This overlay will guide you through the buttons:

| |
|
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ १॥
सा राक्षस-इन्द्रस्य वचः निशम्य तत् रावणस्य अप्रियम् अप्रिय-आर्ता । सीता वितत्रास यथा वनान्ते सिंह-अभिपन्ना गज-राज-कन्या ॥ १॥
sā rākṣasa-indrasya vacaḥ niśamya tat rāvaṇasya apriyam apriya-ārtā . sītā vitatrāsa yathā vanānte siṃha-abhipannā gaja-rāja-kanyā .. 1..
सा राक्षसी मध्यगता च भीरुर् वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ २॥
सा राक्षसी मध्य-गता च भीरुः वाग्भिः भृशम् रावण-तर्जिता च । कान्तार-मध्ये विजने विसृष्टा बाला इव कन्या विललाप सीता ॥ २॥
sā rākṣasī madhya-gatā ca bhīruḥ vāgbhiḥ bhṛśam rāvaṇa-tarjitā ca . kāntāra-madhye vijane visṛṣṭā bālā iva kanyā vilalāpa sītā .. 2..
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि किं चित्क्षणमप्यपुण्या ॥ ३॥
सत्यम् बत इदम् प्रवदन्ति लोके न अकाल-मृत्युः भवति इति सन्तः । यत्र अहम् एवम् परिभर्त्स्यमाना जीवामि किम् चित् क्षणम् अपि अपुण्या ॥ ३॥
satyam bata idam pravadanti loke na akāla-mṛtyuḥ bhavati iti santaḥ . yatra aham evam paribhartsyamānā jīvāmi kim cit kṣaṇam api apuṇyā .. 3..
सुखाद्विहीनं बहुदुःखपूर्णम् इदं तु नूनं हृदयं स्थिरं मे । विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ४॥
सुखात् विहीनम् बहु-दुःख-पूर्णम् इदम् तु नूनम् हृदयम् स्थिरम् मे । विदीर्यते यत् न सहस्रधा अद्य वज्र-आहतम् शृङ्गम् इव अचलस्य ॥ ४॥
sukhāt vihīnam bahu-duḥkha-pūrṇam idam tu nūnam hṛdayam sthiram me . vidīryate yat na sahasradhā adya vajra-āhatam śṛṅgam iva acalasya .. 4..
नैवास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य । भावं न चास्याहमनुप्रदातुम् अलं द्विजो मन्त्रमिवाद्विजाय ॥ ५॥
न एव अस्ति नूनम् मम दोषम् अत्र वध्या अहम् अस्य अप्रिय-दर्शनस्य । भावम् न च अस्य अहम् अनुप्रदातुम् अलम् द्विजः मन्त्रम् इव अ द्विजाय ॥ ५॥
na eva asti nūnam mama doṣam atra vadhyā aham asya apriya-darśanasya . bhāvam na ca asya aham anupradātum alam dvijaḥ mantram iva a dvijāya .. 5..
तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः । नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ॥ ६॥
तस्मिन् अन् आगच्छति लोकनाथे गर्भ-स्थ-जन्तोः इव शल्यकृन्तः । नूनम् मम अङ्गानि अचिरात् अनार्यः शस्त्रैः शितैः छेत्स्यति राक्षस-इन्द्रः ॥ ६॥
tasmin an āgacchati lokanāthe garbha-stha-jantoḥ iva śalyakṛntaḥ . nūnam mama aṅgāni acirāt anāryaḥ śastraiḥ śitaiḥ chetsyati rākṣasa-indraḥ .. 6..
दुःखं बतेदं ननु दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ । बद्धस्य वध्यस्य यथा निशान्ते राजापराधादिव तस्करस्य ॥ ७॥
दुःखम् बत इदम् ननु दुःखितायाः मा असौ चिराय अभिगमिष्यतः द्वौ । बद्धस्य वध्यस्य यथा निशा-अन्ते राज-अपराधात् इव तस्करस्य ॥ ७॥
duḥkham bata idam nanu duḥkhitāyāḥ mā asau cirāya abhigamiṣyataḥ dvau . baddhasya vadhyasya yathā niśā-ante rāja-aparādhāt iva taskarasya .. 7..
हा राम हा लक्ष्मण हा सुमित्रे हा राम मातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढ वाता ॥ ८॥
हा राम हा लक्ष्मण हा सुमित्रे हा राम मातर् सह मे जनन्या । एषा विपद्यामि अहम् अल्पभाग्या महा-अर्णवे नौः इव मूढ वाता ॥ ८॥
hā rāma hā lakṣmaṇa hā sumitre hā rāma mātar saha me jananyā . eṣā vipadyāmi aham alpabhāgyā mahā-arṇave nauḥ iva mūḍha vātā .. 8..
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ ९॥
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपम् मनुज-इन्द्र-पुत्रौ । नूनम् विशस्तौ मम कारणात् तौ सिंह-ऋषभौ द्वौ इव वैद्युतेन ॥ ९॥
tarasvinau dhārayatā mṛgasya sattvena rūpam manuja-indra-putrau . nūnam viśastau mama kāraṇāt tau siṃha-ṛṣabhau dvau iva vaidyutena .. 9..
नूनं स कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वकं च ॥ १०॥
नूनम् स कालः मृग-रूप-धारी माम् अल्पभाग्याम् लुलुभे तदानीम् । यत्र आर्य-पुत्रम् विससर्ज मूढा राम-अनुजम् लक्ष्मण-पूर्वकम् च ॥ १०॥
nūnam sa kālaḥ mṛga-rūpa-dhārī mām alpabhāgyām lulubhe tadānīm . yatra ārya-putram visasarja mūḍhā rāma-anujam lakṣmaṇa-pūrvakam ca .. 10..
हा राम सत्यव्रत दीर्घवाहो हा पूर्णचन्द्रप्रतिमानवक्त्र । हा जीवलोकस्य हितः प्रियश् च वध्यां न मां वेत्सि हि राक्षसानाम् ॥ ११॥
हा राम सत्यव्रत दीर्घवाहो हा पूर्णचन्द्र-प्रतिमान-वक्त्र । हा जीव-लोकस्य हितः प्रियः च वध्याम् न माम् वेत्सि हि राक्षसानाम् ॥ ११॥
hā rāma satyavrata dīrghavāho hā pūrṇacandra-pratimāna-vaktra . hā jīva-lokasya hitaḥ priyaḥ ca vadhyām na mām vetsi hi rākṣasānām .. 11..
अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश् च धर्मे । पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ १२॥
अन् अन्य-देव-त्वम् इयम् क्षमा च भूमौ च शय्या नियमः च धर्मे । पतिव्रता-त्वम् विफलम् मम इदम् कृतम् कृतघ्नेषु इव मानुषाणाम् ॥ १२॥
an anya-deva-tvam iyam kṣamā ca bhūmau ca śayyā niyamaḥ ca dharme . pativratā-tvam viphalam mama idam kṛtam kṛtaghneṣu iva mānuṣāṇām .. 12..
मोघो हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थम् । या त्वां न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ १३॥
मोघः हि धर्मः चरितः मम अयम् तथा एक-पत्नी-त्वम् इदम् निरर्थम् । या त्वाम् न पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा ॥ १३॥
moghaḥ hi dharmaḥ caritaḥ mama ayam tathā eka-patnī-tvam idam nirartham . yā tvām na paśyāmi kṛśā vivarṇā hīnā tvayā saṅgamane nirāśā .. 13..
पितुर्निर्देशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश् च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः ॥ १४॥
पितुः निर्देशम् नियमेन कृत्वा वनात् निवृत्तः चरित-व्रतः च । स्त्रीभिः तु मन्ये विपुल-ईक्षणाभिः संरंस्यसे वीत-भयः कृतार्थः ॥ १४॥
pituḥ nirdeśam niyamena kṛtvā vanāt nivṛttaḥ carita-vrataḥ ca . strībhiḥ tu manye vipula-īkṣaṇābhiḥ saṃraṃsyase vīta-bhayaḥ kṛtārthaḥ .. 14..
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा । मोघं चरित्वाथ तपोव्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्या ॥ १५॥
अहम् तु राम त्वयि जात-कामा चिरम् विनाशाय निबद्ध-भावा । मोघम् चरित्वा अथ तपः-व्रतम् च त्यक्ष्यामि धिक् जीवितम् अल्पभाग्या ॥ १५॥
aham tu rāma tvayi jāta-kāmā ciram vināśāya nibaddha-bhāvā . mogham caritvā atha tapaḥ-vratam ca tyakṣyāmi dhik jīvitam alpabhāgyā .. 15..
संजीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि । विषस्य दाता न तु मेऽस्ति कश् चिच् छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६॥
संजीवितम् क्षिप्रम् अहम् त्यजेयम् विषेण शस्त्रेण शितेन वा अपि । विषस्य दाता न तु मे अस्ति कः चित् शस्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६॥
saṃjīvitam kṣipram aham tyajeyam viṣeṇa śastreṇa śitena vā api . viṣasya dātā na tu me asti kaḥ cit śastrasya vā veśmani rākṣasasya .. 16..
शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनं गृहीत्वा । उद्बध्य वेण्युद्ग्रथनेन शीघ्रम् अहं गमिष्यामि यमस्य मूलम् ॥ १७॥
शोक-अभितप्ता बहुधा विचिन्त्य सीता अथ वेणी-ग्रथनम् गृहीत्वा । उद्बध्य वेणी-उद्ग्रथनेन शीघ्रम् अहम् गमिष्यामि यमस्य मूलम् ॥ १७॥
śoka-abhitaptā bahudhā vicintya sītā atha veṇī-grathanam gṛhītvā . udbadhya veṇī-udgrathanena śīghram aham gamiṣyāmi yamasya mūlam .. 17..
उपस्थिता सा मृदुर्सर्वगात्री शाखां गृहीत्वाथ नगस्य तस्य । तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ॥ १८॥
उपस्थिता सा मृदुः सर्व-गात्री शाखाम् गृहीत्वा अथ नगस्य तस्य । तस्याः तु रामम् प्रविचिन्तयन्त्याः राम-अनुजम् स्वम् च कुलम् शुभ-अङ्ग्याः ॥ १८॥
upasthitā sā mṛduḥ sarva-gātrī śākhām gṛhītvā atha nagasya tasya . tasyāḥ tu rāmam pravicintayantyāḥ rāma-anujam svam ca kulam śubha-aṅgyāḥ .. 18..
तस्या विशोकानि बहूनि धैर्यार्जितानि प्रवराणि लोके । प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि ॥ १९॥
तस्याः विशोकानि बहूनि धैर्य-अर्जितानि प्रवराणि लोके । प्रादुर् निमित्तानि तदा बभूवुः पुरा अपि सिद्धानि उपलक्षितानि ॥ १९॥
tasyāḥ viśokāni bahūni dhairya-arjitāni pravarāṇi loke . prādur nimittāni tadā babhūvuḥ purā api siddhāni upalakṣitāni .. 19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In