This overlay will guide you through the buttons:

| |
|
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ॥१॥
ततस् शाखा-अन्तरे लीनम् दृष्ट्वा चलित-मानसा । सा ददर्श कपिम् तत्र प्रश्रितम् प्रिय-वादिनम् ॥१॥
tatas śākhā-antare līnam dṛṣṭvā calita-mānasā . sā dadarśa kapim tatra praśritam priya-vādinam ..1..
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्॥फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्॥२॥
सा ददर्श कपिम् तत्र प्रश्रितम् प्रिय-वादिनम्॥फुल्ल-अशोक-उत्कर-आभासम् तप्त-चामीकर-ईक्षणम्॥२॥
sā dadarśa kapim tatra praśritam priya-vādinam..phulla-aśoka-utkara-ābhāsam tapta-cāmīkara-īkṣaṇam..2..
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी ॥३॥
सा अथ दृष्ट्वा हरि-श्रेष्ठम् विनीत-वत् उपस्थितम् । मैथिली चिन्तयामास स्वप्नः अयम् इति भामिनी ॥३॥
sā atha dṛṣṭvā hari-śreṣṭham vinīta-vat upasthitam . maithilī cintayāmāsa svapnaḥ ayam iti bhāminī ..3..
अहो भीममिदं रूपं वानरस्य दुरासदम्।दुर्निरीक्षमिति ज्ञात्वा पुनरेव मुमोह सा॥।४॥
अहो भीमम् इदम् रूपम् वानरस्य दुरासदम्।दुर्निरीक्षम् इति ज्ञात्वा पुनर् एव मुमोह सा॥।४॥
aho bhīmam idam rūpam vānarasya durāsadam.durnirīkṣam iti jñātvā punar eva mumoha sā...4..
विललाप भृशं सीता करुणं भयमोहिता।रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी॥५॥
विललाप भृशम् सीता करुणम् भय-मोहिता।राम-राम इति दुःख-आर्ता लक्ष्मण इति च भामिनी॥५॥
vilalāpa bhṛśam sītā karuṇam bhaya-mohitā.rāma-rāma iti duḥkha-ārtā lakṣmaṇa iti ca bhāminī..5..
रुरोद बहुधा सीता मन्दं मन्दस्वरा सती।सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् । मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी॥६॥
रुरोद बहुधा सीता मन्दम् मन्द-स्वरा सती।सा तम् दृष्ट्वा हरि-श्रेष्ठम् विनीत-वत् उपस्थितम् । मैथिली चिन्तयामास स्वप्नः अयम् इति भामिनी॥६॥
ruroda bahudhā sītā mandam manda-svarā satī.sā tam dṛṣṭvā hari-śreṣṭham vinīta-vat upasthitam . maithilī cintayāmāsa svapnaḥ ayam iti bhāminī..6..
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्॥ददर्श पिङ्गाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्॥७॥
सा वीक्षमाणा पृथु-भुग्न-वक्त्रम् शाखामृग-इन्द्रस्य यथा उक्त-कारम्॥ददर्श पिङ्ग-अधिपते रमात्यम् वातात्मजम् बुद्धिमताम् वरिष्ठम्॥७॥
sā vīkṣamāṇā pṛthu-bhugna-vaktram śākhāmṛga-indrasya yathā ukta-kāram..dadarśa piṅga-adhipate ramātyam vātātmajam buddhimatām variṣṭham..7..
सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता । चिरेण संज्ञां प्रतिलभ्य चैव विचिन्तयामास विशालनेत्रा ॥८॥
सा तम् समीक्ष्य एव भृशम् विसंज्ञा गतासु-कल्पा इव बभूव सीता । चिरेण संज्ञाम् प्रतिलभ्य च एव विचिन्तयामास विशाल-नेत्रा ॥८॥
sā tam samīkṣya eva bhṛśam visaṃjñā gatāsu-kalpā iva babhūva sītā . cireṇa saṃjñām pratilabhya ca eva vicintayāmāsa viśāla-netrā ..8..
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः । स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ॥९॥
स्वप्नः मया अयम् विकृतः अद्य दृष्टः शाखामृगः शास्त्र-गणैः निषिद्धः । स्वस्ति अस्तु रामाय स लक्ष्मणाय तथा पितुः मे जनकस्य राज्ञः ॥९॥
svapnaḥ mayā ayam vikṛtaḥ adya dṛṣṭaḥ śākhāmṛgaḥ śāstra-gaṇaiḥ niṣiddhaḥ . svasti astu rāmāya sa lakṣmaṇāya tathā pituḥ me janakasya rājñaḥ ..9..
स्वप्नोऽहि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः । सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ॥१०॥
स्वप्नः अहि न अयम् नहि मे अस्ति निद्रा शोकेन दुःखेन च पीडितायाः । सुखम् हि मे ना अस्ति यतस् अस्मि हीना तेन इन्दु-पूर्ण-प्रतिमा-आननेन ॥१०॥
svapnaḥ ahi na ayam nahi me asti nidrā śokena duḥkhena ca pīḍitāyāḥ . sukham hi me nā asti yatas asmi hīnā tena indu-pūrṇa-pratimā-ānanena ..10..
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। ।तस्यानुरूपां च कथां तदर्थमेवं प्रपश्यामि तथा शृणोमि॥११॥
राम इति राम इति सदा एव बुद्ध्या विचिन्त्य वाचा ब्रुवती तम् एव। ।तस्य अनुरूपाम् च कथाम् तद्-अर्थम् एवम् प्रपश्यामि तथा शृणोमि॥११॥
rāma iti rāma iti sadā eva buddhyā vicintya vācā bruvatī tam eva. .tasya anurūpām ca kathām tad-artham evam prapaśyāmi tathā śṛṇomi..11..
अहं हि तस्याद्य मनो भवेन सम्पीडिता तद्गतसर्वभावा । विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ॥१२॥
अहम् हि तस्य अद्य मनः भवेन सम्पीडिता तद्-गत-सर्व-भावा । विचिन्तयन्ती सततम् तम् एव तथा एव पश्यामि तथा शृणोमि ॥१२॥
aham hi tasya adya manaḥ bhavena sampīḍitā tad-gata-sarva-bhāvā . vicintayantī satatam tam eva tathā eva paśyāmi tathā śṛṇomi ..12..
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि । किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ॥१३॥
मनोरथः स्यात् इति चिन्तयामि तथा अपि बुद्ध्या च वितर्कयामि । किम् कारणम् तस्य हि ना अस्ति रूपम् सु व्यक्त-रूपः च वदति अयम् माम् ॥१३॥
manorathaḥ syāt iti cintayāmi tathā api buddhyā ca vitarkayāmi . kim kāraṇam tasya hi nā asti rūpam su vyakta-rūpaḥ ca vadati ayam mām ..13..
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय । अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा ॥१४॥
नमः अस्तु वाचस्पतये स वज्रिणे स्वयम्भुवे च एव हुताशनाय । अनेन च उक्तम् यत् इदम् मम अग्रतस् वनौकसा तत् च तथा अस्तु न अन्यथा ॥१४॥
namaḥ astu vācaspataye sa vajriṇe svayambhuve ca eva hutāśanāya . anena ca uktam yat idam mama agratas vanaukasā tat ca tathā astu na anyathā ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In