This overlay will guide you through the buttons:

| |
|
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे । सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः ॥ १ ॥
स लम्ब-शिखरे लम्बे लम्ब-तोयद-संनिभे । सत्त्वम् आस्थाय मेधावी हनुमान् मारुतात्मजः ॥ १ ॥
sa lamba-śikhare lambe lamba-toyada-saṃnibhe . sattvam āsthāya medhāvī hanumān mārutātmajaḥ .. 1 ..
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ २ ॥
निशि लङ्काम् महासत्त्वः विवेश कपि-कुञ्जरः । रम्य-कानन-तोय-आढ्याम् पुरीम् रावण-पालिताम् ॥ २ ॥
niśi laṅkām mahāsattvaḥ viveśa kapi-kuñjaraḥ . ramya-kānana-toya-āḍhyām purīm rāvaṇa-pālitām .. 2 ..
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ ३ ॥
शारद-अम्बुधर-प्रख्यैः भवनैः उपशोभिताम् । सागर-उपम-निर्घोषाम् सागर-अनिल-सेविताम् ॥ ३ ॥
śārada-ambudhara-prakhyaiḥ bhavanaiḥ upaśobhitām . sāgara-upama-nirghoṣām sāgara-anila-sevitām .. 3 ..
सुपुष्टबलसङ्गुप्तां यथैव विटपावतीम् । चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ ४ ॥
सु पुष्ट-बल-सङ्गुप्ताम् यथा एव विटपावतीम् । चारु-तोरण-निर्यूहाम् पाण्डुर-द्वार-तोरणाम् ॥ ४ ॥
su puṣṭa-bala-saṅguptām yathā eva viṭapāvatīm . cāru-toraṇa-niryūhām pāṇḍura-dvāra-toraṇām .. 4 ..
भुजगाचरितां गुप्तां शुभां भोगवतीम् इव । तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ ५ ॥
भुजग-आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव । ताम् स विद्युत्-घन-आकीर्णाम् ज्योतिः-मार्ग-निषेविताम् ॥ ५ ॥
bhujaga-ācaritām guptām śubhām bhogavatīm iva . tām sa vidyut-ghana-ākīrṇām jyotiḥ-mārga-niṣevitām .. 5 ..
चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् । शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ ६ ॥
चण्ड-मारुत-निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् । शातकुम्भेन महता प्राकारेण अभिसंवृताम् ॥ ६ ॥
caṇḍa-māruta-nirhrādām yathā indrasya amarāvatīm . śātakumbhena mahatā prākāreṇa abhisaṃvṛtām .. 6 ..
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् । आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ ॥
किङ्किणी-जाल-घोषाभिः पताकाभिः अलङ्कृताम् । आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥ ७ ॥
kiṅkiṇī-jāla-ghoṣābhiḥ patākābhiḥ alaṅkṛtām . āsādya sahasā hṛṣṭaḥ prākāram abhipedivān .. 7 ..
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः । जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः ॥ ८ ॥
विस्मय-आविष्ट-हृदयः पुरीम् आलोक्य सर्वतस् । जाम्बूनद-मयैः द्वारैः वैदूर्य-कृत-वेदिकैः ॥ ८ ॥
vismaya-āviṣṭa-hṛdayaḥ purīm ālokya sarvatas . jāmbūnada-mayaiḥ dvāraiḥ vaidūrya-kṛta-vedikaiḥ .. 8 ..
मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः । तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ ९ ॥
मणि-स्फटिक-मुक्ताभिः मणि-कुट्टिम-भूषितैः । राजत-अमल-पाण्डुरैः ॥ ९ ॥
maṇi-sphaṭika-muktābhiḥ maṇi-kuṭṭima-bhūṣitaiḥ . rājata-amala-pāṇḍuraiḥ .. 9 ..
वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः । चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ १० ॥
वैदूर्य-तल-सोपानैः स्फाटिक-अन्तर-पांसुभिः । चारु-सञ्जवन-उपेतैः खम् इव उत्पतितैः शुभैः ॥ १० ॥
vaidūrya-tala-sopānaiḥ sphāṭika-antara-pāṃsubhiḥ . cāru-sañjavana-upetaiḥ kham iva utpatitaiḥ śubhaiḥ .. 10 ..
क्रौञ्चबर्हिणसङ्घुष्टे राजहंसनिषेवितैः । तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ ११ ॥
क्रौञ्च-बर्हिण-सङ्घुष्टे राजहंस-निषेवितैः । तूर्य-आभरण-निर्घोषैः सर्वतस् प्रतिनादिताम् ॥ ११ ॥
krauñca-barhiṇa-saṅghuṣṭe rājahaṃsa-niṣevitaiḥ . tūrya-ābharaṇa-nirghoṣaiḥ sarvatas pratināditām .. 11 ..
वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः । खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः ॥ १२ ॥
वस्वोकसारा-प्रतिमाम् समीक्ष्य नगरीम् ततस् । खम् इव उत्पतिताम् लङ्काम् जहर्ष हनुमान् कपिः ॥ १२ ॥
vasvokasārā-pratimām samīkṣya nagarīm tatas . kham iva utpatitām laṅkām jaharṣa hanumān kapiḥ .. 12 ..
तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् । अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ १३ ॥
ताम् समीक्ष्य पुरीम् लङ्काम् राक्षस-अधिपतेः शुभाम् । अनुत्तमाम् ऋद्धि-युताम् चिन्तयामास वीर्यवान् ॥ १३ ॥
tām samīkṣya purīm laṅkām rākṣasa-adhipateḥ śubhām . anuttamām ṛddhi-yutām cintayāmāsa vīryavān .. 13 ..
नेयमन्येन नगरी शक्या धर्षयितुं बलात् । रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ १४ ॥
न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् । रक्षिता रावण-बलैः उद्यत-आयुध-धारिभिः ॥ १४ ॥
na iyam anyena nagarī śakyā dharṣayitum balāt . rakṣitā rāvaṇa-balaiḥ udyata-āyudha-dhāribhiḥ .. 14 ..
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः । प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ १५ ॥
कुमुद-अङ्गदयोः वा अपि सुषेणस्य महा-कपेः । प्रसिद्धा इयम् भवेत् भूमिः मैन्द-द्विविदयोः अपि ॥ १५ ॥
kumuda-aṅgadayoḥ vā api suṣeṇasya mahā-kapeḥ . prasiddhā iyam bhavet bhūmiḥ mainda-dvividayoḥ api .. 15 ..
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः । ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ १६ ॥
विवस्वतः तनूजस्य हरेः च कुशपर्वणः । ऋक्षस्य केतुमालस्य मम च एव गतिः भवेत् ॥ १६ ॥
vivasvataḥ tanūjasya hareḥ ca kuśaparvaṇaḥ . ṛkṣasya ketumālasya mama ca eva gatiḥ bhavet .. 16 ..
समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥ १७ ॥
समीक्ष्य तु महा-बाहो राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥ १७ ॥
samīkṣya tu mahā-bāho rāghavasya parākramam . lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ .. 17 ..
तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् । यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ १८ ॥
ताम् रत्न-वसन-उपेताम् कोष्ठागार-अवतंसकाम् । यन्त्र-आगार-स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥ १८ ॥
tām ratna-vasana-upetām koṣṭhāgāra-avataṃsakām . yantra-āgāra-stanīm ṛddhām pramadām iva bhūṣitām .. 18 ..
तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः । नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ १९ ॥
ताम् नष्ट-तिमिराम् दीपैः भास्वरैः च महा-गृहैः । नगरीम् राक्षस-इन्द्रस्य ददर्श स महा-कपिः ॥ १९ ॥
tām naṣṭa-timirām dīpaiḥ bhāsvaraiḥ ca mahā-gṛhaiḥ . nagarīm rākṣasa-indrasya dadarśa sa mahā-kapiḥ .. 19 ..
थ सा हरिशार्दूलं प्रविशन्तं महाबलम् । नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥
सा हरि-शार्दूलम् प्रविशन्तम् महा-बलम् । नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ २० ॥
sā hari-śārdūlam praviśantam mahā-balam . nagarī svena rūpeṇa dadarśa pavanātmajam .. 20 ..
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता । स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ २१ ॥
सा तम् हरि-वरम् दृष्ट्वा लङ्का रावण-पालिता । स्वयम् एवा उत्थिता तत्र विकृत-आनन-दर्शना ॥ २१ ॥
sā tam hari-varam dṛṣṭvā laṅkā rāvaṇa-pālitā . svayam evā utthitā tatra vikṛta-ānana-darśanā .. 21 ..
पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत । मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ २२ ॥
पुरस्तात् कपि-वर्यस्य वायुसूनोः अतिष्ठत । मुञ्चमाना महा-नादम् अब्रवीत् पवनात्मजम् ॥ २२ ॥
purastāt kapi-varyasya vāyusūnoḥ atiṣṭhata . muñcamānā mahā-nādam abravīt pavanātmajam .. 22 ..
कस्त्वं केन च कार्येण इह प्राप्तो वनालय । कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ २३ ॥
कः त्वम् केन च कार्येण इह प्राप्तः वन-आलय । कथयस्व इह यत् तत्त्वम् यावत् प्राणाः धरन्ति ते ॥ २३ ॥
kaḥ tvam kena ca kāryeṇa iha prāptaḥ vana-ālaya . kathayasva iha yat tattvam yāvat prāṇāḥ dharanti te .. 23 ..
न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया । रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ २४ ॥
न शक्यम् खलु इयम् लङ्का प्रवेष्टुम् वानर त्वया । रक्षिता रावण-बलैः अभिगुप्ता समन्ततः ॥ २४ ॥
na śakyam khalu iyam laṅkā praveṣṭum vānara tvayā . rakṣitā rāvaṇa-balaiḥ abhiguptā samantataḥ .. 24 ..
अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् । कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ २५ ॥
अथ ताम् अब्रवीत् वीरः हनुमान् अग्रतस् स्थिताम् । कथयिष्यामि ते तत्त्वम् यत् माम् त्वम् परिपृच्छसि ॥ २५ ॥
atha tām abravīt vīraḥ hanumān agratas sthitām . kathayiṣyāmi te tattvam yat mām tvam paripṛcchasi .. 25 ..
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि । किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा । २६ ॥
का त्वम् विरूप-नयना पुर-द्वारे अवतिष्ठसि । किमर्थम् च अपि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा । २६ ॥
kā tvam virūpa-nayanā pura-dvāre avatiṣṭhasi . kimartham ca api mām ruddhvā nirbhartsayasi dāruṇā . 26 ..
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी । उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ २७ ॥
हनुमत्-वचनम् श्रुत्वा लङ्का सा कामरूपिणी । उवाच वचनम् क्रुद्धा परुषम् पवनात्मजम् ॥ २७ ॥
hanumat-vacanam śrutvā laṅkā sā kāmarūpiṇī . uvāca vacanam kruddhā paruṣam pavanātmajam .. 27 ..
अहं राक्षसराजस्य रावणस्य महात्मनः । आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ २८ ॥
अहम् राक्षस-राजस्य रावणस्य महात्मनः । आज्ञा-प्रतीक्षा दुर्धर्षा रक्षामि नगरीम् इमाम् ॥ २८ ॥
aham rākṣasa-rājasya rāvaṇasya mahātmanaḥ . ājñā-pratīkṣā durdharṣā rakṣāmi nagarīm imām .. 28 ..
न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ २९ ॥
न शक्या माम् अवज्ञाय प्रवेष्टुम् नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतः मया ॥ २९ ॥
na śakyā mām avajñāya praveṣṭum nagarī tvayā . adya prāṇaiḥ parityaktaḥ svapsyase nihataḥ mayā .. 29 ..
अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम । सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ ३० ॥
अहम् हि नगरी लङ्का स्वयम् एव प्लवङ्गम । सर्वतस् परिरक्षामि हि एतत् ते कथितम् मया ॥ ३० ॥
aham hi nagarī laṅkā svayam eva plavaṅgama . sarvatas parirakṣāmi hi etat te kathitam mayā .. 30 ..
लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः । यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥ ३१ ॥
लङ्कायाः वचनम् श्रुत्वा हनुमान् मारुतात्मजः । यत्नवान् स हरि-श्रेष्ठः स्थितः शैलः इव अपरः ॥ ३१ ॥
laṅkāyāḥ vacanam śrutvā hanumān mārutātmajaḥ . yatnavān sa hari-śreṣṭhaḥ sthitaḥ śailaḥ iva aparaḥ .. 31 ..
स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः । आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ ३२ ॥
स ताम् स्त्री-रूप-विकृताम् दृष्टवा वानर-पुङ्गवः । आबभाषे अथ मेधावी सत्त्ववान् प्लवग-ऋषभः ॥ ३२ ॥
sa tām strī-rūpa-vikṛtām dṛṣṭavā vānara-puṅgavaḥ . ābabhāṣe atha medhāvī sattvavān plavaga-ṛṣabhaḥ .. 32 ..
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् । इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ॥ ३३ ॥
द्रक्ष्यामि नगरीम् लङ्काम् स अट्ट-प्राकार-तोरणाम् । इति अर्थम् इह संप्राप्तः परम् कौतूहलम् हि मे ॥ ३३ ॥
drakṣyāmi nagarīm laṅkām sa aṭṭa-prākāra-toraṇām . iti artham iha saṃprāptaḥ param kautūhalam hi me .. 33 ..
वनान्युपवनानीह लङ्कायाः काननानि च । सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ ३४ ॥
वनानि उपवनानि इह लङ्कायाः काननानि च । सर्वतस् गृह-मुख्यानि द्रष्टुम् आगमनम् हि मे ॥ ३४ ॥
vanāni upavanāni iha laṅkāyāḥ kānanāni ca . sarvatas gṛha-mukhyāni draṣṭum āgamanam hi me .. 34 ..
तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी । भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम् ॥ ३५ ॥
तस्य तत् वचनम् श्रुत्वा लङ्का सा कामरूपिणी । भूयस् एव पुनर् वाक्यम् बभाषे परुष-अक्षरम् ॥ ३५ ॥
tasya tat vacanam śrutvā laṅkā sā kāmarūpiṇī . bhūyas eva punar vākyam babhāṣe paruṣa-akṣaram .. 35 ..
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालितां । न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ ३६ ॥
माम् अ निर्जित्य दुर्बुद्धे राक्षस-ईश्वर-पालिताम् । न शक्यम् अद्य ते द्रष्टुम् पुरी इयम् वानर-अधम ॥ ३६ ॥
mām a nirjitya durbuddhe rākṣasa-īśvara-pālitām . na śakyam adya te draṣṭum purī iyam vānara-adhama .. 36 ..
ततः स कपिशार्दूलस्तामुवाच निशाचरीम् । दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ ३७ ॥
ततस् स कपि-शार्दूलः ताम् उवाच निशाचरीम् । दृष्ट्वा पुरीम् इमाम् भद्रे पुनर् यास्ये यथागतम् ॥ ३७ ॥
tatas sa kapi-śārdūlaḥ tām uvāca niśācarīm . dṛṣṭvā purīm imām bhadre punar yāsye yathāgatam .. 37 ..
ततः कृत्वा महानादं सा वै लङ्का भयावहम् । तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ ३८ ॥
ततस् कृत्वा महा-नादम् सा वै लङ्का भय-आवहम् । तलेन वानर-श्रेष्ठम् ताडयामास वेगिता ॥ ३८ ॥
tatas kṛtvā mahā-nādam sā vai laṅkā bhaya-āvaham . talena vānara-śreṣṭham tāḍayāmāsa vegitā .. 38 ..
ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् । ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ ३९ ॥
ततस् स कपि-शार्दूलः लङ्कया ताडितः भृशम् । ननाद सु महा-नादम् वीर्यवान् पवनात्मजः ॥ ३९ ॥
tatas sa kapi-śārdūlaḥ laṅkayā tāḍitaḥ bhṛśam . nanāda su mahā-nādam vīryavān pavanātmajaḥ .. 39 ..
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः । मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः ॥ ४० ॥
ततस् संवर्तयामास वाम-हस्तस्य सः अङ्गुलीः । मुष्टिना अभिजघान एनाम् हनुमान् क्रोध-मूर्छितः ॥ ४० ॥
tatas saṃvartayāmāsa vāma-hastasya saḥ aṅgulīḥ . muṣṭinā abhijaghāna enām hanumān krodha-mūrchitaḥ .. 40 ..
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः । सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी । पपात सहसा भूमौ विकृताननदर्शना ॥ ४१ ॥
स्त्री च इति मन्यमानेन न अति क्रोधः स्वयम् कृतः । सा तु तेन प्रहारेण विह्वल-अङ्गी निशाचरी । पपात सहसा भूमौ विकृत-आनन-दर्शना ॥ ४१ ॥
strī ca iti manyamānena na ati krodhaḥ svayam kṛtaḥ . sā tu tena prahāreṇa vihvala-aṅgī niśācarī . papāta sahasā bhūmau vikṛta-ānana-darśanā .. 41 ..
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् । कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ ४२ ॥
ततस् तु हनुमान् प्राज्ञः ताम् दृष्ट्वा विनिपातिताम् । कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् ॥ ४२ ॥
tatas tu hanumān prājñaḥ tām dṛṣṭvā vinipātitām . kṛpām cakāra tejasvī manyamānaḥ striyam tu tām .. 42 ..
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् । उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ॥ ४३ ॥
ततस् वै भृश-संविग्ना लङ्का सा गद्गद-अक्षरम् । उवाच अ गर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् ॥ ४३ ॥
tatas vai bhṛśa-saṃvignā laṅkā sā gadgada-akṣaram . uvāca a garvitam vākyam hanūmantam plavaṅgamam .. 43 ..
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम । समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ ४४ ॥
प्रसीद सु महा-बाहो त्रायस्व हरि-सत्तम । समये सौम्य तिष्ठन्ति सत्त्ववन्तः महा-बलाः ॥ ४४ ॥
prasīda su mahā-bāho trāyasva hari-sattama . samaye saumya tiṣṭhanti sattvavantaḥ mahā-balāḥ .. 44 ..
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम । निर्जिताहं त्वया वीर विक्रमेण महाबल ॥ ४५ ॥
अहम् तु नगरी लङ्का स्वयम् एव प्लवङ्गम । निर्जिता अहम् त्वया वीर विक्रमेण महा-बल ॥ ४५ ॥
aham tu nagarī laṅkā svayam eva plavaṅgama . nirjitā aham tvayā vīra vikrameṇa mahā-bala .. 45 ..
इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर । स्वयंभुवा पुरा दत्तं वरदानं यथा मम ॥ ४६ ॥
इदम् तु तथ्यम् शृणु वै ब्रुवन्त्याः मे हरि-ईश्वर । स्वयंभुवा पुरा दत्तम् वर-दानम् यथा मम ॥ ४६ ॥
idam tu tathyam śṛṇu vai bruvantyāḥ me hari-īśvara . svayaṃbhuvā purā dattam vara-dānam yathā mama .. 46 ..
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् । तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ॥ ४७ ॥
यदा त्वाम् वानरः कश्चिद् विक्रमात् वशम् आनयेत् । तदा त्वया हि विज्ञेयम् रक्षसाम् भयम् आगतम् ॥ ४७ ॥
yadā tvām vānaraḥ kaścid vikramāt vaśam ānayet . tadā tvayā hi vijñeyam rakṣasām bhayam āgatam .. 47 ..
स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् । स्वयंभू विहितः सत्यो न तस्यास्ति व्यतिक्रमः ॥ ४८ ॥
स हि मे समयः सौम्य प्राप्तः अद्य तव दर्शनात् । स्वयंभू विहितः सत्यः न तस्य अस्ति व्यतिक्रमः ॥ ४८ ॥
sa hi me samayaḥ saumya prāptaḥ adya tava darśanāt . svayaṃbhū vihitaḥ satyaḥ na tasya asti vyatikramaḥ .. 48 ..
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः । रक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ ४९ ॥
सीता-निमित्तम् राज्ञः तु रावणस्य दुरात्मनः । रक्षसाम् च एव सर्वेषाम् विनाशः समुपागतः ॥ ४९ ॥
sītā-nimittam rājñaḥ tu rāvaṇasya durātmanaḥ . rakṣasām ca eva sarveṣām vināśaḥ samupāgataḥ .. 49 ..
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् । विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ ५० ॥
तत् प्रविश्य हरि-श्रेष्ठ पुरीम् रावण-पालिताम् । विधत्स्व सर्व-कार्याणि यानि यानि इह वाञ्छसि ॥ ५० ॥
tat praviśya hari-śreṣṭha purīm rāvaṇa-pālitām . vidhatsva sarva-kāryāṇi yāni yāni iha vāñchasi .. 50 ..
प्रविश्य शापोपहतां हरीश्वर शुभां पुरीं राक्षसमुख्यपालिताम् । यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ ५१ ॥
प्रविश्य शाप-उपहताम् हरि-ईश्वर शुभाम् पुरीम् राक्षस-मुख्य-पालिताम् । यदृच्छया त्वम् जनकात्मजाम् सतीम् विमार्ग सर्वत्र गतः यथासुखम् ॥ ५१ ॥
praviśya śāpa-upahatām hari-īśvara śubhām purīm rākṣasa-mukhya-pālitām . yadṛcchayā tvam janakātmajām satīm vimārga sarvatra gataḥ yathāsukham .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In