This overlay will guide you through the buttons:

| |
|
एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥१॥
एवम् बहुविधाम् चिन्ताम् चिन्तयित्वा महा-कपिः । संश्रवे मधुरम् वाक्यम् वैदेह्याः व्याजहार ह ॥१॥
evam bahuvidhām cintām cintayitvā mahā-kapiḥ . saṃśrave madhuram vākyam vaidehyāḥ vyājahāra ha ..1..
राजा दशरथो नाम रथकुञ्जरवाजिनाम् । पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः ॥२॥
राजा दशरथः नाम रथ-कुञ्जर-वाजिनाम् । पुण्य-शीलः महा-कीर्तिः ऋजुः आसीत् महा-यशाः ॥२॥
rājā daśarathaḥ nāma ratha-kuñjara-vājinām . puṇya-śīlaḥ mahā-kīrtiḥ ṛjuḥ āsīt mahā-yaśāḥ ..2..
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभि स्समः। चक्रवर्तिकुले जातः पुरन्दरसमो बले ॥३॥
राजर्षीणाम् गुण-श्रेष्ठः तपसा च ऋषिभिः स्समः। चक्रवर्ति-कुले जातः पुरन्दर-समः बले ॥३॥
rājarṣīṇām guṇa-śreṣṭhaḥ tapasā ca ṛṣibhiḥ ssamaḥ. cakravarti-kule jātaḥ purandara-samaḥ bale ..3..
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः । मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ॥४॥
अहिंसा-रतिः अक्षुद्रः घृणी सत्य-पराक्रमः । मुख्यः च इक्ष्वाकु-वंशस्य लक्ष्मीवान् लक्ष्मि-वर्धनः ॥४॥
ahiṃsā-ratiḥ akṣudraḥ ghṛṇī satya-parākramaḥ . mukhyaḥ ca ikṣvāku-vaṃśasya lakṣmīvān lakṣmi-vardhanaḥ ..4..
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी ॥५॥
पार्थिव-व्यञ्जनैः युक्तः पृथु-श्रीः पार्थिव-ऋषभः । पृथिव्याम् चतुर्-अन्तयाम् विश्रुतः सुख-दः सुखी ॥५॥
pārthiva-vyañjanaiḥ yuktaḥ pṛthu-śrīḥ pārthiva-ṛṣabhaḥ . pṛthivyām catur-antayām viśrutaḥ sukha-daḥ sukhī ..5..
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ॥६॥
तस्य पुत्रः प्रियः ज्येष्ठः ताराधिप-निभ-आननः । रामः नाम विशेष-ज्ञः श्रेष्ठः सर्व-धनुष्मताम् ॥६॥
tasya putraḥ priyaḥ jyeṣṭhaḥ tārādhipa-nibha-ānanaḥ . rāmaḥ nāma viśeṣa-jñaḥ śreṣṭhaḥ sarva-dhanuṣmatām ..6..
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता । रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ॥७॥
रक्षिता स्वस्य वृत्तस्य स्व-जनस्य अपि रक्षिता । रक्षिता जीव-लोकस्य धर्मस्य च परन्तपः ॥७॥
rakṣitā svasya vṛttasya sva-janasya api rakṣitā . rakṣitā jīva-lokasya dharmasya ca parantapaḥ ..7..
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः । सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् ॥८॥
तस्य सत्य-अभिसन्धस्य वृद्धस्य वचनात् पितुः । स भार्यः सह च भ्रात्रा वीरः प्रव्रजितः वनम् ॥८॥
tasya satya-abhisandhasya vṛddhasya vacanāt pituḥ . sa bhāryaḥ saha ca bhrātrā vīraḥ pravrajitaḥ vanam ..8..
तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताश्शूरा बहवः कामरूपिणः॥९॥
तेन तत्र महा-अरण्ये मृगयाम् परिधावता । राक्षसाः निहताः शूराः बहवः कामरूपिणः॥९॥
tena tatra mahā-araṇye mṛgayām paridhāvatā . rākṣasāḥ nihatāḥ śūrāḥ bahavaḥ kāmarūpiṇaḥ..9..
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।ततस्त्वमर्षापहृता जानकी रावणेन तु॥१०॥
जनस्थान-वधम् श्रुत्वा हतौ च खर-दूषणौ ।ततस् तु अमर्ष-अपहृता जानकी रावणेन तु॥१०॥
janasthāna-vadham śrutvā hatau ca khara-dūṣaṇau .tatas tu amarṣa-apahṛtā jānakī rāvaṇena tu..10..
वञ्चयित्वा वने रामं मृगरूपेण मायया।स मार्गमाणस्तां देवीं रामस्सीतामनिन्दिताम्॥११॥
वञ्चयित्वा वने रामम् मृग-रूपेण मायया।स मार्गमाणः ताम् देवीम् रामः सीताम् अनिन्दिताम्॥११॥
vañcayitvā vane rāmam mṛga-rūpeṇa māyayā.sa mārgamāṇaḥ tām devīm rāmaḥ sītām aninditām..11..
आससाद वने मित्रं सुग्रीवं नाम वानरम्।तत स्स वालिनं हत्वा रामः परपुरञ्जयः॥१२॥
आससाद वने मित्रम् सुग्रीवम् नाम वानरम्।ततस् स्स वालिनम् हत्वा रामः परपुरञ्जयः॥१२॥
āsasāda vane mitram sugrīvam nāma vānaram.tatas ssa vālinam hatvā rāmaḥ parapurañjayaḥ..12..
प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः।सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः॥१३॥
प्रायच्छत् कपि-राज्यम् तत् सुग्रीवाय महा-बलः।सुग्रीवेण अपि सन्दिष्टाः हरयः कामरूपिणः॥१३॥
prāyacchat kapi-rājyam tat sugrīvāya mahā-balaḥ.sugrīveṇa api sandiṣṭāḥ harayaḥ kāmarūpiṇaḥ..13..
दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः।अहं सम्पातिवचनाच्छतयोजनमायतम्॥१४॥
दिक्षु सर्वासु ताम् देवीम् विचिन्वन्ति सहस्रशस्।अहम् सम्पाति-वचनात् शत-योजनम् आयतम्॥१४॥
dikṣu sarvāsu tām devīm vicinvanti sahasraśas.aham sampāti-vacanāt śata-yojanam āyatam..14..
अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान्प्लुतः।यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् ॥१५॥
अस्याः हेतोः विशाल-अक्ष्याः सागरम् वेगवान् प्लुतः।यथारूपाम् यथा वर्णाम् यथा अलक्ष्मीम् विनिश्चिताम् ॥१५॥
asyāḥ hetoḥ viśāla-akṣyāḥ sāgaram vegavān plutaḥ.yathārūpām yathā varṇām yathā alakṣmīm viniścitām ..15..
अश्रौषं राघवस्याहं सेयमासादिता मया ।विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः ॥१६॥
अश्रौषम् राघवस्य अहम् सा इयम् आसादिता मया ।विरराम एवम् उक्त्वा असौ वाचम् वानर-पुङ्गवः ॥१६॥
aśrauṣam rāghavasya aham sā iyam āsāditā mayā .virarāma evam uktvā asau vācam vānara-puṅgavaḥ ..16..
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता । ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत ॥१७॥
जानकी च अपि तत् श्रुत्वा विस्मयम् परमम् गता । ततस् सा वक्र-केश-अन्ता सुकेशी केश-संवृतम् । उन्नम्य वदनम् भीरुः शिंशपा-वृक्षम् ऐक्षत ॥१७॥
jānakī ca api tat śrutvā vismayam paramam gatā . tatas sā vakra-keśa-antā sukeśī keśa-saṃvṛtam . unnamya vadanam bhīruḥ śiṃśapā-vṛkṣam aikṣata ..17..
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती॥१८॥
निशम्य सीता वचनम् कपेः च दिशः च सर्वाः प्रदिशः च वीक्ष्य। स्वयम् प्रहर्षम् परमम् जगाम सर्व-आत्मना रामम् अनुस्मरन्ती॥१८॥
niśamya sītā vacanam kapeḥ ca diśaḥ ca sarvāḥ pradiśaḥ ca vīkṣya. svayam praharṣam paramam jagāma sarva-ātmanā rāmam anusmarantī..18..
सा तिर्यगूर्ध्वं च तथाप्यधस्तान् निरीक्षमाणा तमचिन्त्य बुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥१९॥
सा तिर्यक् ऊर्ध्वम् च तथा अपि अधस्तात् निरीक्षमाणा तम् अ चिन्त्य बुद्धिम् । ददर्श पिङ्ग-अधिपतेः अमात्यम् वातात्मजम् सूर्यम् इव उदय-स्थम् ॥१९॥
sā tiryak ūrdhvam ca tathā api adhastāt nirīkṣamāṇā tam a cintya buddhim . dadarśa piṅga-adhipateḥ amātyam vātātmajam sūryam iva udaya-stham ..19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In