This overlay will guide you through the buttons:

| |
|
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः । सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ १॥
हनुमान् अपि विक्रान्तः सर्वम् शुश्राव तत्त्वतः । सीतायाः त्रिजटायाः च राक्षसीनाम् च तर्जनम् ॥ १॥
hanumān api vikrāntaḥ sarvam śuśrāva tattvataḥ . sītāyāḥ trijaṭāyāḥ ca rākṣasīnām ca tarjanam .. 1..
अवेक्षमाणस्तां देवीं देवताम् इव नन्दने । ततो बहुविधां चिन्तां चिन्तयामास वानरः ॥ २॥
अवेक्षमाणः ताम् देवीम् देवताम् इव नन्दने । ततस् बहुविधाम् चिन्ताम् चिन्तयामास वानरः ॥ २॥
avekṣamāṇaḥ tām devīm devatām iva nandane . tatas bahuvidhām cintām cintayāmāsa vānaraḥ .. 2..
यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥ ३॥
याम् कपीनाम् सहस्राणि सु बहूनि अयुतानि च । दिक्षु सर्वासु मार्गन्ते सा इयम् आसादिता मया ॥ ३॥
yām kapīnām sahasrāṇi su bahūni ayutāni ca . dikṣu sarvāsu mārgante sā iyam āsāditā mayā .. 3..
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता । गूढेन चरता तावदवेक्षितमिदं मया ॥ ४॥
चारेण तु सु युक्तेन शत्रोः शक्तिम् अवेक्षिता । गूढेन चरता तावत् अवेक्षितम् इदम् मया ॥ ४॥
cāreṇa tu su yuktena śatroḥ śaktim avekṣitā . gūḍhena caratā tāvat avekṣitam idam mayā .. 4..
राक्षसानां विशेषश्च पुरी चेयमवेक्षिता । राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥ ५॥
राक्षसानाम् विशेषः च पुरी च इयम् अवेक्षिता । राक्षस-अधिपतेः अस्य प्रभावः रावणस्य च ॥ ५॥
rākṣasānām viśeṣaḥ ca purī ca iyam avekṣitā . rākṣasa-adhipateḥ asya prabhāvaḥ rāvaṇasya ca .. 5..
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् ॥ ६॥
युक्तम् तस्य अप्रमेयस्य सर्व-सत्त्व-दयावतः । समाश्वासयितुम् भार्याम् पति-दर्शन-काङ्क्षिणीम् ॥ ६॥
yuktam tasya aprameyasya sarva-sattva-dayāvataḥ . samāśvāsayitum bhāryām pati-darśana-kāṅkṣiṇīm .. 6..
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् ॥ ७॥
अहम् आश्वासयामि एनाम् पूर्ण-चन्द्र-निभ-आननाम् । अदृष्ट-दुःखाम् दुःखस्य न हि अन्तम् अधिगच्छतीम् ॥ ७॥
aham āśvāsayāmi enām pūrṇa-candra-nibha-ānanām . adṛṣṭa-duḥkhām duḥkhasya na hi antam adhigacchatīm .. 7..
यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् ॥ ८॥
यदि हि अहम् इमाम् देवीम् शोक-उपहत-चेतनाम् । अन् आश्वास्य गमिष्यामि दोष-वत् गमनम् भवेत् ॥ ८॥
yadi hi aham imām devīm śoka-upahata-cetanām . an āśvāsya gamiṣyāmi doṣa-vat gamanam bhavet .. 8..
गते हि मयि तत्रेयं राजपुत्री यशस्विनी । परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥ ९॥
गते हि मयि तत्र इयम् राज-पुत्री यशस्विनी । परित्राणम् अ विन्दन्ती जानकी जीवितम् त्यजेत् ॥ ९॥
gate hi mayi tatra iyam rāja-putrī yaśasvinī . paritrāṇam a vindantī jānakī jīvitam tyajet .. 9..
यया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ॥ १०॥
यया च स महा-बाहुः पूर्ण-चन्द्र-निभ-आननः । समाश्वासयितुम् न्याय्यः सीता-दर्शन-लालसः ॥ १०॥
yayā ca sa mahā-bāhuḥ pūrṇa-candra-nibha-ānanaḥ . samāśvāsayitum nyāyyaḥ sītā-darśana-lālasaḥ .. 10..
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् । कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् ॥ ११॥
निशाचरीणाम् प्रत्यक्षम् अक्षमम् च अभिभाषणम् । कथम् नु खलु कर्तव्यम् इदम् कृच्छ्र गतः हि अहम् ॥ ११॥
niśācarīṇām pratyakṣam akṣamam ca abhibhāṣaṇam . katham nu khalu kartavyam idam kṛcchra gataḥ hi aham .. 11..
अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ १२॥
अनेन रात्रि-शेषेण यदि ना आश्वास्यते मया । सर्वथा ना अस्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ १२॥
anena rātri-śeṣeṇa yadi nā āśvāsyate mayā . sarvathā nā asti sandehaḥ parityakṣyati jīvitam .. 12..
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः । किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥ १३॥
रामः तु यदि पृच्छेत् माम् किम् माम् सीता ब्रवीत् वचः । किम् अहम् तम् प्रतिब्रूयाम् अ सम्भाष्य सुमध्यमाम् ॥ १३॥
rāmaḥ tu yadi pṛcchet mām kim mām sītā bravīt vacaḥ . kim aham tam pratibrūyām a sambhāṣya sumadhyamām .. 13..
सीतासन्देशरहितं मामितस्त्वरया गतम् । निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ॥ १४॥
सीता-सन्देश-रहितम् माम् इतस् त्वरया गतम् । निर्दहेत् अपि काकुत्स्थः क्रुद्धः तीव्रेण चक्षुषा ॥ १४॥
sītā-sandeśa-rahitam mām itas tvarayā gatam . nirdahet api kākutsthaḥ kruddhaḥ tīvreṇa cakṣuṣā .. 14..
यदि चेद्योजयिष्यामि भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५॥
यदि चेद् योजयिष्यामि भर्तारम् राम-कारणात् । व्यर्थम् आगमनम् तस्य स सैन्यस्य भविष्यति ॥ १५॥
yadi ced yojayiṣyāmi bhartāram rāma-kāraṇāt . vyartham āgamanam tasya sa sainyasya bhaviṣyati .. 15..
अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः । शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६॥
अन्तरम् तु अहम् आसाद्य राक्षसीनाम् इह स्थितः । शनैस् आश्वासयिष्यामि सन्ताप-बहुलाम् इमाम् ॥ १६॥
antaram tu aham āsādya rākṣasīnām iha sthitaḥ . śanais āśvāsayiṣyāmi santāpa-bahulām imām .. 16..
अहं ह्यतितनुश्चैव वनरश्च विशेषतः । वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७॥
अहम् हि अतितनुः च एव वनरः च विशेषतः । वाचम् च उदाहरिष्यामि मानुषीम् इह संस्कृताम् ॥ १७॥
aham hi atitanuḥ ca eva vanaraḥ ca viśeṣataḥ . vācam ca udāhariṣyāmi mānuṣīm iha saṃskṛtām .. 17..
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति ॥ १८॥
यदि वाचम् प्रदास्यामि द्विजातिः इव संस्कृताम् । रावणम् मन्यमाना माम् सीता भीता भविष्यति ॥ १८॥
yadi vācam pradāsyāmi dvijātiḥ iva saṃskṛtām . rāvaṇam manyamānā mām sītā bhītā bhaviṣyati .. 18..
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९॥
अवश्यम् एव वक्तव्यम् मानुषम् वाक्यम् अर्थवत् । मया सान्त्वयितुम् शक्या न अन्यथा इयम् अनिन्दिता ॥ १९॥
avaśyam eva vaktavyam mānuṣam vākyam arthavat . mayā sāntvayitum śakyā na anyathā iyam aninditā .. 19..
सेयमालोक्य मे रूपं जानकी भाषितं तथा । रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ॥ २०॥
सा इयम् आलोक्य मे रूपम् जानकी भाषितम् तथा । रक्षोभिः त्रासिता पूर्वम् भूयस् त्रासम् गमिष्यति ॥ २०॥
sā iyam ālokya me rūpam jānakī bhāṣitam tathā . rakṣobhiḥ trāsitā pūrvam bhūyas trāsam gamiṣyati .. 20..
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी । जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१॥
ततस् जात-परित्रासा शब्दम् कुर्यात् मनस्विनी । जानमाना विशाल-अक्षी रावणम् कामरूपिणम् ॥ २१॥
tatas jāta-paritrāsā śabdam kuryāt manasvinī . jānamānā viśāla-akṣī rāvaṇam kāmarūpiṇam .. 21..
सीतया च कृते शब्दे सहसा राक्षसीगणः । नानाप्रहरणो घोरः समेयादन्तकोपमः ॥ २२॥
सीतया च कृते शब्दे सहसा राक्षसी-गणः । नाना प्रहरणः घोरः समेयात् अन्तक-उपमः ॥ २२॥
sītayā ca kṛte śabde sahasā rākṣasī-gaṇaḥ . nānā praharaṇaḥ ghoraḥ sameyāt antaka-upamaḥ .. 22..
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः । वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ २३॥
ततस् माम् सम्परिक्षिप्य सर्वतस् विकृत-आननाः । वधे च ग्रहणे च एव कुर्युः यत्नम् यथाबलम् ॥ २३॥
tatas mām samparikṣipya sarvatas vikṛta-ānanāḥ . vadhe ca grahaṇe ca eva kuryuḥ yatnam yathābalam .. 23..
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ॥ २४॥
तम् माम् शाखाः प्रशाखाः च स्कन्धान् च उत्तम-शाखिनाम् । दृष्ट्वा विपरिधावन्तम् भवेयुः भय-शङ्किताः ॥ २४॥
tam mām śākhāḥ praśākhāḥ ca skandhān ca uttama-śākhinām . dṛṣṭvā viparidhāvantam bhaveyuḥ bhaya-śaṅkitāḥ .. 24..
मम रूपं च सम्प्रेक्ष्य वनं विचरतो महत् । राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ॥ २५॥
मम रूपम् च सम्प्रेक्ष्य वनम् विचरतः महत् । राक्षस्यः भय-वित्रस्ताः भवेयुः विकृत-आननाः ॥ २५॥
mama rūpam ca samprekṣya vanam vicarataḥ mahat . rākṣasyaḥ bhaya-vitrastāḥ bhaveyuḥ vikṛta-ānanāḥ .. 25..
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि । राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ॥ २६॥
ततस् कुर्युः समाह्वानम् राक्षस्यः रक्षसाम् अपि । राक्षस-इन्द्र-नियुक्तानाम् राक्षस-इन्द्र-निवेशने ॥ २६॥
tatas kuryuḥ samāhvānam rākṣasyaḥ rakṣasām api . rākṣasa-indra-niyuktānām rākṣasa-indra-niveśane .. 26..
ते शूलशरनिस्त्रिंश विविधायुधपाणयः । आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः ॥ २७॥
ते विविध-आयुध-पाणयः । आपतेयुः विमर्दे अस्मिन् वेगेन उद्विग्न-कारिणः ॥ २७॥
te vividha-āyudha-pāṇayaḥ . āpateyuḥ vimarde asmin vegena udvigna-kāriṇaḥ .. 27..
सरूद्धस्तैस्तु परितो विधमन्रक्षसां बलम् । शक्नुयं न तु सम्प्राप्तुं परं पारं महोदधेः ॥ २८॥
स रूद्धः तैः तु परितस् विधमन् रक्षसाम् बलम् । शक्नुयम् न तु सम्प्राप्तुम् परम् पारम् महोदधेः ॥ २८॥
sa rūddhaḥ taiḥ tu paritas vidhaman rakṣasām balam . śaknuyam na tu samprāptum param pāram mahodadheḥ .. 28..
मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः । स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ॥ २९॥
माम् वा गृह्णीयुः आप्लुत्य बहवः शीघ्रकारिणः । स्यात् इयम् च अगृहीत-अर्था मम च ग्रहणम् भवेत् ॥ २९॥
mām vā gṛhṇīyuḥ āplutya bahavaḥ śīghrakāriṇaḥ . syāt iyam ca agṛhīta-arthā mama ca grahaṇam bhavet .. 29..
हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् । विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥ ३०॥
हिंसा-अभिरुचयः हिंस्युः इमाम् वा जनकात्मजाम् । विपन्नम् स्यात् ततस् कार्यम् राम-सुग्रीवयोः इदम् ॥ ३०॥
hiṃsā-abhirucayaḥ hiṃsyuḥ imām vā janakātmajām . vipannam syāt tatas kāryam rāma-sugrīvayoḥ idam .. 30..
उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ३१॥
उद्देशे नष्ट-मार्गे अस्मिन् राक्षसैः परिवारिते । सागरेण परिक्षिप्ते गुप्ते वसति जानकी ॥ ३१॥
uddeśe naṣṭa-mārge asmin rākṣasaiḥ parivārite . sāgareṇa parikṣipte gupte vasati jānakī .. 31..
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे । नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥ ३२॥
विशस्ते वा गृहीते वा रक्षोभिः मयि संयुगे । न अन्यम् पश्यामि रामस्य सहायम् कार्य-साधने ॥ ३२॥
viśaste vā gṛhīte vā rakṣobhiḥ mayi saṃyuge . na anyam paśyāmi rāmasya sahāyam kārya-sādhane .. 32..
विमृशंश्च न पश्यामि यो हते मयि वानरः । शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् ॥ ३३॥
विमृशन् च न पश्यामि यः हते मयि वानरः । शत-योजन-विस्तीर्णम् लङ्घयेत महा-उदधिम् ॥ ३३॥
vimṛśan ca na paśyāmi yaḥ hate mayi vānaraḥ . śata-yojana-vistīrṇam laṅghayeta mahā-udadhim .. 33..
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् । न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः ॥ ३४॥
कामम् हन्तुम् समर्थः अस्मि सहस्राणि अपि रक्षसाम् । न तु शक्ष्यामि सम्प्राप्तुम् परम् पारम् महोदधेः ॥ ३४॥
kāmam hantum samarthaḥ asmi sahasrāṇi api rakṣasām . na tu śakṣyāmi samprāptum param pāram mahodadheḥ .. 34..
असत्यानि च युद्धानि संशयो मे न रोचते । कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् ॥ ३५॥
असत्यानि च युद्धानि संशयः मे न रोचते । कः च निःसंशयम् कार्यम् कुर्यात् प्राज्ञः स संशयम् ॥ ३५॥
asatyāni ca yuddhāni saṃśayaḥ me na rocate . kaḥ ca niḥsaṃśayam kāryam kuryāt prājñaḥ sa saṃśayam .. 35..
एष दोषो महान्हि स्यान्मम सीताभिभाषणे । प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ॥ ३६॥
एष दोषः महान् हि स्यात् मम सीता-अभिभाषणे । प्राणत्यागः च वैदेह्याः भवेत् अनभिभाषणे ॥ ३६॥
eṣa doṣaḥ mahān hi syāt mama sītā-abhibhāṣaṇe . prāṇatyāgaḥ ca vaidehyāḥ bhavet anabhibhāṣaṇe .. 36..
भूताश्चार्था विनश्यन्ति देशकालविरोधिताः । विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ ३७॥
भूताः च अर्थाः विनश्यन्ति देश-काल-विरोधिताः । विक्लवम् दूतम् आसाद्य तमः सूर्य-उदये यथा ॥ ३७॥
bhūtāḥ ca arthāḥ vinaśyanti deśa-kāla-virodhitāḥ . viklavam dūtam āsādya tamaḥ sūrya-udaye yathā .. 37..
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ ३८॥
अर्थ-अनर्थ-अन्तरे बुद्धिः निश्चिता अपि न शोभते । घातयन्ति हि कार्याणि दूताः पण्डित-मानिनः ॥ ३८॥
artha-anartha-antare buddhiḥ niścitā api na śobhate . ghātayanti hi kāryāṇi dūtāḥ paṇḍita-māninaḥ .. 38..
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९॥
न विनश्येत् कथम् कार्यम् वैक्लव्यम् न कथम् भवेत् । लङ्घनम् च समुद्रस्य कथम् नु न वृथा भवेत् ॥ ३९॥
na vinaśyet katham kāryam vaiklavyam na katham bhavet . laṅghanam ca samudrasya katham nu na vṛthā bhavet .. 39..
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च । इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम् ॥ ४०॥
कथम् नु खलु वाक्यम् मे शृणुयात् न उद्विजेत च । इति सञ्चिन्त्य हनुमान् चकार मतिमान् मतिम् ॥ ४०॥
katham nu khalu vākyam me śṛṇuyāt na udvijeta ca . iti sañcintya hanumān cakāra matimān matim .. 40..
राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् । नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ॥ ४१॥
रामम् अक्लिष्ट-कर्माणम् स्व-बन्धुम् अनुकीर्तयन् । न एनाम् उद्वेजयिष्यामि तद्-बन्धु-गत-मानसाम् ॥ ४१॥
rāmam akliṣṭa-karmāṇam sva-bandhum anukīrtayan . na enām udvejayiṣyāmi tad-bandhu-gata-mānasām .. 41..
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः । शुभानि धर्मयुक्तानि वचनानि समर्पयन् ॥ ४२॥
इक्ष्वाकूणाम् वरिष्ठस्य रामस्य विदित-आत्मनः । शुभानि धर्म-युक्तानि वचनानि समर्पयन् ॥ ४२॥
ikṣvākūṇām variṣṭhasya rāmasya vidita-ātmanaḥ . śubhāni dharma-yuktāni vacanāni samarpayan .. 42..
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् । श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ॥ ४३॥
श्रावयिष्यामि सर्वाणि मधुराम् प्रब्रुवन् गिरम् । श्रद्धास्यति यथा हि इयम् तथा सर्वम् समादधे ॥ ४३॥
śrāvayiṣyāmi sarvāṇi madhurām prabruvan giram . śraddhāsyati yathā hi iyam tathā sarvam samādadhe .. 43..
इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः । मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ॥ ४४॥
इति स बहुविधम् महा-अनुभावः जगतिपतेः प्रमदाम् अवेक्षमाणः । मधुरम् अवितथम् जगाद वाक्यम् द्रुम-विटप-अन्तरम् आस्थितः हनूमान् ॥ ४४॥
iti sa bahuvidham mahā-anubhāvaḥ jagatipateḥ pramadām avekṣamāṇaḥ . madhuram avitatham jagāda vākyam druma-viṭapa-antaram āsthitaḥ hanūmān .. 44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In