This overlay will guide you through the buttons:

| |
|
इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ॥ १॥
इति उक्ताः सीतया घोरम् राक्षस्यः क्रोध-मूर्छिताः । काश्चिद् जग्मुः तत् आख्यातुम् रावणस्य तरस्विनः ॥ १॥
iti uktāḥ sītayā ghoram rākṣasyaḥ krodha-mūrchitāḥ . kāścid jagmuḥ tat ākhyātum rāvaṇasya tarasvinaḥ .. 1..
ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ २॥
ततस् सीताम् उपागम्य राक्षस्यः घोर-दर्शनाः । पुनर् परुषम् एक-अर्थम् अनर्थ-अर्थम् अथ अब्रुवन् ॥ २॥
tatas sītām upāgamya rākṣasyaḥ ghora-darśanāḥ . punar paruṣam eka-artham anartha-artham atha abruvan .. 2..
अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥ ३॥
अद्या इदानीम् तव अनार्ये सीते पाप-विनिश्चये । राक्षस्यः भक्षयिष्यन्ति मांसम् एतत् यथासुखम् ॥ ३॥
adyā idānīm tava anārye sīte pāpa-viniścaye . rākṣasyaḥ bhakṣayiṣyanti māṃsam etat yathāsukham .. 3..
सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा । राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् ॥ ४॥
सीताम् ताभिः अनार्याभिः दृष्ट्वा सन्तर्जिताम् तदा । राक्षसी त्रिजटा-वृद्धा शयाना वाक्यम् अब्रवीत् ॥ ४॥
sītām tābhiḥ anāryābhiḥ dṛṣṭvā santarjitām tadā . rākṣasī trijaṭā-vṛddhā śayānā vākyam abravīt .. 4..
आत्मानं खादतानार्या न सीतां भक्षयिष्यथ । जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५॥
आत्मानम् खादत अनार्याः न सीताम् भक्षयिष्यथ । जनकस्य सुताम् इष्टाम् स्नुषाम् दशरथस्य च ॥ ५॥
ātmānam khādata anāryāḥ na sītām bhakṣayiṣyatha . janakasya sutām iṣṭām snuṣām daśarathasya ca .. 5..
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः । राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ६॥
स्वप्नः हि अद्य मया दृष्टः दारुणः रोम-हर्षणः । राक्षसानाम् अभावाय भर्तुः अस्याः भवाय च ॥ ६॥
svapnaḥ hi adya mayā dṛṣṭaḥ dāruṇaḥ roma-harṣaṇaḥ . rākṣasānām abhāvāya bhartuḥ asyāḥ bhavāya ca .. 6..
एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः । सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः ॥ ७॥
एवम् उक्ताः त्रिजटया राक्षस्यः क्रोध-मूर्छिताः । सर्वाः एव अब्रुवन् भीताः त्रिजटाम् ताम् इदम् वचः ॥ ७॥
evam uktāḥ trijaṭayā rākṣasyaḥ krodha-mūrchitāḥ . sarvāḥ eva abruvan bhītāḥ trijaṭām tām idam vacaḥ .. 7..
कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि । तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् ॥ ८॥
कथयस्व त्वया दृष्टः स्वप्ने अयम् कीदृशः निशि । तासाम् श्रुत्वा तु वचनम् राक्षसीनाम् मुख-उद्गतम् ॥ ८॥
kathayasva tvayā dṛṣṭaḥ svapne ayam kīdṛśaḥ niśi . tāsām śrutvā tu vacanam rākṣasīnām mukha-udgatam .. 8..
उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् । गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ९॥
उवाच वचनम् काले त्रिजटा-स्वप्न-संश्रितम् । गज-दन्त-मयीम् दिव्याम् शिबिकाम् अन्तरिक्ष-गाम् ॥ ९॥
uvāca vacanam kāle trijaṭā-svapna-saṃśritam . gaja-danta-mayīm divyām śibikām antarikṣa-gām .. 9..
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः । शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ॥ १०॥
युक्ताम् वाजि-सहस्रेण स्वयम् आस्थाय राघवः । शुक्ल-माल्य-अम्बर-धरः लक्ष्मणेन सह आगतः ॥ १०॥
yuktām vāji-sahasreṇa svayam āsthāya rāghavaḥ . śukla-mālya-ambara-dharaḥ lakṣmaṇena saha āgataḥ .. 10..
स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता । सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता ॥११॥
स्वप्ने च अद्य मया दृष्टा सीता शुक्ल-अम्बर-आवृता । सागरेण परिक्षिप्तम् श्वेतपर्वतम् आस्थिता ॥११॥
svapne ca adya mayā dṛṣṭā sītā śukla-ambara-āvṛtā . sāgareṇa parikṣiptam śvetaparvatam āsthitā ..11..
रामेण सङ्गता सीता भास्करेण प्रभा यथा ।राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् ॥१२॥
रामेण सङ्गता सीता भास्करेण प्रभा यथा ।राघवः च मया दृष्टः चतुर्-दन्तम् महा-गजम् ॥१२॥
rāmeṇa saṅgatā sītā bhāskareṇa prabhā yathā .rāghavaḥ ca mayā dṛṣṭaḥ catur-dantam mahā-gajam ..12..
आरूढः शैलसङ्काशं चचार सहलक्ष्मणः ।ततस्तौ सूर्यसंकाशो दीप्यमानौ स्वतेजसा ॥१३॥
आरूढः शैल-सङ्काशम् चचार सहलक्ष्मणः ।ततस् तौ सूर्य-संकाशः दीप्यमानौ स्व-तेजसा ॥१३॥
ārūḍhaḥ śaila-saṅkāśam cacāra sahalakṣmaṇaḥ .tatas tau sūrya-saṃkāśaḥ dīpyamānau sva-tejasā ..13..
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ ।ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः ॥१४॥
शुक्ल-माल्य-अम्बर-धरौ जानकीम् पर्युपस्थितौ ।ततस् तस्य नगस्य अग्रे आकाश-स्थस्य दन्तिनः ॥१४॥
śukla-mālya-ambara-dharau jānakīm paryupasthitau .tatas tasya nagasya agre ākāśa-sthasya dantinaḥ ..14..
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता । भर्तुरङ्कात्समुत्पत्य ततः कमललोचना । चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती ॥१५॥
भर्त्रा परिगृहीतस्य जानकी स्कन्धम् आश्रिता । भर्तुः अङ्कात् समुत्पत्य ततस् कमल-लोचना । चन्द्र-सूर्यौ मया दृष्टा पाणिभ्याम् परिमार्जती ॥१५॥
bhartrā parigṛhītasya jānakī skandham āśritā . bhartuḥ aṅkāt samutpatya tatas kamala-locanā . candra-sūryau mayā dṛṣṭā pāṇibhyām parimārjatī ..15..
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः । सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥१६॥
ततस् ताभ्याम् कुमाराभ्याम् आस्थितः स गज-उत्तमः । सीतया च विशाल-अक्ष्या लङ्कायाः उपरि स्थितः ॥१६॥
tatas tābhyām kumārābhyām āsthitaḥ sa gaja-uttamaḥ . sītayā ca viśāla-akṣyā laṅkāyāḥ upari sthitaḥ ..16..
पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् ।इहोपयातः काकुत्स्थ स्सीतया सह भार्यया॥१७॥
पाण्डुर-ऋषभ-युक्तेन रथेन अष्ट-युजा स्वयम् ।इह उपयातः काकुत्स्थः स्सीतया सह भार्यया॥१७॥
pāṇḍura-ṛṣabha-yuktena rathena aṣṭa-yujā svayam .iha upayātaḥ kākutsthaḥ ssītayā saha bhāryayā..17..
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः ।लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्॥१८॥
शुक्ल-माल्य-अम्बर-धरः लक्ष्मणेन समागतः ।लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्॥१८॥
śukla-mālya-ambara-dharaḥ lakṣmaṇena samāgataḥ .lakṣmaṇena saha bhrātrā sītayā saha vīryavān..18..
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ।आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्॥१९॥
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ।आरुह्य पुष्पकम् दिव्यम् विमानम् सूर्य-सन्निभम्॥१९॥
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā .āruhya puṣpakam divyam vimānam sūrya-sannibham..19..
उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः।एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः॥२०॥
उत्तराम् दिशम् आलोक्य जगाम पुरुषोत्तमः।एवम् स्वप्ने मया दृष्टः रामः विष्णु-पराक्रमः॥२०॥
uttarām diśam ālokya jagāma puruṣottamaḥ.evam svapne mayā dṛṣṭaḥ rāmaḥ viṣṇu-parākramaḥ..20..
लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः।न हि रामो महातेजाश्शक्यो जेतुं सुरासुरैः॥२१॥
लक्ष्मणेन सह भ्रात्रा सीतया सह राघवः।न हि रामः महा-तेजाः शक्यः जेतुम् सुर-असुरैः॥२१॥
lakṣmaṇena saha bhrātrā sītayā saha rāghavaḥ.na hi rāmaḥ mahā-tejāḥ śakyaḥ jetum sura-asuraiḥ..21..
राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव।रावणश्च मया दृष्टे मुण्डतैलसमुक्षितः॥२२॥
राक्षसैः वा अपि च अन्यैः वा स्वर्गः पाप-जनैः इव।रावणः च मया दृष्टे मुण्ड-तैल-समुक्षितः॥२२॥
rākṣasaiḥ vā api ca anyaiḥ vā svargaḥ pāpa-janaiḥ iva.rāvaṇaḥ ca mayā dṛṣṭe muṇḍa-taila-samukṣitaḥ..22..
रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः।विमानात्पुष्पकादद्य रावणः पतितो भुवि॥२३॥
रक्त-वासाः पिबन् मत्तः करवीर-कृत-स्रजः।विमानात् पुष्पकात् अद्य रावणः पतितः भुवि॥२३॥
rakta-vāsāḥ piban mattaḥ karavīra-kṛta-srajaḥ.vimānāt puṣpakāt adya rāvaṇaḥ patitaḥ bhuvi..23..
कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः।रथेन खरयुक्तेन रक्तमाल्यानुलेपनः॥।२४॥
कृष्यमाणः स्त्रिया दृष्टः मुण्डः कृष्ण-अम्बरः पुनर्।रथेन खर-युक्तेन रक्त-माल्य-अनुलेपनः॥।२४॥
kṛṣyamāṇaḥ striyā dṛṣṭaḥ muṇḍaḥ kṛṣṇa-ambaraḥ punar.rathena khara-yuktena rakta-mālya-anulepanaḥ...24..
पिपंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः। ॥२५॥
पिपन् तैलम् हसन् नृत्यन् भ्रान्त-चित्त-आकुल-इन्द्रियः।गर्दभेन ययौ शीघ्रम् दक्षिणाम् दिशम् आस्थितः। ॥२५॥
pipan tailam hasan nṛtyan bhrānta-citta-ākula-indriyaḥ.gardabhena yayau śīghram dakṣiṇām diśam āsthitaḥ. ..25..
पुनरेव मया दृष्टो रावणो राक्षसेश्वरः।पतितोऽ वाक्चिरा रा भूमौ गर्दभाद्भयमोहितः॥।२६॥
पुनर् एव मया दृष्टः रावणः राक्षसेश्वरः।पतितः वाच्-चिरा भूमौ गर्दभात् भय-मोहितः॥।२६॥
punar eva mayā dṛṣṭaḥ rāvaṇaḥ rākṣaseśvaraḥ.patitaḥ vāc-cirā bhūmau gardabhāt bhaya-mohitaḥ...26..
सहसोत्थाय संभ्रान्तो भयार्तो मदविह्वलः।उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन्बहु॥।२७॥
सहसा उत्थाय संभ्रान्तः भय-आर्तः मद-विह्वलः।उन्मत्तः इव दिग्वासाः दुर्वाक्यम् प्रलपन् बहु॥।२७॥
sahasā utthāya saṃbhrāntaḥ bhaya-ārtaḥ mada-vihvalaḥ.unmattaḥ iva digvāsāḥ durvākyam pralapan bahu...27..
दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम्।मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः॥।२८॥
दुर्गन्धम् दुस्सहम् घोरम् तिमिरम् नरक-उपमम्।मल-पङ्कम् प्रविश्य आशु मग्नः तत्र स रावणः॥।२८॥
durgandham dussaham ghoram timiram naraka-upamam.mala-paṅkam praviśya āśu magnaḥ tatra sa rāvaṇaḥ...28..
प्रस्थिते दक्षाणामाशां प्रविष्टो कर्दम ह्रदम्।कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी॥२९॥
प्रस्थिते दक्षाणाम् आशाम् प्रविष्टः कर्दम ह्रदम्।कण्ठे बद्ध्वा दशग्रीवम् प्रमदा रक्त-वासिनी॥२९॥
prasthite dakṣāṇām āśām praviṣṭaḥ kardama hradam.kaṇṭhe baddhvā daśagrīvam pramadā rakta-vāsinī..29..
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति॥एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः॥३०॥
काली कर्दम-लिप्त-अङ्गी दिशम् याम्याम् प्रकर्षति॥एवम् तत्र मया दृष्टः कुम्भकर्णः निशाचरः॥३०॥
kālī kardama-lipta-aṅgī diśam yāmyām prakarṣati..evam tatra mayā dṛṣṭaḥ kumbhakarṇaḥ niśācaraḥ..30..
रावणस्य सुतास्सर्वे दृष्टास्तैलसमुक्षिताः।वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् ॥३१॥
रावणस्य सुताः सर्वे दृष्टाः तैल-समुक्षिताः।वराहेण दशग्रीवः शिंशुमारेण च इन्द्रजित् ॥३१॥
rāvaṇasya sutāḥ sarve dṛṣṭāḥ taila-samukṣitāḥ.varāheṇa daśagrīvaḥ śiṃśumāreṇa ca indrajit ..31..
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ।एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः॥३२॥
उष्ट्रेण कुम्भकर्णः च प्रयातः दक्षिणाम् दिशम् ।एकः तत्र मया दृष्टः श्वेत-छत्रः विभीषणः॥३२॥
uṣṭreṇa kumbhakarṇaḥ ca prayātaḥ dakṣiṇām diśam .ekaḥ tatra mayā dṛṣṭaḥ śveta-chatraḥ vibhīṣaṇaḥ..32..
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।शङ्खदुन्धुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः॥३३॥
शुक्ल-माल्य-अम्बर-धरः शुक्ल-गन्ध-अनुलेपनः।शङ्ख-दुन्धुभि-निर्घोषैः नृत्त-गीतैः अलङ्कृतः॥३३॥
śukla-mālya-ambara-dharaḥ śukla-gandha-anulepanaḥ.śaṅkha-dundhubhi-nirghoṣaiḥ nṛtta-gītaiḥ alaṅkṛtaḥ..33..
आरुह्य शैलसङ्काशं मेघस्तनितनिस्स्वनम्।चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ॥३४॥
आरुह्य शैल-सङ्काशम् मेघ-स्तनित-निस्स्वनम्।चतुर्-दन्तम् गजम् दिव्यम् आस्ते तत्र विभीषणः ॥३४॥
āruhya śaila-saṅkāśam megha-stanita-nissvanam.catur-dantam gajam divyam āste tatra vibhīṣaṇaḥ ..34..
चतुर्भिस्सचिवैः सार्थं वैहायसमुपस्थितः॥।३५॥
चतुर्भिः सचिवैः सार्थम् वैहायसम् उपस्थितः॥।३५॥
caturbhiḥ sacivaiḥ sārtham vaihāyasam upasthitaḥ...35..
समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः । पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥३६॥
समाजः च महान् वृत्तः गीत-वादित्र-निःस्वनः । पिबताम् रक्त-माल्यानाम् रक्षसाम् रक्त-वाससाम् ॥३६॥
samājaḥ ca mahān vṛttaḥ gīta-vāditra-niḥsvanaḥ . pibatām rakta-mālyānām rakṣasām rakta-vāsasām ..36..
लङ्का चेयं पुरी रम्या सवाजिरथसङ्कुला । सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥३७॥
लङ्का च इयम् पुरी रम्या स वाजि-रथ-सङ्कुला । सागरे पतिता दृष्टा भग्न-गोपुर-तोरणा ॥३७॥
laṅkā ca iyam purī ramyā sa vāji-ratha-saṅkulā . sāgare patitā dṛṣṭā bhagna-gopura-toraṇā ..37..
लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता।दग्धा रामस्य दूतेन वानरेण तरस्विना॥३८॥
लङ्का दृष्टा मया स्वप्ने रावणेन अभिरक्षिता।दग्धा रामस्य दूतेन वानरेण तरस्विना॥३८॥
laṅkā dṛṣṭā mayā svapne rāvaṇena abhirakṣitā.dagdhā rāmasya dūtena vānareṇa tarasvinā..38..
पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः । लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ॥३९॥
पीत्व तैलम् प्रनृत्ताः च प्रहसन्त्यः महा-स्वनाः । लङ्कायाम् भस्म-रूक्षायाम् सर्वाः राक्षस-योषितः ॥३९॥
pītva tailam pranṛttāḥ ca prahasantyaḥ mahā-svanāḥ . laṅkāyām bhasma-rūkṣāyām sarvāḥ rākṣasa-yoṣitaḥ ..39..
कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः । रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे ॥४०॥
कुम्भकर्ण-आदयः च इमे सर्वे राक्षस-पुङ्गवाः । रक्तम् निवसनम् गृह्य प्रविष्टाः गोमय-ह्रदे ॥४०॥
kumbhakarṇa-ādayaḥ ca ime sarve rākṣasa-puṅgavāḥ . raktam nivasanam gṛhya praviṣṭāḥ gomaya-hrade ..40..
अपगच्छत नश्यध्वं सीतामाप्नोति राघवः । घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः ॥४१॥
अपगच्छत नश्यध्वम् सीताम् आप्नोति राघवः । घातयेत् परम-अमर्षी सर्वैः सार्धम् हि राक्षसैः ॥४१॥
apagacchata naśyadhvam sītām āpnoti rāghavaḥ . ghātayet parama-amarṣī sarvaiḥ sārdham hi rākṣasaiḥ ..41..
प्रियां बहुमतां भार्यां वनवासमनुव्रताम् । भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥४२॥
प्रियाम् बहु-मताम् भार्याम् वन-वासम् अनुव्रताम् । भर्त्सिताम् तर्जिताम् वा अपि न अनुमंस्यति राघवः ॥४२॥
priyām bahu-matām bhāryām vana-vāsam anuvratām . bhartsitām tarjitām vā api na anumaṃsyati rāghavaḥ ..42..
तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् । अभियाचाम वैदेहीम् एतद्धि मम रोचते ॥४३॥
तत् अलम् क्रूर-वाक्यैः वः सान्त्वम् एव अभिधीयताम् । अभियाचाम वैदेहीम् एतत् हि मम रोचते ॥४३॥
tat alam krūra-vākyaiḥ vaḥ sāntvam eva abhidhīyatām . abhiyācāma vaidehīm etat hi mama rocate ..43..
यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते । सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥४४॥
यस्याः हि एवंविधः स्वप्नः दुःखितायाः प्रदृश्यते । सा दुःखैः बहुभिः मुक्ता प्रियम् प्राप्नोति अनुत्तमम् ॥४४॥
yasyāḥ hi evaṃvidhaḥ svapnaḥ duḥkhitāyāḥ pradṛśyate . sā duḥkhaiḥ bahubhiḥ muktā priyam prāpnoti anuttamam ..44..
भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया । राघवाद्धि भयं घोरं राक्षसानाम् उपस्थितम् ॥४५॥
भर्त्सिताम् अपि याचध्वम् राक्षस्यः किम् विवक्षया । राघवात् हि भयम् घोरम् राक्षसानाम् उपस्थितम् ॥४५॥
bhartsitām api yācadhvam rākṣasyaḥ kim vivakṣayā . rāghavāt hi bhayam ghoram rākṣasānām upasthitam ..45..
प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा । अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥४६॥
प्रणिपात-प्रसन्ना हि मैथिली जनकात्मजा । अलम् एषा परित्रातुम् राक्षस्यः महतः भयात् ॥४६॥
praṇipāta-prasannā hi maithilī janakātmajā . alam eṣā paritrātum rākṣasyaḥ mahataḥ bhayāt ..46..
अपि चास्या विशालाक्ष्या न किं चिदुपलक्षये । विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् ॥४७॥
अपि च अस्याः विशाल-अक्ष्याः न किम् चित् उपलक्षये । विरुद्धम् अपि च अङ्गेषु सु सूक्ष्मम् अपि लक्ष्मणम् ॥४७॥
api ca asyāḥ viśāla-akṣyāḥ na kim cit upalakṣaye . viruddham api ca aṅgeṣu su sūkṣmam api lakṣmaṇam ..47..
छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् | अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥।४८॥
छाया-वैगुण्य-मात्रम् तु शङ्के दुःखम् उपस्थितम् । अदुःख-अर्हाम् इमाम् देवीम् वैहायसम् उपस्थिताम् ॥।४८॥
chāyā-vaiguṇya-mātram tu śaṅke duḥkham upasthitam . aduḥkha-arhām imām devīm vaihāyasam upasthitām ...48..
अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् । राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥४९॥
अर्थ-सिद्धिम् तु वैदेह्याः पश्यामि अहम् उपस्थिताम् । राक्षस-इन्द्र-विनाशम् च विजयम् राघवस्य च ॥४९॥
artha-siddhim tu vaidehyāḥ paśyāmi aham upasthitām . rākṣasa-indra-vināśam ca vijayam rāghavasya ca ..49..
निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् । दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ॥५०॥
निमित्त-भूतम् एतत् तु श्रोतुम् अस्याः महत् प्रियम् । दृश्यते च स्फुरत्-चक्षुः पद्म-पत्रम् इव आयतम् ॥५०॥
nimitta-bhūtam etat tu śrotum asyāḥ mahat priyam . dṛśyate ca sphurat-cakṣuḥ padma-patram iva āyatam ..50..
ईषध्दि हृषितो वास्या दक्षिणाया ह्यदक्षिणः । अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ॥५१॥
ईषध्दि हृषितः वा अस्याः दक्षिणायाः हि अदक्षिणः । अकस्मात् एव वैदेह्याः बाहुः एकः प्रकम्पते ॥५१॥
īṣadhdi hṛṣitaḥ vā asyāḥ dakṣiṇāyāḥ hi adakṣiṇaḥ . akasmāt eva vaidehyāḥ bāhuḥ ekaḥ prakampate ..51..
करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः । वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् ॥५२॥
करेणु-हस्त-प्रतिमः सव्यः च ऊरुः अनुत्तमः । वेपन् सूचयति इव अस्याः राघवम् पुरतस् स्थितम् ॥५२॥
kareṇu-hasta-pratimaḥ savyaḥ ca ūruḥ anuttamaḥ . vepan sūcayati iva asyāḥ rāghavam puratas sthitam ..52..
पक्षी च शाखा निलयं प्रविष्टः पुनः पुनश्चोत्तमसान्त्ववादी । सुखागतां वाचमुदीरयाणः पुनः पुनश्चोदयतीव हृष्टः ॥५३॥
पक्षी च शाखाः निलयम् प्रविष्टः पुनर् पुनर् च उत्तम-सान्त्व-वादी । सुख-आगताम् वाचम् उदीरयाणः पुनर् पुनर् चोदयति इव हृष्टः ॥५३॥
pakṣī ca śākhāḥ nilayam praviṣṭaḥ punar punar ca uttama-sāntva-vādī . sukha-āgatām vācam udīrayāṇaḥ punar punar codayati iva hṛṣṭaḥ ..53..
ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।अवोचद् यदि तत् तथ्यं भवेय शरणं हि वः॥५४॥
ततस् सा ह्रीमती बाला भर्तुः विजय-हर्षिता ।अवोचत् यदि तत् तथ्यम् भवेय शरणम् हि वः॥५४॥
tatas sā hrīmatī bālā bhartuḥ vijaya-harṣitā .avocat yadi tat tathyam bhaveya śaraṇam hi vaḥ..54..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In