This overlay will guide you through the buttons:

| |
|
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ॥ १॥
तथागताम् ताम् व्यथिताम् अनिन्दिताम् व्यपेत-हर्षाम् परिदीन-मानसाम् । शुभाम् निमित्तानि शुभानि भेजिरे नरम् श्रिया जुष्टम् इव उपजीविनः ॥ १॥
tathāgatām tām vyathitām aninditām vyapeta-harṣām paridīna-mānasām . śubhām nimittāni śubhāni bhejire naram śriyā juṣṭam iva upajīvinaḥ .. 1..
तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥ २॥
तस्याः शुभम् वाम-मराल-पक्ष्म राजी-वृतम् कृष्ण-विशाल-शुक्लम् । प्रास्पन्दत एकम् नयनम् सु केश्याः मीन-आहतम् पद्मम् इव अभिताम्रम् ॥ २॥
tasyāḥ śubham vāma-marāla-pakṣma rājī-vṛtam kṛṣṇa-viśāla-śuklam . prāspandata ekam nayanam su keśyāḥ mīna-āhatam padmam iva abhitāmram .. 2..
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्य कालागुरुचन्दनार्हः । अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ॥ ३॥
भुजः च चारु-अञ्चित-पीन-वृत्तः कालागुरु-चन्दन-अर्हः । अनुत्तमेन अध्युषितः प्रियेण चिरेण वामः समवेपत आशु ॥ ३॥
bhujaḥ ca cāru-añcita-pīna-vṛttaḥ kālāguru-candana-arhaḥ . anuttamena adhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepata āśu .. 3..
गजेन्द्रहस्तप्रतिमश्च पीनस् तयोर्द्वयोः संहतयोः सुजातः । प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥ ४॥
गज-इन्द्र-हस्त-प्रतिमः च पीनः तयोः द्वयोः संहतयोः सुजातः । प्रस्पन्दमानः पुनर् ऊरुः अस्याः रामम् पुरस्तात् स्थितम् आचचक्षे ॥ ४॥
gaja-indra-hasta-pratimaḥ ca pīnaḥ tayoḥ dvayoḥ saṃhatayoḥ sujātaḥ . praspandamānaḥ punar ūruḥ asyāḥ rāmam purastāt sthitam ācacakṣe .. 4..
शुभं पुनर्हेमसमानवर्णम् ईषद्रजोध्वस्तमिवामलाक्ष्याः । वासः स्थितायाः शिखराग्रदन्त्याः किं चित्परिस्रंसत चारुगात्र्याः ॥ ५॥
शुभम् पुनर् हेम-समान-वर्णम् ईषत् रजः-ध्वस्तम् इव अमल-अक्ष्याः । वासः स्थितायाः शिखर-अग्र-दन्त्याः किम् चित् परिस्रंसत चारु-गात्र्याः ॥ ५॥
śubham punar hema-samāna-varṇam īṣat rajaḥ-dhvastam iva amala-akṣyāḥ . vāsaḥ sthitāyāḥ śikhara-agra-dantyāḥ kim cit parisraṃsata cāru-gātryāḥ .. 5..
एतैर्निमित्तैरपरैश्च सुभ्रूः सम्बोधिता प्रागपि साधुसिद्धैः । वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसञ्जहर्ष ॥ ६॥
एतैः निमित्तैः अपरैः च सुभ्रूः सम्बोधिता प्राक् अपि साधु-सिद्धैः । वात-आतप-क्लान्तम् इव प्रनष्टम् वर्षेण बीजम् प्रतिसञ्जहर्ष ॥ ६॥
etaiḥ nimittaiḥ aparaiḥ ca subhrūḥ sambodhitā prāk api sādhu-siddhaiḥ . vāta-ātapa-klāntam iva pranaṣṭam varṣeṇa bījam pratisañjaharṣa .. 6..
तस्याः पुनर्बिम्बफलोपमौष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म । वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ७॥
तस्याः पुनर् बिम्ब-फल-उपम-ओष्ठम् सु अक्षि-भ्रु-केशान्त-मराल-पक्ष्म । वक्त्रम् बभासे सित-शुक्ल-दंष्ट्रम् राहोः मुखात् चन्द्रः इव प्रमुक्तः ॥ ७॥
tasyāḥ punar bimba-phala-upama-oṣṭham su akṣi-bhru-keśānta-marāla-pakṣma . vaktram babhāse sita-śukla-daṃṣṭram rāhoḥ mukhāt candraḥ iva pramuktaḥ .. 7..
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविबुद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतान्शुना रात्रिरिवोदितेन ॥ ८॥
सा वीत-शोका व्यपनीत-तन्द्री शान्त-ज्वरा हर्ष-विबुद्ध-सत्त्वा । अशोभत आर्या वदनेन शुक्ले शीत-अन्शुना रात्रिः इव उदितेन ॥ ८॥
sā vīta-śokā vyapanīta-tandrī śānta-jvarā harṣa-vibuddha-sattvā . aśobhata āryā vadanena śukle śīta-anśunā rātriḥ iva uditena .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In