम् सिंह-मुखीम् गो-मुखीम् सूकरी-मुखीम् ।यथा मद्-वश-गा सीता क्षिप्रम् भवति जानकी ॥३६॥
a nāsikām siṃha-mukhīm go-mukhīm sūkarī-mukhīm .yathā mad-vaśa-gā sītā kṣipram bhavati jānakī ..36..
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ॥३७॥
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रम् समेत्य च ।प्रतिलोम-अनुलोमैः च साम-दान-आदि-भेदनैः ॥३७॥
tathā kuruta rākṣasyaḥ sarvāḥ kṣipram sametya ca .pratiloma-anulomaiḥ ca sāma-dāna-ādi-bhedanaiḥ ..37..
आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ।इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥३८॥
आवर्तयत वैदेहीम् दण्डस्य उद्यमनेन च ।इति प्रतिसमादिश्य राक्षस-इन्द्रः पुनर् पुनर् ॥३८॥
āvartayata vaidehīm daṇḍasya udyamanena ca .iti pratisamādiśya rākṣasa-indraḥ punar punar ..38..
काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥३९॥
काम-मन्यु-परीत-आत्मा जानकीम् पर्यतर्जयत् ।उपगम्य ततस् क्षिप्रम् राक्षसी धान्य-मालिनी ॥३९॥
kāma-manyu-parīta-ātmā jānakīm paryatarjayat .upagamya tatas kṣipram rākṣasī dhānya-mālinī ..39..
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।मया क्रीड महाराजसीतया किं तवानया ॥४०॥
परिष्वज्य दशग्रीवम् इदम् वचनम् अब्रवीत् ।मया क्रीड महा-राज सीतया किम् तव अनया ॥४०॥
pariṣvajya daśagrīvam idam vacanam abravīt .mayā krīḍa mahā-rāja sītayā kim tava anayā ..40..
विवर्णया कृपणया मानुष्या राक्षसेश्वर।नूनमस्या महाराज न दिव्यान् भोगसत्तमान्। ॥४१॥
विवर्णया कृपणया मानुष्या राक्षसेश्वर।नूनम् अस्याः महा-राज न दिव्यान् भोग-सत्तमान्। ॥४१॥
vivarṇayā kṛpaṇayā mānuṣyā rākṣaseśvara.nūnam asyāḥ mahā-rāja na divyān bhoga-sattamān. ..41..
विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान्। अकामां कामयानस्य शरीरमुपतप्यते । इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥४२॥
विदधाति अमर-श्रेष्ठः तव बाहु-बल-अर्जितान्। अकामाम् कामयानस्य शरीरम् उपतप्यते । इच्छन्तीम् कामयानस्य प्रीतिः भवति शोभना ॥४२॥
vidadhāti amara-śreṣṭhaḥ tava bāhu-bala-arjitān. akāmām kāmayānasya śarīram upatapyate . icchantīm kāmayānasya prītiḥ bhavati śobhanā ..42..
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।प्रहसन्मेघसङ्काशो राक्षसः स न्यवर्तत॥४३॥
एवम् उक्तः तु राक्षस्या समुत्क्षिप्तः ततस् बली ।प्रहसन् मेघ-सङ्काशः राक्षसः स न्यवर्तत॥४३॥
evam uktaḥ tu rākṣasyā samutkṣiptaḥ tatas balī .prahasan megha-saṅkāśaḥ rākṣasaḥ sa nyavartata..43..
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्। ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥४४॥
प्रस्थितः स दशग्रीवः कम्पयन् इव मेदिनीम्। ज्वलत्-भास्कर-वर्ण-आभम् प्रविवेश निवेशनम् ॥४४॥
prasthitaḥ sa daśagrīvaḥ kampayan iva medinīm. jvalat-bhāskara-varṇa-ābham praviveśa niveśanam ..44..
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः । परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥४५॥
देव-गन्धर्व-कन्याः च नाग-कन्याः च ताः ततस् । परिवार्य दशग्रीवम् विविशुः तत् गृह-उत्तमम् ॥४५॥
deva-gandharva-kanyāḥ ca nāga-kanyāḥ ca tāḥ tatas . parivārya daśagrīvam viviśuḥ tat gṛha-uttamam ..45..
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः । विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥४६॥
स मैथिलीम् धर्म-पराम् अवस्थिताम् प्रवेपमानाम् परिभर्त्स्य रावणः । विहाय सीताम् मदनेन मोहितः स्वम् एव वेश्म प्रविवेश भास्वरम् ॥४६॥
sa maithilīm dharma-parām avasthitām pravepamānām paribhartsya rāvaṇaḥ . vihāya sītām madanena mohitaḥ svam eva veśma praviveśa bhāsvaram ..46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In