This overlay will guide you through the buttons:

| |
|
प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥१॥
प्रसक्त-अश्रु-मुखी इति एवम् ब्रुवन्ती जनकात्मजा । अधोमुख-मुखी बाला विलप्तुम् उपचक्रमे ॥१॥
prasakta-aśru-mukhī iti evam bruvantī janakātmajā . adhomukha-mukhī bālā vilaptum upacakrame ..1..
उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥२॥
उन्मत्ता इव प्रमत्ता इव भ्रान्त-चित्ता इव शोचती । उपावृत्ता किशोरी इव विवेष्टन्ती मही-तले ॥२॥
unmattā iva pramattā iva bhrānta-cittā iva śocatī . upāvṛttā kiśorī iva viveṣṭantī mahī-tale ..2..
राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्याहमानीता क्रोशती बलात् ॥३॥
राघवस्य अप्रमत्तस्य रक्षसा कामरूपिणा । रावणेन प्रमथ्य अहम् आनीता क्रोशती बलात् ॥३॥
rāghavasya apramattasya rakṣasā kāmarūpiṇā . rāvaṇena pramathya aham ānītā krośatī balāt ..3..
राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् । चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ॥४॥
राक्षसी वशम् आपन्ना भर्त्यमाना सु दारुणम् । चिन्तयन्ती सु दुःख-आर्ता न अहम् जीवितुम् उत्सहे ॥४॥
rākṣasī vaśam āpannā bhartyamānā su dāruṇam . cintayantī su duḥkha-ārtā na aham jīvitum utsahe ..4..
न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः । वसन्त्या राक्षसी मध्ये विना रामं महारथम् ॥५॥
न हि मे जीवितेन अर्थः ना एवा अर्थैः न च भूषणैः । वसन्त्याः राक्षसी मध्ये विना रामम् महा-रथम् ॥५॥
na hi me jīvitena arthaḥ nā evā arthaiḥ na ca bhūṣaṇaiḥ . vasantyāḥ rākṣasī madhye vinā rāmam mahā-ratham ..5..
अश्मसारमिदं नूनमथवाप्यजरामरम्॥हृदयं मम येनेदं न दुःखेनावशीर्यते॥६॥
अश्मसारम् इदम् नूनम् अथवा अपि अजर-अमरम्॥हृदयम् मम येन इदम् न दुःखेन अवशीर्यते॥६॥
aśmasāram idam nūnam athavā api ajara-amaram..hṛdayam mama yena idam na duḥkhena avaśīryate..6..
धिङ्मामनार्यामसतीं याहं तेन विना कृता । मुहूर्तमपि रक्षामि जीवितं पापजीविता ॥७॥
धिक् माम् अनार्याम् असतीम् या अहम् तेन विना कृता । मुहूर्तम् अपि रक्षामि जीवितम् पाप-जीविता ॥७॥
dhik mām anāryām asatīm yā aham tena vinā kṛtā . muhūrtam api rakṣāmi jīvitam pāpa-jīvitā ..7..
चरणेनापि सव्येन न स्पृशेयं निशाचरम् । रावणं किं पुनरहं कामयेयं विगर्हितम् ॥८॥
चरणेन अपि सव्येन न स्पृशेयम् निशाचरम् । रावणम् किम् पुनर् अहम् कामयेयम् विगर्हितम् ॥८॥
caraṇena api savyena na spṛśeyam niśācaram . rāvaṇam kim punar aham kāmayeyam vigarhitam ..8..
प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् । यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ॥९॥
प्रत्याख्यातम् न जानाति न आत्मानम् न आत्मनः कुलम् । यः नृशंस स्वभावेन माम् प्रार्थयितुम् इच्छति ॥९॥
pratyākhyātam na jānāti na ātmānam na ātmanaḥ kulam . yaḥ nṛśaṃsa svabhāvena mām prārthayitum icchati ..9..
छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता । रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ॥१०॥
छिन्ना भिन्ना विभक्ता वा दीप्ते वा अग्नौ प्रदीपिता । रावणम् ना उपतिष्ठेयम् किम् प्रलापेन वः चिरम् ॥१०॥
chinnā bhinnā vibhaktā vā dīpte vā agnau pradīpitā . rāvaṇam nā upatiṣṭheyam kim pralāpena vaḥ ciram ..10..
ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः । सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ॥११॥
ख्यातः प्राज्ञः कृतज्ञः च स अनुक्रोशः च राघवः । सत्-वृत्तः निरनुक्रोशः शङ्के मद्-भाग्य-सङ्क्षयात् ॥११॥
khyātaḥ prājñaḥ kṛtajñaḥ ca sa anukrośaḥ ca rāghavaḥ . sat-vṛttaḥ niranukrośaḥ śaṅke mad-bhāgya-saṅkṣayāt ..11..
राक्षसानां जनस्थाने सहस्राणि चतुर्दश । येनैकेन निरस्तानि स मां किं नाभिपद्यते ॥१२॥
राक्षसानाम् जनस्थाने सहस्राणि चतुर्दश । येन एकेन निरस्तानि स माम् किम् ना अभिपद्यते ॥१२॥
rākṣasānām janasthāne sahasrāṇi caturdaśa . yena ekena nirastāni sa mām kim nā abhipadyate ..12..
निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥१३॥
निरुद्धा रावणेन अहम् अल्प-वीर्येण रक्षसा । समर्थः खलु मे भर्ता रावणम् हन्तुम् आहवे ॥१३॥
niruddhā rāvaṇena aham alpa-vīryeṇa rakṣasā . samarthaḥ khalu me bhartā rāvaṇam hantum āhave ..13..
विराधो दण्डकारण्ये येन राक्षसपुङ्गवः । रणे रामेण निहतः स मां किं नाभिपद्यते ॥१४॥
विराधः दण्डक-अरण्ये येन राक्षस-पुङ्गवः । रणे रामेण निहतः स माम् किम् ना अभिपद्यते ॥१४॥
virādhaḥ daṇḍaka-araṇye yena rākṣasa-puṅgavaḥ . raṇe rāmeṇa nihataḥ sa mām kim nā abhipadyate ..14..
कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा । न तु राघवबाणानां गतिरोधी ह विद्यते ॥१५॥
कामम् मध्ये समुद्रस्य लङ्का इयम् दुष्प्रधर्षणा । न तु राघव-बाणानाम् गति-रोधी ह विद्यते ॥१५॥
kāmam madhye samudrasya laṅkā iyam duṣpradharṣaṇā . na tu rāghava-bāṇānām gati-rodhī ha vidyate ..15..
किं नु तत्कारणं येन रामो दृढपराक्रमः । रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ॥१६॥
किम् नु तत् कारणम् येन रामः दृढ-पराक्रमः । रक्षसा अपहृताम् भार्याम् इष्टाम् न अभ्यवपद्यते ॥१६॥
kim nu tat kāraṇam yena rāmaḥ dṛḍha-parākramaḥ . rakṣasā apahṛtām bhāryām iṣṭām na abhyavapadyate ..16..
इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः । जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ॥१७॥
इहस्थाम् माम् न जानीते शङ्के लक्ष्मण-पूर्वजः । जानन् अपि हि तेजस्वी धर्षणाम् मर्षयिष्यति ॥१७॥
ihasthām mām na jānīte śaṅke lakṣmaṇa-pūrvajaḥ . jānan api hi tejasvī dharṣaṇām marṣayiṣyati ..17..
हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजोऽपि स रणे रावणेन निपातितः ॥१८॥
हृता इति यः अधिगत्वा माम् राघवाय निवेदयेत् । गृध्र-राजः अपि स रणे रावणेन निपातितः ॥१८॥
hṛtā iti yaḥ adhigatvā mām rāghavāya nivedayet . gṛdhra-rājaḥ api sa raṇe rāvaṇena nipātitaḥ ..18..
कृतं कर्म महत्तेन मां तदाभ्यवपद्यता । तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥१९॥
कृतम् कर्म महत् तेन माम् तदा अभ्यवपद्यता । तिष्ठता रावण-द्वन्द्वे वृद्धेन अपि जटायुषा ॥१९॥
kṛtam karma mahat tena mām tadā abhyavapadyatā . tiṣṭhatā rāvaṇa-dvandve vṛddhena api jaṭāyuṣā ..19..
यदि मामिह जानीयाद्वर्तमानां स राघवः । अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ॥२०॥
यदि माम् इह जानीयात् वर्तमानाम् स राघवः । अद्य बाणैः अभिक्रुद्धः कुर्यात् लोकम् अराक्षसम् ॥२०॥
yadi mām iha jānīyāt vartamānām sa rāghavaḥ . adya bāṇaiḥ abhikruddhaḥ kuryāt lokam arākṣasam ..20..
निर्दहेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् । रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ॥२१॥
निर्दहेत् च पुरीम् लङ्काम् शोषयेत् च महा-उदधिम् । रावणस्य च नीचस्य कीर्तिम् नाम च नाशयेत् ॥२१॥
nirdahet ca purīm laṅkām śoṣayet ca mahā-udadhim . rāvaṇasya ca nīcasya kīrtim nāma ca nāśayet ..21..
ततो निहतनथानां राक्षसीनां गृहे गृहे । यथाहमेवं रुदती तथा भूयो न संशयः ॥२२॥
ततस् निहत-नथानाम् राक्षसीनाम् गृहे गृहे । यथा अहम् एवम् रुदती तथा भूयस् न संशयः ॥२२॥
tatas nihata-nathānām rākṣasīnām gṛhe gṛhe . yathā aham evam rudatī tathā bhūyas na saṃśayaḥ ..22..
अन्विष्य रक्षसां लङ्कां कुर्याद्रामस्सलक्ष्मणः।न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ॥२८॥
अन्विष्य रक्षसाम् लङ्काम् कुर्यात् रामः स लक्ष्मणः।न हि ताभ्याम् रिपुः दृष्टः मुहूतम् अपि जीवति ॥२८॥
anviṣya rakṣasām laṅkām kuryāt rāmaḥ sa lakṣmaṇaḥ.na hi tābhyām ripuḥ dṛṣṭaḥ muhūtam api jīvati ..28..
चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला । अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ॥२४॥
चिता धूम-आकुल-पथा गृध्र-मण्डल-सङ्कुला । अचिरेण तु लङ्का इयम् श्मशान-सदृशी भवेत् ॥२४॥
citā dhūma-ākula-pathā gṛdhra-maṇḍala-saṅkulā . acireṇa tu laṅkā iyam śmaśāna-sadṛśī bhavet ..24..
अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् । दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ॥२५॥
अचिरेण एव कालेन प्राप्स्यामि एव मनोरथम् । दुष्प्रस्थानः अयम् आख्याति सर्वेषाम् वः विपर्ययः ॥२५॥
acireṇa eva kālena prāpsyāmi eva manoratham . duṣprasthānaḥ ayam ākhyāti sarveṣām vaḥ viparyayaḥ ..25..
यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु । अचिरेणैव कालेन भविष्यति हतप्रभा ॥२६॥
यादृशानि तु दृश्यन्ते लङ्कायाम् अशुभानि तु । अचिरेण एव कालेन भविष्यति हत-प्रभा ॥२६॥
yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu . acireṇa eva kālena bhaviṣyati hata-prabhā ..26..
नूनं लङ्का हते पापे रावणे राक्षसाधिपे । शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥२७॥
नूनम् लङ्का हते पापे रावणे राक्षस-अधिपे । शोषम् यास्यति दुर्धर्षा प्रमदा विधवा यथा ॥२७॥
nūnam laṅkā hate pāpe rāvaṇe rākṣasa-adhipe . śoṣam yāsyati durdharṣā pramadā vidhavā yathā ..27..
पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा । भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ॥२८॥
पुष्य-उत्सव-समृद्धा च नष्ट-भर्त्री स राक्षसा । भविष्यति पुरी लङ्का नष्ट-भर्त्री यथा अङ्गना ॥२८॥
puṣya-utsava-samṛddhā ca naṣṭa-bhartrī sa rākṣasā . bhaviṣyati purī laṅkā naṣṭa-bhartrī yathā aṅganā ..28..
नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे । श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ॥२९॥
नूनम् राक्षस-कन्यानाम् रुदन्तीनाम् गृहे गृहे । श्रोष्यामि नचिरात् एव दुःख-आर्तानाम् इह ध्वनिम् ॥२९॥
nūnam rākṣasa-kanyānām rudantīnām gṛhe gṛhe . śroṣyāmi nacirāt eva duḥkha-ārtānām iha dhvanim ..29..
सान्धकारा हतद्योता हतराक्षसपुङ्गवा । भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ॥३०॥
स अन्धकारा हत-द्योता हत-राक्षस-पुङ्गवा । भविष्यति पुरी लङ्का निर्दग्धा राम-सायकैः ॥३०॥
sa andhakārā hata-dyotā hata-rākṣasa-puṅgavā . bhaviṣyati purī laṅkā nirdagdhā rāma-sāyakaiḥ ..30..
यदि नाम स शूरो मां रामो रक्तान्तलोचनः । जानीयाद्वर्तमानां हि रावणस्य निवेशने ॥३१॥
यदि नाम स शूरः माम् रामः रक्त-अन्त-लोचनः । जानीयात् वर्तमानाम् हि रावणस्य निवेशने ॥३१॥
yadi nāma sa śūraḥ mām rāmaḥ rakta-anta-locanaḥ . jānīyāt vartamānām hi rāvaṇasya niveśane ..31..
अनेन तु नृशंसेन रावणेनाधमेन मे । समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ॥३२॥
अनेन तु नृशंसेन रावणेन अधमेन मे । समयः यः तु निर्दिष्टः तस्य कालः अयम् आगतः ॥३२॥
anena tu nṛśaṃsena rāvaṇena adhamena me . samayaḥ yaḥ tu nirdiṣṭaḥ tasya kālaḥ ayam āgataḥ ..32..
स च मे विहितो मृत्युरस्मिन् दुष्टे न वर्तते।अकार्यं ये न जानन्ति नैरृताः पापकारिणः ॥३३॥
स च मे विहितः मृत्युः अस्मिन् दुष्टे न वर्तते।अकार्यम् ये न जानन्ति नैरृताः पाप-कारिणः ॥३३॥
sa ca me vihitaḥ mṛtyuḥ asmin duṣṭe na vartate.akāryam ye na jānanti nairṛtāḥ pāpa-kāriṇaḥ ..33..
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ॥३४॥
अधर्मात् तु महा-उत्पातः भविष्यति हि साम्प्रतम् ।न एते धर्मम् विजानन्ति राक्षसाः पिशित-अशनाः ॥३४॥
adharmāt tu mahā-utpātaḥ bhaviṣyati hi sāmpratam .na ete dharmam vijānanti rākṣasāḥ piśita-aśanāḥ ..34..
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।साहं कथं करिष्यामि तं विना प्रियदर्शनम् ॥३५॥
ध्रुवम् माम् प्रातराश-अर्थे राक्षसः कल्पयिष्यति ।सा अहम् कथम् करिष्यामि तम् विना प्रियदर्शनम् ॥३५॥
dhruvam mām prātarāśa-arthe rākṣasaḥ kalpayiṣyati .sā aham katham kariṣyāmi tam vinā priyadarśanam ..35..
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता । क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥३६॥
रामम् रक्त-अन्त-नयनम् अपश्यन्ती सु दुःखिता । क्षिप्रम् वैवस्वतम् देवम् पश्येयम् पतिना विना ॥३६॥
rāmam rakta-anta-nayanam apaśyantī su duḥkhitā . kṣipram vaivasvatam devam paśyeyam patinā vinā ..36..
नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः । जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥३७॥
न अजानात् जीवतीम् रामः स माम् लक्ष्मण-पूर्वजः । जानन्तौ तौ न कुर्याताम् न उर्व्याम् हि मम मार्गणम् ॥३७॥
na ajānāt jīvatīm rāmaḥ sa mām lakṣmaṇa-pūrvajaḥ . jānantau tau na kuryātām na urvyām hi mama mārgaṇam ..37..
नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः । देवलोकमितो यातस्त्यक्त्वा देहं महीतले ॥३८॥
नूनम् मम एव शोकेन स वीरः लक्ष्मण-अग्रजः । देव-लोकम् इतस् यातः त्यक्त्वा देहम् मही-तले ॥३८॥
nūnam mama eva śokena sa vīraḥ lakṣmaṇa-agrajaḥ . deva-lokam itas yātaḥ tyaktvā deham mahī-tale ..38..
धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ॥३९॥
धन्याः देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । मम पश्यन्ति ये नाथम् रामम् राजीव-लोचनम् ॥३९॥
dhanyāḥ devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . mama paśyanti ye nātham rāmam rājīva-locanam ..39..
अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः । मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥४०॥
अथ वा न हि तस्य अर्थे धर्म-कामस्य धीमतः । मया रामस्य राजर्षेः भार्यया परमात्मनः ॥४०॥
atha vā na hi tasya arthe dharma-kāmasya dhīmataḥ . mayā rāmasya rājarṣeḥ bhāryayā paramātmanaḥ ..40..
दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः । नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ॥४१॥
दृश्यमाने भवेत् प्रीतः सौहृदम् न अस्ति अपश्यतः । नाशयन्ति कृतघ्राः तु न रामः नाशयिष्यति ॥४१॥
dṛśyamāne bhavet prītaḥ sauhṛdam na asti apaśyataḥ . nāśayanti kṛtaghrāḥ tu na rāmaḥ nāśayiṣyati ..41..
किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे । याहं सीता वरार्हेण हीना रामेण भामिनी ॥४२॥
किम् नु मे न गुणाः के चित् किम् वा भाग्य क्षयः हि मे । या अहम् सीता वर-अर्हेण हीना रामेण भामिनी ॥४२॥
kim nu me na guṇāḥ ke cit kim vā bhāgya kṣayaḥ hi me . yā aham sītā vara-arheṇa hīnā rāmeṇa bhāminī ..42..
श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना । रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ॥४३॥
श्रेयः मे जीवितात् मर्तुम् विहीना या महात्मना । रामात् अक्लिष्ट-चारित्रात् शूरात् शत्रु-निबर्हणात् ॥४३॥
śreyaḥ me jīvitāt martum vihīnā yā mahātmanā . rāmāt akliṣṭa-cāritrāt śūrāt śatru-nibarhaṇāt ..43..
अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ । भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ॥४४॥
अथ वा न्यस्त-शस्त्रौ तौ वने मूल-फल-अशनौ । भ्रातरौ हि नर-श्रेष्ठौ चरन्तौ वनगोचरौ ॥४४॥
atha vā nyasta-śastrau tau vane mūla-phala-aśanau . bhrātarau hi nara-śreṣṭhau carantau vanagocarau ..44..
अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना । छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ॥४५॥
अथ वा राक्षस-इन्द्रेण रावणेन दुरात्मना । छद्मना घातितौ शूरौ भ्रातरौ राम-लक्ष्मणौ ॥४५॥
atha vā rākṣasa-indreṇa rāvaṇena durātmanā . chadmanā ghātitau śūrau bhrātarau rāma-lakṣmaṇau ..45..
साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा । न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ॥४६॥
सा अहम् एवङ्गते काले मर्तुम् इच्छामि सर्वथा । न च मे विहितः मृत्युः अस्मिन् दुःखे अपि वर्तति ॥४६॥
sā aham evaṅgate kāle martum icchāmi sarvathā . na ca me vihitaḥ mṛtyuḥ asmin duḥkhe api vartati ..46..
धन्याः खलु महात्मानो मुनयः सत्यसंमताः । जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ॥४७॥
धन्याः खलु महात्मानः मुनयः सत्य-संमताः । जित-आत्मानः महाभागाः येषाम् न स्तः प्रिय-अप्रिये ॥४७॥
dhanyāḥ khalu mahātmānaḥ munayaḥ satya-saṃmatāḥ . jita-ātmānaḥ mahābhāgāḥ yeṣām na staḥ priya-apriye ..47..
प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥४८॥
प्रियात् न सम्भवेत् दुःखम् अप्रियात् अधिकम् भयम् । ताभ्याम् हि ये वियुज्यन्ते नमः तेषाम् महात्मनाम् ॥४८॥
priyāt na sambhavet duḥkham apriyāt adhikam bhayam . tābhyām hi ye viyujyante namaḥ teṣām mahātmanām ..48..
साहं त्यक्ता प्रियेणेह रामेण विदितात्मना । प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥४९॥
सा अहम् त्यक्ता प्रियेण इह रामेण विदित-आत्मना । प्राणान् त्यक्ष्यामि पापस्य रावणस्य गता वशम् ॥४९॥
sā aham tyaktā priyeṇa iha rāmeṇa vidita-ātmanā . prāṇān tyakṣyāmi pāpasya rāvaṇasya gatā vaśam ..49..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In