This overlay will guide you through the buttons:

| |
|
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ १॥
इति उक्त्वा मैथिलीम् राजा रावणः शत्रु-रावणः । सन्दिश्य च ततस् सर्वाः राक्षसीः निर्जगाम ह ॥ १॥
iti uktvā maithilīm rājā rāvaṇaḥ śatru-rāvaṇaḥ . sandiśya ca tatas sarvāḥ rākṣasīḥ nirjagāma ha .. 1..
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २॥
निष्क्रान्ते राक्षस-इन्द्रे तु पुनर् अन्तःपुरम् गते । राक्षस्यः भीम-रूपाः ताः सीताम् समभिदुद्रुवुः ॥ २॥
niṣkrānte rākṣasa-indre tu punar antaḥpuram gate . rākṣasyaḥ bhīma-rūpāḥ tāḥ sītām samabhidudruvuḥ .. 2..
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः । परं परुषया वाचा वैदेहीम् इदमब्रुवन् ॥ ३॥
ततस् सीताम् उपागम्य राक्षस्यः क्रोध-मूर्छिताः । परम् परुषया वाचा वैदेहीम् इदम् अब्रुवन् ॥ ३॥
tatas sītām upāgamya rākṣasyaḥ krodha-mūrchitāḥ . param paruṣayā vācā vaidehīm idam abruvan .. 3..
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ ४॥
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवस्य भार्या-त्वम् सीते न बहु मन्यसे ॥ ४॥
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ . daśagrīvasya bhāryā-tvam sīte na bahu manyase .. 4..
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ॥ ५॥
ततस् तु एकजटा नाम राक्षसी वाक्यम् अब्रवीत् । आमन्त्र्य क्रोध-ताम्र-अक्षी सीताम् कर-तल-उदरीम् ॥ ५॥
tatas tu ekajaṭā nāma rākṣasī vākyam abravīt . āmantrya krodha-tāmra-akṣī sītām kara-tala-udarīm .. 5..
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः । मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ६॥
प्रजापतीनाम् षण्णाम् तु चतुर्थः यः प्रजापतिः । मानसः ब्रह्मणः पुत्रः पुलस्त्यः इति विश्रुतः ॥ ६॥
prajāpatīnām ṣaṇṇām tu caturthaḥ yaḥ prajāpatiḥ . mānasaḥ brahmaṇaḥ putraḥ pulastyaḥ iti viśrutaḥ .. 6..
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः । नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७॥
पुलस्त्यस्य तु तेजस्वी महा-ऋषिः मानसः सुतः । नाम्ना स विश्रवाः नाम प्रजापति-सम-प्रभः ॥ ७॥
pulastyasya tu tejasvī mahā-ṛṣiḥ mānasaḥ sutaḥ . nāmnā sa viśravāḥ nāma prajāpati-sama-prabhaḥ .. 7..
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि । ॥ ८॥
तस्य पुत्रः विशाल-अक्षि रावणः शत्रु-रावणः । तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि । ॥ ८॥
tasya putraḥ viśāla-akṣi rāvaṇaḥ śatru-rāvaṇaḥ . tasya tvam rākṣasa-indrasya bhāryā bhavitum arhasi . .. 8..
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ ९॥
मया उक्तम् चारु-सर्व-अङ्गि वाक्यम् किम् न अनुमन्यसे । ततस् हरिजटा नाम राक्षसी वाक्यम् अब्रवीत् ॥ ९॥
mayā uktam cāru-sarva-aṅgi vākyam kim na anumanyase . tatas harijaṭā nāma rākṣasī vākyam abravīt .. 9..
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा । येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ॥ १०॥
विवृत्य नयने कोपात् मार्जार-सदृश-ईक्षणा । येन देवाः त्रयस्त्रिंशत् देवराजः च निर्जितः ॥ १०॥
vivṛtya nayane kopāt mārjāra-sadṛśa-īkṣaṇā . yena devāḥ trayastriṃśat devarājaḥ ca nirjitaḥ .. 10..
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि । वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः । बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ॥ ११॥
तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि । वीर्य-उत्सिक्तस्य शूरस्य सङ्ग्रामेषु अनिवर्तिनः । बलिनः वीर्य-युक्तस्याः भार्या-त्वम् किम् न लप्स्यसे ॥ ११॥
tasya tvam rākṣasa-indrasya bhāryā bhavitum arhasi . vīrya-utsiktasya śūrasya saṅgrāmeṣu anivartinaḥ . balinaḥ vīrya-yuktasyāḥ bhāryā-tvam kim na lapsyase .. 11..
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः । सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ १२॥
प्रियाम् बहु-मताम् भार्याम् त्यक्त्वा राजा महा-बलः । सर्वासाम् च महाभागाम् त्वाम् उपैष्यति रावणः ॥ १२॥
priyām bahu-matām bhāryām tyaktvā rājā mahā-balaḥ . sarvāsām ca mahābhāgām tvām upaiṣyati rāvaṇaḥ .. 12..
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् । अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ १३॥
समृद्धम् स्त्री-सहस्रेण नाना रत्न-उपशोभितम् । अन्तःपुरम् समुत्सृज्य त्वाम् उपैष्यति रावणः ॥ १३॥
samṛddham strī-sahasreṇa nānā ratna-upaśobhitam . antaḥpuram samutsṛjya tvām upaiṣyati rāvaṇaḥ .. 13..
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्। असकृद्देवता युद्धे नागगन्धर्वदानवाः । निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १४॥
अन्या तु विकटा नाम राक्षसी वाक्यम् अब्रवीत्। असकृत् देवताः युद्धे नाग-गन्धर्व-दानवाः । निर्जिताः समरे येन स ते पार्श्वम् उपागतः ॥ १४॥
anyā tu vikaṭā nāma rākṣasī vākyam abravīt. asakṛt devatāḥ yuddhe nāga-gandharva-dānavāḥ . nirjitāḥ samare yena sa te pārśvam upāgataḥ .. 14..
तस्य सर्वसमृद्धस्या रावणस्य महात्मनः । किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ॥ १५॥
तस्य सर्व-समृद्धस्य रावणस्य महात्मनः । किमर्थम् राक्षस-इन्द्रस्य भार्या-त्वम् न इच्छसे अधमे ॥ १५॥
tasya sarva-samṛddhasya rāvaṇasya mahātmanaḥ . kimartham rākṣasa-indrasya bhāryā-tvam na icchase adhame .. 15..
ततस्तां दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्। यस्य सूर्यो न तपति भीतो यस्य च मारुतः । न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १६॥
ततस् ताम् दुर्मुखी नाम राक्षसी वाक्यम् अब्रवीत्। यस्य सूर्यः न तपति भीतः यस्य च मारुतः । न वाति स्म आयत-अपाङ्गे किम् त्वम् तस्य न तिष्ठसि ॥ १६॥
tatas tām durmukhī nāma rākṣasī vākyam abravīt. yasya sūryaḥ na tapati bhītaḥ yasya ca mārutaḥ . na vāti sma āyata-apāṅge kim tvam tasya na tiṣṭhasi .. 16..
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् । शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ॥ १७॥
पुष्प-वृष्टिम् च तरवः मुमुचुः यस्य वै भयात् । शैलाः च सुभ्रु पानीयम् जलदाः च यदा इच्छति ॥ १७॥
puṣpa-vṛṣṭim ca taravaḥ mumucuḥ yasya vai bhayāt . śailāḥ ca subhru pānīyam jaladāḥ ca yadā icchati .. 17..
तस्य नैरृतराजस्य राजराजस्य भामिनि । किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ १८॥
तस्य नैरृत-राजस्य राज-राजस्य भामिनि । किम् त्वम् न कुरुषे बुद्धिम् भार्या-अर्थे रावणस्य हि ॥ १८॥
tasya nairṛta-rājasya rāja-rājasya bhāmini . kim tvam na kuruṣe buddhim bhāryā-arthe rāvaṇasya hi .. 18..
साधु ते तत्त्वतो देवि कथितं साधु भामिनि । गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ १९॥
साधु ते तत्त्वतः देवि कथितम् साधु भामिनि । गृहाण सुस्मिते वाक्यम् अन्यथा न भविष्यसि ॥ १९॥
sādhu te tattvataḥ devi kathitam sādhu bhāmini . gṛhāṇa susmite vākyam anyathā na bhaviṣyasi .. 19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In